प्रमाणपद्धतिः
(७५) प्रमाणपद्धतिः
पक्षधर्मत्वासिद्धोऽनेकविधः । यथा शब्दोऽनित्यश्चाक्षुषत्वादित्यादि । तत्र व्यधिकरणासिद्धो न दूषणमित्युक्तमेव । व्यर्थविशेषणासिद्धोव्यर्थविशेष्यासिद्धश्चाधिक्येऽन्तर्भवतः । भूरियं शशविषाणोल्लिखिता भूत्वादित्यप्रसिद्धविशेषणासिद्धिस्तु दोषान्तरासङ्कीर्णोदाहरणाभावान्न हेत्वाभासः । इतरः पक्षधर्मत्वासिद्धोऽसिद्धावन्तर्भवति । एतत्प्रमित्यासिद्धो यथा । धूमबाष्पाविवेके धूमवत्त्वादिति । अस्याप्यसिद्धिरेव । पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति । अयमपि साध्यसम्बन्धाभावे सति तदभावसम्बन्धित्वादव्याप्तः ।
जयतीर्थविजय
ननु व्यधिकरणासिद्धस्य कुत्रान्तर्भाव इत्याशङ्क्य तस्य दोषत्वमेव नेत्याह ।। तत्रेति । पक्षधर्मत्वासिद्धादीनां मध्य इत्यर्थः ।। इत्युक्तमेवेति । न तु पक्षधर्मतानियम इति पूर्वग्रन्थ इत्यर्थः ।। इतर इति । शशविषाणमयोऽग्निमान्धूमवत्त्वादित्यादिरित्यर्थः ।। असिद्धावन्तर्भवतीति । समुचितदेशेऽवृत्तित्वादिति भावः ।
भावदीपः
।। पक्षधर्मत्वासिद्धोऽनेकविध इति । स्वरूपासिद्धव्यधिकरणासिद्ध विशेषणासिद्धविशेष्यासिद्धाप्रसिद्धविशेषणासिद्धभेदेनानेकविध इत्यर्थः । तान्क्रमेणोदाहृत्यान्तर्भावयोग्यमन्तर्भावयति ।। यथेत्यादिना । चाक्षुषत्वादित्यादि । स्वरूपासिद्धस्येतर इत्यादिनाऽन्तर्भावं वक्ष्यति । तत्रेति । असिद्धेषु मध्य इत्यर्थः ।। उक्तमेवेति । साध्यव्यधिकरणानामपि व्याप्त्युपपादनप्रस्तावे उक्तमित्यर्थः ।। व्यर्थेति । शब्दो नित्यः सामान्यवत्त्वे सति कृतकत्वात् । कृतकत्वे सति सामान्यवत्त्वादित्यनयोर्व्यर्थविशेषणत्वादिनाऽसिद्धत्वेन व्यवह्रियमाणौ आधिक्याख्यनिग्रहस्थाने प्रागुक्तेऽन्तर्भूतावित्यर्थः ।। इतर इति । व्यधिकरणासिद्धादिरूपपक्षधर्मत्वासिद्धादन्यः स्वरूपासिद्ध इत्यर्थः । प्राग्विभक्तं चतुर्थमुदाहृत्यान्तर्भावयति ।। एतत्प्रमितीति ।। अस्यापीति । एतत्प्रमित्यसिद्धस्याध्यासिद्धिरेव दोषो नान्य इत्यर्थः । असिद्धस्यान्तर्भावोक्तिः ।।
श्रीविजयीन्द्रतीर्थ
।। तत्र व्यधिकरणासिद्धो न दूषणमित्युक्तमिति । न तु पक्षधर्मतानियम इत्यत्रेत्यर्थः । उपरि सविता भूमेरालोकवत्त्वादित्यादावनुमितेरप्रत्यूहत्वादिति भावः ।। इतर इति । समुचितदेशावृत्तिरित्यर्थः ।
श्रीवेदेशभिक्षु
तृतीयमसिद्धिभेदमाह ।। पक्षधर्मत्वासिद्ध इति । चाक्षुषत्वादीत्यादिपदेन विशेषणविशेष्यासिद्धव्यधिकरणासिद्धव्यर्थविशेषणविशेष्यासिद्धाप्रसिद्धविशेषणासिद्धानां ग्रहणम् ।। तत्र व्यधिकरणेति । न तु पक्षधर्मतानियम इत्यत्रेत्यर्थः । तत्र हि भिन्नदेशकालयोरप्यूर्ध्वदेशवृष्टिनदीपूरयोर्हेतुहतुमद्भावस्य सांव्यावहारिकत्वदर्शनादित्युक्तमिति भावः ।। दोषान्तरेति । प्रमाणविरोधाव्याप्त्यसङ्कीर्णोदाहरणाभावादित्यर्थः ।। इतरः पक्षधर्मतासिद्ध इति । विशेषणविशेष्यासिद्धिमानित्यर्थः । विशेषणविशेष्ययोरसिद्धौ । विशिष्टरूपलिङ्गस्याप्यसिद्धिरेवेति भावः । चतुर्थमसिद्धं दर्शयति ।। प्रमितीति ।। धूमबाष्पेति । धूमवति धूमसन्देहदशायामित्यर्थः ।। अयमपीति । समुचितस्थले लिङ्गस्याप्रमितेरसिद्धलक्षणत्वेनोक्तत्वादित्यर्थः । व्यतिरेक्यनुमानव्यावृत्त्यै साध्यासाधक इति । असिद्धानैकान्तिकव्यवच्छेदायोत्तरभागः ।
अभिनवामृतम्
।। अनेकविध इति । स्वरूपासिद्धः (१) व्यधिकरणासिद्धः (२) व्यर्थविशेषणासिद्धः (३) व्यर्थविशेष्यासिद्धः (४) विशेष्यासिद्धः (५) विशेषणासिद्धः (६) भागासिद्धः (७) अप्रसिद्धविशेषणासिद्धः (८) इत्यनेकविध इत्यर्थः ।। व्यधिकरणासिद्ध इति । ऊर्ध्वदेशो वृष्टिमान् । अधोदेशे नदीपूरादिति । व्यधिकरणासिद्धेरव्याप्त्याद्यसङ्कीर्णमुदाहरणम् । तत्तावद्दुष्टमेव सांव्यवहारिकत्वात् । यत्तु शब्दो नित्यो घटस्य कृतकत्वादिति सङ्कीर्णमुदाहरणम् । तदव्याप्त्यैव दुष्टमिति । व्यधिकरणासिद्धो न दूषणमित्युक्तप्रायमेवेत्यर्थः ।। दोषान्तरासङ्कीर्णेति । अप्रसिद्धविशेषणासिद्धोदाहरणे व्याप्त्यादिदूषणान्तरं नियतमेवेति भावः ।। धूमबाष्पेति । धूमवति किमयं धूम इति बाष्प इति सन्देहदशायां प्रयुक्तो न स्वरूपासिद्धो नाज्ञातासिद्धः किन्तु प्रमाविरहात्प्रमित्यसिद्धः । अयमप्यसिद्धिरेवेति समुचितस्थले । लिङ्गस्याप्रमितेरसिद्धत्वादसिद्धिर्भवत्येवेत्यर्थः ।। पक्षविपक्षयोरेवेति । पक्षविपक्षयोर्वर्तमानः सपक्षे विद्यमानो विरुद्ध इत्यर्थः । न चेदं साध्यसाधकम् । सपक्षावृत्तित्वे सति पक्षविपक्षवृत्तित्वादित्यनुमाने विशेषणवैय्यर्थ्यमिति न वाच्यम् । विरुद्धत्वादित्यखण्डोपाधेरेव हेतुतया विवक्षितत्वेन विशेषणवैय्यर्थ्यशङ्कानवकाशात् । अन्यथा प्रमेयत्वादिखण्डोपाधावविभज्य वैय्यर्थ्यशङ्काप्रसङ्गः ।
आदर्शः
।। आधिक्येऽन्तर्भवत इति । नन्वन्येन कृतकार्यस्य पुनर्वचनमाधिक्यम् । न च व्यर्थविशेषणस्थले पुनः प्रयोजनं विनोक्तिरस्ति । प्रमेयधूमादित्यादेरेकपदत्वात् । व्यर्थविशेषणस्य पूर्वमुक्तत्वाच्चेति चेन्मैवम् । प्रमेयधूमपदस्य शुद्धधूमपदापेक्षया भिन्नत्वेन तेन कृतकार्यत्वात्प्रमेयधूमपदस्याधिक्यलक्षणसम्भवात् । पदस्य सकृदुच्चरितत्वेऽपि प्रमेयपदधूमपदयोः शक्तिग्रहस्य प्रमेयधूमरूपविशिष्टोपस्थितावावश्यकत्वेन तत्र धूमपदजन्यधूमोपस्थितेः प्राथमिकत्वात् । विशिष्टज्ञानेविशेषणविशेष्योपस्थित्योः कारणत्वात् । तथा च धूमज्ञानेन कृतकार्यस्य विशिष्टज्ञानस्य प्रयोजकोच्चारणविषयत्वादाधिक्यान्तर्गतिः । वस्तुतस्तु स्वनिवर्त्याकाङ्क्षानिवर्तकपदान्तरविशिष्टत्वस्यैवाधिपदार्थत्वेन तच्च प्रकृते सम्भवतीत्याशयः ।
श्रीविट्टलभट्ट
।। पक्षधर्मत्वासिद्धोऽनेकविध इति । स्वरूपासिद्धिभागासिद्ध्यधिकरणासिद्ध्यप्रसिद्धविशेषणासिद्धिभेदेनानेकप्रकार इत्यर्थः ।। चाक्षुषत्वादित्यादीति । रूपशब्दौ च नित्यौ चाक्षुषत्वादित्यादिरादिशब्दार्थः ।। तत्रेति । स्वरूपासिद्धादिष्वित्यर्थः । उक्तमेव साध्यव्यधिकरणस्यापि हेतोर्व्याप्तेः पक्षधर्मतानियमाभावस्य नोक्तत्वाद्य्वधिकरणासिद्धो न दोष इत्युक्तमेवेति बोध्यम् । यद्यप्येवं सत्ययं पर्वतोऽग्निमान्महानसस्य धूमवत्त्वादित्यादेरपि साधकत्वप्रसङ्गो दोषः । तथाऽपि महानसेत्यस्यैव वैय्यर्थ्यादस्याधिका नैव दुष्टता । किञ्च यत्र यत्र धूमस्तत्र तत्राग्निरिति व्याप्तेः सामानाधिकरण्यगर्भत्वादन्यगतधूमस्यान्यगतेन वन्हिना व्याप्तेरभावाद्दुष्टत्वमिति नातिप्रसङ्ग इति ध्येयम् ।। आधिक्येऽन्तर्भवत इति । अपेक्षिताधिकाभिधानरूपत्वादुभयस्याधिक्येऽन्तर्भाव इति भावः । दोषान्तरासङ्कीर्णोदाहरणाभावादिति । प्रमाणबाधाव्याप्त्यादिरूपदोषद्वयरहितोदाहरणाभावादित्यर्थः । त्रिदोषस्याप्रसिद्धत्वे साध्यरूपविशेषणाभावेन साध्यविशिष्टस्य प्रतिज्ञार्थस्य बाधितत्वाद्य्वाप्त्यभावाद्वाऽस्य दुष्टत्वेनाप्रसिद्धविशेषणत्वेनास्य दुष्टत्वकल्पकाभावेन रूपेणायं हेत्वाभास इति भावः ।। इतरः पक्षधर्मत्वासिद्धाविति । व्यधिकरणासिद्ध्यादिरूपपक्षधर्मत्वासिद्धादन्यस्वस्वरूपासिद्धभागासिद्धरूपपक्षधर्मत्वासिद्ध इत्यर्थः ।। अस्यापीति । एतत्प्रमित्यसिद्धस्याप्यसिद्धिरेव दोषो नातिरिक्त इत्यर्थः ।। पक्षविपक्षयोरिति । साधारणानैकान्तिकव्यवच्छेदायैवेत्युक्तम् । विपक्षे वर्तमानो हेतुर्विरुद्ध इत्येवोक्तौ नित्यः शब्दो घटत्वादिति स्वरूपासिद्धिविशेषणेऽतिव्याप्तिस्तद्वारणाय पक्षपदोपादानम् । यद्वा विपक्ष एव वर्तमानो हेतुर्विरुद्ध इत्येव लक्षणोक्तिः । उक्तस्वरूपासिद्धविशेषणस्यापि साध्याभावेनैव सम्बन्धाद्विरुद्धत्वस्यापि सम्भवात् । पक्षपदमेव कारणव्यावृत्त्या सपक्ष एवेति सूचयितुमुपात्तमिति ज्ञेयम् ।। अयमिति । विरुद्धो हेतुरव्याप्तिविशेषात्साध्याभावेनैव सम्बन्धादव्याप्तो व्याप्तिरहित इत्यर्थः । सामान्यं विना विशेषायोगादिति भावः ।