प्रमाणपद्धतिः
(९) प्रमाणपद्धतिः
विरुद्धयोर्विशेषणविशेष्यभावानुपत्तिरिति चेन्न । सामान्यविशेषयोरविरोधस्य स्वस्मिन्नेव दृष्टत्वात् । आत्यन्तिकविरोधे त्वर्थापत्तिरपि न प्रवर्तते । किन्तु विप्रतिपत्त्या सन्देह एव भवतीति ।
जयतीर्थविजय
भ्रान्तः शङ्कते ।। विरुद्धयोरिति । विरुद्धयोर्जीवनवत्त्वगृहासत्त्वयोरित्यर्थः । विरुद्धयोर्विशेषणविशेष्यभावोऽनुपपन्न इति कोऽर्थः । किं देशकालादिभेदेन परिहार्यविरोधवतोरिति किं वा देशकालादिनाऽपरिहार्यविरोधवतोरिति विकल्प्याद्यं निराह ।। सामान्येति । जीवनवत्त्वं सामान्यम् । गृहेऽसत्त्वमधिकरणविशेषघटिताभावरूपत्वाद्विशेषः । तयोरित्यर्थः ।। स्वस्मिन्निति । यः पुरुषो बहिर्भावं कल्पयति तस्मिन्नित्यर्थः । अर्थापत्तिपृथक्प्रामाण्यवादिनि प्राभाकरादाविति वाऽर्थः । द्वितीयमिष्टापत्त्या परिहरति ।। आत्यन्तिक एवेति । देशकालादिव्यवस्थाया अपरिहाराय विरोध उपस्थिते सतीति शेषः । तर्हि तदा किं प्रवर्तत इत्यत आह ।। किन्त्विति ।
भावदीपः
।। सामान्यविशेषयोरिति । जीवनस्य क्वापि सत्त्वाभावस्य चान्योन्यं विरोधेऽपि जीवनस्य क्वचिद्गृहप्रदेशे सत्त्वाभावस्य वृक्षत्वचूतत्वाभावयोरिवाविरोधस्य स्वात्मन्येव गृहाद्बहिर्निर्गते दर्शनादित्यर्थः । ननु यत्र पुरुषे जीवनं क्वाप्यसत्त्वं चावधारितं तत्र कथमनुमानप्रवृत्तिरित्यत आह ।। आत्यन्तिकेति । अर्थापत्तेरपि तादृशस्थलेऽप्रवृत्तेर्न तत्रानुमानतोपपादनायास इति भावः ।। विप्रतिपत्त्येति । विरुद्धार्थयोः प्रतीत्या जीवनग्राहकमप्रमाणमुत क्वाप्यसत्त्वग्राहकमप्रमाणमिति वा यत्र क्व चास्ति वा मृतो वेति सन्देह एव भवतीत्यर्थः । इतिशब्दोऽर्थापत्त्यन्तर्भावसमाप्तौ । एवमग्रेऽपि ।
श्रीविजयीन्द्रतीर्थ
।। विरुद्धयोरिति । जीवनगृहाभावयोरित्यर्थः ।। सामान्येति । सर्वत्रासत्त्वजीवनत्वविरोधि न त्वेकदेश इत्यर्थः । ननु जीवी गृह एवेति ज्ञानवतः कथं लिङ्गप्रतिसन्धानमित्यत आह ।। आत्यन्तिकेति । तत्र जीवनग्राहकेण गृहाभावग्राहकेण बहिःसत्त्वनिश्चयः किन्तु जीवनसंशय एव परम् । तवाप्यनुपपद्यमानजीवित्वनिश्चयावश्यकत्वेनार्थाद्वेति नियमग्राहकेण चेत्यर्थः ।
श्रीवेदेशभिक्षु
गूढाभिसन्धिः शङ्कते ।। विरुद्धयोरिति । जीवनगृहाभावयोरित्यर्थः । अविदिताभिप्राय इव परिहरति ।। सामान्येति । विरोधो हि तदा स्यात् । यदि जीवग्राहकज्योतिःशास्त्रस्य गृहेऽस्तीत्यर्थः स्यात् । यदि वा गृहाभावग्राहकप्रत्यक्षेण जीवनाभावः प्रतीयेत । न चैवं ज्योतिःशास्त्रेण सामान्यतः क्वचिज्जीवबोधनात् । प्रत्यक्षेण च गृहेऽसत्त्वबोधात् । सामान्ये सत्त्वस्य विशेषेऽसत्त्वस्य च स्वस्मिन्नेव सहभावदर्शनेनान्योन्यमविरुद्धत्वादिति भावः । यो हि मातापितृभ्यां सुशिक्षितो जातु गृहान्निर्गच्छति सोऽन्यानपि तथा मन्यमानो जीवप्रमाणस्य गृहे सत्त्वमेवार्थं प्रतिपद्यते । गृहाभावप्रमाणे च गृहासत्त्वे प्रमितिकथनविरोध इति पूर्वपक्षिणा स्वाभिसन्धिमुद्घाटिते सत्याह ।। आत्यन्तिक इति । अर्थापत्तेर्बहिःसत्त्वनिश्चयो विप्रतिपत्त्येति त्वदुक्तरीत्या प्रमाणद्वयविरोधेन बहिःसत्त्वसन्देह एव स्यान्न तु निश्चय इत्यर्थः ।
अभिनवामृतम्
।। विरुद्धयोरिति । जीवनं भावरूपसत्त्वं गृहेऽसत्त्वं तु तत्प्रतियोगिकाभावः । विरुद्धयोर्भावाभावयोर्विशेषणविशेष्यभावानुपपत्तिरिति भावः ।। सामान्यविशेषयोरिति । अत्र विशेष शब्देन प्रतियोगिवाचिना तदभावो लक्ष्यते । ततश्च सामान्यधर्मावच्छिन्नस्य सत्त्वस्य विशेषाभावेन सहाविरोधस्य स्वस्मिन्नेव दृष्टत्वादित्यर्थः । एतेन जीवनगृहाभावयोर्भावाभावरूपत्वेन सामान्यविशेषभावाभावात् । सामान्यविशेषयोरविरोधस्य स्वस्मिन्नदृष्टत्वादित्ययुक्तमिति परास्तम् ।। विप्रतिपत्त्येति । अयं तावच्चैत्रो जीवन्नित्युक्त्वा नास्तीत्याह । न चार्थद्वयसमावेशो युक्तः । परस्परविरुद्धत्वात् । ततश्च किमाद्यवाक्यानुसारेण सत्त्वं प्रतीम उतोत्तरवाक्यानुसारेणासत्त्वं प्रतीम इति सन्देह एव भवति । नार्थापत्तिः प्रवर्तत इत्यर्थः ।
श्रीविट्टलभट्ट
जीवित्वविशिष्टस्य गृहासत्त्वलिङ्गत्वे जीवित्वस्य विशेषणत्वं वाच्यम् । न च तत्सम्भवतीति शङ्कते ।। विरुद्धयोरिति । सहानवस्थाननियमरूपविरोधयोरित्यर्थः । जीवनगृहाभावयोरित्यनुवर्तते । जीवित्वेऽपि देशान्तर इव गृहेऽपि सत्त्वस्य प्राप्तत्वात्तयोर्विरोध इति ज्ञेयम् । परिहरति ।। सामान्यविशेषयोरिति । जीवता क्वचित्स्थातव्यमिति नियमात् । जीवित्वे गृहासत्त्वौद्यौदासीन्येन देशसामान्ये सत्त्वं प्राप्तम् । न तु गृहरूपदेशविशेषे सत्त्वम् । तथा च जीवित्वेन प्राप्तं क्वचिद्देशे सत्त्वं यत्सामान्यं गृहरूपदेशविशेषसत्त्वाभावरूपयोर्विरोधस्तयोर्विरोधाभावस्य स्वस्मिन्नेव सर्वैर्दृष्टत्वादित्यर्थः । गृहरूपदेशविशेषासत्त्वस्य जीवनप्राप्तदेशसामान्यवृत्तित्वेनाविरोधत्वस्य जीवित्वेनाप्यविरोधात् । जीवित्वविशिष्टस्य गृहासत्त्वस्य लिङ्गत्वमिति हृदयम् । तयोर्विरोधानङ्गीकारे बाधकमाह ।। आत्यन्तिकविरोधे त्विति । जीवनगृहाभावयोरित्यनुवर्तते । योगत्वाश्रयत्वयोरिव जीवनगृहाभावयोरित्यनुवर्तते । योगत्वाश्रयत्वयोरिव जीवनगृहाभावयोरात्यन्तिको नियतः सद्भावस्थानो विरोधस्तस्मिन्नङ्गीकृते त्वर्थापत्तिरपि जीवत्वे सति गृहासत्त्वरूपानुमानं यथा तथा प्रकृतप्रमाणत्वे पराभ्युपगतानुपपद्यमानार्थप्रमितिरपि न प्रवर्तते बहिःसत्त्वनिश्चयाय न प्रवर्तत इत्यर्थः । जीवित्वगृहासत्त्वयोः सहानवस्थाननियमरूपात्यन्तिकाविरोधवादे तयोरेकस्मिंश्चैत्रनिश्चायकाभावेन जीवंश्चैत्रो गृहे नास्तीत्यनुपपद्यमानार्थापत्त्युत्थानस्यैवायोगादिति भावः । यद्वा न प्रवर्तते नोत्पद्यत इत्यर्थः । जीवगृहाभावयोरात्यन्तिकविरोधो नैकस्मिंश्चैत्रे तस्मिन्निश्चायकाभावः । तर्हि चैत्रस्य जीवनगृहासत्त्वावेदकाभ्यां किमुत्पद्यत इति पृच्छति ।। विप्रतिपत्त्येति । विरुद्धप्रतिपत्तिर्विप्रतिपत्तिस्तया जीवनगृहाभावयोर्विरोधाभावेनेति यावत् । सन्देह एव चैत्रो जीवी वा गृहेऽसन्वेति सन्देह एव भवति भवेदित्यर्थः । विरोधभानकालीनस्थाणुत्वपुरुषत्वावेदकत्वयोरिव विरोधभानकालीनजीवनगृहाभावावेदकयोः संशयजनकाताया एव युक्तत्वादिति भावः । इति शब्दोऽर्थापत्तेरनुमानान्तर्भावकथनपरिसमाप्तौ वर्तते ।