प्रमाणपद्धतिः

(१४) प्रमाणपद्धतिः

द्विविधा किल व्याप्तिः । अन्वयतो व्यतिरेकतश्चेति । साधनस्य साध्येन व्याप्तिरन्वयः । साध्याभावस्य साधनाभावेन व्याप्तिर्व्यतिरेकः । तत्रास्य केवलमन्वय एवास्ति । यत्प्रमेयं तदभिधेयं यथा घट इति । न तत्र व्यतिरेकः । यदभिधेयं न भवति तत्प्रमेयं न भवतीति निदर्शनाभावात् । सर्वस्याप्यभिधेयत्वेनानभिधेयासम्भवात् । तेनैतत्केवलान्वयीत्युच्यते ।

जयतीर्थविजय

केवलान्वयिकेवलव्यतिरेकीत्यन्वर्थसंज्ञासिद्ध्यर्थं तयोः परस्परभेदार्थं च नैयायिकोदाहृत व्याप्तिद्वैविध्यमाह ।। द्विविधेति । किलेति नैयायिकानपहसति ग्रन्थकारः । वार्तामात्रमेवेदम् । विचार्यमाणे व्याप्तिद्वैविध्यमप्रामाणिकमिति भावः । वार्तासम्भाव्ययोः किलेत्यभिधानात् । यदर्थं व्याप्तिद्वैविध्यं न्यरूपयत्तदाह ।। तत्रेति । तयोर्व्याप्त्योर्मध्य इत्यर्थः ।। निदर्शनाभावादिति । निर्दिश्यते व्याप्यव्यापकभावोऽत्रेति व्युत्पत्त्या निदर्शनं दृष्टान्तः । तदभावादित्यर्थः ।

भावदीपः

ननु प्रमेयत्वहेतोः सर्वत्र सत्त्वेन केवलान्वयित्वेऽपि गुणत्वहेतोरसार्वत्रिकत्वात्कथं केवलान्वयित्वमित्यतो न हेतोः सार्वत्रिकत्वादिना केवलान्वयित्वतदभावौ । किन्तु केवलान्वयव्याप्तिमत्त्वेनैवेति भावेन व्याप्तिविभागपूर्वं केवलान्वयित्वं द्वयोरपि हेत्वोर्व्यनक्ति ।। द्विविधेति । किलेति प्रसिद्धिमाह ।। तत्रास्येति । केवलान्वयित्वेनाभिमतस्य प्रमेयत्वादेरित्यर्थः ।। न तत्रेति । केवलान्वयिहेतावित्यर्थः ।

श्रीवेदेशभिक्षु

केवलान्वयशब्दवाच्यतायां निमित्तं वक्तुमाह ।। द्विविधेति ।

श्रीविट्टलभट्ट

शब्दोऽभिधेयः प्रमेयत्वाद्गुणत्वादित्यनयोर्हेत्वोः केवलान्वयीति संज्ञायां कि ं निमित्तमिति जिज्ञासायां व्याप्तिद्वैविध्यकथनपूर्वकं तन्निमित्तमाह ।। द्विविधा केवलेत्यादिना । अन्वयव्यतिरेकशब्दार्थजिज्ञासायामाह ।। साधनस्येति । यथा घट इतीति । निदर्शनादिति शेषः ।। प्रमेयमपि न भवतीति । यथाऽमुक इति शेषः । निदर्शनाभावाद् दृष्टान्ताभावादित्यर्थः ।। तेनैतदिति । तेन केवलमन्वयत्वेनैतदुदाहृतमनुमानद्वयमित्यर्थः । गुणत्वहेतावप्यन्वयमात्रसद्भावादुक्तरीत्या सुगम इत्युक्तनिमित्तमस्तीत्यनुसन्धेयम् ।