प्रमाणपद्धतिः

उपपत्तिदोषाः

(२१) प्रमाणपद्धतिः

अथ निर्दोषोपपत्तिरनुमानमित्युक्तम् । के तत्रोपपत्तिदोषाः । यत्सद्भावे लिङ्गाभिमतं ज्ञानमेव न जनयति संशयविपर्ययौ वा करोति ते दोषाः । ते द्विविधाः । अर्थवचनदोषभेदात् । तत्र साक्षादुपपत्तेरेव दोषौ विरोधासङ्गती । तद्द्वारा वचनस्यापि वचनदोषौ न्यूनाधिक्ये । वचनद्वारेणार्थस्यापि तत्र योग्यताभावो विरोधः । आकाङ्क्षाविरहोऽसङ्गतिः । अवश्यवक्तव्यस्यैकदेशमात्रवचनं न्यूनम् । सन्निध्यभावविशेषः । (?) आकाङ्क्षितस्यैवान्येन कृतकार्यस्य वचनमाधिक्यम् ।

जयतीर्थविजय

अथानुमानाभासान्निरूपयितुं वृत्तानुवादपुरस्सरं प्रश्नमुत्थापयति ।। अथेत्यादिना । उत्तरमाह ।। यत्सद्भाव इति । अत्र यथार्थानुमितिप्रतिबन्धकत्वमनुमानदोषसामान्यलक्षणमभिहितम् । तच्च ज्ञानमात्रप्रतिबन्धकत्वेन वा संशयादिजनकत्वेन वोभयथापि सम्भवति । तथा च बाधादावसिद्ध्यादौ च न परस्पराव्याप्तिरित्याशयेनोपपादयति ।। ज्ञानमेव न जनयतीत्यादिना । ननु यादृच्छिकसंवादिनि लिङ्गत्वेनाभिमतस्यासिद्ध्यादिदोषे ज्ञानमात्रप्रतिबन्धकत्वाभावात्संशयविपर्ययजनकत्वाभावाच्च कथमसिद्ध्यादेर्दोषत्वमिति चेन्न । यादृच्छिकसंवादिस्थले विपर्ययाद्यनुत्पादेऽप्यन्यत्र लिङ्गाविभ्रमेण भ्रमानुमित्युत्पादाद्यज्जातीयानन्तरमिति लक्षणानुसारेण सिद्ध्यादेर्भ्रमानुमिति साधनत्वेन दोषत्वमित्येके । अन्ये तु कथं तत्र यथार्थानुमितिरित्याशङ्क्योत्तेजका भावविशिष्टस्यैवासिद्ध्यादेर्दोषत्वाद्यादृच्छिकसंवादिनि च विषयसत्त्वरूपस्योत्तेजकस्य सत्त्वान्न यथार्थानुमितिप्रतिबन्धे इति समादधते ।। तद्द्वारेति । तत्प्रतिपादनद्वारेत्यर्थः ।। वचनद्वारेणेति । वचनप्रतिपाद्यत्वनिमित्तेनेत्यर्थः ।। योग्यताभाव इति । परस्परमन्वययोग्यताभाव इत्यर्थः । न्यूनत्वस्य वचनदोषत्वं कुत इत्यत आह ।। सन्निध्यभावेति । स च सन्निध्यभावविशेष इति क्वाचित्कः पाठस्तु लेखकप्रमादादायात इति नपुंसकलिङ्गपरामर्शानुपपत्तिचोद्यानवकाश इति बोध्यम् । वाक्यार्थप्रमोपयुक्तसन्निधिविघटकतया न्यूनत्वं वचनदोष इति भावः ।। आकाङ्क्षितस्यैवेति । अत्र वचनमाधिक्यमित्येवोक्ते पर्वतो वह्निमान्धूमवत्त्वादित्यत्रातिव्याप्तिः । अतोऽन्येनेत्यादि । आद्यविशेषणानुपादाने पर्वतो वह्निमान्धूमवत्त्वादित्यत्र धूमवत्त्वं हेतुर्हेतुशब्दश्च हिनोतेर्धातोस्तुन्प्रत्यये सति कृदन्तं पदमिति वक्ष्यमाणार्थान्तरोदाहरणे गतम् । अत आद्यविशेषणम् । अवशिष्टं सुबोधम् ।

भावदीपः

।। अथेति । प्रश्नार्थोऽयमथशब्दः । पृच्छ््यत इत्यर्थः । उत्तरमाह ।। यत्सद्भाव इति । प्रमाप्रतिबन्धकत्वं दोषत्वमित्यनुगमो ध्येयः । अर्थपदार्थं वदन्नेव तद्दोषं विभज्याह ।। तत्रेति । तयोर्मध्ये । साक्षाद्वचनद्वारमन्तरेणेत्यस्य विवरणार्थमेवकारः । अर्थस्याप्युपपत्तेरपीत्यर्थः ।। योग्यताभाव इति । वह्निरनुष्णो वस्तुत्वादित्यादौ । पर्वतो नाग्निमानित्यादावाकाङ्क्षाविरहः ।। अवश्येति । पर्वतो धूमवत्त्वादित्यादि । वचनदोषख्यापनायोक्तं सान्निध्याभावविशेष इति ।। आकाङ्क्षितस्येत्यादि । पर्वतोऽग्निमानित्यादाविति ज्ञेयम् ।

श्रीविजयीन्द्रतीर्थ

एवं सविभागमनुमानं निरूप्यानुमानतदाभासविवेकायाभासनिरूपणार्थं पृच्छति ।। अथेति । उत्तरमाह ।। यदिति । ज्ञानं प्रमा । परोक्तदोषाणां स्वाभिमतदोषान्तर्भावं वक्तुं दोषभेदमाह । त इति । अर्थदोषमाह ।। तत्रेति । उपपत्तिनिष्ठतया पुरुषनिग्रहकावित्यर्थः । एवमुत्तरत्र । वचनदोषमाह । वचनेति । ननु वचनस्य दोषेऽप्युपपत्तेरदुष्टतयाऽनुमितिजनकं स्यादित्यत आह ।। वचनद्वारेणेति । कथमर्थादित्यागेनाकुलचित्तस्य न्यूनादिनाऽर्थाप्रत्ययेनोपपत्तेरबोधकत्वादिति भावः । विरोधादिपदार्थमाह ।। तत्रेति ।। आकाङ्क्षेति । एकोपस्थितिप्रयुक्तजिज्ञासायोग्यताभावोऽर्थे आकाङ्क्षाविरहः । शब्दे तादृशजिज्ञासानुकूलोपस्थित्यनुकूलत्वाभावः ।

श्रीवेदेशभिक्षु

अनुमानतदाभासविवेकाय पदव्यावृत्त्योपपत्तिदोषान्पृच्छति ।। अथेति ।। क इति । किंलक्षणकाः कति किं संज्ञकाश्चेत्यर्थः । अत्र क्रमेणोत्तरं वदन्नुपपत्तिदोषसामान्यलक्षणं तावदाह ।। यत्सद्भाव इत्यादिना । इदमत्राकूतम् । यत्सद्भावे लिङ्गाभिमतमनुमितिप्रमां न जनयति स उपपत्तिदोषः प्रमाजनकाभावश्च संशयविपर्ययजनके ज्ञानाजनके च लिङ्गाभिमतेऽनुगत इति नानुगमशङ्केति । ननूत्तरग्रन्थपर्यालोचनया समयबन्धादिसाधारणानामपि विरोधादीनां लक्ष्यताप्रतीतेस्तत्राव्याप्तमेतल्लक्षणमिति चेदुच्यते । अनुमानमात्रनिष्ठविरोधादीनामेवात्र लक्ष्यत्वेनाभिप्रेततया तेषामेतल्लक्षणलक्ष्यत्वाभावात् । तर्हि समयबन्धादिसाधारणविरोधादिलक्षणानुक्तिर्दोष इति चेत् । लिङ्गाभिमतं ज्ञापकत्वाभिमतमिति व्याख्यानेऽस्यैव तल्लक्षणत्वोपपत्तेः । अत एव ज्ञानमिति दोषा इति च सामान्येनोक्तम् । अन्यथाऽनुमित्युपपत्तिदोषा इति चावक्ष्यत् । एवं चात्रापि प्रमाप्रतिबन्धकत्वमेव दोषत्वम् । तत्प्रतिबन्धकत्वं च ज्ञानाजनकत्वेन क्वचिद्विपरीतज्ञानजनकत्वेन विवक्षितमिति नाननुगतिरिति द्रष्टव्यम् । साक्षाद्वचनोपधानेन विनोपपत्तेरेवेति प्रकृतत्वादुक्तम् । वस्तुतस्त्वर्थस्यैवेत्यर्थः । प्रायेण दोषाणां विरोध एवान्तर्भावात् । तमेवादावुद्दिशति ।। विरोधेति । समयबन्धादिसाधारणविरोधादिलक्षणमाह ।। तत्रेत्यादिना । शब्ददोषोपपादनायाह ।। सान्निध्येति । आकाङ्क्षितस्येत्यर्थान्तर निरासायोक्तम् ।

अभिनवामृतम्

।। के तत्रोपपत्तिदोषा इति । किंलक्षणकाः कियन्त इत्यर्थः ।। यत्सद्भाव इति । अभिमतग्रहणं किमर्थं यत्सद्भावे लिङ्गं न जनयतीत्येवं किं नोच्यते । नैवं शङ्क्यम् । तथा सतीत्यसिद्धिसङ्ग्रह एव स्यात् । असिद्धिसद्भावे लिङ्गस्य ज्ञानजनकत्वान्नत्वव्याप्तिसङ्ग्रहः । अव्याप्तेर्लिङ्गनिष्ठत्वाभावेन लिङ्गस्य तत्सद्भावप्रयुक्तज्ञानजनकत्वाद्यभावात् । अभिमतग्रहणे पुनः क्रियमाणे तस्यापि सङ्ग्रहो भवति । ननु नैतत्प्रयोजनं युक्तम् । अव्याप्तेः सर्वथोपपत्तिदोषगतत्वाभावेनोपपत्तिदोषत्वासम्भवात् । उपपत्तिदोषलक्षणावसाने च तदसङ्ग्रहस्य गुणत्वात् । न हि यद्यज्जातीयस्य सर्वथा सामर्थ्यविघातकं न भवति तत्तस्य दोष इति वक्तुं शक्यते । अतिप्रसङ्गादिति चेन्न । अवश्यं तन्निष्ठ एव तस्य दोषः । किं तर्हि तदाभासत्वव्याप्यमपि । अनैकान्त्यादिकं तु लिङ्गाभासत्वव्याप्यमिति भवति तद्दोषः । उपपत्तित्वनिर्णयाय व्यभिचाराद्यभावपरामर्शात् । अर्थवचनदोषभेदात्साक्षाद्वचनदोषद्वारवददोषत्वभेदाद्द्विविधा इत्यर्थः ।। साक्षादुपपत्तेरेवेति । नन्वस्तु विरोधोपपत्तेर्दोषः । समबलप्रमाणेन वा विरोधे व्याप्तिनिश्चयाभावेन लिङ्गाभिमतस्य ज्ञानाजनकत्वसम्भवात् । असङ्गतिस्तु कथमुपपत्तिदोषः । ज्ञानजनकत्वाहेतुत्वादिति चेन्न । असङ्गतस्य हेतोः प्रकृतसाध्यज्ञानाजनकत्वस्य सर्वानुभवसिद्धत्वात् ।। वचनद्वारेणेति । न्यूनाधिक्याभ्यां वचने दुष्टे तदर्थोपपत्तेः प्रमाजनकत्वाभावादुपपत्तेरपि न्यूनाधिक्ये दोषावित्यर्थः । ननु वचनस्य न्यूनत्वे उपपत्तेरसम्यगवबोधादस्तु प्रमाजनकत्वाभावः । वचनाधिक्ये तु कथमबोधकत्वम् । उपपत्तेः सम्यग्बुद्धित्वादिति चेत् । सत्यम् । अस्ति पर्वतोऽग्निमान्धूमात् प्रकाशविशेषवत्त्वाच्चेत्यत्राद्यस्य लिङ्गस्य विवक्षितप्रमाजनकत्वं द्वितीयस्य तु नास्ति । आद्येनैव संशयविपर्ययाज्ञानानां निवृत्तत्वात् । एवं च विवक्षितप्रमाजनकत्वाभावादाधिक्यदोषो भवति । दार्ढ्यादिप्रयोजनसद्भावे तु विवक्षितप्रमाजनकत्वादाधिक्यं न दोषः ।। अवश्यवक्तव्येति । यं प्रति यावद्वक्तव्यं तदेकदेशवचनं न्यूनमित्यर्थः । एतेनावयवनियमस्य निराकृतत्वेन न्यूनत्वं न दोष इति परास्तम् । न्यूनत्वं कथं शब्ददोष इत्यत आह ।। सन्निधीति ।

आदर्शः

।। श्रीमदानन्दतीर्थार्यहृदयामलमन्दिरः । श्रीनिवासः सतां बन्धुर्दहत्वज्ञानसञ्चयम् ।। यत्सद्भाव इति ।। ज्ञानं न जनयतीति । पूर्वमसिद्धं साध्यविषयकज्ञानं न जनयति तथा च प्रकृतहेतुनिष्टप्रकृतसाध्यविषयकफलप्रमाजननानुकूलशक्त्यभावप्रयोजकत्वमुपपत्तिदोषत्वमिति फलितम् । बाधितादावसदर्थविषयकत्वेन व्यभिचार्यादौ व्याप्त्यभावेनासिद्ध्यादौ समुचितदेशवृत्तित्वाभावेन सिद्धसाधकादौ सिद्धार्थविषयकत्वदोषेण साध्यविषयकसफलप्रमाजननानुकूलशक्त्यभावोऽस्ति । तत्प्रयोजकत्वं न बाधादिदोषेष्वक्षतमिति लक्षणसमन्वयः । प्रयोजकत्वं च ज्ञापकत्वम् । नातो स्वरूपसम्बन्धप्रयोजकत्वाभावेऽपि न दोषः । ननु सिद्धसाधनतार्थान्तरत्वादिकं न हेत्वाभासः । अनुमितिप्रतिबन्धकयथार्थज्ञानविषयताशून्यत्वात् । परैर्हेतुदोषत्वेनागणितत्वाच्चेति चेत् । सिद्धसाधनाय हेतुमुपन्यस्यतो निग्रहाभावप्रसङ्गात् । एवं च न सिद्धसाधनतादेः पृथङ् निग्रहस्थानत्वम् । सिद्धसाधनतास्थले पुरुषस्यैवायं दोषो न हेतोः । व्याप्तिपक्षधर्मतावत्वेनादुष्टत्वात् । इच्छाकालेऽनुमितेरपि जननादिति वाच्यम् । तर्हि बाधस्य पृथग्घेत्वाभासत्वं न स्यात् । पक्षे साध्याभावस्य पक्षदोषत्वेन हेतोरपराधाभावात् । तत्र हेतोः पक्षधर्मता नास्तीति चेत् । तर्ह्यसिद्धिरेव हेतुदोषताऽस्तु न बाधप्रतिरोधयोः । आद्यक्षणावच्छिन्नो घटो गन्धवान्पृथिवीत्वादित्यादौ दोषान्तराभावेऽपि बाधप्रतिरोध मात्रेण हेतोर्दुष्टत्वाङ्गीकारानुपपत्तिश्च । न च बाधितादौ भ्रमजननाकूलशक्तिमत्त्वरूपाविषयवृत्तित्वं हेतुदोष इति चेत् । प्रकृतेऽपि सिद्धार्थविषयकानुमितिजननानुकूलमत्त्वं हेतोर्दोषः । न च ज्ञानकरणस्य प्रमाकरणत्वरूपप्रामाण्याभावज्ञापकत्वेन दोषत्वं बाधादेरिति चेत् । तर्हि सिद्धसाधकत्वस्यापि सफलत्वघटितप्रामाण्यानुकूलशक्त्यभावज्ञापकत्वेन दोषत्वसम्भवात् । यथा शब्दस्य सिद्धार्थत्वे वैय्यर्थ्येनानुपादेयत्वम् । तत एव सफलत्वघटितप्रामाण्याभावश्च । एवमनुमानस्थलेऽपि परार्थत्वादनुमानस्य वैय्यर्थ्यादनुपादेयत्वप्रयोजकत्वेन सफलत्वघटितप्रामाण्याभावज्ञापकत्वेन दोषत्वमङ्गीकर्तुमुचितम् । केचित्तु सिद्धस्थले हेतौ सदसत्त्वविचारस्य निष्प्रयोजनत्वेन तत्र प्रवृत्त्यभावेन तत्र सद्धेतुनिश्चयानुपपत्त्या सद्धेतुत्वेनाप्रमितत्वरूपाज्ञानासिद्धिसम्पादकत्वाद्धेतुदोषत्वमेवावश्यकम् । क्वचित्सिद्धसाधकहेतौ पूर्वमेव व्याप्त्यादेर्निश्चितत्वेन दृढतरसंस्कारवशात्परामर्शसम्भवेऽपि परामर्शाभाव सम्पादनस्वरूपयोग्यत्वाद्दुष्टत्वमेव । यादृच्छिकसंवाद्यनाप्तवाक्यवदिति वदन्ति ।

किञ्चानुमितेः सिद्धिप्रतिबद्ध्यत्वाङ्गीकारात्सिद्धिविषयस्य दोषत्वं भवन्मतेऽपि दुर्वारम् । यज्ज्ञानसामान्यस्य प्रतिबन्धकता तस्यैव दोषत्वम् । इच्छाकाले सिद्धेर्नानुमितिप्रतिबन्धकत्वमिति न तद्विषयस्य दोषत्वमिति वाच्यम् । तर्हि साध्यव्यापकीभूताभावप्रतियोगित्वरूपासाधारण्यस्य दोषत्वं न स्यात् । पक्षधर्मताज्ञानाभावकाले तज्ज्ञानस्यानुमित्यप्रतिबन्धकत्वात् । न च पक्षधर्मताज्ञानसमानकालीनज्ञानसामान्यस्यास्ति प्रतिबन्धकत्वम् । तादृशस्यापि दोषत्वमङ्गीक्रियत इति वाच्यम् । तर्हि जलहेतुकस्थले वह्न्यभावावच्छेदेन जलघटितस्य वह्न्यभाववज्जलवतोऽपि दोषत्वप्रसङ्गात् । इच्छाभावकालीनस्य यद्रूपावच्छिन्नज्ञानसामान्यस्य प्रतिबन्धकत्वं तद्रूपावच्छिन्नस्य दोषत्वानङ्गीकारे बीजाभावाच्च । असाधारण्यादेः परामर्शरूपकारणविघटकत्ववत्सिद्धेरपि पक्षतारूपकारणविघटकत्वात् । एवं विशिष्टद्वयघटितस्य दोषत्वानङ्गीकारे बीजाभावाच्च । तत्र साधारण्यदोषत्वमन्येषां दोषत्वं नास्तीत्यत्र विशेषहेत्वभावात् । स्वप्रक्रियामात्रस्यानादरणीयत्वात् । विशिष्टद्वयघटितस्य सिद्धेश्च दोषत्वं नाङ्गीकार्यमिति प्राचीनोक्तेरप्यदृष्टेश्च । न च विभागव्याघातः । बाधादिषु यथासम्भवमन्तर्भावयितुं शक्यत्वात् । न च सिद्धसाधनताया हेतुदोषेषु भवन्मतेऽप्यगणितत्वात्किमर्थमयमायास इति वाच्यम् । असङ्गतेर्हेतुदोषत्वेन कथितत्वात् । सिद्धसाधनमसङ्गतमिति प्रमाणलक्षणेऽन्तर्भावस्योक्तत्वात् । एवमाधिक्यस्यापि । न च सिद्धसाधनतास्थले हेतुर्दुष्ट इति व्यवहारापत्तिः । इष्टापत्तेः । अनुमितावसिद्धत्वं विहाय सफलत्वनिवेशात् । मननादिस्थले सिद्धसाधनताया न दोषत्वम् । तत्र साध्यस्य सिद्धत्वेऽपि दार्ढ्याय वा प्रतिवादिनिराकरणसम्पादकचातुर्यविशेषाय वा प्रयोजनान्तराय वा लिङ्गविशेषणसाध्यानुमितेरिष्टत्वात् । एवं तत्राधिक्यमपि न दोषः । न्यूनता तु हेत्वनुपस्थापनेनाज्ञानासिद्धिसम्पादकत्वाद्दोषः । यद्यपि हेतोराधिक्ये सिद्धसाधनतैव भवति तथाऽप्येकदैव हेतुद्वयोपन्यासेन तत्प्रसक्तिः । तत्र केनापि हेतुनाऽनुमितेरजातत्वात् । आधिक्यस्यैव प्रथमतः स्फूर्तेः । अत एव नासङ्गतिः । प्रकृतसाधकहेतोर्जिज्ञासितत्वेनोभयोरपि हेतुवाक्ययोराकाङ्क्षारूपत्वात् । अत आधिक्यस्य पृथग्दोषत्वं ज्ञेयम् । अत एव सिद्धसाधनताया न सिद्धसाधनत्वेन दोषत्वं किन्त्वसङ्गतित्वेन । अतः सिद्धसाधनतायाः क्वचिद्दोषत्वाभावेऽपि न क्षतिः । अधिकविशेषणस्य हेतुशरीरे प्रक्षेपे तु व्याप्यत्वासिद्धिः । यादृशविशिष्टे व्याप्तेर्भानं प्रथमतस्तत्रैव स धर्मोऽङ्गीकर्तव्यः । तदभिन्नविशिष्टान्तरे तु तदभेदप्रयोज्यतद्धर्माश्रयत्वमेव न साक्षात् । तदपि सति प्रमाणे यथा विधित्वं निषेद्धव्यं च भावाभावयोः । एवं च प्रमेयत्वादिविशेषणाघटिते धूम एव व्याप्तेः प्रथमतः प्रमाणेन गृहीतत्वात्तत्रैव वह्निव्याप्तिर्न प्रमेयत्वघटित इत्यनुमितिप्रयोजिका या व्याप्तिस्तदभावधीसम्पादनद्वाराऽनुमितिजननानुकूलशक्त्यभावसम्पादकत्वाद्दोषत्वम् । तादृशविशेषणबोधकपदस्याधिक्येनाधिक्यस्य दोषत्वम् । न च साक्षाद्वेतरतो वा व्यर्थविशेषणघटिते प्रमेये धूमादौ वह्निव्याप्तिरस्त्येव । प्रमेयधूमोऽपि वह्निव्याप्यलोकव्यवहारादिति वाच्यम् । तादृशव्यवहारस्याप्रमाणत्वात् । प्रामाण्ये वा साक्षाद्य्वाप्त्याश्रय एव तादृशशक्त्यङ्गीकारेणोक्तविशिष्टे इतराप्रयोज्यव्याप्त्याश्रयत्वाभावादनुमितिजनकत्वरूपशक्तेरभावात् कारणाभिन्नेष्वनेकविशिष्टेषु कारणत्वशक्त्यङ्गीकारे गौरवात् । न च भेदादनेकेषु तत्कल्पना नास्त्येवेति शङ्क्यम् । अभेदेऽपि भेदस्य विशेषस्य वा सत्त्वात्तदभिन्नरूपादावपि स्पार्शनत्वाद्यापत्तेः । यदि च नवीनमतरीत्या व्यर्थविशेषणावच्छेदेनापि व्याप्तिग्रहः प्रामाणिकस्तर्हि तादृशहेतुवाक्यं प्रयुञ्जतः पुरुषस्यैवाधिक्यं निग्रहस्थानं न हेतुदोषत्वं तादृशाधिक्यस्येति मन्तव्यम् । अर्थान्तरता तु स्फुटमन्यथासिद्ध्याऽनुमितिजनकत्वाभावप्रयोजकः । प्रयोजकत्वं ज्ञानद्वारा साक्षाद्वेत्यन्यदेतत् । दृष्टान्ते साध्यासाधनवैकल्ययोश्च व्याप्तिधीप्रतिबन्धनद्वाराऽनुमितिजनकत्वरूपशक्त्यभावसम्पादकत्वाद्धेतुदोषत्वं मन्तव्यम् । सहचारग्रहहेतुत्वात् साध्यसाधनयोः सहचारग्रहप्रतिबन्धकत्वादिति । एवमन्यत्रापि स्ववचनविरोधरूपापसिद्धान्तजात्यादेरपि हेतौ तादृशशक्त्यभावसम्पादकतया हेतुदोषत्वं बोध्यम् । विरोधसामान्यस्य हेतुदोषत्वमित्यनुक्तत्वेन केषाञ्चिज्जात्यादीनां हेतुदोषत्वाभावेऽपि न दोषः । एवमसङ्गत्यादेरपि । पररीत्या हेत्वाभासविभागादिकं तु प्रतिबन्धकाभावस्य प्रकृतकार्यं प्रति कारणत्वाभावेन तद्घटितलक्षणासम्भवेन केषाञ्चिद्दोषाणामपरिगणनेनानुद्भाव्यतावच्छेदकानामुद्भाव्यतावच्छेदकत्वकथनेन चायुक्तत्वात्परित्यक्तम् । तत्प्रकारं च तत्र तत्र प्रदर्शयिष्यामः । इदं च लक्षणं दुषधात्वर्थ एव । तथा हि । धूमेन ह्रदे वह्निसाधने बाधो दोष इत्यत्र दुषधातोः सफलप्रमाजननानुकूलशक्तेरभावः प्रयोजकश्चार्थः । प्रमात्वं च स्वव्यधिकरणप्रकारानवच्छिन्नविधिरूपविषयतानिरूपकज्ञानत्वम् । धूमेन वह्निसाधन इत्यस्य धूमलिङ्गकह्रदोद्देश्यकवह्निविधेयकानुमितावित्यर्थः । साधनपदोत्तरसप्तम्या विषयत्वमर्थः । तथा च धूमलिङ्गकवह्निविधेयकह्रदोद्देश्यकानुमितिविषयकसफलप्रमाजननानुकूलशक्त्यभावप्रयोजकाभिन्नो बाध इत्यन्वयबोधः । शक्तेरपि सिद्धान्ते सविषयकत्वाङ्गीकारात् । अनुमितिविषयकत्वं शक्तौ युज्यते । ननु प्रकृतानुमितिविषयकप्रमाजननानुकूलशक्तेरप्रसिद्धेरिति वाच्यम् । प्रतियोग्यप्रसिद्धेरसतः प्रतीतिविषयत्ववादिनामस्माकमदूषणत्वात् । साधन इत्यस्य सतिसप्तमीत्वतात्पर्यसत्त्वे तु सति सप्तम्या उत्तरकालीनत्वमित्यर्थः । उत्तरकालीनत्वं न तदधिकरणकालोत्तरकालवृत्तित्वम् । तदधिकरणत्वं च तज्ज्ञानाधिकरणत्वमेव । उत्तरकालवृत्तित्वं चोत्तरकालवृत्तिज्ञानविषयत्वम् । तस्य शक्त्यभावेऽन्वयः । तथा च प्रकृतानुमितिविषयकज्ञानोत्तरकालीनज्ञानविषयीभूत शक्त्यभावप्रयोजको बाधादिरिति बोधः ।

न चास्मिन्पक्षे ह्रदे वह्निसाधने दूरस्थत्वादिकं दोष इत्यपि व्यवहारः स्यात् । तादृशानुमितिज्ञानोत्तरकालीनज्ञानविषयत्वदूरस्थत्वादिप्रयोज्यचक्षुरादिनिष्ठशक्त्यभावेऽबाधितत्वादिति वाच्यम् । अनुमितिज्ञानप्रयोज्यज्ञानविषयत्वस्यैव सप्तम्यर्थत्वाङ्गीकारेण दोषाभावात् । यद्वा शब्दतः सफलप्रमाजननानुकूलशक्त्यभावेऽनुमितिज्ञानोत्तरज्ञानविषयत्वमात्रभानेऽपि तात्पर्यबलात्पाश्चात्यमानसबोधेऽनुमितिज्ञानतादृशशक्त्यभावज्ञानयोः प्रयोज्यप्रयोजकभावस्य भानेनानुमितिविषयकज्ञानप्रयोज्यत्वस्य दूरस्थत्वादिप्रयोज्यशक्त्यभावज्ञाने बाधात् । प्रकृतिहेतुनिष्ठतादृशशक्त्यभावज्ञानं च भवत्यनुमितिज्ञानप्रयोज्यं बाधादिदोषाणामनुमितौ भ्रमत्वादिज्ञानजननद्वारा तज्जनकहेत्वादौ तादृशशक्त्यभावज्ञापकत्वात् । व्यभिचारादीनामप्यनुमितौ तद्धेतुकत्वज्ञानानन्तरमेव तद्धेतौ व्यभिचारज्ञानस्य तद्धेतौ शक्त्यभावज्ञापकत्वात् । अनुमितिप्रयोज्यज्ञानविषयीभूतशक्त्यभावप्रयोजकत्वमिति मन्तव्यम् । न चैवं प्रमेयत्वविशिष्टबाधो दोष इति व्यवहारापत्तिः । प्रमेयत्वविशिष्टबाधादौ तादृशप्रयोजकत्वानङ्गीकारात् । प्रमेयत्वविशिष्टबाधस्य शुद्धबाधाभिन्नत्वेऽपि विशेषबलाच्छुद्धवृत्तिप्रयोजकत्वस्य विशिष्टावृत्तित्वसम्भवात् । अनङ्गीकारश्चाङ्गीकारे मानाभावादेवेति । अत एव विशिष्टान्तरघटितत्वं न लक्षणे देयम् । नापि धात्वर्थघटकम् । प्रयोजनाभावात् । ह्रदे वह्निसाधने धूमो दुष्ट इत्यत्र तादृशशक्त्यभाववान् क्तप्रत्ययार्थः । दोषपदार्थस्य प्रयोज्यतासम्बन्धेन शक्त्यभावेऽन्वयः । तथा च दोषप्रयोज्यप्रमाजननानुकूलशक्त्यभाववान्धूम इत्यन्वयबोधः । न च रासभो दुष्ट इति व्यवहारापत्तिः । इष्टापत्तेः । धूमेन वह्निसाधने रासभो दुष्ट इति व्यवहारापत्तिः । यल्लिङ्गकत्वमनुमितावुपस्थितं भवति शक्त्यभावत्त्वरूपेण तल्लिङ्गोपस्थापकत्वनियमेन शक्त्यभाववद्धूमाभेदस्य रासभे बाधान्न व्यवहार इति । अथवा किञ्चिन्निष्ठसमफलप्रमाजननानुकूलशक्तिरभावप्रयोजकश्च दुषधातोरर्थः । धूमेनेत्यादिसमाहारस्थले तृतीयार्थोऽभेदः किञ्चित्पदेऽन्वेति । धूमेनेत्यस्य द्वेधा भेदाभानाङ्गीकारात् । अनुमितौ धूमलिङ्गकत्वस्यापि भानसम्भवात् । हेतुवाचकपदाभावे धातोः सकाशादेव लक्षणया प्रकृतहेतुत्वं शक्त्यभावे भासते । तथा च प्रकृतहेतुनिष्ठतादृशशक्त्यभावप्रयोजक प्रयोज्यतादृशशक्त्यभाववानिति बोधोदयेन प्रकृतहेतुवृत्तित्वविशिष्टशक्त्यभावस्य रासभादौ बाधादेव तादृशव्यवहारः । अत एव न दूरस्थत्वादिकं दोष इति व्यवहारापत्तिः । प्रकृतहेतुनिष्ठशक्त्यभावाप्रयोजकत्वात् । धूमसाधने वह्नित्वेनायं दुष्ट इत्यत्र तृतीयार्थवैशिष्ट्यस्येदम्पदार्थ एवान्वयः । तद्य्वक्तित्वेन न दुष्ट इत्यत्र तद्य्वक्तित्व विशिष्टे दुष्टभेदः प्रतीयते । स चास्त्येव । भेदाभावे तु तत्प्रतिनिधिर्विशेष एव । नञा प्रत्यायत इत्यनुसन्धेयम् । प्रमेयो दुष्ट इत्यादयो प्रकृतहेतुतात्पर्यका व्यवहाराः स्वीक्रियन्त एव । एवं प्रमेयं दोष इत्यादयो न व्यवहारा आपादयितुं शक्यन्ते । दोषादिपदानां स्वसमभिव्याहृतपदाद्यादृशविशिष्टमुपस्थाप्यते तादृशविशिष्टवृत्तित्वस्य स्वोपस्थाप्यव्यवच्छेदकधर्मबोधकत्वं व्युत्पत्तिसिद्धमिति ।

प्रमेयत्वविशिष्टे दोषपदार्थस्यान्वये तादृशशक्त्यभावप्रयोजकत्वस्य दोषपदार्थतावच्छेदकस्यापि धर्मिपारतन्त्र्येण प्रमेयत्वविशिष्टे भानेन तस्य बाधात् । प्रमेयत्वविशिष्टव्यभिचारादाविवात्रापि विशिष्टे उक्तप्रयोजकत्वाङ्गीकारे मानाभावात् । वस्तुतस्तु नेदं लक्षणं दोषपदार्थः । सर्वत्रापकर्षप्रयोजकस्योत्कर्षाभावप्रयोजकस्य वा दोषपदार्थत्वात् । उत्कर्षापकर्षौ चाखण्डोपाधी सनिरूपकौ । अयमस्मादुत्कृष्टोऽस्मादपकृष्ट इति प्रत्ययात् । यत्र यो धर्मोऽपेक्षितस्तत्र तदभावोऽपकर्षप्रयोजकः । तद्वत्ता चोत्कर्षप्रयोजिका । एवं च ज्ञानकरणेषु सफलप्रमाजननानुकूलशक्तिमत्त्वमुत्कर्षप्रयोजकम् । तदभावश्चापकर्षप्रयोजकः । तत्प्रयोजकं च करणदोषलक्षणत्वेनोक्तम् । अत एव चक्षुषो दूरस्थत्वं दोषः । शब्दस्याकाङ्क्षाविरहो दोषः । इत्यादौ चक्षुर्वृत्त्यपकर्षप्रयोजकः । शब्दवृत्त्यपकर्षप्रयोजक इत्येव बोधः । अपकर्षप्रयोजकत्वं च सफलप्रमाजननानुकूलशक्त्यभावज्ञापनद्वारेति । तथाऽत्राप्यपकर्षप्रयोजकत्वमेव दोषशब्दार्थः । न च ह्रदे वह्निसाधने बाधो दोषः । धूमो दुष्ट इत्यादौ साधनपदार्थादेः कुत्रान्वय इति चेत् । तत्र साधनपदार्थोऽनुमित्युद्देश्यककृतिः । साधने कृते सतीत्यादावनुमित्यनुकूलव्यापारः सप्तम्याः प्रयोज्यत्वमर्थः । तस्य दोषपदार्थतावच्छेदकेऽपकर्षेऽन्वयः । तथा च ह्रदोद्देश्यक वह्निविधेयकानुमित्यनुकूलव्यापारप्रयोज्यापकर्षप्रयोजको बाध इति बोधः । प्रयोज्यत्वं च तज्ज्ञानाधीनज्ञानविषयत्वं ज्ञानकरणेष्वेव सफलप्रमाजननानुकूलशक्त्यभावो भ्रमजननानुकूला शक्तिर्वाऽपकर्षप्रयोजकः । ज्ञानकरणत्वे ज्ञाते तत्रोक्तशक्त्यभावे ज्ञाते सत्यपकर्षो ज्ञायते नान्यथा । भ्रमजनकत्वेनैव क्लृप्तेषु मन्त्रादिषूक्तशक्त्यभावज्ञानेऽप्यपकर्षज्ञानात्प्रत्युतभ्रमानुकूलशक्तेरेवोत्कर्षज्ञापकत्वं वर्तते । यादृशकार्योत्पादकत्वेन यज्ज्ञानं समीचीनतादृशकार्योत्पादनशक्तेरेवोत्कर्षज्ञापकत्वं वर्तते । यादृशकार्योत्पादकत्वेन यज्ज्ञानं समीचीनतादृशकार्योत्पादनशक्तेरेवोत्कर्षः (ज्ञापक) हेतुत्वात् । एवं च प्रमारूपानुमित्युत्पादनाय हेतूपन्यासे कृते सति तेन च तत्र हेतौ सफलप्रमाकरणत्वप्रसक्तौ सत्यां पश्चात्तदभावज्ञानेनापकर्षो ज्ञायत इति हेतूपन्यासादिरूपव्यापार जन्यज्ञानविषयत्वरूपप्रयोज्यत्वमपकर्षेऽस्तीति योग्यतानिर्वाहः । अत एव बाधो दोष इतिवद्दूरस्थत्वं न दोष इति व्यवहारः । तादृशानुमित्यनुकूलव्यापारस्य नेत्रनिष्ठापकर्षं प्रत्यप्रयोजकत्वात् । एवं धूमो दुष्ट इत्यादौ क्तप्रत्ययस्य धात्वर्थतावच्छेदकापकर्ष एवार्थः । तादृशानुमित्यनुकूलव्यापार ज्ञाप्यापकर्षप्रयोजकप्रयोज्यतादृशापकर्षाश्रयो धूम इति बोधः । धूमेन वह्निसाधने रासभो दुष्ट इति न व्यवहारापत्तिः । धूमलिङ्गकानुमित्यनुकूलव्यापारज्ञाप्यापकर्षस्य रासभे बाधात् । एवं प्रमेयं दोषः । मेयत्वविशिष्टव्यभिचारो दोष इत्यादयोऽपि न व्यवहाराः । तत्तद्धर्मविशिष्टेषु व्यभिचारादि रूपापकर्षप्रयोजकाभिन्नेष्वपि तादृशापकर्षप्रयोजकत्वस्यानङ्गीकारात् । तस्य विशेषबलादुपपत्तेः । एवं च सर्वत्र दोषपदस्यैकार्थत्वेनैवोपपत्तौ नानार्थकत्वस्य मानाभावेनानुचितत्वान्नानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्वावच्छिन्नविषयताकधर्मावच्छिन्नाद्यर्थकत्वम् । तथा सति महानसे वह्निसाधने सिद्धसाधनतादोष इति वाक्यस्याप्रामाण्यप्रसङ्गात् । एवं धूमो दुष्ट इति वाक्यस्याप्यप्रामाण्यप्रसङ्गात् । न चेष्टापत्तिः । दोषत्वाभावे सिद्धसाधनताया निग्रहस्थानत्वानुपपत्तेः । पञ्चानामेव हेतुत्वं नान्येषामिति नियमे प्रमाणाभावात् । सिद्धसाधकत्वार्थान्तरत्वादेर्हेतुदोषत्वस्याङ्गीकृतत्वाच्च । अनुमितिप्रतिबन्धकज्ञानविशेषस्यैव दोषत्वेन सद्धेतुस्थलेऽपि प्रतिबन्धकज्ञानासम्भवेन तद्विषयीभूतपर्वतादेरपि दोषत्वापत्तेः । दुष्टादुष्टविभागस्यैवाभावप्रसङ्गात् । प्रतिबन्धकज्ञानविषयीभूतविशिष्टस्यैव दोषित्वमिति चेत् । पाषाणमयत्ववत्पर्वतादेरपि दोषत्वापातात् । ज्ञानानवच्छिन्नप्रतिबन्धकताश्रयज्ञानविषयदोषस्यैव दोषत्वमिति चेत् । असाधारण्यस्य सत्प्रतिपक्षादेश्च दोषत्वाभावप्रसङ्गात् । स्वदर्शनाग्रहमात्रसिद्धनियमस्याप्रामाणिकत्वात् । अपकर्षप्रयोजकत्वस्य दोषशब्दार्थत्वेन क्लृप्तत्वेन तात्पर्येण महानसे वह्निसाधने सिद्धसाधनतादोष इति व्यवहारस्य वारयितुमशक्यत्वेन तत्साध्यकतत्पक्षकानुमितिबोधकपदसमभिव्याहृतदोष पदव्यवहारविषयत्वरूपशक्यतावच्छेदकाक्रान्तत्वेन सिद्धसाधनताया अपि लक्ष्यत्वेन तत्र भवदुक्तलक्षणस्याव्याप्तेरित्यादिकं स्वयमूह्यमित्यलं विस्तरेण । दोषं विभजति ।। त इति ।। विरोधेति । हेतुदोषाणां प्रायो विरोध एवान्तर्भावात्स्वार्थानुमानपरार्थानुमानसाधारण्याच्च विरोधस्य प्रथममुद्देशः । उद्देशक्रमेण विरोधं लक्षयति ।। योग्यतेति । योग्यसाध्यनिरूपितव्याप्तिविशिष्टसमुचितदेशवृत्तित्वं योग्यता तदभाव इत्यर्थः । साध्यस्य योग्यत्वं च विरोधिप्रमाणविषयत्वम् । केचित्तु सम्भावित प्रतीतिकस्य साध्यसाधनभावसम्बन्धस्येति शेषः । तथा च सम्भावितप्रतीतिकस्य साध्यसाधनभाव सम्बन्धस्य योग्यताविरह इत्यर्थः । अहं मूक इति प्रतिज्ञायां नोक्तप्रतिज्ञाविरोधोद्भावनस्यावसरः । व्याहतेरेव स्फुटं प्रतीत्या विरोधोद्भावनं विना वादिनो निवृत्तेर्हेत्वाकाङ्क्षादेरनुदयेन हेतुदोषत्वाभावात् । ‘‘सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुने’’त्युक्तेर्हेतुदोषोद्भावनस्यानवसरात् । अतः सम्भावित प्रतीतिकस्येति सम्बन्धविशेषणम् । स्वविरुद्धाविषयकस्यानाहार्य प्रतीतिविषयस्येत्यर्थः । सम्बन्धः साध्यत्वसाधनत्वरूपः । साध्यत्वं चानुमितिविषयविशिष्टत्वम् । तादृशानुमितिजननानुकूलशक्तिमत्त्वं साधनत्वम् । साध्ये साध्यत्वयोग्यता च स्वविषयेऽप्रामाण्यग्रहानास्कन्दित स्वासत्त्वग्राहकमानाविषयत्वम् । साधने तद्योग्यता न शक्तौ भ्रमाप्रयोज्यत्वम् । तथा स्वासत्त्वग्राहकाहीनबलप्रमाणाविषयविशिष्टविषयकानुमितिजननानुकूलभ्रमाप्रयोज्यशक्तिमत्त्वाभाव ज्ञापकत्वं विरोधत्वमिति निष्कर्षः। साध्यस्यासत्त्वग्राहकमानसत्त्वे तु विशिष्टस्य तादृशमानविषयत्वेन तदविषयीभूतविशिष्टविषयकानुमिति जननानुकूलशक्त्यभावो हेतौ ज्ञायत इति प्रतिज्ञार्थविरोधावगाहिमानसद्भावस्य विरोधरूपत्वं तादृशानुमितिजननानुकूलशक्त्यभावो हेतुनिष्ठोऽविषयवृत्तित्वमिति व्यवहारविषयो बाधः सत्प्रतिपक्षो वा कथायां न पृथगुद्भावनीयः । किन्तु प्रमाणविरोधत्वेन । अयं हेतुदोषज्ञापका इति हेतुदोषा इत्युच्यन्ते । अथवा निश्चितप्रामाण्यकानुमितिजननानुकूलशक्त्यभावज्ञापकत्वं विरोधत्वम् । अयं हेतुर्न प्रमात्वेन निश्चितजननानुकूलशक्तिमान् । अनुमितिविषयस्य प्रमाणविरुद्धत्वात् । यज्जन्यज्ञानविषयस्य प्रमाणविरुद्धत्वं तन्न प्रमात्वनिश्चयविषयताविशिष्टतज्ज्ञानजननानुकूलशक्तिमदिति व्याप्तिसत्त्वेन वैयधिकरण्यस्यादोषत्वात् । कथायां प्रमाणविरुद्धत्वादित्येव वक्तव्यम् । हीनबलस्य प्रमाणपदादुपस्थितेरभावेनाधिक्येनाधिकपदप्रयोक्तुर्निग्रहापत्तेः । दृष्टान्तविरोधो यद्यप्यव्याप्त्युन्नायक इति लिङ्गविरोधरूप एव न ततोऽतिरिक्तः । तथाऽपि कथायां साध्यवैकल्यत्वादिनैवोद्भाव्यता न त्वव्याप्त्युन्नायकत्वेनोद्भाव्यता । साध्यसाधनवैकल्ययोरेव प्रथममुपस्थितेः । तदुद्भावनमात्रेण वादिनिवृत्तेरिति ज्ञापनाय तयोः पृथग्ग्रहणमित्याहुः । ननु सुधायां साध्यसाधनयोः सम्बन्धविरहो विरोध इत्युक्तलक्षणे सिद्धसाधनकेऽतिव्याप्तिमाशङ्क्य साकाङ्क्षत्वे सतीति विशेषणं दत्तम् । उक्तलक्षणेऽतिव्याप्तिप्रसक्तेरेवाभावेन तद्ग्रन्थस्यासङ्गतत्वप्रसङ्गेन नेदं लक्षणं ग्रन्थकृत्सम्मतमिति चेन्न । तद्ग्रन्थस्याभिप्रायविशेषसत्त्वेन दोषाभावात् । तथा हि । साध्यत्वयोग्यत्वं न केवलमुक्तमानाविषयकत्वं किन्त्वसिद्धत्वमपि सिद्धस्य साध्यतायोगात् । तदभावोऽसिद्धत्व विशिष्टोक्तमानविषयत्वाभावाभावः । तस्योक्तमानविषयत्वरूपत्वमिव सिद्धत्वरूपत्वमपि सम्भवति विशेष्यवति विद्यमानस्य विशिष्टाभावस्य विशेषणाभावरूपत्वात् । तथा च सिद्धत्वरूपसाध्यत्वायोग्यत्वस्य साध्यसाधनभावयोग्यताप्रयोजकत्वे सम्भवेन विरोधरूपत्वं सम्भवतीति शङ्काग्रन्थार्थः । असिद्धत्वविशिष्टोक्तमानाविषयत्वस्य साध्यत्वयोग्यतारूपत्वेऽपि प्रकृतेऽसत्त्वग्राहकमानविषयत्वरूपस्यैव साध्यत्वयोग्यत्वाभावस्य विरोधलक्षणे निवेशेनैव सिद्धसाधनकेऽतिव्याप्त्याभाव इत्याशयः । न तु विरोधलक्षणे साकाङ्क्षत्वं देयमिति । अतो न विरोधः । ननु सिद्धसाधनताया विरोधभेदत्वं कुतो नाङ्गीक्रियते । न च स्वार्थानुमानेऽपि विरोधस्य दोषत्वेन सिद्धसाधनतायास्तत्र दोषत्वाभावेन न विरोधरूपत्वमिति वाच्यम् । दृष्टान्ते साध्यसाधनवैकल्ययोः स्वार्थानुमाने सम्भवाभावेऽपि विरोधरूपत्वमिव सिद्धसाधनताया दोषत्वात् । असङ्गतित्वेनैवोद्भावनीयत्वेन तेन रूपेण दोषत्वस्यैव युक्तत्वात् ।। आकाङ्क्षाविरह इति । विषयतयेत्यर्थः । आकाङ्क्षाविषयत्वाभाव इति यावत् । अयमप्यर्थदोषः । तद्द्वारा वचनस्यापि । तथा च जिज्ञासिताभिधायकत्वं वचनदोषः । परार्थानुमानस्थलेऽसङ्गतिः । स्वार्थानुमानस्थलेऽपि तस्याजिज्ञासितत्वेऽन्यस्य जिज्ञासितत्वे वा व्याप्त्यादिज्ञानप्रयोजकमानसविचारोत्पत्त्यभावेनानुमित्युत्पत्तेः । अनुमित्युत्पादप्रयोजकसामग्रीवैकल्ये परम्परया प्रयोजकत्वाद्दोषत्वमिति । न च शिष्यादीन्प्रति कृपया तदज्ञाताभिधानस्याप्यसङ्गतत्वापत्तिरिति वाच्यम् । सामान्यरूपेण जिज्ञासासत्त्वात् । न च तर्हि सभायामपि हेतुपदनिर्वचनादि कुर्वतोऽसङ्गतिर्न स्यात् । हेतुपदनिर्वचनज्ञानस्याप्यसिद्धत्वेनोक्तरीत्येच्छाविषयत्वसम्भवादिति वाच्यम् । हेतूपस्थित्यनन्तरं कर्मकव्याप्त्याद्याकाङ्क्षाया एव जायमानत्वेन तदानीं प्रकृतानुपयुक्तसामान्यविषयकेच्छाया एवासम्भवात् । अत एव साध्यसिद्धेः कालान्तरीयेच्छाविषयत्वेऽपि तदानीमिच्छाविषयत्वाभावात्तत्साधकस्यासङ्गतत्वम् । न च तदानीमेव पुरुषान्तरस्य तद्विषये जिज्ञासासम्भवेनाजिज्ञासितत्वं न सम्भवतीति वाच्यम् । स्वबोध्यत्वेनाभिमततत्तत्पुरुषीयतत्कालीनजिज्ञासाविषयताशून्यार्थाभिधायित्वस्यैव तत्काले तं पुरुषं प्रत्यसङ्गतित्वात् । न च शिष्यादेर्बोधनाय गुरोः प्रवृत्तिकाले शिष्यस्यासिद्धज्ञानसामान्येऽपि कारणान्तरबलाद्यदेच्छाभावस्तदानीं तद्वाक्यस्यासङ्गतत्वापत्तिरिति वाच्यम् । तद्वाक्यजन्यबोधेच्छां विना तद्वाक्यश्रवणादौ प्रवृत्त्यसम्भवेन सामान्यरूपेण तद्वाक्यजन्यबोधस्येच्छाविषयत्वस्यावश्यकत्वात् । तदभावेऽसङ्गतत्वमिष्टमेव । विशेषरूपेण जिज्ञासासामग्री सामान्यरूपेण जिज्ञासायां प्रतिबन्धिका । अतो हेतूपस्थित्यनन्तरं तस्य हेतोर्गमकतोपयुक्तव्याप्त्याद्याकाङ्क्षैवोत्पद्यते । न हेतुपदनिर्वचनज्ञानादौ सामान्यरूपेणापीच्छा सम्भवत्यतो तत्प्रदर्शकवाक्यसङ्गतत्वमेवेति बोध्यम् । अस्तु वाऽन्यत्र यथा तथा प्रकृते कथायां वक्ष्यमाणसङ्गतिरुक्तरूपैव । कथायां तु न्यायप्राप्तत्वाज्जिज्ञासोत्पद्यत एव । तदभावेऽसङ्गतिरेव । वादकथायां मननादिस्थले च फलविशेषाकाङ्क्षया सिद्धसाधनस्थले तत्साध्यफलेच्छया युक्तिविशेषाधीनसिद्धविषयिण्यनुमितिराकाङ्क्षितैव नासङ्गतिरित्यादिकं स्वयमूह्यम् । न्यूनतां लक्षयति ।। अवश्यमिति । वाक्यैकदेशस्य वचनं न्यूनमित्येवोक्तावध्याहारसापेक्षस्य सर्वस्यापि वाक्यस्य न्यूनत्वापत्तिः । तथा चाथातो ब्रह्मजिज्ञासेति सूत्रस्य न्यूनता स्यादतोऽवश्यवक्तव्यस्येति । तस्य पदस्योच्चारणाभावेऽपि कर्तुर्व्यापारेण प्रकरणादिना वोपस्थितिः सम्भवति तद्भिन्नस्येत्यर्थः । अथात इति सूत्रे तु कर्तव्यत्वे प्रयोजनादिमत्त्वरूपहेतुकथनादेव कर्तव्यपदाध्याहारस्य ज्ञातुं शक्यत्वेन न तत्र न्यून्यतेति भावः । तथा च यावत्पदसमुदायं विना स्वतात्पर्यज्ञानं न सम्भवति तावत्पदसमुदायाघटितत्वं न्यूनत्वमित्यर्थः । आधिक्यं लक्षयति ।। आकाङ्क्षितस्यैवेति । स्वनिवर्त्याकाङ्क्षानिवर्तकस्वसमानकर्तृकवाक्यान्तरविशिष्टत्वमाधिक्यमित्यर्थः । प्रमेयधूमादित्यत्रैतद्वाक्यनिवर्त्ये हेत्वाकाङ्क्षानिवर्तकं यद्धूमादिति वाक्यं तत्सहितत्वाल्लक्षणसमन्वयः । तादृशवाक्यासत्त्वे तद्विशिष्टत्वं येन केनापि सम्बन्धेन सम्भवत्येव । अथवा समानकर्तृकत्वसम्बन्धेन तद्विशिष्टत्वमेव लक्षणं न तु समानकर्तृकत्वं पृथग्विशेषणमिति । यद्यपि प्रमेयधूमादित्येकमेव वाक्यं न तद्वाक्यभिन्नं धूमादिति वाक्यान्तरमस्ति तत्र प्रमेयपदमधिकमस्तीति चेत् । तस्योक्ताकाङ्क्षानिवर्तकत्वाभावादिति प्रतिभाति । तथाऽपि समुदायभेदस्य प्रत्येकवृत्तित्वेन प्रमेयधूमादिति समुदायघटकधूमादिति समुदायेऽप्यस्त्येवेति बोध्यम् । अनाकाङ्क्षितपदप्रयोगे त्वसङ्गतिरेव नाधिक्यमिति ।

वाक्यार्थमञ्जरी

।। तद्द्वारेति । दुष्टार्थप्रतिपादकवचनस्यापि तेन दोषेण दुष्टत्वादित्यर्थः ।। योग्यताभव इति । साधनाभिमतस्यार्थस्य साधनाभिमतेनार्थेन सम्भावितप्रतीतिकस्यापि साध्यसाधनभावस्य बाध्यलक्षणयोग्यताभाव इत्यर्थः ।। आकाङ्क्षाविरह इति । एकोपस्थितिप्रयुक्तजिज्ञासायोग्यताभाव इत्यर्थः ।। सान्निध्याभाव इति । अविलम्बेनोच्चरितत्वं सन्निधिः । तदभावश्च द्विविधो भवति । अवश्यवक्तव्यैकदेशोच्चारणानन्तरं विलम्बेनोच्चारणमनुच्चारणं चेति । तत्र द्वितीयोऽयं सान्निध्याभाव इति भावः ।

श्रीविट्टलभट्ट

।। अथेति । सप्रकारोपपत्तिनिरूपणानन्तरमित्यर्थः । उपपत्तिदोषा उच्यन्त इति शेषः । उपपत्तिदोषनिरूपणस्यासङ्गतत्वशङ्कावारणायोपपत्तिदोषनिरूपणोपयोगिप्रश्नबीजं दर्शयति ।। निर्दोषोपपत्तिरिति । यद्वाऽऽरम्भार्थोऽयमथशब्दः । तथा चाथोपपत्तिदोषनिरूपणमारभ्यत इत्यर्थः । तदारम्भस्यासङ्गतत्वशङ्कावारणाय तन्निरूपणोपयुक्तप्रश्नबीजमाह ।। निर्दोषोपपत्तिरिति ।। के तत्रेति । निर्दोषपदार्थभूतनिर्दोषत्वज्ञानोपयुक्तज्ञानविषये दोषजाते उपपत्तेर्लिङ्गाभिमतस्य दोषाः । साधनरूपेणाक्षेपत्वापादका इत्यर्थः । उत्तरमाह ।। यत्सद्भाव इति । येषां सद्भाव इत्यर्थः । इत्यनन्तरमुपपत्तेरिति शेषः । यद्वा त उपपत्तिसम्बन्धिन इत्यर्थः । उपपत्तिसम्बन्धित्वमुपपत्तिनिष्ठत्वेनोपपत्तिसम्बन्धिपक्षदृष्टान्तगतत्वेन वेति प्रतिदृष्टान्तदोषयोरप्युपपत्तिसम्बन्धित्वादुपपत्तिदोष इति बोध्यम् । यत्सद्भावे लिङ्गाभिमानिनीं प्रमां न जनयति । ते उपपत्तिदोषा इत्येव लक्षणमभिमतम् । अन्यथाऽननुगमप्रसङ्गात् । एवमुक्तिस्तु लिङ्गस्य प्रमाजनकत्वाभावः कस्यचिद्दोषस्य ज्ञानोत्पत्तिप्रतिबन्धकतया कस्यचिद्दोष संशयापादकतया कस्यचिद्दोषस्य विपर्ययसम्पादकत्वेनेति ज्ञापनायेत्यवगन्तव्यम् । प्रत्यक्षागमव्यवच्छेदाय लिङ्गाभिमतमित्युक्तम् । वस्तुतो यल्लिङ्गं तस्य निर्दोषतया यत्सद्भाव इत्यस्यासम्भवादभिमतपदोपादानम् । तद्विभागमाह ।। ते द्विविधा इति । अर्थदोषवचनदोषभेदा इत्यर्थः । यद्यप्यनुमानदोष निरूपणदोषप्रस्तावे वचनदोषकथनमसङ्गतम् । तथाऽपि परोपदेशात्मकानुमानस्य प्रस्तुतत्वाद्वचनद्वारेणार्थदोषत्वस्य सत्त्वाच्च । न च दोषकथनं नासङ्गतमिति बोध्यम् । अत एव विष्णुतत्त्वनिर्णयटीकायाम् । अत एवार्थशब्दात्मकानुमानविभागप्रस्तावे तथा विभक्तदोषकथनं सङ्गतमित्युक्तम् । उपपत्तेः साक्षात्साधनदूषणाक्षमत्वापादकोऽर्थदोषः । तं विभज्य दर्शयति ।। तत्र साक्षादुपपत्तेरेव दोषाविति । तत्रार्थवचने दोषयोरुपपत्तेरेव लिङ्गाभिमतस्येव साक्षाद्दोषौ साक्षादुपपत्तिसम्बन्धिनावेव दोषौ । अर्थदोषाविति यावत् । एवंप्रकारेण साक्षाद्वचनदोषत्वं व्यावर्तयति । तद्द्वारा वचनस्यापि दोषावित्यनुवर्तते । द्वाराऽर्थद्वारेणेत्यर्थः । अर्थासाधुत्वे तद्वचनस्याप्यसाधुत्वादिति भावः । साक्षाद्वचनस्यासाधुत्वापादको वचनदोषः । तं विभज्य दर्शयति ।। वचनदोषाविति ।। वचनद्वारेणार्थस्यापीति । दोषाविति शेषः वचनासाधुत्वे तदर्थस्याप्यसाधुत्वादिति भावः ।। तत्रेति । विरोधासङ्गतिन्यूनाः केषु योग्यतायाः संसर्गाबाधस्य विरोधाभावो विरोधा इत्यर्थः ।। आकाङ्क्षाविरह इति । आकाङ्क्षा जिज्ञासा तद्विषयराहित्यमसङ्गतिरित्यर्थः । अग्रे चोत्तरत्राकाङ्क्षा जिज्ञासा तद्विषयत्वादयः साकाङ्क्षा इति वक्ष्यति । अवश्यवक्तव्यस्येति । अवश्यवक्तव्यं परोपदेशात्मकं सम्पूर्णवचनमपि भवतीति तद्य्वावच्छेदाय मात्रपदोपादानम् । सिंहशार्दूलवृक्षादिमानयं पर्वतोऽग्निमान्धूमवत्त्वान् महानसवदिति वाक्यैकदेशस्यायं पर्वतोऽग्निमान्धूमवत्त्वान्महानसवदित्यस्य सम्पूर्णपरोपदेशस्य प्रयोगे न्यूनत्वपरिहारायोक्तमवश्यवक्तव्यस्येति । योग्यताऽऽकाङ्क्षाविरहरूपयोर्विरोधासङ्गत्योरिव न्यूनाख्यदोषस्यापि शब्दसाधारणत्वज्ञापनाया सान्निध्याभावविशेष इति । सन्निधिरहितेषु चोलेषु तृषितं प्रति सन्ति सुरसरिति शीतानि जलानीत्यादौ वाक्ये न्यूनाधिकदोषस्याभावेन तस्य सान्निध्याभावत्वासम्भवेऽपि सन्निधिरहिते विलम्बोच्चारिते गामानयेत्यादिवाक्ये न्यूनाधिकदोषस्य सत्त्वात् तस्य सान्निध्याभावविशेषोक्तिरित्यनुसन्धेयम् । यद्यपि वचनरूपन्यूनस्य भावेन न सान्निध्याभाव विशेषत्वम् । तथाऽप्यवश्यवक्तव्यस्यैकदेशमात्रवचनं न्यूनमित्यस्यावश्यवक्तव्यस्यैकदेशावचन एव पर्यवसानात् । न्यूनस्य सान्निध्याभावविशेषत्वं युक्तमिति बोध्यम् । अत एव प्रमाणलक्षणटीकायाम् । अपेक्षितासम्पूर्तिर्न्यूनमित्युक्तम् । विष्णुतत्त्वनिर्णयटीकायामपि विवक्षितासम्पूर्तिर्न्यूनमित्युक्तम् । अत्राप्यवश्यवक्तव्यमन्यतमानापादनं न्यूनमिति वक्ष्यति ।। आकाङ्क्षारहितस्यापीति । सङ्गतस्यापीत्यर्थः । अत एव विष्णुतत्त्वनिर्णयटीकायाम् । सत्यां सङ्गतावधिकत्वमाधिक्यमित्युक्तम् । अन्येन वाक्यान्तरेण कृतं कार्यं पक्षहेतुत्वादिरूपं कार्यं यस्य तस्य वाक्यस्य वचनं प्रयोग आधिक्यमधिकमित्यर्थः । वाक्यान्तरेण कृतकार्यं हि वाक्याद्द्विविधं प्रकृतोपयुक्तं प्रकृतानुपयुक्तं चेति । आद्यमपि द्विविधम् । एकार्थं भिन्नार्थं चेति । आद्यं धूमवत्वादिति वाक्यम् । द्वितीयं तु धूमवत्त्वात्प्रकाशविशेषगुणवत्त्वादिति वाक्यम् । उभयवचनमधिकमेव । द्वितीयमपि द्विविधम् । प्रकृतान्वितं प्रकृतानन्वितं चेति । अत्राद्यमनित्यः शब्दः स चाकाशविशेषगुण इति वाक्यम् । द्वितीयं त्वनित्यः शब्दो घटो रूपवानिति वाक्यम् । तत्राद्यस्य वचनं प्रकृतानुपयुक्तान्वितवाक्योक्तिरूपार्थान्तरम् । द्वितीयस्य वचनमनन्वितवाक्य प्रयोगरूपापार्थकम् । उभयत्रातिव्याप्तिवारणायाकाङ्क्षितस्यापीत्युक्तम् । आकाङ्क्षितवाक्यस्य वचनमाधिक्यरहितं सम्पूर्णपरोपदेशात्मकवाक्यस्य प्रयोगेऽतिव्याप्तिस्तद्वारणार्थमन्येन कृतकार्यस्येत्युक्तम् । प्रत्यक्षेण कृतकार्यस्य धूमवत्त्वादित्यादिवाक्यस्याधिक्यवारणायान्येनेत्युक्तम् । अन्यपदस्य परत्वात्तेन तद्य्ववच्छेदः ।