प्रमाणपद्धतिः
वैशेषिकमतनिरासः
(२०) प्रमाणपद्धतिः
इन्द्रियजं लिङ्गजं स्मृतिरार्षं चेति चतुर्विधं यथार्थज्ञानमिति वैशेषिकाः । तदसत् । नित्यस्यागमजन्यस्य चासङ्ग्रहात् । स्मृतेरिन्द्रियजत्वेनार्षस्य योगिज्ञानत्वेन च पृथग्ग्रहणायोगाच्च ।
जयतीर्थविजय
।। असङ्ग्रहादिति । न्यूनाधिकसङ्ख्याव्यवच्छेद एव हि परेषां मते विभागस्य प्रयोजनम् । एवं विभागेऽधिकसङ्ख्यावच्छेदो नास्तीत्याह ।। नित्यस्येति । न्यूनसङ्ख्याव्यवच्छेदोऽपि नास्तीत्याह ।। स्मृतेरित्यादिना । तथा चेन्द्रियजं लिङ्गजं योगिज्ञानमित्येव त्रैविध्यमस्त्विति भावः । किञ्चैवं त्रैविध्याङ्गीकारेऽनार्षयोगिज्ञानस्यापि सङ्ग्रहो भविष्यति । तदुक्तचातुर्विध्याङ्गीकारे तु ऋषिव्यतिरिक्तानामिन्द्रादिदेवानां ज्ञानस्यासङ्ग्रह एव भवेदिति वक्तुमार्षस्य चेति चकारः ।
भावदीपः
।। आर्षमिति । योगजधर्मप्रत्यासत्तिजमित्यर्थः।। आगमजन्यस्य चेति । आगमोऽनुमान एवान्तर्भवतीत्येतन्निराकरिष्यत इति भावः ।। पृथग्ग्रहणायोगादिति । स्मृत्यार्षयोरिति योज्यम् । तयोरपीन्द्रियजमित्युक्त्यैव ग्रहणसम्भवादिति भावः । योगिज्ञानत्वेनेत्युक्त्या स्वकृतविभागस्य न्यूनताऽपि प्रत्युक्ता ।। इति केवलप्रमाणनिरूपणम् ।।
श्रीविजयीन्द्रतीर्थ
।। आगमस्य चेति । यद्यप्यागमस्य तन्मते लिङ्गजन्य एवान्तर्भावः । तथाऽप्यागमस्य पृथक्प्रमाणत्वमिति स्वमतदार्ढ्येन तदुक्तम् । एवं स्मृतेरैन्द्रियकत्वे स्वमतदार्ढ्येनैवोक्तमित्यवधेयम् ।। योगेनेति । तस्येन्द्रियजन्यत्व एवान्तर्भावादिति भावः ।
श्रीवेदेशभिक्षु
एवं स्वयं यथार्थज्ञानचातुर्विध्यमुक्त्वा परोक्तं चातुर्विध्यं दूषयितुमनुवदति ।। इन्द्रियजमिति ।। नित्यस्येति । नित्येश्वरज्ञानस्य त्वयाऽभ्युपगतत्वेनागमजन्यज्ञानस्य च त्वया लिङ्गजन्यत्वाभ्युपगमेऽपि तदयोग्यस्य वक्ष्यमाणत्वे पार्थक्यादत्र तदुभयसङ्ग्रह इति भावः ।। स्मृतेरिन्द्रियजन्यत्वेति । वक्ष्यमाणरीत्येति भावः ।। आर्षस्य चेति । इन्द्रियजन्यत्वेनेति सम्बन्धः । कथमार्षस्येन्द्रियजन्यत्वमित्यत उक्तं योगिज्ञानत्वेति । तथा चार्षस्य योगिज्ञानान्तर्भावसम्भवेन योगिज्ञानस्य चेन्द्रियजन्यज्ञानप्रभेदत्वेन त्वयोक्तत्वात् । इन्द्रियजमित्यनेनैवास्यापि ग्रहे पुनरार्षशब्देन तद्ग्रहणानुपपत्तिरिति भावः । न चार्षस्य तपःप्रभावजन्यस्य न योगप्रभावजन्ययोगिज्ञानत्वम् । येन तस्योक्तरीत्येन्द्रियजन्यज्ञानान्तर्भाव इति वाच्यम् । तयोर्विप्रकृष्टार्थविषयकप्रत्यक्षत्वाविशेषे तपोयोगप्रभावरूपकारणविशेषजन्यत्वेन पृथक्कारणासम्भवात् । अन्यथा चाक्षुषादिज्ञानानामपि तत्तत्सन्निकर्षरूपविशेषकारणजन्यत्वेन प्रत्यक्षबहिर्भावप्रसङ्ग इत्यवधेयम् ।
अभिनवामृतम्
।। आर्षं चेतीति । संज्ञैषा पूर्वाचार्यस्य प्रातिभज्ञानमार्षमिति । तच्च ऋषीणां भवति । कदाचिल्लौकिकानामपि भवति । तदुक्तम् । आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेषु लिङ्गाद्यनपेक्षात् । आत्ममनसोःसंयोगाद्धर्मविशेषात्प्रातिभं ज्ञानं यदुत्पद्यते तदार्षम् । तच्च कदाचिल्लौकिकानामपि भवति । यथा कल्पका वदन्ति । श्वो मे भ्राताऽऽगन्तेति हृदयं मे कथयतीति ।। आगमजन्यस्य चेति । यद्यप्यागमस्यानुमानान्तर्भावादागमजन्यस्य च लिङ्गजमित्यनेनैव सङ्ग्रहं परे मन्यन्ते । तथाऽपि तदयुक्तमिति भावः ।। आर्षस्य च योगिज्ञानत्वेनेति । योगिज्ञानतुल्यत्वेनेत्यर्थः । इदमुक्तं भवति । वैशेषिकास्तावद्योगिज्ञानमिन्द्रियजं मन्यन्ते । इन्द्रियजमपि द्विविधम् । सर्वज्ञीयमसर्वज्ञीयं चासर्वज्ञीयं योगजधर्मलक्षणया प्रत्यासत्त्या तत्तत्पदार्थसार्थज्ञानमिति वचनात् । एवं च योगजधर्मप्रत्यासत्तिसहकृतेन्द्रियजन्यज्ञानस्यैव धर्मविशेषसहकृतमनोजन्यस्य प्रातिभज्ञानस्यापीन्द्रियजन्यत्वेनार्षस्य च पृथग्ग्रहणायोगः । अन्यथा योगिज्ञानस्योपनीतभानादेश्च पृथग्ग्रहणप्रसङ्ग इति ।
वाक्यार्थमञ्जरी
।। आर्षमिति । ऋषीणां प्रतिभोत्पन्नज्ञानमित्यर्थः ।। इन्द्रियेति । मन इन्द्रियेत्यर्थः । तथा चेन्द्रियजन्यमित्यनेनैव सङ्गृहीतमिति भावः ।
श्रीविट्टलभट्ट
स्वकृतयथार्थज्ञानविभागदृढीकरणाय वैशेषिकोक्तिविभागं दूषयितुमनुवदति ।। इन्द्रियजमिति । साक्षात्काररूपमनुमितिरूपं स्मरणमृषिज्ञानं चेत्यर्थः ।। नित्यस्यागमजस्येति । ज्ञानस्येति शेषः ।। स्मृतेरिन्द्रियजत्वेनेति । मनोरूपेन्द्रियकरणत्वेनार्षस्य योगिज्ञानत्वेन ऋषिज्ञानस्य योगजत्वेनेन्द्रियज्ञानात्पृथगुपादानासम्भवादित्यर्थः । योगस्य प्रत्यक्षकारित्वादृषिज्ञानमिन्द्रियकरणकरणकमिति न तद्य्वतिरिक्तमिति भावः ।