प्रमाणपद्धतिः

(३७) प्रमाणपद्धतिः

।। १३ ।। पुनरुक्तम् । प्रतीतार्थस्य पुनः स्ववचनेन प्रयोजनं विनाऽभिधानं पुनरुक्तम् । यथा पर्वतोऽग्निमान्पर्वतोऽग्निमानित्यादि । एतदधिकमेव ।

जयतीर्थविजय

।। प्रतीतार्थस्येति । एतदप्युक्तं वरदराजेन ।

शब्दादाक्षेपतो वाऽपि प्रतीतस्यैव कीर्तनम् ।

प्रयोजन विनाभूतं पुनरुक्तिरिति स्थितिरिति ।

अत प्रतीतार्थस्येत्यविज्ञातार्थस्य निरासः । प्रयोजनं विनेति सप्रयोजनपुनर्वचनरूपस्यानुवादस्य निरासः ।

श्रीविजयीन्द्रतीर्थ

।। स्वेति । स्ववचनेन प्रतीतार्थस्येत्यन्वयः ।

श्रीवेदेशभिक्षु

स्ववचनेन प्रतीतार्थस्येति सम्बन्धः । निगमनेऽतिव्याप्तिवारणाय प्रयोजनं विनेति ।

श्रीविट्टलभट्ट

।। प्रतीतार्थस्येति । स्ववचनेन ज्ञातस्य पक्षादेरर्थस्य पुनः स्ववाक्येन प्रयोजनमन्तरेण वचनं पुनरुक्तमित्यर्थः । अप्रयोजनं पुनर्वचनमनुवादः । यथा निगमने पक्षस्य तद्य्ववच्छेदार्थं प्रयोजनं विनेति विशेषणम् । स्ववचनेनाप्रतीतार्थस्य पक्षादेः स्वातिरिक्तवचनेनाभिधानस्य पुनरुक्तत्ववारणाय प्रतीतिपदम् । स्ववचनेनाप्रतीतार्थस्य पक्षादेः स्वातिरिक्तवचनेनाभिधानस्य पुनरुक्तत्वनिरासाय स्ववचनपदोपादानम् । गिरिर्वह्निमानित्यादिरादिशब्दार्थः ।। एतदधिकमेवेति । अन्येन कृतकार्यस्य वचनरूपत्वादस्येति भावः ।