प्रमाणपद्धतिः
(३) प्रमाणपद्धतिः
पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितं वाच्यवाचकभावसम्बन्धग्रहणसंस्कारानुगृहीतमन्त्यवर्णसन्निकृष्टं श्रोत्रमनेकेष्वपि वर्णेष्वेकां पदबुद्धिं जनयति । तथा पूर्वपूर्वपदानुभवजनितसंस्कारसहकृतमन्त्यपदविषयं श्रोत्रमनेकेषु पदेष्वेकां वाक्यबुद्धिमाकाङ्क्षाद्यनुसारेण जनयति । तेन वर्णानां पदानां च सहानवस्थितप्रतीतीनामपि समुदायो युज्यते ।
जयतीर्थविजय
ननु विभक्त्यन्तेष्वनेकेषु वर्णेष्वेकं पदमिति प्रतीत्यनन्तरं पदानां समूहो वाक्यमिति प्रत्येतव्यम् । पदप्रतीतिरेव तावद्वर्णेषु न सम्भवति । विकल्पासहत्वात् । तथा हि । कलशमित्यादिपदेष्वेकैकवर्णस्यैकैकपदप्रमितिविषयत्वमुत मिलितानाम् । नाद्यः । ककारमात्र एव पदप्रतीतिप्रसङ्गात् । न द्वितीयः । आशुतरविनाशिक्रमिकोच्चारणरूपव्यञ्जकव्यङ्ग्यानां वर्णानां युगपद्बुद्धावनारोहेण बुद्धिकृतमेलनायोगात् । वर्णानां सर्वगततया यद्दैशिकं मेलनं तस्य सदातनत्वेनानेकेषु वर्णेष्वेकं पदमिति प्रतीत्ययोगादित्यत आह ।। पूर्वेति । श्रोत्रं वर्णेष्वेकां पदबुद्धिं जनयतीत्यन्वयः । यदुक्तमेकैकवर्णस्य पदबुद्धिविषयत्वमुत मिलितानामिति तत्र द्वितीयकल्पमुपादत्ते ।। ओकेष्विति । ननु सन्निकर्षाभावे कथं श्रोत्रं वर्णेषु पदबुद्धिं जनयेदित्यत आह ।। अन्त्येति । अन्त्यवर्णश्रवणकाल इति शेषः । नन्वन्त्यवर्णश्रवणकाले श्रोत्रस्यान्त्यवर्णसम्बन्धमात्रसत्त्वेऽपि पूर्ववर्णसन्निकर्षाभावात्कथं पूर्वान्त्यवर्णेषु पदबुद्धिरित्यत आह ।। पूर्वेति । एवं च यथा पूर्वानुभवसंस्काररूपसहकारिसहकृतस्य चक्षुषः पूर्वोत्तरकालसम्बन्धावगाहिप्रत्यभिज्ञाजनकत्वं तथेहापीति भावः । श्रोत्रस्यानेकेषु वर्णेष्वेकं पदमिति प्रतीतिजनकत्वे मार इत्यत राम इति प्रतीत्यापत्तिः । यतो मार इत्यत्र यावन्तो वर्णास्तावन्त एव राम इत्यत्रापि । एवं नव वन नदी दीन राजा जारेत्यादावपीत्यत आह ।। वाच्यवाचकेति । वाच्यवाचकभावसम्बन्धग्रहणसंस्कारआकारशिरस्करेफोपरिमकारविषयकः । एवं नवमित्यादावपि द्रष्टव्यम् । तत्सहकृतेत्यर्थः । एवं मारेत्यादिश्रवणकाले तत्सदृशसंस्काराभावेन न पदप्रतीतिरिति भावः । एवं क्रमिकोच्चारणविषयेष्वनेकेषु वर्णेष्वेकं पदमिति प्रतीतिजननप्रकारमुपपाद्य तादृशपदेष्वेकं वाक्यमिति प्रतीतिमुपपादयति ।। तथेति । नन्वेवं देवदत्त ओदनं स्नातः सरसि भुक्त्वा यातीत्यत्रौदनस्नातपदयोरेकवाक्यताप्रतीतिः स्यादित्यत आह ।। आकाङ्क्षाद्यनुसारेणेति । तत्र च परस्परमाकाङ्क्षाविरहान्नैकवाक्यताप्रतीतिरिति भावः । एवं पदवाक्यप्रतीत्युपपादनस्य प्रयोजनमाह ।। तेनेति ।। समुदायो युज्यत इति । तथा च पदानां समूहो वाक्यमिति प्रागुक्तलक्षणं घटत इति भावः।
भावदीपः
ननु व्याप्तानां वर्णानां कथं मेलनेन पदत्वम् । पदानां वा कथं समूहीकरणमित्यत आह । पूर्वपूर्वेति । अर्थवत्त्वज्ञानं विनेदं पदमित्यनुत्पत्तेरर्थवत्त्वज्ञानायोक्तं वाच्यवाचकेत्यादि विशेषणम् । तेन कचटतपेत्यादावुक्तसामग्रीसत्त्वेऽपि पदत्वबुद्धेरभावाद्य्वभिचार इति निरस्तम् । तत्र सङ्केतग्रहणसंस्कारानुग्रहाभावादिति । एवमनाकाङ्क्षादिपदकदम्बे पूर्वपदेत्यादिनोक्तकारणकलापे सत्यपि न वाक्यत्वबुद्धिरिति चोद्यनिरासायाकाङ्क्षाद्यनुसारेणेत्युक्तम् । एवमेकबुद्धिविषयतोपपादनेन फलितमाह ।। तेनेति । एकबुद्धिविषयतोपपादनेनेत्यर्थः । सहानवस्थितप्रतीतीनामिति बहुर्वीहिः । क्रमेणोत्पन्नप्रतीतिविषयाणामित्यर्थः ।
श्रीविजयीन्द्रतीर्थ
ननु क्रमिकवर्णसमूहरूपपदस्यैवासम्भवेन पदसमूहोऽसम्भावित एवेत्यत आह ।। पूर्वपूर्ववर्णेति । शक्तत्वरूपपदज्ञानोपयोगितया वाच्यवाचकेत्याद्युक्तम् । एवमाकाङ्क्षेत्यादिवाक्यत्वज्ञानोपयोगितयेत्युक्तम् ।
श्रीवेदेशभिक्षु
ननु क्रमविशेषविशिष्टवर्णसमूहस्य पदत्वं वाच्यम् । न च नित्येषु व्याप्तेषु च वर्णेषु कालतो देशतो वा स्वतः क्रमः सम्भवति । अतः प्रतीतिक्रमेणैव तेषु क्रमो वक्तव्यः । न चैवं समुदाये सम्भवति । प्रतीतीनामाशुतरविनाशित्वेन मेलनासम्भवात् । अतो वर्णेषु पदत्वमेव ज्ञातुमशक्यम् । कुतस्तद्घटितं वाक्यत्वमित्याशङ्कायां तावत्पदत्वबुद्धिमुपपादयति ।। पूर्वपूर्वेति । अव्युत्पन्नस्यान्त्यवर्णश्रवणेऽपि वाक्यत्वबुद्धेरभावादाह ।। वाच्यवाचकेति । गौरश्व इत्यादावन्त्यपदश्रवणेऽपि वाक्यत्वबुद्धेरभावादाह ।। आकाङ्क्षाद्यनुसारेणेति ।। समुदायो युज्यत इति । प्रत्येकं वर्णपदप्रतीतीनामुक्तरीत्या मेलनासम्भवेऽपि प्रत्यभिज्ञास्थल इव श्रोत्रमन्त्यवर्णपदसम्बद्धं पूर्ववर्णसंस्कारसहकृतं तावद्वर्णपदविषयकमेकं समूहालम्बनप्रत्यक्षरूपं ज्ञानं जनयति । तथा चैकज्ञानविषयत्वेन तेषु समुदायो युज्यत इति भावः । न चैवं क्रमानुपपत्तिः । संवृतेष्वमुक्तज्ञानेनावगाहनात् । यत्तु सुधायामेकस्मृत्युपारूढानामित्युक्तं तन्मतान्तराभिप्रायेण । वर्णानुभवाहितसंस्कारानन्तरं तावद्विषयकैकसमूहालम्बनस्मृत्याऽपि पदत्वादिबुद्ध्युपपत्तिरिति स्वमत एव प्रकारान्तरमिति ध्येयम् ।
अभिनवामृतम्
ननु वर्णानां नित्यविभुत्वेऽपि नानेकेषु वर्णेष्वेका पदबुद्धिर्युक्ता । वर्णश्रवणस्य क्रमिकत्वेन युगपदनेकवर्णश्रवणाभावात् । एकावच्छेदेनावस्थितानेकवृक्षाणां युगपद्दर्शनस्यैव वनप्रतीति हेतुत्वात् । एवमेवानेकपदेषु वाक्यबुद्धिरनुपपन्नेति । अत आह ।। पूर्वपूर्वेत्यादिना ।। एतेनेति । पूर्वश्रवणकाले सहानवस्थितप्रतीतानामप्यन्त्यवर्णसम्बद्धश्रोत्रेण सर्ववर्णविषयकप्रतीतिजननाद्वर्णानां विवक्षितसमुदायो युज्यते । तथाऽन्त्यपदसम्बद्धश्रोत्रेण सर्वपदविषयकप्रतीतिजननात्पदानां विवक्षितसमुदायो युज्यत इत्यर्थः ।
आदर्शः
ननु नैकस्य वर्णस्यार्थबोधकत्वम् । इतरवर्णोच्चारणस्य वैय्यर्थ्यापत्तेः । क्रमविशिष्टानां पदानां नैकस्मिन्क्षणे स्थितिः सम्भवति । प्रतिक्षणं नाशात् । वर्णानां नित्यत्वेऽपि क्रमरहितानां बोधकत्वेऽतिप्रसङ्गात् । क्रमविशिष्टानां क्रमप्रयोजकबुद्धिनाशेन नाशात् । तथा च पदस्य वाक्यस्य चैकक्षणे स्थित्यसम्भवात्कथं बोधकत्वम् । अनेकेष्वपि वर्णेष्वेकत्वबुद्धिश्च । न च क्रमविशिष्टवर्णानां नष्टत्वेऽपि तज्ज्ञानस्यैव बोधकत्वमिति वाच्यम् । पदादेकस्माद्वाक्याद्वाऽर्थं स्मरामि प्रत्येमीत्यनुभवव्याकोपदेकत्वादेः सर्वथाऽनुपपत्तेश्च । किञ्च ज्ञानाद्बोधाङ्गीकारेऽपि पदं श्रुतं वाक्यं श्रुतमित्यनुभवः पदादिषु वर्तमानत्वावगाह्यनुभवसिद्धः । न च पदेषु वाक्येषु वा वर्तमानत्वं विना घटते । अन्यथा भ्रमत्वापत्तेः । न चैवमन्त्यवर्णस्य वर्तमानत्वमात्रेण प्रामाण्यं घटते । तथा सत्येकवर्णमात्रप्रत्यक्षानन्तरमपि तथानुभवप्रसङ्गः । न चान्त्यवर्णप्रत्यक्षमेव तदाकारमिति वाच्यम् । तथा सति दोषवशात्तद्घटकवर्णाश्रवणेऽप्यन्त्यवर्णश्रवणमात्रात्तथानुभवप्रसङ्गः । न च यावद्वर्णप्रत्यक्षमेकदा सम्भवति । तदभिव्यञ्जकानां ध्वनानां यौगपद्यसम्भवात् । किञ्च पदत्वाश्रये यदि श्रुतत्वमात्रेण तथानुभवः सम्भवति तदैकैकवर्णस्य श्रुतत्वमात्रेण श्रुतमिति धीः स्यात् । एवं स्मृतमित्यपि धीः स्यात् । तद्घटकस्य पूर्वपूर्ववर्णस्य श्रुतत्वात्स्मृत्वाच्च प्रत्यक्षसामग्रीबलादुत्तरवर्णप्रत्यक्षमेव जायते । न पूर्वपूर्ववर्णस्मृतिरिति वाच्यम् । परस्परप्रतिबन्धकत्वे मानाभावात् । पश्चादेकाक्षरस्मरणाभावेऽपि पदं स्मृतं वाक्यं स्मृतमित्यनुभवापत्तेः । पदत्वादीनां व्यासज्यवृत्तित्वेन तदवच्छेदेनैव धर्मान्तरस्य भानं न तु तत्सामानाधिकरण्येनेत्युच्यते । तदा पदं श्रुतं वाक्यं श्रुतमिति प्रत्यक्षानुपपत्तिः । तस्माद्वर्णातिरिक्तं पदवाक्यपदवाच्यं स्फोटाख्यं किञ्चिदङ्गीकर्तव्यम् । तदेव शाब्दधीजनकमिति न वर्णसमुदायस्य पदत्वं तत्समुदायस्य वाक्यत्वं वा युक्तमित्यत आह ।। पूर्वपूर्ववर्णेति । तथा च श्रावणप्रत्यक्षविषयत्वस्य सर्वेषु वर्णेषु सत्त्वाच्छतमित्यनुभवः । आकाङ्क्षादिवशादेकार्थप्रतिपादकत्वरूपोपाधिनैकत्वप्रतीतिः । नानावृक्षेष्वेकस्थानस्थितत्वोपाधिनैकं वनमिति धीवद्वर्तमानत्वमपि किञ्चित्स्थूलकालस्थितत्वमेव प्रतीयते न तु क्षणमात्रवृत्तित्वम् । तथाऽननुभवात् । वर्णसमुदायातिरिक्तस्य स्फोटादेरप्रामाणिकत्वान्नाङ्गीकार्यत्वमिति भावः । संस्काररूपसन्निकर्षबलादतीतानां वर्णानां क्रमस्य च भानं सम्भवतीति भावः । अव्युत्पन्नस्य पदत्वबुद्धेरनुदयात् । वाच्यवाचकभावसम्बन्धग्रहणसंस्कारानुगृहीतमिति । आकाङ्क्षाद्यज्ञाने एकवाक्यत्वबुद्धेरनुदयात् ।। आकाङ्क्षाद्यनुसारेणेति ।
श्रीविट्टलभट्ट
ननु वर्णानां समूहमन्तरेण पदत्वायोगात् वर्णानां पदानां च समूहेन भाव्यम् । न च वर्णानां समूहः सम्भवति । न चैकदेशस्था वर्णाः समूह इति सम्भवति । वर्णानां विभुत्वाद्भिन्नदेशस्थवर्णाभावेन व्यावृत्त्यसिद्धेः । नाप्येककालस्थवर्णाः समूह इति सम्भवति । वर्णानां नित्यतयैकपदव्यावृत्त्यभावात् । नाप्येकप्रतीतिस्था वर्णा वर्णसमूह इति सम्भवति । उत्तरवर्णप्रतीतिकाले पूर्ववर्णप्रतीत्यभावे नानेकवर्णानामेकप्रतीतिविषयत्वासम्भवात् । वर्णसमूहासम्भवादेव वर्णसमूहरूपपदसमूहस्य सुतरामसम्भवात्पदसमूहो वाक्यमित्ययुक्तमित्यत आह ।। पूर्ववर्णानुभवेति । यद्यपि वर्णानां विभुत्वान्नित्यत्वाच्च देशकालापेक्षया पूर्वत्वमन्तिमत्त्वं चायुक्तमेवं वर्णात्मकपदानामप्ययुक्तम् । तथाऽपि यद्वर्णे प्रतीत्यनुकूलोच्चारणादिरूपव्यापारः प्राथमिकः स पूर्वो वर्णो यद्वर्णप्रतीत्यनुकूल उच्चारणादिव्यापारोऽन्तिमः स चान्तिमो वर्ण इति वर्णानां पूर्वत्वमन्तिमत्वमेवं पदानामपीति ज्ञेयम् । पूर्ववर्णानुभवजनितेत्यत्र वर्णपदेन पदमप्युपलक्ष्यते । अन्तिमपदविषयत्वमित्यत्र पदमित्यनेन वर्णोऽप्युपलक्ष्यते । अनेकेषु पदेष्वित्यत्र पदपदं वर्णस्याप्युपलक्षकम् । तथा वाक्यबुद्धिमित्यत्र वाक्यपदं पदस्याप्युपलक्षकमिति ज्ञेयम् । ननु पदवाक्यजिज्ञासारहितस्योक्तरूपमपि श्रोत्रमनेकेषु वर्णेषु पदेषु च पदं वाक्यमिति बुद्धिं जनयतीति कथमेवमुक्तिरित्यत आह ।। आकङ्क्षाद्यनुसारेणेति । पदवाक्यजिज्ञासानुसारेणेत्यर्थः ।। तेनेति । वर्णानां पदानां च समूहालम्बनरूपैकबुद्धिविषयत्वेन युगपदवस्थानरहितप्रतीतिविषयाणामपि वर्णानां पदानां च समुदायं समूहो युज्यत इत्यर्थः ।