प्रमाणपद्धतिः

(४०) प्रमाणपद्धतिः

।। १६ ।। अप्रतिभा । वादिनोक्तस्य प्रत्युत्तराप्रतिपत्तिरप्रतिभा ।

जयतीर्थविजय

।। वादिनोक्तस्येति । स्वेनानूदितस्येति शेषः । तदुक्तं वरदराजेन ।

वाद्युक्तस्यानूदितस्य प्रतिवादी यदोत्तरम् ।

प्रतिपन्नं न शक्नोति तदा तस्याप्रभा भवेदिति ।

अत्र स्वेनानूदितस्येत्यननुभाषणनिरासः ।

श्रीवेदेशभिक्षु

।। अप्रतिपत्तिरिति । अप्रतिपत्त्युद्भावनमित्यर्थः । अन्यथाऽननुभाषणेऽतिव्याप्तेः । अत एव स्वाज्ञानमुद्भावयति तदाज्ञानेन निग्रह इत्यपर आह । प्रमाणलक्षणटीकायामपि तच्चाविष्कारेण ज्ञातव्यमित्यादिपदेनेदमेवमभिहितम् । अप्रतिभालक्षणेऽनूदितस्येत्यपि ग्राह्यम् । अन्यथाऽननुभाषणेऽतिव्याप्तेः । उक्तं च तथा प्रमाणलक्षणटीकायाम् ।

अभिनवामृतम्

।। वादिनोक्तस्येति । अत्राप्रतिपत्तिशब्देनाप्रतिपत्तिज्ञापकमुच्यते । तद्यथा वादिना साधने उक्ते तदनूद्य तूष्णींभावः । अनूद्य तूष्णींभावोऽप्रतिभा । अननूद्य तूष्णींभावोऽननुभाषणमिति भेदः । एतेनाप्रतिभायानिग्रहत्वेनानिग्रहस्थानत्वमयुक्तमिति परास्तम् । अप्रतिपत्तिज्ञापकस्यैव निग्रहस्थानत्वेनाभिमतत्वात् ।