प्रमाणपद्धतिः

(४४) प्रमाणपद्धतिः

।। २० ।। निरनुयोज्यानुयोगः । अतन्निग्रहप्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोगः । स चतुर्विधः । (१) छलम् (२) जातिः (३) हान्याद्याभासः (४) अप्राप्तकाले ग्रहणं चुति । (१) तत्र परोक्तस्य तदभिप्रेतार्थान्तरं परिकल्प्य तद्दूषणेन परोक्तभङ्गः छलम् । यथा गृष्टिविवक्षया गामानयेत्युक्ते पृथिवीविवक्षया गवानयनमशक्यमिति । एतदसङ्गतम् । विवक्षितदूषणस्यैवाकाङ्क्षितत्वात् । छलवाक्यस्याप्यर्थान्तरं परिकल्प्य गवानयनमित्यनन्वितमिति दूषणसम्भवेन स्वन्यायविरोधेऽप्यन्तर्भवति छलम् ।

जयतीर्थविजय

।। २० ।। अतन्निग्रहेति । तन्निग्रहोद्भावनमात्रस्य सदुत्तरेऽपि सत्त्वेन तत्रातिव्याप्तिवारणायातन्निग्रहप्राप्ताविति । तदुक्तं वरदराजेन

अतन्निग्रहसम्प्राप्तौ तन्निग्रहनिमित्ततः ।

निगृण्हतो निग्रहः स्यादचोद्यस्यानुयोगत ।। इति ।

निरनुयोज्यानुयोगस्यान्तर्भावं वक्तुं तं विभजते ।। स इति । (१) गृष्टिविवक्षया धेनुविवक्षया ।। गामानयेत्युक्त इति । केनचिद्वादिनेति शेषः ।। पृथिवीविवक्षयेति । गोशब्दस्य धेनुपृथिव्योरुभयोरपि शक्तत्वादिति भावः ।। अशक्यमिति । अन्येन प्रतिवादिना परोक्तभङ्ग इति शेषः । अन्तर्भावमाह ।। एतदिति ।। छलवाक्यस्येति । गवानयनमशक्यमिति वाक्यस्येत्यर्थः ।। अर्थान्तरमिति । गवेति तृतीयान्तं नयनमिति च पदद्वयं विभज्य नेत्ररूपमर्थान्तरं परिकल्प्येत्यर्थः ।

भावदीपः

।। २० ।। अतन्निग्रहेति । यो निग्रहो यन्निग्रहस्थानमुद्भाव्यते तस्याप्राप्तावपि तस्योद्भावनं निरनुयोज्यानुयोग इत्यर्थः । निग्रहशब्दोऽत्र निगृह्यते पराजीयतेऽनेनेति निग्रहस्थानपरः । (१) ।। गृष्टीति । ‘‘एकवारप्रसूता गौर्गुष्टिरित्यभिधीयत’’ इत्युक्तेः सकृत्प्रसूता गौर्गुष्टिः । छलोत्तरवादिना वादिवाक्यस्य तदनभिप्रेतार्थान्तरं परिकल्प्य यथा दूष्यते तथा छलवादिवाक्यस्यापि तदनभिप्रेतार्थान्तरं परिकल्प्य दूषयितुं शक्यत इति प्रागुक्तस्वन्यायविरोधरूपतृतीयजातावन्तर्भवति छलोत्तरमित्याह ।। छलवाक्यस्यापीति । षष्ठीतत्पुरुषाश्रयेण गवानयनमशक्यमित्युक्तछलवाक्येऽपि गवेति तृतीयान्तं नयनमिति चक्षुर्वाचकमित्यर्थमुपेत्यानन्वितमेतत्पदकदम्बकमिति दूषणसम्भवादिति भावः ।

श्रीविजयीन्द्रतीर्थ

।। २० ।। हान्यादीति । अनापतितनिग्रहायोग इत्यर्थः ।। अप्राप्तेति । अनवसरो निग्रहस्थानोद्भावनमित्यर्थः । (१) ।। तत्रेति । कल्पितदूष्यं दूषणं छलमित्यर्थः । एतस्यासङ्गतौ स्वन्यायविरोधरूपस्ववचनविरोधे चान्तर्भावमुपपादयति ।। एतदिति ।

श्रीवेदेशभिक्षु

।। २० ।। अतन्निग्रहेति । सर्वथा निग्रहस्थानाप्राप्तौ निग्रहस्थानान्तरप्राप्तावप्युद्भाव्यमाननिग्रहस्थानाप्राप्तौ चेत्यर्थः । (१) एकवारप्रसूता गौर्गुष्टिः । छलमसङ्गतमिति मूलानुसारेणाह ।। एतदसङ्गतमिति । अन्यच्चेति मूलमनुसृत्याह ।। छलवाक्यस्यापीति ।

अभिनवामृतम्

।। २० ।। अतन्निग्रहप्राप्ताविति । अत्र निग्रहपदेन निग्रहस्थानमुच्यते । स चासौ निग्रहस्तन्निग्रहप्राप्तिर्न तन्निग्रहप्राप्तिरतन्निग्रहप्राप्तिरिति विग्रहः । उद्भाव्यमाननिग्रहस्थानाप्राप्तौ तन्निग्रहस्थानोद्भावनं निरनुयोज्यानुयोग इत्यर्थः । तन्निग्रहाप्राप्तिश्च सर्वथा वोद्भावनकाले वा विवक्षितेति न क्वाप्यतिव्याप्तिरिति बोध्यम् ।। स चतुर्विध इति । ननु निरनुयोज्यानुयोगो हान्याद्याभास एव । अतन्निग्रहप्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोगः । प्रतिज्ञाहान्याद्यप्राप्तावपि भ्रान्त्यादिना तदुद्भावनं हान्याद्याभास इति लक्षणसाम्यात् । ततश्च निरनुयोज्यानुयोगस्त्रिविध इति वक्तव्य इति चेत् । सत्यम् । निरनुयोज्यानुयोगत्वं हान्याद्याभासत्वं च समनियतम् । तथाऽपि हान्याद्याभासत्वं छलजात्यप्राप्तग्रहणासङ्कीर्णोऽपि ध्येयम् । सद्भाववद्भवति विभाजकोपाधिः । (१) ।। गृष्टिविवक्षयेति । परोक्तमात्रं खण्डयामीति वदन्तं प्रति सभ्यसभापतिभिर्मिलित्वा दैवात्स्वप्रयोजनाया केनचिद्गामानयेत्युक्तं वाक्यं खण्डयेति समयबन्धे कृते यदाऽयं दूषयति तदेदमुदाहरणं बोध्यम् । एतेन समयबन्धानन्तरं गामानयेति प्रयोगे निमित्ताभावेन प्रयोगाभावात्कथञ्चित्प्रयोगे वा तद्दूषणस्यासङ्गतत्वाच्छलोदाहरणत्वेनैतदभिधानमयुक्तमिति परास्तम् । एकवारं प्रसूता गौर्गुष्टिस्तद्विवक्षया गामानयेत्युक्ते पृथिवीविक्षामारोप्य गवानयनमशक्यमिति वाचोभङ्ग्या प्रमाणविरोधरूपं निग्रहस्थानमाहेत्यर्थः ।। एतदसङ्गतमिति । एवं वादिनोऽसङ्गतिरूपदूषणेनैव दूषयितुं शक्यत्वेन छलमिति दूषणान्तरं न कल्पनीयमिति भावः ।। छलवाक्यस्यापीति । न केवलं छलवाक्यमसङ्गत्या दूषणीयमपि तु स्वन्यायविरोधेऽन्तर्भवति स्वरीतिविरुद्धत्वेनापि दूषयितुं शक्यमित्यर्थः । तत्कथमित्यत उक्तम् ।। छलवाक्यस्यापीति । इदमुक्तं भवति । छलवादिनत्वदनभिप्रेतदूषणेनापि पराजयोऽभिमतः । अभिप्रायान्तरं कल्पयित्वा दूषितत्वात् । एवं च स्वरीत्यैव स्वस्य पराजयो भवति । गवानयनमशक्यमिति तद्वाक्यस्यापि गवेति तृतीयान्तस्य नयनमशक्यमित्यनेनान्वयानुपपत्तिरिति दूषणसम्भवात् । अयमेव हि स्वन्यायविरोधः । यत्स्वाभ्युपगतप्रकारप्रतिबन्द्या स्वाभ्युपगतप्रमेयभङ्गः ।

आदर्शः

।। विवक्षितदूषणस्यैवेति । न च वाक्यात्प्रतीयमानार्थखण्डनमात्रेण तत्पराजयः । अन्यथा तत्तात्पर्यविषयीभूतार्थखण्डनेऽपि पराजयो न स्यात् । वादिना ममात्रार्थे तात्पर्यं नास्तीति वक्तुं शक्यत्वात् । तथा च वादिना नानार्थकवाक्यप्रयोगे कृते तस्योत्तराभावप्रसङ्ग इति वाच्यम् । प्रकरणादिज्ञापकसत्त्वे तद्विषयीभूतार्थस्यैव खण्डनीयत्वात् । तदभावे विकल्पमुखेन दोषस्य वक्तव्यत्वात् । तात्पर्यविषयीभूतार्थादन्यार्थदूषकत्वं न पराजयहेतुः । विकल्पमुखेन दूषणं वक्तुः पराजयादृष्टेर्विकल्पमकृत्वाऽपि हेतुविशेषणेऽपि वादिवाक्यात्प्रतीतार्थ सामान्यस्यादूष्यत्वमिति समयबन्धस्थले दूषयितुः पराजयादृष्टेः। तादृशसमयबन्धाभावेऽपि यदा मध्यस्थेनैवान्तरं प्रतीत्य तत्पक्षे दोषो नास्तीत्युक्तौ तत्पक्षं दूषयतः पराजयप्रसङ्गः । तस्मादजिज्ञासितोक्तिरूपासङ्गतिरेवेति सुष्टूक्तमिति बोध्यम् ।

वाक्यार्थमञ्जरी

(१) ।। गवानयनमिति । भावे तृतीयान्तं पदम् । नयनं नेत्रम् । अतो नान्वय इत्यर्थः ।। स्वन्यायविरोधेऽपीति । तद्वाक्यन्यायेन तद्वाक्यविरोधो हि स्वन्यायविरोधः । पराभिप्रेतादर्थान्तरं परिकल्प्यमानेन परोक्तदूषणं च तद्वाक्यन्यायस्तेन गवानयनमिति तद्वाक्यस्य विरोधादिति भावः ।

श्रीविट्टलभट्ट

।। अतन्निग्रहप्राप्ताविति । अस्योद्भाव्यमानस्य निगृह्यतेऽनेनेति व्युत्पत्त्या निग्रहस्थानस्याप्राप्तौ तस्य निग्रहस्थानस्योद्भावनमनभिधानमित्यर्थः । निरनुयोज्यानुयोगस्य सर्वत्रैकत्रान्तर्भावाभावात्तस्यानेकेष्वन्तर्भावकथनाय तल्लक्षणं कथयति ।। तत्रेति । उक्तप्रकारचतुष्टये परोक्तवाक्यस्य पराभिप्रायविषयादर्थान्तरं परिकल्प्य तस्य दूषणेन परोक्तस्य भङ्गो निराकरणं छलमित्यर्थः । पराभिप्रेतार्थदूषणेन पराभिहितवाक्यभङ्गस्य तद्दूषणाय छलत्ववारणाय तदभिप्रेतार्थान्तरं परिकल्प्येत्युक्तम् ।। १ ।। गृष्टिविवक्षयेति । एकवारप्रसूतगोविवक्षयेत्यर्थः ।। विवक्षितदूषणस्यैवेति । अभिप्रेतार्थदूषणस्यैवेत्यर्थः । छलस्य तृतीयजातावन्तर्भावमाह ।। छलवाक्यस्यापीति । पृथिवीविवक्षयोक्तस्य गवानयनं न शक्यमिति छलवाक्यस्याप्यर्थान्तरं छलवाद्यभिप्रेतार्थान्तरं जलानयनरूपार्थान्तरं परिकल्प्य गवानयनं न शक्यमिति लक्षणवाक्यमनन्वितमसम्बद्धमयुक्तमिति दूषणसम्भवेन स्वन्यायविरोधेऽपि छलमन्तर्भवतीत्यर्थः । यद्वा गवानयनमशक्यं न वाच्यमित्यनन्वितमसम्बद्धमिति दूषणसम्भवेनेत्यर्थः ।