वैधर्म्यसमः
(४७) प्रमाणपद्धतिः
।। २० ।। (२) (२) वैधर्म्यसमः ।। वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमः प्रतिषेधः । यथा यदि हृदवैधर्म्याद्धूमवत्त्वात्पर्वतोऽग्निमानिष्यते तर्हि महानसवैधर्म्यात्पर्वतत्वादनग्निः किं नेष्यत इति । अत्र व्याप्तिलक्षणयुक्ताङ्गराहित्यमेव प्रथममुद्भाव्यम् । न तु जातित्वम् । परचित्तवर्तिनो व्याप्त्यनभ्युपगमस्याद्यापि ज्ञातुमशक्यत्वात् । यदा तु परो ब्रूयात्साधर्म्यवैधर्म्यमात्रं प्रयोजकं किं व्याप्त्येति । तदा वक्तव्यम् । एवं सति नेदं साधकं सत्प्रतिपक्षितत्वादिति । त्वदनुमानस्यापि व्याप्तिहीनेन साधर्म्येण वैधर्म्येण वा प्रतिपक्षसम्भवाद्य्वाघात इति । तथा च प्रतिषेधे स्वन्यायविरोधात्मकतृतीयजातावन्तर्भावः (भवति) ।
जयतीर्थविजय
।। तथा च प्रतिषेध इति । व्याप्त्यभावेऽपि प्रतिषेधे क्रियमाणे सतीति शेषः । अन्तर्भाव इति प्रतिषेधकस्योत्तरस्येति शेषः ।
भावदीपः
जात्युत्तरस्य निरासप्रकारमाह ।। अत्रेति । परोक्तनिषेध इत्यर्थः ।। न तु जातित्वमिति । स्वव्याहतिरूपं साधारणमसामर्थ्यमित्यर्थः । कुत इत्यत आह ।। परचित्तेति ।। अद्यापीति । एवं प्रत्यवस्थानवेलायामपीत्यर्थः ।। तदा वक्तव्यमिति । जातिवादिनं प्रति वक्तव्यमित्यर्थः । तदाह ।। एवं सतीति । व्याप्तेरप्रयोजकत्वे सतीत्यर्थः ।। साधर्म्येण वैधर्म्येण वेति । यदि सत्प्रतिपक्षान्तरसाधर्म्यात्सत्प्रतिपक्षत्वादिदमसाधकं तर्हि सद्धेतुसाधर्म्यात्पञ्चम्यन्तपदोक्तत्वाद्धूमवत्त्वं साधकम् । असिद्धहेतुवैधर्म्यात्पक्षवृत्तित्वात्साधकं किं न स्यादित्यपि वक्तुं शक्यत्वाद्य्वाघात इत्युत्तरं वक्तव्यमित्यर्थः । आदावेव व्याघातोक्तौ तु मया व्याप्तिरङ्गीक्रियत इति जातिवादिनोक्ते सति स्वव्याघातं वदन् छलेन जीयेतातो न प्रथमतो व्याघातो वक्तव्य इत्युक्तम् । एतज्जातेरन्तर्भावमाह ।। तथा चेति । स्वव्याघाते सति नेदं साधकमित्युक्तप्रतिषेधे प्रतिषेधविषये तद्रीत्या तद्वचनस्य प्रतिषेधे कृते वा स्ववचनस्वक्रियास्वन्यायविरोध इति प्रागुक्ततृतीयजातावन्तर्भवतीयं जातिरित्यर्थः ।
श्रीविजयीन्द्रतीर्थ
यथेत्यादि सुगमम् । असाधारणं दुष्टबीजमाह ।। अत्रेति । साधारणमाह ।। यदा त्वित्यादिना । अस्याः स्वोक्तं जात्यन्तर्भावमाह ।। तथा चेति ।
श्रीवेदेशभिक्षु
।। प्रतिपक्षसम्भवादिति । यदि प्रसिद्धसत्प्रतिपक्षसाधर्म्यात् सत्प्रतिपक्षत्वादसाधकस्तर्हि साधकधूमादिसाधर्म्याद्धर्मवत्त्वात्साधकोऽपि किं न स्यादिति साधर्म्येण यदि धूमादिवैधर्म्यात् सत्प्रतिपक्षत्वादसाधकता तर्हि प्रसिद्धसत्प्रतिपक्षवैधर्म्यात्तत्साधकताऽपि किं न स्यादिति वैधर्म्येण प्रत्यवस्थानसम्भवादित्यर्थः । अन्तर्भावमाह ।। तथा चेति । स्थापनां गते स्वन्यायविरोधे द्वितीयाद्युत्तरकक्षाभाविपरोक्तजातेरन्तर्भावासम्भवादाह ।। प्रतिषेध इति । परनिराकरणोत्तररूप इत्यर्थः । अत एव दूषणासमर्थमुत्तरं जातिरित्युक्तम् । प्राप्तायामिति शेषः । अथवा प्रतिषेधे तृतीयजाताविति सामानाधिकरण्यम् । तथा च परप्रतिषेधरूपा स्वन्यायविधात्मिकाऽस्मदुक्ततृतीय जातिमत्युत्तर इत्यर्थः । बहुव्रीहिणोक्तार्थलाभात् । अत एव प्रमाणलक्षणटीकायां प्रतिषेधात्मकतृतीयजातावित्युक्तम् ।
अभिनवामृतम्
।। तदा वक्तव्यमिति । पर्वतो न वह्निमान्द्रव्यत्वात् ह्रदवदिति परानुमानस्य स्वन्यायविरोधं वक्तुमुपोद्धातसङ्गत्या नेदं साधनं सत्प्रतिपक्षत्वादित्यनुमानस्य स्वन्यायविरोधः प्रदर्शित इति बोध्यम् । एतेन जात्युत्तरस्य द्रव्यत्वादित्यस्य स्वन्यायविरोधमनभिधायासाधकतानुमानस्य स्वन्यायविरोधाभिधानमयुक्तमिति परास्तम् । यदर्थमुपोद्धातस्तदिदानीमाह ।। तथा चेति । व्याप्तेरङ्गत्वमङ्गीकृत्य स्वदूषणोद्धारे तत्तद्रीतिप्रतिबन्द्या जात्युत्तरस्य विरोधो भवतीति स्वन्यायविरोधात्मकतृतीयजातावन्तर्भवतीत्यर्थः । प्रमाणलक्षणटीकायां त्वसाधकानुमानं जात्युत्तरमित्येकदेशिमतानुवादः कृत इति बोध्यम् ।
आदर्शः
प्रतिषेधे विरोधे विरोधस्य नानात्वात्कीदृशे विरोधे इत्याकाङ्क्षायामाह ।। तृतीय जाताविति । स्वन्यायविरोधरूपजातावित्यर्थः । मानलक्षणटीकायां स्वन्यायविरोधस्य तृतीयजातित्वस्योक्तत्वात् ।
वाक्यार्थमञ्जरी
।। तर्हि महानसवैधर्म्यादिति । तथा च पर्वतो निरग्निकः साग्निकविरुद्धधर्मवत्त्वादिति प्रतिपक्षधूमवत्त्वमिति भावः ।। अत्रेति । प्रतिवाद्युक्तवचन इत्यर्थः । एवमग्रेऽपि ।। एवं सति नेदमिति । प्रतिवादिना वाद्युक्तरीत्या प्रतिपक्षमुद्भाव्येदं धूमवत्त्वं साध्यसाधकं न भवति । सत्प्रतिपक्षत्वात् । शब्दनित्यत्वसाधकं श्रावणत्वादिति वादिसाधनस्यासाधकत्वं साधनीयम् । तत्रापि प्रतिपक्षचोदनं सम्भवति । तथा हि । यदि श्रावणत्वसाधर्म्यात् सत्प्रतिपक्षत्वाद्धूमवत्त्वं साध्यासाधकं स्यात्तर्ह्यभिधेयत्वसाधकप्रमेयत्वसाधर्म्याद्धर्मत्वात्साध्यासाधकं श्रावणत्वादिति । वादिसाधनस्यासाधकत्वं साधनीयम् । तत्रापि प्रतिपक्षचोदनं सम्भवति । तथा हि । यदि श्रावणत्वसाधर्म्यात् सत्प्रतिपक्षत्वाद्धूमवत्त्वं साध्यासाधकं स्यात्तर्ह्यभिधेयत्वसाधकप्रमेयत्वसाधर्म्यवैधर्म्यमात्रेण प्रतिपक्ष सम्भवे किं व्याप्त्येति त्वयैवोक्तत्वादिति । तथा च साधर्म्यवैधर्म्यं प्रतिपक्षप्रयोजकमिति तद्वाक्यन्यायेन नेदं साधकं सत्प्रतिपक्षत्वादिति तद्वाक्यस्योक्तरीत्या विरोधः प्राप्त इति व्याघात इत्यर्थः ।। अन्तर्भाव इति । तद्वाक्यन्यायेन तद्विरोधस्यैव स्वन्यायविरोधादिति भावः ।
श्रीविट्टलभट्ट
।। वैधर्म्येति । विगतो व्यावृत्तो धर्मो यस्य स विधर्मा तस्य भावो वैधर्म्यं तेन प्रत्यवस्थानं प्रतिपक्षचोदनमित्यर्थः । अनभ्युपेतयुक्ताङ्गेनेत्यपि वक्तव्यम् । साधर्म्यसमाजातिलक्षण इवास्मिल्लक्षणेऽपि विशेषणान्तरव्यवच्छेदोऽनुसन्धेयः । महानसवैधर्म्यादिभिर्महानस व्यावृत्तधर्मादित्यर्थः । प्रतिधर्मसमाया अनयोश्च तृतीयजातावन्तर्भावकथनायोपोद्धातमाह ।। अत्रेति । जातिवाद्युक्त योर्द्रव्यत्वपर्वतत्वयोर्व्याप्तिरूपयुक्ताङ्गहीनमसाधारणं दृष्टत्वमूलमेव पूर्वं वाच्यम् । न तु जातित्वस्वव्याघातकोत्तरत्वमित्यर्थः । तत्र हेतुमाह ।। परचित्तवर्तिन इति । प्रतिवादिमनोगतस्येत्यर्थः ।। अद्यापीति । तद्वाक्यश्रवणात्प्रागित्यर्थः ।। यदा त्विति । साधर्म्यमात्रं वैधर्म्यमात्रं वा प्रयोजकं द्रव्यत्वस्य साध्यसाधकतायां साधर्म्यं पक्षसपक्षसाधारणधर्मत्वमेव प्रयोजकं तन्त्रम् । पर्वतत्वस्य साध्यसाधकतायां साधर्म्यं विपक्षवृत्तिधर्मवृत्ति धर्मवत्त्वमेव तन्त्रम् ।। किं व्याप्त्येति । यदा तु परो वादी ब्रूयात्तदा वक्तव्यं वादिना वक्तव्यमित्यर्थः । किं वक्तव्यमिति जिज्ञासायामाह ।। एवं सतीति । व्याप्तेरनुमानाङ्गत्वानङ्गीकार इत्यर्थः । इदं वादिसाधनं धूमवत्त्वं न साधकं स्वसाध्यसाधकं न सत्प्रतिपक्षत्वात् । अनभ्युपेतयुक्ताङ्गेन साधर्म्येण वैधर्म्येण वा प्रतिवादिरुद्धत्वादिति त्वदनुमानस्य व्याप्तिहीनेन व्याप्त्यभ्युपगमरहितेन साधर्म्येण सद्धेतुसाधर्म्येण पदार्थत्वेन वैधर्म्येण वाऽसद्धेतुस्वरूपासिद्धिवैधर्म्येण पक्षवृत्तित्वेन वा प्रतिपक्षसम्भवादिदं धूमवत्त्वं स्वसाध्यसाधकं पदार्थत्वात्पक्षवृत्तित्वाद्वेति प्रतिरोधसम्भवाद्य्वाघातः स्वव्याहतिरित्यर्थः ।। व्याघात इतीति । इति शब्दस्येति वक्तव्यमिति पूर्वेणान्वयः । किमतो यद्येवमित्यत आह ।। तथा चेति । प्रतिषेधे प्रतिषेधरूपायां स्ववचनन्यायेन स्ववचनस्य विरोधरूपतृतीयजातौ प्रतिधर्मसमायास्तद्विशेषयोः साधर्म्यवैधर्म्यसंसर्गयोश्चान्तर्भाव इत्यर्थः ।। अन्तर्भाव इति । इतिशब्दः साधर्म्यसमाप्त्यन्तर्भाव कथनपरिसमाप्तौ वर्तते ।