प्रमाणपद्धतिः

(१०) प्रमाणपद्धतिः

तस्य पञ्चाङ्गानि । आपादकस्यापाद्येन व्याप्तिः प्रतितर्केणाप्रतिघात आपाद्यस्यानिष्टत्वं तद्द्विविधम् । प्रामाणिकहानमप्रामाणिककल्पनं चेति । तत्राद्यं त्रेधा । दृष्टाननुमितश्रुतहानभेदात् । द्वितीयमप्यदृष्टाननुमिताश्रुतकल्पनाभेदात्त्रिविधम् । एतदेव कल्प्यानेकत्वे कल्पनागौरवमित्युच्यते । आपाद्यस्य विपर्यये पर्यवसानं परस्याननुकूलत्वं चेति । आपाद्यमनिष्टं पुनः पञ्चधा भिद्यते । आत्माश्रयत्वमन्योन्याश्रयत्वं चक्रकाश्रयत्वमनवस्था केवलानिष्टं चेति । तद्भेदात्तदापादनरूपस्तर्कोऽपि पञ्चविधः । तत्र तस्यैवोत्पत्तिज्ञप्त्यर्थं तदुत्पत्तिज्ञप्त्यपेक्षाङ्गीकारे स्वापेक्षया पूर्वभावित्वरूपमात्माश्रयत्वमापाद्यते । यदि घटोऽयमस्यैव घटस्योत्पादकः स्यात्तर्हि स्वतोऽपि पूर्वभावी स्यात् । यद्यस्य कारणं तत्ततोऽपि पूर्वभावि दृष्टम् । यथा पटकारणं तन्तवस्तदपेक्षया पूर्वभाविनः । न चात्र प्रतिकूलस्तर्कोऽस्ति । यदि घटस्य घट एव कारणं न स्यात्तर्हीदमापद्यत इति । अनिष्टं चेदम् । स्वापेक्षया पूर्वभावित्वस्याप्रामाणिकत्वात् । व्याहतत्वेनाङ्गीकर्तुमनुचितत्वाच्च । पूर्वभावित्वं हि तदभाववति काले भावः । न च स्वाभाववति काले स्वयं भवतीति न व्याहतम् । न चेत्पूर्वभावित्वमङ्गीक्रियते तदा न स्वस्य स्वयं कारणम् । न चैवमेवापादकं प्रत्यापादयितुं शक्यत इति पञ्चाङ्गानि । एवं ज्ञप्तावपि तज्ज्ञानं प्रति पूर्वभावित्वमापाद्यम् । द्वयोरितरेतरकारणत्वाङ्गीकारे त्वन्योन्यापेक्षया पूर्वभावित्वरूपमन्योन्याश्रयत्वमापाद्यम् । बहूनां चक्रवत्कार्यकारणभावाभ्युपगमे पूर्वभावित्वलक्षणं चक्रकाश्रयत्वम् । अनवस्थितासिद्धकारणापेक्षायां मूलक्षयापरनामकप्रतीतकार्यविलोपलक्षणानवस्था ।

जयतीर्थविजय

केनचित्पुंसा बाधानवतारदशायां हृदे धूमभ्रमे सति हृदो वह्निमान्धूमवत्त्वादित्यनुमितेऽन्येन च हृदो धूमवानस्तु माऽस्तु वह्निमानित्यप्रयोजकत्वे शङ्किते वादिना च यदि हृदो न वह्निमान् स्यात्तदा निर्धूमः स्यादिति यस्तर्कः प्रयुज्यते तत्र यथार्थवह्निज्ञानाभावादव्याप्तिरिति चेन्न । अङ्गपञ्चकसम्पन्नस्यैव तर्कस्यानुमानान्तर्भावेनास्सन्मते लक्ष्यत्वात्तत्र च यथार्थज्ञानसाधनत्वस्य सत्त्वान्नाव्याप्तिः । तदुक्तं वरदराजेनापि । अङ्गपञ्चकसम्पन्नस्तर्को ज्ञानाय कल्पत इति । हृदपक्षकपूर्वोक्ततर्कस्य च विपर्यये पर्यवसानरूपाङ्गविधुरत्वेन तर्काभासतयाऽलक्ष्यत्वात् । एतच्चोवाच वरदराजोऽपि । अङ्गान्यतरवैकल्ये तर्कस्याभासता भवेदिति । एतत्समाधानं मनसि निधायास्य समाधानस्याङ्गज्ञानसापेक्षत्वादङ्गान्याह ।। तस्य चेत्यादिना इति पञ्चाङ्गानीत्यन्तेन ।। तदिति । आपाद्यस्यानिष्टत्वमिति पूर्ववाक्ये त्वप्रत्ययशिरस्कानिष्टप्रातिपादिकार्थभूतमनिष्टमित्यर्थः ।। केवलानिष्टं चेतीति । इत्यनिष्टं पञ्चधा भिद्यत इति पूर्वेणान्वयवः । केवलानिष्टत्वं नामात्माश्रयत्वादिचतुष्टयातिरिक्तानिष्टत्वमित्यर्थः । तत्रादाववसरकथनपूर्वकमात्माश्रयत्वापादकतर्कमाह ।। तत्रेत्यादिना पूर्वभावी स्यादित्यन्तेन । तत्रात्माश्रयादीनां मध्य इत्यर्थः । तस्यैव स्वस्यैवेत्यर्थः ।। तदुत्पत्तिज्ञप्तीति । स्वोत्पत्तिज्ञप्तीत्यर्थः ।। अपेक्षाङ्गीकार इति । केनचिद्वादिनेति शेषः । आत्माश्रयत्वमापाद्यते । प्रतिवादिनेति शेषः ।

ननु प्रमाणलक्षणटीकायां यद्येवमुपगम्यते तदाऽऽत्माश्रयादिप्रसङ्ग इत्यात्माश्रयत्वाद्यापादकतर्कप्रवृत्तिप्रकारप्रदर्शनादत्र च पूर्वभावी स्यादित्यापादनाकारप्रदर्शनानुपपत्तिरिति चेन्न । उभयाकारात्मकत्वेनाविरोधात् । तदेतदाह ।। पूर्वभावित्वरूपमिति । आत्माश्रयत्वापादकतर्कस्य व्याप्तिरूपमङ्गं दर्शयति ।। यद्यस्येत्यादिना । प्रतितर्केणाप्रतिघातलक्षणमङ्गं दर्शयति ।। न चेति । प्रतितर्कस्याकारं दर्शयति ।। यदीति । तर्हीदमापद्यत इतीति । प्रतिकूलतर्को नास्तीति पूर्वेणान्वयः । आपाद्यस्यानिष्टत्वरूपमङ्गं दर्शयति ।। अनिष्टं चेदमिति । इदमेतद्घटस्यैवेतद्घटपूर्वभावित्वमित्यर्थः । व्याहतिमुपपादयितुं पूर्वभावित्वं निर्वक्ति ।। पूर्वभावित्वं हीति । भावो विद्यमानत्वम् । विपर्यये पर्यवसानमाह । न चेदिति । परस्यानुकूलत्वमाह ।। न चैवमिति । एवमापादकं पुरुषं प्रतीति शेषः । अनवस्थाया लक्षणमाह ।। अनवस्थितेति । अनवस्थितमविश्रान्तं प्रमाणासिद्धं च यत्कारणं तदपेक्षायामित्यर्थः । मृत्पिण्डतदवयवाद्युपादानकारणपरम्परायामतिव्याप्तिनिरासायानवस्थितपदम् । मृत्पिण्डादिपरम्परा त्वन्ततो जडप्रकृतौ विश्रान्ता । बीजाङ्कुरपरम्पराव्यावृत्त्यर्थमसिद्धेति । बीजाङ्कुरयोः कार्यकारणभावस्यान्वयव्यतिरेकलक्षणप्रमाणसिद्धत्वान्नातिव्याप्तिः । अनवस्थाया अनिष्टत्वसमर्थनायाह ।। प्रतीतिकार्यविलोपेति । मूलक्षयोऽनवस्थेति ग्रन्थान्तरानुगुण्यायाह । मूलक्षयेति ।

भावदीपः

कथमस्यानुमानान्तर्गतिरित्यतो व्याप्तिबलेनार्थप्रमापकत्वादिति भावेनाह ।। तस्य चेति । चस्त्वर्थस्सन्ननुमानान्तरवैलक्षण्यद्योतकः । यदि घटोऽत्र स्यात्पटोऽपि स्यादित्यादेस्तर्कत्वव्यावृत्तये आपादकस्यापाद्येन व्याप्तिरित्युक्तम् । यदि शब्दो नित्यः स्यात्तर्ह्यश्रावणः स्यादित्यादेर्यदि शब्दोऽनित्यो न स्यात्तर्हि कृतकोऽपि न स्यादिति प्रतितर्केण पराहतस्यातर्कत्वायोक्तं प्रतितर्केणेति । यदि धूमः स्यात्तर्हि वह्निः स्यादित्यादेरतर्कत्वायोक्तमापाद्यस्यानिष्टत्वमिति । यद्यग्निर्न स्यात्तर्हि धूमो न स्यात् । यदि घटो घटं प्रति हेतुः स्यात्तर्ह्यात्माश्रयः स्यादित्येवंविधयोस्तर्कत्वसङ्ग्रहायाह ।। तद्द्विविधमिति । हानं त्यागः । यदि तेजोजातं प्रकाशकं स्यात्तर्ह्यनुष्णं न स्यादित्यादेरतर्कत्वायोक्तं विपर्यय इति ।। अननुकूलत्वमिति । यदापादने परस्यानुकूलता न भवति तथात्वमित्यर्थः । यदि शब्दो नित्यः स्यात्तर्हि कृतको न स्यात् । भवति कृतकोऽतोऽनित्य इत्युक्ते परो वक्ति यदि कृतकस्तर्ह्यनित्य एव शब्दो घटादौ तथा दृष्टेरिति परानुकूलस्यातर्कत्वाय पराननुकूलतेत्युक्तम् । आत्माश्रयादिचतुर्णां क्रमेणोदाहरणमाह ।। तत्रेति । तेषु मध्य इत्यर्थः । पञ्चाङ्गानि क्रमेण दर्शयति ।। यद्यस्येत्यादिनेति पञ्चाङ्गानीत्यन्तेन । अनिष्टत्वे हेतुद्वयम् । स्वापेक्षयेत्यादि । व्याहतिं व्यनक्ति ।। पूर्वभावित्वं हीति । न व्याहतमिति न च व्याहतमेवेत्यर्थः । विपर्यये पर्यवसानं न चेत्पूर्वभावित्वमिति । तदा पूर्वभावित्वानङ्गीकारपक्षे । स्वयं स्वस्य कारणमपि नेति । चरमाङ्गं व्यनक्ति ।। न चैवमापादकं प्रतीति । तर्कप्रवक्तारं पुरुषमित्यर्थः । पूर्वभावित्वाभावो ममानुकूल एव । स्वस्य स्वात्मानं प्रति कारणत्व इति न प्रतिवादिना वक्तुं शक्यते व्याहतेरिति भावः ।। द्वयोरितरेतरेति । घटपटयोरित्यर्थः । बहूनां घटपटकुड्यानाम् ।। अनवस्थितेति । अपर्यवसितेत्यर्थः । बीजाङ्कुरानवस्थाव्यावृत्तयेऽसिद्धकारणापेक्षायामिति ।।

श्रीविजयीन्द्रतीर्थ

अनुमानान्तर्भावसाधिके व्याप्तिसापेक्षत्वकथनायाह ।। तस्येति । अङ्गत्वं सत्तर्कताप्रयोजकत्वम् । अनिष्टपदार्थमेव दर्शयितुमाह ।। तदिति । व्याप्तेरापाद्यानिष्टत्वस्य तर्कस्वरूपनिर्वाहकतातर्कप्रतिपत्त्यभावाननुकूलयोः सत्प्रतिपक्षाभावप्रकरणसमत्वाभावोपयोगः । विपर्ययापर्यवसानं त्वनुग्राहकतर्कोपयोगीति वक्ष्यते । अनिष्टभेदोक्तिपूर्वं तर्कभेदमाह ।। आपाद्यमिति । गोबलीवर्दन्यायेनात्माश्रयादेरनिष्टस्य पृथगुक्तिः । आत्माश्रयापादनमाह ।। तत्रेति । तत्तस्यैवोत्पत्त्यर्थं तदुपत्त्यपेक्षाभ्युपगमे पूर्वाज्ञातस्यैव वस्तुनो ज्ञानार्थं तत्तज्ज्ञानापेक्षाभ्युपगमे तस्य तज्ज्ञानस्य वा पूर्वभावित्वमापाद्यमित्यर्थः । यद्यपि तदपेक्षैव वक्तव्या न तूत्पत्तेस्तथाऽप्युत्पद्यमानस्य तदपेक्षोत्पत्तिमादायैवेत्युत्पत्त्यपेक्षोक्ता । तदपेक्षा च तज्जननानुकूला शक्तिर्द्रष्टव्या । अत्र पञ्चाङ्गानि दर्शयितुमाह ।। यद्यस्येति । न चेदित्यनेन विपर्यये पर्यवसानम् । न चैवमित्यनेनाननुकूलत्वमुक्तम् । अन्योन्याश्रयत्वापादनप्रकारमाह ।। द्वयोरिति । चक्रभ्रमणयोरित्यर्थः । चक्रकस्याह ।। बहूनामिति । चक्रभ्रमणघटानामित्यर्थः ।। चक्रवदिति । परावृत्येत्यर्थः । अनवस्थामाह ।। अनवस्थितेति । उभयत्रापाद्यपदानुषङ्गः । अन्योन्याश्रयादिनिरासायाह ।। अनवस्थितेति । असिद्धिपदं प्रमाणासिद्धबीजाङ्कुरादिपरिहाराय ।

श्रीवेदेशभिक्षु

अनुमानान्तर्भावसाधकव्याप्तिसापेक्षत्वादिकथनायाह ।। तस्येति । अत्राङ्गत्वं सत्कर्तृताप्रयोजकत्वम् । आत्माश्रयत्वमित्याद्यत्र गोबलीवर्दन्यायेनात्माश्रयादेरनिष्टात्पृथगुक्तिः ।। तस्यैवोत्पत्तीति । तस्यैवोत्पत्त्यर्थम् । तदुत्पत्त्यपेक्षाङ्गीकारे तस्यैव ज्ञप्त्यर्थं तस्यैव ज्ञप्त्यपेक्षाङ्गीकार इत्यर्थः । उत्पत्तौ तावदुदाहरति ।। यदीति । विपर्यये पर्यवसानं दर्शयति ।। न चेत्पूर्वेति । अननुकूलत्वं दर्शयति ।। न चैवमिति । यथा बाह्यार्थमपलपतो बौद्धस्य यदीदमस्थूलं स्यात्तर्हि स्थूलतया न प्रतिभासेतेत्यस्थूलतानिरासकतर्कः स्थूलसूक्ष्मबाह्यार्थवादिनोऽनुकूल एव । बाह्यार्थवादिनोऽपि स्वाभिमतस्थूलतासाधनायैवमेवापादकं बौद्धं प्रत्यापादयितुं शक्यत्वात् । यदीदं स्थूलं स्यात्तर्हि स्थूलतया न प्रतीयेतेति । न च तथा प्रकृते । आपादकतर्कप्रयोक्तारं परं प्रति स्वेष्टसिध्द्यनुकूलतया एवमेवापादयितुं शक्यते । अयमेव तर्कः प्रयोक्तुं शक्यते वादिनाऽतोऽननुकूलत्वमस्येत्यर्थः । अनवस्थापादनप्रकारं दर्शयति ।। अनवस्थितेति । अनवस्थितेत्यनेन चक्रकव्यावृत्तिः । बीजाङ्कुरपरम्पराव्यावृत्तयेऽसिद्धेति । मूलक्षयकारीं प्राहुरनवस्थां हि दूषणमित्युक्तदूषणकृताबीजप्रदर्शनाय मूलेत्यादि । मूलक्षयव्याख्यानाय प्रतीतेत्यादि । अनवस्थाऽऽपाद्येति शेषः । अन्यथोपक्रमविरोधात् । ततश्चायमापादनक्रमः । विवादास्पदे कस्मिंश्चित्कार्ये यद्यनवस्थितासिद्धकारणपरम्पराऽङ्गीक्रियते तर्ह्यनवस्था स्यात् । नचैवमनवस्थाऽङ्गीकर्तुमुचिता । अप्रामाणिकत्वात् । तस्मात्प्रकृतकार्यं न सम्भवतीति । एवं ज्ञप्तावपि द्रष्टव्यम् ।

अभिनवामृतम्

।। आपादकस्यापाद्येन व्याप्तिरिति । सुगममेतत् ।। प्रतितर्केणाप्रतिघात इति । पर्वतस्यानग्निमत्त्वं मन्यमानस्य वादिनो यदि पर्वतो वह्निमान्न स्यात् । तर्हि वह्निमत्त्वेनाध्यक्षसिद्धः स्यादिति यस्तर्कस्तस्य यदि पर्वतो निरग्निकः स्यात्तर्हिनिर्धूमः स्यादिति प्रतितर्केणैव विघाताभावः । प्रतितर्काप्रतिघातः । आपाद्यस्य विपर्ययपर्यवसानमिति । न च निर्धूम इति विपर्ययपर्यवसानम् । इदं चापाद्यस्याप्रामाणिकत्वेन वा प्रमाणविरुद्धत्वेन वा परस्येव स्वस्याभिमतं चैतद्भवति न त्वन्यथा । व्यतिरेकोदाहरणं तु वेदादिवेद्यं जगन्मिथ्येति वदन्तं मायावादिनं प्रति सत्यत्ववादी हैतुकं मन्यमाह । यदि वेदादिवेद्यं स्यात्तर्हि मिथ्या न स्यादिति । अत्र हैतुकं मन्येन मिथ्याभावस्याप्रामाणिकत्वप्रमाणविरुद्धयोरनङ्गीकाराद्विपर्ययपर्यवसानाभावः ।। परस्याननुकूलत्वं चेतीति । प्रतिवादिनोऽनुकूलत्वाभावः । व्यतिरेकोदाहरणं त्वनित्यः शब्दः इत्याचार्यदेशीयः । नित्यः शब्द इति चार्वाकः । आचार्यदेशीय आह । यदि शब्दो नित्यः स्यात्तर्ह्याकाशविशेषगुणो न स्यादिति । अस्ति तावदापाद्यापदकयोर्व्याप्तिः । परमाणुरूपादावव्यभिचरितसहचारदर्शनात् । न च प्रतितर्केण बाधमीक्षामह इति प्रतितर्केणाप्रतिघातोऽप्यस्ति । आपाद्यमिदनिष्टं भवति चोदकस्य । तेनाकाशगुणत्वाभावस्य प्रमाणविरुद्धत्वाङ्गीकाराद्विपर्ययपर्यवसानं च भवति । आचार्यदेशीयेनापि तस्य प्रमाणविरुद्धत्वाङ्गीकारात् । परस्याननुकूलत्वं नास्ति । चोदकस्याप्यननुकूलत्वात् । तथा हि । चोदकोऽप्याचार्यदेशीयमाह । यद्यनित्यः शब्दस्तर्ह्याकाशविशेषगुणो न स्यात् । घटरूपादावव्यभिचतिसहचारदर्शनात् । व्याप्तिस्तावदस्ति । प्रतितर्काप्रतिघातादिकं तु पूर्ववदस्ति । परस्याननुकूलत्वं तूभयत्रापि नास्तीति सत्प्रतिपक्षहेतुवत्तर्कद्वयमप्याभास इति बोध्यम् ।

एतेन यद्यापाद्यं परस्यानिष्टं तर्हि परस्याननुकूलं भवेदेव । अथ नानिष्टं तर्हि परस्यानुकूलं भवेदेवेति नियमात् । आपाद्यानिष्टत्वात्परस्याननुकूलत्वं पृथङ् न वाच्यमिति परास्तम् । असङ्कीर्णव्यतिरेकोदाहरणसद्भावात् ।। आपाद्यमनिष्टं पुनरिति । न केवलमापाद्यानिष्टे पूर्वोक्तविभाजकोपाधिद्वयमेवापि तु विभाजकोपाधिपञ्चकं चास्तीति भावः । अत्रायं विवेकः । पूर्वोक्तविभागस्य प्रथमकल्पे केवलानिष्टस्य दृष्टहानादिभागत्रयमन्तर्भवति । द्वितीयकल्पे त्वात्माश्रयादिचतुष्टयं केवलानिष्टस्यादृष्टकल्पनादिभागत्रयं चान्तर्भवति । द्वितीयभागे त्वात्माश्रयादिभागचतुष्टये केवलानिष्टस्यादृष्टकल्पनादिभागत्रये चाप्रामाणिककल्पनमन्तर्भवति । केवलानिष्टस्य दृष्टहानादिभागत्रये प्रामाणिकहानमन्तर्भवति । यद्यप्यात्माश्रयत्वादिदोषचतुष्टयं केवलानिष्टेऽन्तर्भवति । तथाऽपि कुरुपाण्डवन्यायमाश्रित्य पृथगुक्तम् । तस्योत्पत्तिज्ञप्त्यर्थमिति यद्यपि द्वितीयमुत्पत्तिग्रहणं व्यर्थम् । तदुत्पत्त्यर्थं तस्यैवापेक्षाङ्गीकार इत्येतावतैव पूर्णत्वात् । तथाऽपि पूर्वभावी स्यादित्यापाद्यस्यापाद्याप्रामाणिकस्य स्फुटीकरणाय तद्ग्रहणम् । न ह्यनुपपन्नस्य कार्यस्य सत्त्वं प्रमाणदृष्टमिति । अप्रामाणिकं पूर्वभावित्वमिति । ननु तस्योत्पत्त्यर्थं तदुत्पत्त्यपेक्षाङ्गीकारे आत्माश्रयो भवतीत्येतावतैव ज्ञप्तावप्यात्माश्रय उक्तो भवति । ज्ञानोत्पत्त्यर्थं ज्ञानोत्पत्त्यपेऽक्षाङ्गीकारसाम्यात् । न हि घटोत्पत्तिः पटोत्पत्तिरित्येतावता विशेषो भवति । अन्यथा पटोत्पत्त्यादिनाऽपि विधान्तरं स्यादिति चेत् । सत्यम् । उत्पत्तावात्माश्रयोक्त्यैव ज्ञप्तावप्यात्माश्रय उक्तो भवतीति । तथाऽपि ज्ञप्तावात्माश्रयो ज्ञानस्येव ज्ञेयस्यापि दोषो भवतीति सूचनाय तस्य ज्ञप्त्यर्थमित्याद्युक्तम् । इदमुक्तं भवति । प्रमेयस्योत्पत्तावात्माश्रयो हि प्रमेयस्यैव दोषो नान्यस्य प्रमेयविलोपहेतुत्वात् । यस्य हि मते घटस्य घट एव कारणं न तस्य घटोत्पत्तिः सिध्यतीति । ज्ञप्तौ त्वात्माश्रयस्तु ज्ञानस्येव ज्ञेयस्यापि दोषः । उभयविलोपहेतुत्वात् । तथा हि । यस्य हि मते तस्य हि ज्ञानस्य तदेव ज्ञानं कारणं न तस्य ज्ञानमिति सिध्द्यतीत्यात्माश्रयात् । ततश्च तस्य ज्ञेयविलोपश्चाप्नोति । ज्ञानविषयज्ञेयसद्भावे प्रमाणाभावादिति । आपादकस्यापाद्येन सामान्यव्याप्तिमुपपादयति ।। यद्यस्य ज्ञानकारणमिति । प्रतितर्केणाप्रतिघातमुपपादयति ।। न चात्रेति । आपाद्यस्याङ्गीकृतत्वात् । कथमनिष्टत्वमित्यत आह ।। अनिष्टं चेदमिति । नानङ्गीकृत्वमनिष्टत्वमपि त्वप्रामाणिकत्वं प्रमाणविरुद्धत्वं वेति भावः । विपर्यये पर्यवसानं दर्शयति ।। न चेदिति । परस्यानुकूलत्वमाह ।। न चैवमिति । यदि घटः स्वस्यैव कारणं न स्यात्तर्हि स्वतोऽपि पूर्वभावी स्यादिति । परेणापादकं पुरुषं प्रत्यापादयितुं न शक्यत इत्यर्थः ।। केवलानिष्टोपादनमिति । प्रामाणिकहानाप्रामाणिककल्पनत्वेन द्वेधा विभक्तं प्रत्येकं त्रिविधमित्यर्थः । एतेन त्रिधेति प्रतिज्ञाय षण्णां परिग्रहणमनुपयुक्तमिति परास्तम् ।

आदर्शः

।। अदृष्टाननुमितेति । नन्वप्रामाणिककल्पनाया आपादनं न सम्भवति । यथा शशे विषाणकल्पनेऽप्रामाणिककल्पनायाः सिद्धत्वान्नापाद्यता सम्भवति । प्रतिवादिनोऽप्रामाणिकत्वकल्पनमसिद्धमिति चेन्न । तत्र प्रमाणाभावेऽपि तदङ्गीकारे बाधकाभावादङ्गीक्रियत इति वदतः प्रतिवादिनोऽसिद्धत्वाभावात् । न च सत्त्वे प्रत्यक्षविषयत्वाद्यापत्तिरूपं बाधकमस्त्येवेति चेत् । तदभावप्रयोजकशक्तिविशेषाद्यङ्गीकारेण बाधकाभावात् । न च तत्कल्पनायां प्रमाणजन्यत्वमापादनीयमिति वाच्यम् । विपर्यये पर्यवसानायोगात् । तथा सति त्वत्कल्पनायां प्रमाणजन्यत्वापत्तेः । तथा च स्वस्यैव निग्रहापत्तेः । मैवम् । तादृशस्थले तत्कल्पनायां प्रमाणजन्यत्वाभावाङ्गीकारस्यैवापाद्यमानत्वात् । तदङ्गीकारस्यैवासिद्धत्वेनापाद्यत्वसम्भवात् । तेन च तत्कल्पनायां प्रमात्वाभावाङ्गीकारस्य वा भ्रमत्वाङ्गीकारस्य वाऽऽपाद्यमानत्वात् । तदङ्कीकारे च स्वव्याहत्या वादिनिवृत्तिर्भवतीति ।

वाक्यार्थमञ्जरी

। आपादकस्येति । आपादनकर्तुरित्यर्थः । आपाद्येनेति । आपादनकर्मणा इत्यर्थः ।। व्याप्तिरिति । यथा यद्यग्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति तर्के यत्र वह्न्यभावस्तत्र धूमाभाव इति व्याप्तिः । प्रतितर्केणाप्रतिघात इति । यथाऽऽह बौद्धः । यदि जगतः क्षणिकत्वं न स्यात्तर्ह्यर्थक्रियाकारित्वरूपं सत्त्वं न स्यात् । तथा हि । स्थायिनो घटादेः किं युगपदर्थक्रियाकारित्वमुत क्रमेण । नाद्यः । एकक्षणे सर्वकारणप्रसङ्गात् । द्वितीये प्रथमक्षणे द्वितीयादिक्षणीयकार्यकारणशक्तिरस्ति न वा । आद्ये प्रथमक्षणे एव सर्वं कुर्यात् । समर्थस्य विलम्बायोगात् । द्वितीये द्वितीयादिक्षणेऽपि न कुर्यादिति । तदेतस्य तर्कस्य यदि क्षणिकं स्यात्तर्हि तदेवेदमिति प्रत्यभिज्ञाविरोधः स्यादिति प्रतितर्केण विरोधोऽस्ति । सत्तर्के तु नैवम् । यद्यग्निः स्यात्तर्हिदं स्यादित्यभावात् । आपाद्यस्यानिष्टत्वमिति । अङ्गीकर्तव्यताविरोधिधर्मवत्त्वमित्यर्थः ।। आपाद्यस्य विपर्ययपर्यवसानमिति । आपाद्यव्यतिरेकस्य पक्षधर्मताप्रदर्शनपूर्वकमापादकव्यतिरेकस्य पक्षसम्बन्धकथनमित्यर्थः । यथा वर्तते च धूमस्तस्मादग्निमानेवेति । बौद्धतर्के तु नैवम् । प्रत्यभिज्ञादिप्रमाणबाधितत्वेन क्षणिकमेवेति वक्तुमयोगात् । परस्याननुकूलत्वं चेति । दृश्यत्वादिप्रकरणसमवत्प्रतिपक्षसाधकत्वमित्यर्थः । यथा बौद्धतर्कस्य परानुकूलत्वम् । यदि क्षणिकं स्यात्तर्हि सत्त्वं न स्यादित्यापादनसम्भवात् । तथा हि । कारणस्य हि कार्यक्षणवर्तिन एव जनकत्वम् । अन्यथाऽतिप्रसङ्गात् । न चैतत्क्षणिकस्य सम्भवति । एकक्षणमात्रावस्थायिनस्तस्य कार्यक्षणेऽभावात् । अतः क्षणिकत्वेऽर्थक्रियाकारित्वरूपं सत्त्वं न सम्भवतीति न तथा सत्तर्कस्य व्याप्त्यभावेन यद्यग्निः स्यात्तर्हि धूमोऽपि न स्यादित्यापादनायोगादिति । केवलानिष्टमिति । आत्माश्रयत्वादिरहितमनिष्टमित्यर्थः । पूर्वभावित्वेति । इत्यापाद्यत इति पूर्वेण सम्बन्धः । तस्य व्याप्त्यादिपञ्चाङ्गानि क्रमेण दर्शयति । यद्यस्येत्यादिना । आपाद्यत इति प्रतितर्कोऽस्तीति पूर्वेण सम्बन्धः । न चैवमेवेति । यदि घटोऽयमस्यैव घटोत्पादको न स्यात्तर्हि स्वतोऽपि पूर्वभावी न स्यादित्यपादनमपि न शक्यते । तद्धटकार्यजलाहरणादौ व्यभिचारादित्यर्थः । आपादकमिति । तर्कप्रयोक्तृपुरुषं प्रतीत्यर्थः । द्वयोरिति । चक्रभ्रमणयोरित्यर्थः । बहूनामिति । चक्रभ्रमणघटानामित्यर्थः । चक्रवदिति । परावृत्त्येत्यर्थः । अनवस्थितेति । अपर्यवसितेत्यर्थः ।

श्रीविट्टलभट्ट

। अपाद्यस्यानिष्टत्वमिति । अनिष्टत्वमङ्गीकार्यानर्हत्वमित्यर्थः । तद् द्विविधमिति । नन्वदृष्टकल्पनादिभ्योऽन्यस्य कल्पनागौरवस्यापि सत्त्वात्त्रिविधप्रामाणिककल्पनमित्ययुक्तमित्यत आह । एतदेवेति । त्रिविधमप्रामाणिककल्पनमेवेत्यर्थः । आपाद्यस्य विपर्यये पर्यवसानमिति । आपाद्यस्य राहित्येऽनिष्टापादनस्य पर्यवसानं परिसमाप्तिर्विपर्ययपर्यन्तधावनमिति यावत् ।। परस्यनानुकूलत्वं चेति । विरुद्धहेत्वाभासवत्प्रतिपक्षासाधकत्वं चेत्यर्थः । आपादनात्मकतर्कभेदकथनायापाद्यानिष्टभेदमाह । आपाद्यमनिष्टमिति ।। पुनः पञ्चधा चेत्यर्थः । केवलानिष्टमिति । आत्माश्रयत्वचक्रकाश्रयत्वानवस्थात्वरहितमनिष्टमित्यर्थः । सर्वस्याप्यनिष्टत्वेऽपि गोबलीवर्दन्यायेन पृथगुक्तिः । तत्राद्यचतुष्टयमप्रामाणिककल्पनात्मकम् । न ह्यात्माश्रयादिकं कुत्रापि प्रमितं पञ्चममुभयात्मकमिति ज्ञातव्यम् । आत्माश्रयादिः कः कश्च तदापादनप्रकार इति जिज्ञासायामाह । तत्रेति । आत्माश्रयादिपञ्चस्वित्यर्थः । आपादानप्रकारं दर्शयति । यदीति ।। तर्कस्य पञ्चाङ्गानि प्रदर्शयति । यद्यस्य कारणमित्यादिना । इतीति । इति प्रतिकूलस्तर्कोऽत्र तर्के न चास्तीत्यन्वयः । आपाद्यस्यानिष्टत्वं दर्शयति । अनिष्टं चेदमिति । इदं स्वापेक्षया पूर्वभावित्वमित्यर्थः । तदभाववति काले भावः सत्त्वमित्यर्थः । विपर्यये पर्यवसानं दर्शयति । न चेदिति । चेच्छब्दो यद्यर्थे । तदा तर्हीत्यर्थः । अननुकूलत्वं दर्शयति । न चैवमापादकं प्रतीति । यद्ययं घट एतद्धटजनकः स्यात्तर्हि स्वापेक्षया पूर्वभावी स्यादित्यापादकं पुरुषं प्रत्येवमेव । अनेन प्रकारेणैव यद्ययं घट एतद्धटजनको न स्यात्तदा स्वापेक्षया पूर्वभावी स्यादिति प्रतिबन्द्याऽऽपादयितुं च न शक्यते । इत्यनेन प्रकारेण जिज्ञासापञ्चाङ्गानि ज्ञातव्यानीत्यर्थः ।। चक्रवदिति । पुनः पुनरावर्तनलक्षणचक्रभ्रमणेन चक्रसाम्यमिति बोद्धव्यम् । चक्रकाश्रयत्वमिति । आपाद्यमित्यनुवर्तनीयम् । अनवस्थासिद्धेति । पर्यवसिताप्रमितकारणानामङ्गीकार इत्यर्थः । सामग्य्राः सामग्य्रन्तरसापेक्षत्वात्प्रमितसामग्रीपरम्परापेक्षाव्यवच्छेदायासिद्धेत्युक्तम् । मूलक्षयनामकापाद्यमन्यदस्तीत्याशङ्कापरिहारायोक्तं मूलक्षयापरनामकेति । मूलक्षयं इत्यपरं पर्यायरूपं नाम यस्याः सा तथोक्तेत्यर्थः । प्रतीतकार्यविलोपलक्षणा प्रमितकार्यविलोपरूपाऽनवस्थाऽऽपाद्येत्यर्थः ।