प्रमाणपद्धतिः

(४१) प्रमाणपद्धतिः

।। १७ ।। विक्षेपः । केनचिद्य्वाजेन कथाविच्छेदो विक्षेपः । यथा कथामारभ्याहाद्य मे महत्प्रयोजनमस्ति तस्मिन्नवसिते वक्ष्यामीति । एतत्त्रयमनुक्तिरेव ।

जयतीर्थविजय

।। केनचिदिति । व्याजकथनेनेत्यर्थः । अन्यथाऽप्रतिभाद्यभेदापत्तेः । तदुक्तं वरदराजेन ।

कथामभ्युपगम्यैव कथाच्छेदाय कस्यचित् ।

व्याजस्य वचने प्राहुर्विक्षेपं नाम निग्रहमिति ।

अवसिते समाप्ते सति । अन्तर्भावमाह ।। एतदिति । त्रयमज्ञानमप्रतिभा विक्षेप इति त्रयमित्यर्थः । अनुक्तिरेवेति । परबोधनार्थमवश्यवक्तव्यस्यानुक्तिरूपत्वादिति भावः ।

भावदीपः

तृतीयं व्यनक्ति ।। कथामारभ्येत्यादिना । अवसिते समाप्ते ।

श्रीविजयीन्द्रतीर्थ

।। एतदिति । त्रयेऽप्यनुक्तिरेव दोष इत्यर्थः । उत्तरस्यावश्यवक्तव्यत्वादिति भावः ।

श्रीवेदेशभिक्षु

व्याजेन व्याजवचनेन । अत्रापि कथामुपक्रम्येति वक्तव्यम् । अन्यथा कथोपक्रमाभावकालीने व्याजवचनेऽतिप्रसक्तेरिति बोध्यम् । अत एवाह ।। यथा कथामारभ्याहेति ।। परोऽपि कथामभ्युपगम्यैवेति ।। अनुक्तिरेवेति । यत्किञ्चिदुक्तावपि वक्तव्यस्यावचनादिति भावः ।

आदर्शः

।। एतत्त्रयमनुक्तिरेवेति । अज्ञानाप्रतिभयोरनुमेयत्वेन प्रथमतस्तज्ज्ञानासम्भवेनोद्भावनायोगात् । केनचिल्लिङ्गेन तयोरनुमाने तु तल्लिङ्गस्यैव निग्रहस्थानत्वम् । तयोरेव पराजयपदार्थत्वेन तत्सिद्ध्यैव पराजयस्य कथाफलस्य सिद्ध्या कथापरिसमाप्तेस्ताभ्यां पराजयान्तरानुमानस्यानवसरान्न तत्र निग्रहस्थानत्वसम्भवः । अन्यथा मया पराजितमित्युक्तेऽपि पराजयज्ञानेन तत्कारणीभूततद्वाक्यस्यापि निग्रहस्थानत्वप्रसङ्गः । एवं पुरःस्फूर्तिकानधिकृतोद्भावितस्यापि निग्रहस्थानत्वप्रसङ्गः । पराजयस्य प्रतियोगिप्रयोज्यत्वज्ञापकत्वाभावेन न निग्रहस्थानत्वमिति चेत् । अत्रापि तदुक्तेरतादृशत्वान्न निग्रहस्थानत्वमिति भावः । विक्षेपस्थलेऽपि कथाविच्छेदकर्तृत्वं न पराजयहेतुः । तथा सत्युक्तस्योत्तरमुक्त्वा विच्छेदकर्तुरपि पराजयप्रसङ्गात् किन्तूत्तरमनुक्त्वा । तथा चावश्यकस्य विशेषणतया प्रथमोपस्थितायामनुक्तेरेव निग्रहस्थानत्वमिति भावः । ननु सर्वत्राप्यनुक्तेरेव दोषत्वं न विरोधादीनाम् । अन्यथा प्रतिवादिना विरोधाद्युद्भावने तत्परिहारायोद्योगे सत्यप्यन्यतरयोः पराजय प्रसङ्गः । अतस्तूष्णींभावस्थल एव दोष इति वक्तव्यम् । तथा चानुक्त्यैव दोषे दार्ढ्यज्ञानम् । ततः स्थिरत्वेन ज्ञातेन दूषणेन पराजयानुमितिर्वक्तव्या । तथाऽनुक्तेः पूर्वपूर्वमुपस्थितत्वात्तस्या एव दोषत्वमुचितम् । यत्र च तद्दूषणाङ्गीकारस्तत्र संवाद एवेति द्वयमेव निग्रहस्थानं स्यादिति चेत् । उद्भावितस्य दोषस्य विप्रतिपन्नत्वे खल्वेतत् । यत्र तु प्रमाणविरोधोदयेन विप्रतिपन्ना मध्यस्थादिभिर्निश्चितास्तत्र तद्दोषैरेव पराजयानुमितिः । एवं व्यभिचारादौ विप्रतिपत्तिदशायां व्यभिचारादीनां स्थापनं क्रियते तदा नानुक्तेरवसरः । दोषोक्त्यनन्तरमपि तत्प्रकारगोचरोक्तेः सत्त्वात् । अतो विरोधादीनां दोषत्वं युक्तमेवेति ।

वाक्यार्थमञ्जरी

।। अवसित इति । समाप्त इत्यर्थः ।

श्रीविट्टलभट्ट

विक्षेपलक्षणे केनचिद्य्वाजेनेति विशेषणं जयपराजयाभ्यां कथाविच्छेदव्यावृत्त्यर्थमुक्तम् ।। एतत्त्रयमनुक्तिरेवेति । एतदज्ञानादित्रयं वक्तव्यानुक्तिरूपाऽनुक्तिरेव । न ततोऽतिरिक्तनिग्रहस्थानमित्यर्थः ।