अप्राप्तकाले ग्रहणम्

(७०) प्रमाणपद्धतिः

।। अप्राप्तकाले ग्रहणम् । उद्भावनकालमप्राप्यातिक्रम्य वा निग्रहस्थानोद्भावनमप्राप्तकाले ग्रहणम् । तदसङ्गतमेवेति ।

जयतीर्थविजय

।। अप्राप्येति । उद्भावनकालात्प्रागेवेत्यर्थः ।। असङ्गतमेवेति । तत्काले दूषणोद्भावनस्यानाकाङ्क्षितत्वादिति भावः ।

भावदीपः

प्रागुक्तमन्तिममपि तत्प्रभेदं लक्षयित्वाऽन्तर्भावयति ।। उद्भावनेति । असङ्गतमेवेति । उद्भावनकाल एवोद्भावनस्याकाङ्क्षितत्वेनान्यदोद्भावनमसङ्गतावन्तर्भवतीत्यर्थः ।

श्रीविजयीन्द्रतीर्थ

अप्राप्तग्रहणाख्यं भेदमाह ।। उद्भावनेति । तस्यान्तर्भावमाह ।। तदिति । अनवसरे निग्रहस्थानोद्भावनाकाङ्क्षाविरहादिति भावः ।

श्रीवेदेशभिक्षु

चतुर्थं निरनुयोज्यानुयोगप्रभेदमाह ।। उद्भावनकालमिति । निग्रहोद्भावनकालस्त्रिविधः पूर्वमेवोक्तः । अस्याप्यन्तर्भावमाह ।। तदिति । निग्रहस्थानोद्भावनोचितकाल एव तदुद्भावनस्याकाङ्क्षितत्वेन तमप्राप्यातिक्रम्य वा तदुद्भावनस्यानाकाङ्क्षितत्वादिति भावः ।

आदर्शः

।। उद्भावनकालमिति ।। असङ्गतमेवेति । तत्र दोषोद्भावनमात्रस्य पराजयहेतुत्वादृष्टेः कालातिक्रमस्यैव वाच्यम् । कालश्च प्रतिवाद्युक्तार्थविशेषप्रतीतिः । तदानीमेव तत्र दोषस्याकाङ्क्षितत्वेन यस्मिन्काले जिज्ञासा तदधिकरणकालातिक्रम एव वाच्यः । तथा च यदा जिज्ञासा नास्ति तत्कालीनोद्भावनस्याजिज्ञासिताभिधानरूपत्वेनासङ्गतित्वमेव । तस्य कालातिक्रमे नोद्भावनीयता सम्भवति । कालातिक्रम इत्यस्य तादृशकालध्वंसाधिकरणे काले उक्तत्वादित्यर्थो वाच्यः । तथा सति जिज्ञासाधिकरणकालेऽपि तदधिकरणक्षणादिध्वंसाधिकरणत्वेन तदानीमुद्भावयतोऽपि पराजयप्रसङ्गः । अतस्तादृशजिज्ञासाभावाधिकरणकाल एवोक्तत्वादिति हेतुर्वाच्यः । अजिज्ञासिताभिधानं च तदेव सामान्यतोऽजिज्ञासितत्वस्य कुत्राप्यसम्भवात् ।

श्रीविट्टलभट्ट

अप्राप्तकाले ग्रहणस्य निरनुयोज्यानुयोगभेदस्य स्वोक्तान्तर्भावकथनाय तत्स्वरूपमाह ।। उद्भावनकालमप्राप्येति । निग्रहस्थानोद्भावनकालमप्राप्येत्यर्थः । उद्भावनकालातिरिक्तकाले निग्रहस्थानोद्भावनकालमिति लक्षणमात्रं विवक्षितम् । अतिरिक्तकालस्तूद्भावनकालात्पूर्वकालः । उत्तरकालश्चेति ज्ञापयितुमेवमुक्तिरिति ।। एतदसङ्गतमेवेति । उद्भावनकाल एव निग्रहस्थानोद्भावनस्य सङ्गतत्वादन्यत्तदोद्भावनमनाकाङ्क्षिताभिधानत्वादसङ्गतं नान्यदित्यर्थः । निरनुयोज्यानुयोगान्तर्भावकथनपरिसमाप्तावितिशब्दः ।