प्रमाणपद्धतिः
केवलज्ञानस्य चातुर्विध्यम्
(१७) प्रमाणपद्धतिः
तच्च चतुर्विधम् । ईश्वरज्ञानं लक्ष्मीज्ञानं योगिज्ञानमयोगिज्ञानं चेति । तत्र सर्वार्थविषयकमीश्वरज्ञानम् । नियमेन यथार्थम् । तत्स्वरूपमनादिनित्यम् । स्वतन्त्रम् । निरतिशयस्पष्टं च । ईश्वरे त्वसार्वत्रिकमन्यत्रानालोचनेऽपि सर्वविषयं लक्ष्मीज्ञानम् । तदपि नियमेन यथार्थम् । तत्स्वरूपमनादि नित्यं च । ईश्वरैकाधीनम् । तदपेक्षया स्पष्टत्वे न्यूनम् । स्पष्टत्वं चापरोक्षत्ववज्ज्ञानगत एव विशेषो न विषयोपाधिकः ।
जयतीर्थविजय
।। निरतिशयस्पष्टं चेति । अत्र स्पष्टशब्दो भावप्रधानः । स्वनिष्ठस्पष्टतानिरूपितस्पष्टतारहितमित्यर्थः ।। ईश्वरे त्वसार्वत्रिकमिति । अत्र ज्ञानं लक्ष्मीज्ञानमित्युक्तेऽस्मदादिज्ञानेऽतिव्याप्तिप्रसङ्गः । अतः सर्वविषयमिति । सर्वविषयं लक्ष्मीज्ञानमित्युक्ते आलोचनदशापन्नऋजुज्ञाने गतम् । अतोऽनालोचन इति । अनालोचने सर्वविषयं लक्ष्मीज्ञानमित्युक्ते ईशे लक्ष्मीज्ञानस्यानालोचने सर्वविषयकत्वाभावादसम्भवः । तद्वारणायेश्वरेऽसार्वत्रिकमिति व्युत्कमेण व्यावर्त्यानि । क्रमेण व्यावर्त्यानि तु सुगमानि । लक्ष्मीज्ञानस्य लक्षणान्तरमाह ।। ईश्वरेति । अत्र ज्ञानमिति शेषः । अतो न लक्ष्म्यामतिव्याप्तिः । ईश्वरलक्ष्म्युभयाधीनऋजुज्ञानेऽतिव्याप्तिवारणायैकेति ।। तदपेक्षयेति । ईश्वरज्ञानापेक्षयेत्यर्थः । ननु स्पष्टत्वं यदि रेखोपरेखादिततत्पदार्थनिष्ठयावद्धर्मविषयीकारित्वं तदा तदीशलक्ष्मीज्ञानयोरुभयोरपि समम् । अन्यत्रानालोचनेऽपि सर्वविषयमिति स्वोक्तेः । तत्कथं तदपेक्षया स्पष्टत्वे न्यूनत्वमित्याशङ्क्य विवक्षितं स्पष्टत्वशब्दार्थमाह ।। स्पष्टत्वं चेति । ज्ञानगत एवेत्युक्ते न विषयगत इति प्रतीयते । तथा च प्रकृतासङ्गतिरित्याशङ्क्यैवकारेण व्यावर्त्यं दर्शयति ।। न विषयेति । न रेखोपरेखादियावद्धर्मविषयकत्वरूपमित्यर्थः ।
भावदीपः
।। तदिति । यथार्थज्ञानमित्यर्थः । तारतम्यक्रमेण निर्दिशति ।। ईशेति । निर्देशक्रमेण तेषां स्वरूपमाह ।। तत्रेति । चतुर्षु मध्ये तत्स्वरूपमीशेन सविशेषाभिन्नमित्यर्थः । अत एवानादिनित्यं स्वतन्त्रं चानन्याधीनमित्यर्थः ।। निरतिशयस्पष्टमिति । एतस्मादतिशयितं स्पष्टं नास्तीदमेव सर्वातिशयितस्पष्टमित्यर्थः । ईश इति विषयसप्तमी ।। अन्यत्रेति । ईशादिति सम्बध्यते । आलोचनं मनःप्रणिधानविशेषः । तदभावेऽपीत्यर्थः । सर्वविषयमित्येवोक्तावसम्भवः । अत ईशेऽसार्वत्रिकमिति । व्याहतिनिरासायेशादन्यत्रेति । ब्रह्मज्ञानव्यावृत्त्यर्थमनालोचनेऽपीति ।
श्रीविजयीन्द्रतीर्थ
प्रथमोद्दिष्टत्वादीश्वरज्ञानं लक्षयति ।। तत्र सर्वार्थविषयमिति । सर्वधर्मिनिष्ठयावद्धर्मप्रकारकमित्यर्थः ।। नियमेनेति । सर्वप्रकारावच्छेदेनेत्यर्थः ।। स्वतन्त्रमिति । स्वाधिकविषयकज्ञानासहकारिकमित्यर्थः । यद्वा स्वान्यूनविषयकज्ञानासहकारिकज्ञानमित्यर्थः । यद्वेच्छाद्यतिरिक्तत्वे सतीश्वरातिरिक्तत्वे सति स्वाश्रयाधिकासहकारिकमित्यर्थः ।। निरतिशयस्पष्टं चेति । सर्वोत्कृष्टत्वाश्रय इत्यर्थः । अत्र तु सर्वार्थविषयत्वं स्वातन्त्र्यं निरतिशयस्पष्टत्वं च प्रत्येकमेकमेव लक्षणम् । साहित्यवैय्यर्थ्यात् । इतरत्तु स्वरूपनिर्वचनमित्यवधेयम् । लक्ष्मीज्ञानं लक्षयति ।। ईश्वरे त्विति । अनालोचनेऽपि प्रणिधानं विनाऽपीत्यर्थः ।। सर्वविषयमिति । प्रणिधानं विनेश्वरातिरिक्तसकलधर्मिनिष्ठयावद्धर्मप्रकारकमित्यर्थः ।। ईश्वरैकाधीनमिति । स्वाश्रयाधिकेश्वरैकसहकारिकमित्यर्थः ।। तदपेक्षयेति । ईश्वरज्ञाननिष्ठस्पष्ठत्वमात्रावधिकापकर्षाश्रयस्पष्टत्ववदित्यर्थः । अत्रापि पूर्ववत्प्रत्येकमेव लक्षणमित्यवधेयम् । ननु स्पष्टत्वमशेषविशेषविषयकत्वम् । तच्च सर्वार्थविषयमित्यनेन गतार्थमित्यत आह ।। स्पष्टत्वं चेति ।
श्रीवेदेशभिक्षु
इदानीं तद्विभागमाह ।। तच्चेति । अयमपि महावैलक्षण्यज्ञापनार्थो विभागः । प्राधान्यक्रमेणोद्दिशति ।। ईश्वरज्ञानमिति । तत्रेश्वरज्ञानं लक्षयति ।। सर्वार्थेति । स्वपरगताखिलविशेषविषयमित्यर्थः । लक्ष्मीज्ञानादेरीशादन्यत्रैव सर्वविषयकत्वं नेश्वरेऽपीति भावः । नन्वस्मदादिज्ञानं कदाचिदयथार्थं मनोवृत्तिरूपं जन्यमनित्यमस्वतन्त्रं सातिशयं स्पष्टं च दृश्यते । ईश्वरज्ञानमपि किं तादृशं नेति भावेन तत्स्वरूपमाह ।। नियमेनेत्यादिना । यद्वा स्वतन्त्रं निरतिशयस्पष्टं चेति लक्षणान्तरमितरत्स्वरूपकथनम् । स्वतन्त्रमित्यत्र ज्ञानपदं संयोज्यते तेनेश्वरेनातिव्याप्तिः । लक्ष्म्यादिज्ञाननिरासाय निरतिशयेति । लक्ष्मीज्ञानं लक्षयति ।। ईश्वरे त्विति । ईश्वरज्ञाननिवृत्त्यर्थमीश्वरे त्वसार्वत्रिकमित्युक्तम् । अन्यत्र सर्वविषयमित्यस्मदादिज्ञाननिरासः । व्याघातपरिहारार्थमन्येत्रेत्युक्तम् । ईशादिति शेषः । ऋजुज्ञानेऽतिव्याप्तिपरिहारायानालोचनेऽपीत्युक्तम् । तस्यालोचने सर्वविषयकत्वं वक्ष्यति । अत्र सर्वदेत्यपि ग्राह्यम् । अतो मुक्त्यवस्थापन्ने ऋजुज्ञानेऽनालोचनेऽप्यन्यत्र सर्वविषये नातिव्याप्तिरिति ध्येयम् । तदपीत्यादि पूर्ववत् । यद्वा लक्षणान्तरमाह ।। ईश्वरेति । अत्रेशाधीनमितीशज्ञाननिरासः । एकेति ब्रह्मादिज्ञाननिरसः । लक्ष्मीव्यावृत्त्यै ज्ञानपदं संयोज्यम् । न च लक्ष्मीज्ञानं लक्ष्म्यधीनमपि भवतीत्यसम्भवः । ईशैकाधीने ईशज्ञानेऽतिव्याप्तिश्चेति वाच्यम् । अत्राधीनत्वस्य भेदगर्भस्यैव विवक्षितत्वात् । लक्षणान्तरमाह ।। तदपेक्षयेति । अत्र तन्मात्रापेक्षयेति विवक्षितत्वान्न ब्रह्मादिज्ञानेऽतिव्याप्तिः । यद्वेशलक्ष्मीज्ञानयोरीश्वरादन्यत्र सर्वविषयकत्वमुक्तम् । तत्र तयोः साम्यमेव किं नेत्याह ।। तदपेक्षयेति । जगद्विषय इति शेषः । नन्वेवं लक्ष्मीज्ञानं जगद्विषये ईशज्ञानापेक्षयाऽस्पष्टमित्युक्ते लक्ष्मीज्ञानं जगति किञ्चित्पदार्थाविषयकारीति प्राप्तम् । ज्ञाने स्पष्टत्वस्य विषयोपाधिकत्वात् । तथा चान्यत्र सर्वविषयकमित्युक्तव्याधात इत्यत आह ।। स्पष्टत्वं चेति । अपरोक्षेऽपि विषये शब्दादीना परोक्षज्ञानोदयेन नापरोक्षत्वं विषयोपाधिकमिति भावः ।
अभिनवामृतम्
ईश्वरज्ञानस्य लक्षणमाह ।। सर्वार्थविषयमिति । घटेन्द्रियसन्निकर्षादिनाऽभिव्यक्तिरीश्वरज्ञानमचिन्त्यशक्तत्वात्पटादिसर्वविषयमिति नाव्याप्तिरिति द्रष्टव्यम् । ईश्वरज्ञानं सर्वमपि केवलप्रमाणमिति भावेनाह ।। नियमेन यथार्थमिति । यद्यदीश्वरज्ञानं तत्सर्वं यथार्थमित्यर्थः । अचिन्त्यशक्तित्वोपपादकमाह ।। तत्स्वरूपमिति । सादिविनाशिनो ज्ञानस्येश्वरस्वरूपत्वं युज्यत इत्यत आह ।। अनादित्वमिति । अनादिनित्यत्वेऽपि तत्स्वरूपत्वं न युज्यते । परतन्त्रत्वादित्यत आह ।। स्वतन्त्रमिति । एवं सातिशयस्पष्टस्य नेश्वरस्वरूपत्वं युज्यत इत्यत आह ।। निरतियस्पष्टं चेति ।। ईश्वरे सार्वत्रिकमिति । यद्यपि नित्यमुक्तत्वान्महालक्ष्म्या आलोच्यसंज्ञकं तपो नास्ति । तथाऽप्यन्यत्सर्वविषयमित्यर्थः । ईश्वरेऽसार्वत्रिकमनालोचने सर्वविषयं लक्ष्मीज्ञानमित्युक्तं भवति । ईश्वरज्ञानं व्यावर्तयितुमीशेऽसार्वत्रिकमिति विशेषितम् । ऋजुज्ञानं व्यावर्तयितुमनालोचन इति पदम् । अस्मदादि ज्ञानं व्यावर्तयितुं सर्वविषयमिति । लक्ष्मीज्ञानस्याप्यचिन्त्यशक्तित्वमुपपादयितुं पूर्ववद्विशेषणान्याह ।। तदित्यादिना । नन्वीश्वरज्ञानलक्ष्मीज्ञानयोरन्यत्र सर्वविषयकत्वाविशेषाल्लक्ष्मीज्ञानं तदपेक्षया स्पष्टत्वे न्यूनमित्ययुक्तमित्यत आह ।। स्पष्टत्वं चेति ।
वाक्यार्थमञ्जरी
।। सर्वार्थविषयकमिति । स्वस्वातिरिक्ताशेषधर्मिगताशेषधर्मप्रकारकमित्यर्थः । अत्रेदं बोध्यम् । ईश्वरस्यानन्तरूपवज्ज्ञानान्यप्यनन्तानि सन्ति । मय्यनन्तगुणेऽनन्तगुणतोऽनन्त इत्यत्रानन्त गुण इति गुणानामपि प्रत्येकमानन्त्याभिधानात् । तत्र व्याप्तरूपं यथा सर्ववस्तुगतं तथा ज्ञानमप्यशेषपदार्थविषयकम् । यथा चैकैकवस्तुमात्रगता निरूपान्तराणि सन्ति । तथैकैकमात्रविषयकज्ञानान्तराणि । यथा चैकगतरूपाणां वस्त्वन्तरगतत्वस्य शक्त्यात्मना सर्वेऽपि न व्यक्त्यात्मना सत्त्वम् । तथा चैकविषयज्ञानानां वस्त्वन्तरविषयकत्वस्य शक्त्यात्मना सत्त्वेऽपि न व्यक्त्यात्मना सत्त्वम् । यथा च व्याप्तरूपाणामानन्त्यं तथा सर्वविषयकज्ञानमपि । एवमेकैकविषयाणामपि । एतेनेश्वरस्य सर्वपदार्थविषयं समूहालम्बनरूपज्ञानमेवास्ति नैकैकमात्रविषयकमिति न्यूनतेति परास्तम् । उक्तरीत्योभयोरपि सत्त्वात् । यद्वा यज्ज्ञानं सर्वार्थविषयं तदेकैकमात्रविषयकमपि भवति । ज्ञानेऽनन्तविशेषाणां सत्त्वात् । उक्तं च सुधायाम् । अनन्ते गुण इति प्रत्येकमनवधिकत्वमनन्तावान्तरविशेषवत्त्वं चोच्यत इति । अनुभूयते चास्मदादिसमूहालम्बनज्ञानेऽप्येकैकविषयत्वादिविशेषा इति ।। असार्वत्रिकमिति । सर्वधर्माप्रकारकमित्यर्थः ।। अनालोचन इति । मनःप्रणिधानं विनेत्यर्थः ।। सर्वविषयकमिति । सर्वधर्मप्रकारकमित्यर्थः ।
श्रीविट्टलभट्ट
केवलप्रमाणविभागमाह ।। तच्चतुर्विधमिति । महावैलक्षण्यज्ञापनार्थोऽयं विभागः । चतस्रो विधाः क्रमेणोद्दिशति । ईश्वरज्ञानमिति । प्रथमोद्दिष्टमीश्वरज्ञानं लक्षयति ।। तत्र सर्वार्थविषयकमिति । ज्ञानमिति शेषः । तत्र तेषु चतुर्विधेषु सर्वे ये परमार्थास्तद्विषयीकारिज्ञानमीश्वर ज्ञानमित्यर्थः । ईश्वरप्रत्यक्षेऽनुप्रमाणेऽतिव्याप्तिवारणाय ज्ञानपदम् । तत्त्वविवेकटीकायां परमार्थो दोषार्थज्ञमेव सार्वज्ञमित्यङ्गीकाराच्छुक्तिरूपाद्यपरमार्थाविषयकत्वेनासम्भविनिराकरणाय परमार्थपदम् । अस्मदादिज्ञानव्यवच्छेदाय सर्वेति विशेषणम् । न च सर्वं सामान्यतो यस्मात्सर्वैरप्यनुभूयत इति भगवत्पादोक्तेः सर्वेषामपि सामान्यतः सर्वार्थज्ञानसद्भावात्तस्मिन्नस्मदादिज्ञानेऽतिव्याप्तिरिति वाच्यम् । अशेषैर्विशेषैः सर्वार्थविषयकत्वस्य विवक्षितत्वात् । अत एव खलु प्रमाणलक्षणे पूर्वं स्वपर गताशेषमित्युक्तम् । अस्मदादिज्ञानं यथार्थमयथार्थं च दृश्यत इतीश्वरज्ञानमप्ययथार्थं किञ्चिदस्तीति प्रतीतिः स्यात् । तद्वारणायाह ।। नियमेन यथार्थमिति । ईश्वरज्ञानमित्यनुवर्तते । नियमोऽयथार्थत्वरूपपक्षान्तरव्यवच्छेदस्तेन यथार्थं यथार्थमेवेत्यर्थः । रामानुजादिमत इवेश्वरधर्मत्वात् तद्य्वतिरिक्तमिति भ्रमवारणायाह ।। तत्स्वरूपमिति । तस्येश्वरस्य स्वरूपमेवेत्यर्थः । भेदाभावेऽपि विशेषबलाद्धर्मधर्मिभावो युक्त इति बोध्यम् । नन्वीश्वरज्ञानस्य देवदत्तोऽपचदिति तत्तदैक्षतेति भवनमुच्यते । तत एव तद्विनाशीति कथं तस्येश्वरभेदराहित्यमित्यत आह ।। अनादिनित्यमिति । उत्पत्तिविनाशरहितमित्यर्थः । देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः । अवरुह्यावबोधात्मेति भागवतोक्त्यादिभिरागमेश्वरज्ञानस्य वृद्धिह्रासोत्पत्त्यादिराहित्यकथनाद्भूत्वाभवनविषयं तद्वाक्यमिति नेश्वरज्ञानस्य भूत्वा भावितरूपं कार्यत्वमित्यनुसन्धेयम् । अनादिनित्यत्वेऽप्यकाशादिवत्परतन्त्रमिति न मन्तव्यमित्याह ।। स्वतन्त्रमिति । स्वसत्तादावन्यानपेक्षमित्यर्थः । इतरज्ञानवन्नेश्वरज्ञानं सातिशयस्पष्टमित्याह ।। निरतिशयस्पष्टं चेति । स्पष्टत्वं च ज्ञानगतो ज्ञानविशेष इति स्वयमेव स्पष्टीकरिष्यति । लक्ष्मीज्ञानं लक्षयति ।। ईश्वरे सार्वत्रिकमिति । सर्वविषयमित्यनन्तरं ज्ञानमिति शेषः । ईश्वरे विषयेऽसार्वत्रिकं सर्वाविषयकमन्यत्रेश्वरादन्यत्र विषयेऽनालोचनेऽप्यालोचनाभावेऽपि सर्वविषयकं ज्ञानं लक्ष्मीज्ञानमित्यर्थः । लक्ष्मीप्रत्यक्षेऽतिव्याप्तिपरहिराय ज्ञानपदम् । ईश्वरज्ञानेऽतिव्याप्तिनिरासार्थमीश्वरेऽसार्वत्रिकमिति विशेषणम् । ईश्वरादन्यत्रेति विशेषणमसम्भवपरिहारार्थम् । ऋजुज्ञानेऽतिव्याप्तिपरिहारायानालोचनेऽपीत्युक्तम् । यद्यप्यतिशब्दव्यतिरेकेणापि तद्य्वावृत्तिर्भविष्यति । तथाऽपि ऋजुज्ञानेऽनालोचन एव सर्वविषयमिदं त्वालोचनाभावेऽपि सर्वविषयमिति स्पष्टम् । तद्य्वावृत्तिज्ञापनार्थं तदुपपादनमिति शुक्तिरूप्यादावसति भेदः । सन्नेवेति सिद्धान्तश्चेत्सर्वपदं परमार्थपरम् । अन्यथा शुक्तिरूप्याद्यविषयत्वेनासम्भवापातात् । यदि च भेदस्य धर्मिस्वरूपत्वादसति भेदः स्वसन्नेति दृष्टान्तः तदेश्वरादन्यत्रेश्वराद्भेदवतीत्यनेनैवासम्भवपरिहारात्सर्वपदं यथाश्रुतमेव । ऋजुलक्षणवाक्येऽप्येवमनुसन्धेयम् । लक्ष्मीज्ञानस्येश्वरविषये ईश्वरज्ञानतो वैलक्षण्यवद्याथार्थ्यनियमादित ईश्वराद्वैलक्षण्यमस्तीति न ज्ञेयमित्याह ।। नियमेन यथार्थं तत्स्वरूपमनादिनित्यं चेति । लक्ष्मीज्ञानमित्यनुवर्तते । याथार्थ्यनियमादिसाम्यवत्स्वातन्त्र्यादिसाम्यमप्यस्तीति शङ्का स्यात्तां वारयितुमाह ।। ईश्वरैकाधीनं तदपेक्षया स्पष्टत्वे न्यूनमिति । सत्यपि पारतन्त्र्यादौ नास्मदादिज्ञानवदनेकाधीनं नाप्यनेकज्ञानापेक्षया स्पष्टत्वे न्यूनमिति ज्ञापयितुमेकेति तदपेक्षयेति चोक्तम् । तदपेक्षयेश्वरज्ञानापेक्षयैवेत्यर्थः । नन्वीश्वरज्ञानापेक्षया लक्ष्मीज्ञानस्य न स्पष्टत्वे न्यूनता । ज्ञानस्य स्पष्टत्वं नाम सम्यगर्थविषयीकारित्वम् । तस्येश्वरादन्यत्र लक्ष्मीज्ञानेऽपि सत्त्वादित्यत आह ।। स्पष्टत्वं चेति । स्पष्टत्वं त्वपरोक्षत्ववज्ज्ञानगत एव विशेषः । ज्ञानगतो जातिविशेष एव न तु विषयोपाधिकः सम्यगर्थविषयीकारित्वरूपो विषयघटितो ज्ञानधर्मो नेत्यर्थः ।