उत्कर्षसमः

(४८) प्रमाणपद्धतिः

।। २० ।। (३) ।। उत्कर्षसमः ।। वादिसाधनसामर्थ्येन साध्यस्येव व्याप्तिं विना कस्यचिदनिष्टधर्मस्य दृष्टान्तात्पक्ष उत्कर्ष उत्कर्षसमः । यदि धूमवत्त्वान्महानसवदग्निमान् पर्वतस्तर्हि तत एव तद्वदेव स्थाल्यादिमानपि स्यादिति । अत्रापि व्याप्तिवैकल्यात्तर्काभासोऽयमित्युत्तरं वक्तव्यम् । साहचर्यमात्रेण तर्कस्य प्रवृत्तेः किं व्याप्त्येति वदतः स्वन्यायविरोधेन व्याघात इति ।

जयतीर्थविजय

।। वादिसाधनेति । साध्यस्येत्यनन्तरं वादिसामर्थ्येनेत्यावर्तते । व्याप्तिं विनेति सत्तर्कव्यावृत्त्यर्थम् । दृष्टान्तात्पक्ष उत्कर्षो दृष्टान्ते यथाऽस्ति तथा पक्षेऽपि स्यादित्यापादनमित्यर्थः । तदुक्तं वरदराजेन ।

कस्याप्यनिष्टधर्मस्य वादिसाधनशक्तितः ।

दृष्टान्तात्पक्ष उत्कर्ष उत्कर्षसम उच्यत ।। इति ।

असाधारणसाधारणसामर्थ्ये दर्शयति ।। अत्रापीत्यादिना ।

भावदीपः

वादिसाधनसामर्थ्येनेत्येतत्साध्यस्येत्यत्रेव कस्यचिदवशिष्टधर्मस्येत्यादावप्यन्वेति । उत्कर्षः सद्भावापादनं वाद्युक्तहेतुना पक्षे साध्यस्य दृष्टान्तादुत्कर्षो यथा तथा तेनैव हेतुना दृष्टान्तात् पक्षेऽनिष्टधर्मस्योत्कर्षः सत्त्वापादनमित्यर्थः । हेत्वन्तरेण कस्यचिद्धर्मस्य पक्षे सत्त्वापादनरूपविशेषसमव्यावृत्तये वादिसाधनसामर्थ्येनेत्युक्तम् । सदुत्तरव्युदासाय व्याप्तिं विनेति । तत एव धूमवत्त्वादेव । तद्वदेव महानसवदेवेत्यर्थः ।। अत्रापीति । एतज्जात्युत्तरेऽपीत्यर्थः । इत्युत्तरं वक्तव्यमित्यन्वयः ।। साहचर्येति । आपाद्यापादकयोरिति योज्यम् । इति वदतो जातिवादिनो व्याघात इत्युत्तरं वक्तव्यमित्यनुषङ्गः । कथमित्यत उक्तम् ।। स्वन्यायविरोधेनेति । धूमवत्त्वानुमानमसाधकं मदुक्ततर्कविरुद्धत्वात् । तर्कविरुद्धनित्यत्वासाधककृतकत्वरूपानुमानान्तरवदिति जातिवादिनोक्ते प्रतिषेधानुमानेऽपि तर्कविरुद्धत्वरूपत्वदुक्तहेतुना नित्यत्वासाधककृतकत्ववदसाधकत्वमिव तर्कविरुद्धत्वहेतुनैव दृष्टान्तभूतकृतकत्ववदमूर्तवृत्तित्वमपि धूमवत्त्वे स्यादिति स्वोक्तन्यायेनैव व्याप्तिहीनतर्केण जातिवाद्यनिष्टापादनसम्भवादेवंरूपस्वन्यायविरोधेनेत्यर्थः । एतेनेयमपि जातिरस्मदुक्ततृतीयजात्यन्तर्गतेति सूचितम् । एवमग्रेऽपि ।

श्रीविजयीन्द्रतीर्थ

।। वादीति । उत्कर्षापादनं साध्यस्यैवेति स्वरूपकथनम् । प्रकरणसमपरिहाराय व्याप्तिं विनेति । दृष्टान्तादिति स्वरूपकथनम् । साधर्म्यसमपरिहाराय वादीति ।। पक्ष इति । पक्ष इति स्वरूपकथनम् । एवं च साहचर्यमात्रप्रयुक्तगम्यगमकत्वयोः साध्यसाधनयोरन्यतरेण पक्षदृष्टान्तयोरन्यतरत्वानिष्ठधर्मापादनमुत्कर्षसम इति पर्यवसितं ज्ञेयम् । तथा च साध्येन यत्रोत्कर्षापादनं तस्यान्यजात्यन्तर्गतस्य सङ्ग्रहः । दृष्टान्तेऽनिष्टधर्मप्रसञ्जनस्य च सङ्ग्रहः ।

श्रीवेदेशभिक्षु

।। वादिसाधनेति । अत्र विशेषणसमव्यवच्छेदाय वादिसाधनसामर्थ्येनेत्युक्तम् । तत्र च हेत्वन्तरेणोत्कर्षं वक्ष्यति । तदुत्तरव्यावृत्त्यै व्याप्तिं विनेति । शिष्टं स्वरूपकथनायैवेति द्रष्टव्यम् ।। अत्रेति । तथा च युक्ताङ्गहानिरिति भावः ।। स्वन्यायेति । तथा च तृतीय जात्यन्तर्भाव इति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ।

अभिनवामृतम्

।। वादिसाधनसामर्थ्येनेति । वादिनो यत्साधनं तत्सामर्थ्येन पक्षधर्मताबलेन साध्यस्येव दृष्टान्ते साधनसहचरितस्य व्याप्तिं विनाऽयं कस्यचिदनिष्टधर्मस्य पक्षे उत्कर्ष उत्कर्षसम इत्यर्थः । अविशेषसमाद्भेदोपपादनाय वादिसाधनसामर्थ्येनेति । प्रकरणसमहेत्वाभासं व्यावर्तयितुं व्याप्तिं विनेति । साध्यसमव्यावृत्तये दृष्टान्तापेक्षयोत्कर्ष इत्यर्थः । पर्वतो वह्निमान्प्रमेयत्वान्महानसवदित्युक्ते तत एव तद्वदेव द्रव्यमपि स्यादित्युत्कर्षसमाभासं व्यावर्तयितुं कस्यचिदनिष्टधर्मस्येत्युक्तम् । जात्युत्थानबीजसूचनाय साध्यस्येवेति । अनेन पक्षेऽविद्यमानस्य दृष्टान्ते वादिहेतुसहचरितस्य धर्मस्य साधने पाक्षिकजयबुद्धिरुत्थानबीजमुक्तं भवति । पर्वतोऽग्निमान्धूमवत्त्वादिति प्रयोगे धूमवत्त्वे वह्निनेष्टस्थाल्यादिना सहचरितं महानसे उपलब्धमिति स्थाल्यादिसहकृतमेव पर्वते वह्निं साधयेत् । न वाद्यभिमतं केवलवह्निमिति विशेषप्रमाणविरुद्धत्वमारोप्यम् । ततो भ्रान्त्युत्पादः फलमित्यूह्यम् । यथा यदि धूमवत्त्वान्महानसवदिति । नन्विदमपि किं साधनानुमानमुतापादनम् । नाद्यः । यदि तर्हीत्यादिशब्दवैय्यर्थ्यापातात् । व्याप्तिवैकल्यात्तर्काभासोऽयमित्युत्तरग्रन्थविरोधाच्च । द्वितीयेऽपि वक्तव्यम् । किं धूमवत्त्वमापादकमुत धूमवत्त्वान्महानसवदनग्निमान्पर्वत इति विशिष्टम् । नाद्यः । यदि धूमवान्स्यात्तर्हि स्थाल्यादिमान्स्यादित्येतावता पूर्णत्वेन शेषवैयर्थ्यप्रसङ्गात् । विपर्यये पर्यवसानायोगाच्च । धूमवान् स्यादिति वक्तव्येन पञ्चम्यन्ते प्रयोगानुपपत्तेश्च । न द्वितीयः । यदि वादिसामर्थ्येनेत्यस्य रिक्तत्वापातात् । न हीदं वादिसाधनं येनात्र तत्सामर्थ्यं स्यात् । आपाद्यापादकयोः साहचर्याभावेन साहचर्यमात्रेण तर्कस्य प्रवृत्तेरित्युत्तरग्रन्थविरोधाच्च । आपाद्ये तत एव तद्वदेवेत्यस्य वैय्यर्थ्यापाताच्चेति चेन्मैवम् । न ब्रूमो वयमिदं साधनानुमानमिति । येन यद्यादिशब्दवैय्यर्थ्यं स्यात् । नापि तर्क इति । येनोक्तदोषः स्यात् । किं नाम धूमवत्त्वान्महानसवदग्निमान्पर्वत इति वादिसाधनमनूद्य तर्हीत्यादिना तस्य दूषणमुच्यत इति । न चास्मिन्पक्षे यद्यादिशब्दवैय्यर्थ्यमिति वाच्यम् । यदीदमुच्यते तर्हीदमुच्यते इत्यनुवादः । प्रत्युत्तरज्ञापनार्थत्वात् । न च व्याप्तिवैकल्यात्तर्काभासोऽयमित्युत्तर ग्रन्थविरोध इति वाच्यम् । वादविशेषस्य जल्प इति नामवद् दुष्टप्रमितिसाधनानुमानस्य प्रयोगप्रकारः पर्वतो न केवलं वह्निमान् । अपि तु स्थाल्यादिमानपि स्यात् । धूमवत्त्वान्महानसवदिति ।। अत्रापीति । परचित्तवर्तिनो व्याप्त्यनभ्युपगमस्याद्यापि ज्ञातुमशक्यत्वात् । व्याप्तिराहित्यमेव प्रथममुद्भाव्यम् ।। स्वन्यायविरोधेनेति । जातिवादिना स्वाभ्युपगतप्रमेयान्तरं विहाय व्याप्तेः क्वचिदङ्गीकृतत्वेन तत्प्रतिबन्दीविरोधइत्यर्थः ।

आदर्शः

उत्कर्षसमं लक्षयति ।। वादीति ।। साहचर्यमात्रेणेति । किं व्याप्त्येति शतशः समानाधिकरणयोरपि व्यभिचारस्य बहुस्थलेषु दर्शनाद्य्वाप्तिनिश्चयः कथमपि न सम्भवतीत्यभिमानः । साहचर्यमात्रेण साधयतीति भ्रम उत्थानबीजं विशेषविरुद्धत्वमारोप्यम् । विशेषविरुद्धत्वं नाम विवक्षितसाध्यस्य सहचरितविशेषस्य साधनयोग्यत्वाभाव इत्यर्थः । प्रतितर्कप्रयोज्यप्रकृतसाध्यमात्र साधनानुकूलशक्त्यभाव इति यावत् ।

वाक्यार्थमञ्जरी

।। तर्हि तत एवेति । तथा च तर्कपराहतं धूमवत्त्वमिति भावः ।। उत्कर्ष इति । तद्वत्त्वापादनमित्यर्थः ।। स्वन्यायविरोधेनेति । प्रतिवादिना ह्युक्तरीत्या तर्कपराहतिमभिधाय धूमो न साध्यसाधकस्तर्कपराहतत्वाज्जगन्मिथ्यात्वसाधकदृश्यत्ववत् । तद्धि यदि जगन्मिथ्या स्यात्तर्हि तदन्तर्गतमनुमानमपि मिथ्या स्यादिति तर्कपराहतमिति वादिसाधनस्यासाधकत्वं साधनीयम् । तत्रापि तर्कपराहतिरायाति । तथा हि । यदि तर्कपराहतत्वाद्दृश्यत्ववद्धूमः साध्यसाधको न स्यात्तर्हि तत एव तद्वदेव दृश्यत्ववानपि स्यात् । न चात्र व्याप्त्यभाव इति वाच्यम् । साहचर्यमात्रेण तर्कप्रवृत्तेर्न व्याप्त्या प्रयोजनमिति त्वयैवोक्तत्वादिति । तथा च साहचर्यमात्रेण तर्कप्रवृत्तिरिति तद्वाक्यन्यायेन धूमो न साध्यसाधकस्तर्कपराहतत्वादिति तद्वाक्यस्यविरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।

श्रीविट्टलभट्ट

।। वादिसाधनसामर्थ्येनेति । वादिप्रयुक्तलिङ्गबलेन । वादिप्रयुक्तहेतुनेति यावत् । अनिष्टधर्मस्य पक्षेऽनङ्गीकृतस्य धर्मस्येत्यर्थः । दृष्टान्तात्पक्षे उत्कर्षो नाम दृष्टान्त इव पक्षे सद्भावापादनमित्यर्थः । दृष्टान्तगतस्य पक्षेऽविद्यमानस्य कस्यचिद्धर्मस्य हेत्वन्तरेण पक्षे सद्भावापादनरूपाया अविशेषसमाया व्यावृत्त्यर्थं वादिसाधनसामर्थ्येनेति विशेषणमुपात्तम् । व्याप्तिमङ्गीकृत्य वादिसाधनबलेनाविष्टधर्मस्य दृष्टान्तवत्पक्षे सद्भावापादनस्य सदुत्तरत्वेन तद्य्वावृत्त्यर्थं व्याप्तिं विनेति विशेषणम् ।। अत्रापीति । जातिवाद्युक्तेऽनिष्टस्थाल्याद्यापादके धूमवत्त्वेऽपि व्याप्तिवैकल्यासम्पाद्येन स्थाल्यादिमत्त्वेन व्याप्तिराहित्यादयं तर्काभास इति दूषणं वक्तव्यमित्यर्थः ।। साहचर्यमात्रेणेति । आपाद्यापादकयोः सामानाधिकरण्येनैव प्रवृत्तेः तर्कप्रवृत्तिसम्भवात्किं व्याप्त्येति वदतोऽव्यभिचरितत्वविशिष्टसाहचर्येण किं प्रयोजनमिति वदतो जातिवादिनः स्वन्यायविरोधेन स्वोक्तन्यायेन स्ववचनस्य विरोधेन स्वव्याघातो भवतीत्यर्थः । इयमपि जातिः स्वन्यायविरोधात्मकतृतीयजातावन्तर्गतैवेति हृदयम् । कथमत्र स्वन्यायविरोध इति चेत् । इत्थम् । सहचारमात्रेणानिष्टप्रसङ्गरूपतर्कप्रवृत्तिमभ्युपेत्य तर्कविरोधाद्वाद्यनुमानं दूषयतो जातिवादिनो नेदं धूमवत्त्वं स्वसाध्यसाधकं विरुद्धत्वान्नित्यत्वासाधककृतकत्ववदिति विवक्षितम् । अत्रापि दृष्टान्तभूते नित्यत्वसाधके कृतकत्वे विरुद्धत्वरूपप्रतिषेधहेतुरसाधकत्वेनैवामूर्तावृत्तित्वेनापि सहचरितो दृष्ट इत्यनिष्टस्य मूर्तवृत्तित्वस्यापि त्वदुक्तसाधनेन विरुद्धत्वेन पक्षे धूमवत्त्वे सहचारमात्रेणापादन सम्भवात्स्वन्यायविरोधो भवतीति ।