प्रमाणपद्धतिः

(११) प्रमाणपद्धतिः

केवलानिष्टापादनमपि त्रेधा । दृष्टानुमितश्रुतहानापादनभेदात् । अदृष्टाननुमिताश्रुतकल्पनापादनभेदाच्च । एतदेव कल्प्यानेकत्वे कल्पनागौरवमित्युच्यते । दृष्टहानं यथा । यदि पर्वतो निरग्निकस्तर्हि निर्धूमः स्यादिति । एवमन्यस्याप्युदाहरणं शास्त्रे द्रष्टव्यम् । अनुमानत्वेऽपि तर्कस्यापादकासिद्धिरदूषणम् । पराभ्युपगममात्रस्य तत्र सिद्धिपदार्थत्वात् ।

जयतीर्थविजय

दृष्टानुमितेति द्वन्द्वान्ते श्रूयमाणो हानशब्दः प्रत्येकं सम्बध्यते । नन्वप्रामाणिककल्पनं चतुर्धेति वाच्यम् । कल्पनागौरवस्य तुरीयस्य सत्त्वादित्यत आह । एतदेवेति । एवमन्यस्यापीति । अनुमितहानादेरित्यर्थः । अनुमितहानं यथा । यदि देवदत्तो रूपद्रष्टा न स्यात् तदा चक्षुष्मान्न स्यादिति । श्रुतहानं यथा । यदीश्वरो न सर्वज्ञस्तर्हि न जगत्कर्ता स्यादिति । अदृष्टाननुमितेति । अदृष्टकल्पनं यथा । यदि पीतमुदकं परमन्तर्दहेत्तर्हि मामपि दहेत् । अविशेषादिति । अननुमितकल्पनं यथा । यदि वह्निर्जलाभिन्नः स्यात्तर्हि शीतलः स्यादिति । ननु तर्कस्यानुमानत्वे आपादकं निर्वह्नित्वं निर्धूमत्वं प्रति लिङ्गमिति वाच्यम् । निर्वह्नित्वस्य वह्निमति पर्वते पक्षेऽसिद्धत्वेन कथं तर्कस्यानुमानत्वमित्यत आह । अनुमानत्वेऽपीति । तर्कोऽनुमानं व्याप्तिबलेन परोक्षज्ञानजनकत्वादित्यनुमानादिति भावः । आपादकरूपलिङ्गस्यासिद्धत्वात्कथं प्रामाण्यमिति शङ्कां निराकरोति । आपादकासिद्धिरदूषणमिति । साधनरूपलिङ्गस्यैवासिद्धिर्दोषो न त्वापादकरूपस्य । यदापादकं तत्पराभ्युपगतमेव भवति । वस्तुतः पक्षे विद्यमानत्वे आपादकत्वव्याघातः । कथमन्यथा न चायं निर्धूमः । तस्मान्न निरग्निक इति विपर्यये पर्यवसानम् । तदभावे च तर्क एवाभासः स्यात् । न चात्र निरग्निकत्वं साधनत्वेनोपात्तम् । तथात्वे यदीति स्यादिति च न स्यात् । किन्तु निरग्निकत्वादिति स्यादिति । एवं तर्कस्य आपादकसत्त्वरूपासिद्धिर्न दोषायेत्यभिधायेदानीमापादाकासिद्धेर्दोषत्वमप्यङ्गीकृत्याप्यापादकस्यापि पक्षे सिद्धिं सम्पादयति । परेति । परस्य प्रतिवादिनो य आपादकनिर्वह्नित्वाभ्युपगमस्तस्यैव तर्के सिद्धिपदार्थत्वात् । असिद्धिविरोधिभूतसिद्धिपदार्थत्वादित्यर्थः । मात्रचाऽऽपादकस्य पक्षे सत्त्वं व्यवच्छिनत्ति ।

अयं भावः । आपादकरूपलिङ्गस्य निर्वह्नित्वादेः पक्षे पराभ्युपगतत्वमेव पक्षसम्बन्ध इति नासिद्धिः । युक्तं चैतत् । धूमरसादेः संयुक्तत्वसमवेतत्वादिना ज्ञानस्यैवाग्निरूपादिसाधकतया तत्र संयोगसमवाययोरिव निरग्निकत्वस्यापि पराभ्युपगतत्वेन ज्ञातस्यैवापादकतयाऽभ्युपगमस्यैव सम्बन्धतयोचितत्वाच्च । दृश्यते च कृत्तिकोदयादधोदेशे नदीपूरादिरूपसाधनानुमानस्यापि रोहिण्युदयोर्ध्वदेशादिरूपपक्षेऽभावेऽपि पक्षनिष्ठसाध्यसमानकालीनत्वपक्षनिरूप्याधोदेशत्वादिः । यथा नैयायिकमते शब्दोऽभिधेयः प्रमेयत्वादित्यनुमाने प्रमात्वमेव प्रमेयत्वमिति पक्षे ज्ञानत्वरूपप्रमेयत्वस्य पक्षीभूतेन शब्देन स्वरूपप्रत्यासन्नज्ञानसमवेतत्वादिश्च परम्परासम्बन्ध इति ।

भावदीपः

शास्त्रे द्रष्टव्यमिति । अनुव्याख्यानसुधादौ । तथा हि । ईश्वरः सर्वज्ञः सर्वकर्तृत्वादित्यत्र हेतुरस्तु साध्यं माऽस्त्वित्युक्ते यदि सर्वज्ञो न स्यात्तर्हि कार्यत्वादिलिङ्गानुमितसर्वकर्तृत्वमपि न स्यादिति । आनन्दमयमात्मानमुपसङ्क्रम्येत्यत्रातिक्रम्येति यद्यर्थः स्यादुपशब्दो न स्यादिति । अदृष्टकल्पनं यथा । भोजनं यदि न तृप्तिहेतुस्तर्हि ममापि न तृप्तिहेतुः स्यादिति । ईश्वरो न कर्ता स्यात्तर्हि दुःखी स्यादित्यनुमितकल्पनोपसङ्क्रम्येत्यत्र यद्यतिक्रम्येत्यर्थस्तर्हि श्रुतावतिशब्दः स्यादिति । कल्पनागौरवं तु तत्त्वमसीत्यत्र जीवब्रह्मैक्ये पदद्वयलक्षणा । श्रुतिप्रत्यक्षयोरतत्त्वावेदकत्वकल्पनेत्यादि ध्येयमित्यर्थः । ननु तर्कस्यानुमानत्वे आपादकं निरग्निकत्वं लिङ्गमापाद्यं निर्धूमत्वं लिङ्गीति वाच्यम् । तथा च हेतोरसिद्धिर्बाधोऽपसिद्धान्तश्च । प्रतिवादिना निरग्निकत्वनिर्धूमत्वयोरस्वीकाराद्धूमस्य प्रमितत्वाच्चेत्यत आह । अनुमानत्वेऽपीति । साधनरूपत्वे हि स्वसिद्ध्या भाव्यं न त्वापादनरूपत्वे । अन्यथा यदीति स्यादित्यापादनत्वव्याघातात् । ततस्तत्र च परसिद्धिमात्रमेवाङ्गमिति भावेनाह । पराभ्युपगमेति । तत्रापादने ।

श्रीविजयीन्द्रतीर्थ

केवलानिष्टभेदमाह । केवलेति । गौरवस्योभयत्रिकान्तर्भावमाह ।। एतदेवेति । ननु वह्न्यभावादेः पर्वतादावसिद्धत्वात्कथं तज्ज्ञानस्य प्रमात्वम् । धूमाभावादेश्च बाधकात्कथं प्रमाऽनुमितत्वं तज्ज्ञानस्येत्यत आह । अनुमानत्वेऽपीति ।। परेति । अभ्युपगमस्यैव सम्बन्धित्वमिति भावः ।

श्रीवेदेशभिक्षु

त्रेधेति । प्रमाणलक्षणटीकायामनुमितहानानुमितकल्पनयोरनुक्तिस्तु प्रायेण शास्त्रेषु तयोर्व्यवहाराभिप्रायेण ज्ञातव्यम् । एवमन्यस्यापीति । अनुमितहानं यथा । चक्षुष्मन्तं प्रत्यक्षीकृत्योच्यते । अयं यदि चाक्षुषसाक्षात्कारवान्न हि तर्हि चक्षुष्मानपि न स्यादिति । श्रुतहानं यथा । यदीश्वरो न सर्वज्ञस्तर्हि जगत्कर्ता न स्यादिति । अदृष्टकल्पनं यथा । यदा पीतमुदकमन्तर्धक्ष्यति तर्हि मामपि दहेदविशेषादिति । अननुमितकल्पनं यथा । यथाऽन्धं लक्षीकृत्योच्यते । अयं यदि रूपज्ञस्तर्हि चक्षुष्मान् त्स्यादिति । अश्रुतकल्पनं यथा । यदीश्वरो जीवाभिन्नस्तर्हि दुःखी स्यादिति द्रष्टव्यमिति भावः । ननु तर्कस्यानुमानत्वे आपादकं निरग्निकत्वं लिङ्गम् । आपाद्यं निधूर्मत्वं साध्यमित्यङ्गीकर्तव्यम् । न चेदं युक्तम् । लिङ्गस्यासिद्धत्वाल्लिङ्गिनश्च प्रत्यक्षबाधात् । धूमस्यैव तत्राङ्गीकृतत्वेन तदभावसाधनेऽपसिद्धान्तापत्तेश्चेत्याशङ्क्य निराकरोति । अनुमानत्वेऽपीति ।। आपादकासिद्धिरिति । स्वमत इति शेषः । तर्हि कथं तर्कप्रवृत्तिरित्यत आह । परेति । पराभ्युपगमेनैव तर्कः प्रवर्तते । परन्यायैश्च दूषणमित्युक्तत्वात् । अतः स्वमतेऽसिद्धिरदूषणमिति भावः । असाधनादित्यन्तरमनिष्टरूपे चानुमानिष्ठतोपपादकतया भूषणमेवेति वाक्यशेषः ।

इदमुक्तं भवति । साधनानुमानेऽसिद्ध्यादिकं दोषो नानिष्टप्रसञ्जनरूपे दूषणानुमाने । तत्र ह्यापादकस्य स्वमतेऽसिद्धेर्भूषणमेव पराभ्युपगमेनैव प्रवृत्तत्वात्तर्कस्य । एवमापाद्यस्य बाधितत्वादिकमपि न दोषः । तस्यापि साधनानुमाने एव दोषत्वात् । अस्माभिश्च निर्धूमो भवतीत्यसाधनात् । आपादनरूपे च दूषणानुमाने बाधादेरनिष्टतोपपादकत्वेन भूषणतैवेति । यद्वा । नात्र निरग्निकत्वरूपापादकस्य पक्षेऽसिद्धिः । यत्सर्वथा पक्षे न सम्बद्धं तदसिद्धमिति लोके प्रसिद्धम् । निरग्निकत्वं च पक्षे परेणाभ्युपगतम् । ततश्च पराभ्युपगमस्यैव यक्षानुरूपबलिन्यायेन सम्बन्धतया सिद्धिपदार्थत्वान्नासिद्धमित्याह । परेति ।

अभिनवामृतम्

।। अदृष्टानुमितेति । यत्सत्त्वं प्रत्यक्षानुपलब्धिविरोधि तत्कल्पनमेकविधा यस्य च सत्त्वमनुमितिरूपोपालम्भाभावविरोधि तत्कल्पनमित्यपरा । यस्य स्वसत्त्वं स्वशब्दोपालम्भाभावविरोधि तत्कल्पनमित्यपरा ।। त्रेधेति । अप्रामाणिककल्पनात्मकं केवलानिष्टापादनं त्रेधेत्यर्थः । एतेनादृष्टस्याप्यनुमानवेद्यत्वस्याननुमितायाः प्रत्यक्षवेद्यत्वसम्भवाददृष्टकल्पनादेः केवलानिष्टत्ववर्णनमयुक्तमिति परास्तम् । ननु तर्को नानुमानमसिद्धत्वेनाभासत्वादित्यत आह ।। अनुमानत्वेऽपीति । यथाऽधोदेशे नदीपूरस्यानुमानत्वेऽपि विवक्षितसिद्धेः सत्त्वात्पक्षावृत्तित्वं न दोषः । तथा तर्कस्यानुमानत्वेऽपि विवक्षितसिद्धेः सत्त्वेनापादकसत्त्वप्रयुक्तमसिद्धिर्न दोषायेति भावः । एतेनोत्तरवाक्ये सिद्धेर्व्युत्पादितत्वेनासिद्धेरेवाभावात्तददोषत्वमानविशेषत्ववर्णनं व्यर्थमिति परास्तम् ।

आदर्शः

।। एवमन्यस्यापीति । अनुमितहानं यथा । कस्मिंश्चित्पर्वते सुरभिधूमेन चन्दनप्रभववह्नावनुमिते सति तत्र पर्वते चन्दनानङ्गीकारे चन्दनप्रभववह्निर्न स्यादित्यापादनम् । श्रुतहानं यथा । तत्रैव चन्दनप्रभववह्निमाप्तवाक्याज्जानतस्तदभावः स्यादित्यापादनं द्रष्टव्यम् । नन्वत्राप्यापाद्यमानतर्कस्य समुचितदेशवृत्तित्वाभावादनुमापकत्वानुपपत्तिः । यत्र कुत्रापि विद्यमानस्य साध्यानुमितिजनकत्वे पर्वते आपाद्यमानस्य धूमाभावस्य महानसे वह्न्यनुमितिजनकत्वापत्तिः । यत्रापत्तिस्तत्रैव साध्यप्रमापकमिति चेत् । आपत्तेरपि नियतविषयकत्वानुपपत्तिः । आपादकस्यापि समुचितदेशवृत्तिस्वाभावादित्यत आह । तर्कस्यापादकासिद्धिरिति । तर्कसम्बन्ध्यापादकस्येत्यर्थः । यत्रापादकस्याङ्गीकारस्तद्विशेष्यकापत्तिजनकत्वमेवेति भावः ।

वाक्यार्थमञ्जरी

। केचित्तु कल्पनागौरवं पृथक् तर्कमाहुः । तन्मतनिरासायाह । एतदेवेति । अप्रामाणिककल्पनमेवेत्यर्थः । कल्प्यानेकत्व इति । कल्प्यस्याप्रामाणिकस्यानेकत्व इत्यर्थः ।

श्रीविट्टलभट्ट

। केवलानिष्टमापादनमपीति । अनवस्थात्वादिरहितं प्रामाणिकहानाप्रामाणिककल्पनारूपमनिष्टापादनं चेत्यर्थः ।। एतदेवेति । अदृष्टाननुमिताश्रुतकल्पनापादनमेवेत्यर्थः । अनुमितहानादेः किमुदाहरणमिति जिज्ञासायामाह ।। एवमन्यस्यापीति । अनुमितहानं यथा । यदीश्वरो न सर्वज्ञस्तदा दुःखी स्यादित्येवं शास्त्रोक्तानि तदुदाहरणानीति ज्ञातव्यम् । ननु तर्कः प्रमाणानामनुग्राहक एव न स्वयमनुमानभावेन प्रमाणम् । अनुमाने च तस्यापादके लिङ्गमापाद्यमनुमेयमिति वाच्यम् । न च तद्युक्तम् । आपादकस्य निर्वह्नित्वस्य पक्षे सिद्धान्तिनाऽनभ्युपगमेनासिद्धत्वात् । आपाद्यस्य निर्धूमत्वस्यानिष्टत्वेन बाधितत्वात् । धूमसद्भावस्य स्वयमभ्युपगतत्वेनापसिद्धान्ताच्च । न ह्यसिद्धं लिङ्गं भवति नापि बाधितसिद्धं न विरुद्धं चानुमेयं च भवितुमर्हतीत्यतिप्रसङ्गादित्यत आह । अनुमानत्वेऽपीति । तर्क्यतेऽनेनेति व्युत्पत्त्या तर्कोऽनुमानम् । अत एव निर्धूमत्वं तत्राङ्गीकार्यमिति ज्ञानं फलरूपमपि प्रमेव व्याप्याङ्गीकृतत्वस्य व्यापकाङ्गीकृतत्वेन विनाऽयोगादङ्गीकार्यत्वस्य तत्र सत्त्वात् । अपसिद्धान्तोऽपि सिद्धान्तविरुद्धसद्भावप्रतिपादन एव दोषो न तु तद्विरुद्धापादने । तदुक्तं प्रमाणलक्षणटीकायाम् । अतः परसिद्धन्यायेन परोक्तस्य दूषणीयत्वात् । दूषणानुमानेनापसिद्धान्ताद्युद्भावनीयमिति । अतो बाधोऽपसिद्धान्तश्चापाद्यस्य न दूषणमिति ।