हान्याद्याभासः

(६९) प्रमाणपद्धतिः

।। २० ।। (३) ।। हान्याद्याभासः ।। प्रतिज्ञाहान्याद्यप्राप्तावपि भ्रान्त्यादिना तदुद्भावनं हान्याद्याभासः । स प्रमाणविरोध एव । हान्याद्याभासस्य प्राश्निकादिभिः प्रमितत्वात् ।

जयतीर्थविजय

एवं चतुर्धा विभक्ते निरनुयोज्यानुयोगे छलजाती स्वन्यायविरोधादावन्तर्भावयित्वा हान्याद्याभासद्वयमन्तर्भावयति ।। प्रतिज्ञेत्यादिना । सदुत्तरप्रतिज्ञाहान्युद्भावननिरासायाप्राप्तावपीत्यन्तम् । विक्षेपव्यावृत्यर्थं भ्रान्त्यादिनेति ।

भावदीपः

क्रमप्राप्तं तृतीयं निरनुयोज्यानुयोगप्रभेदं लक्षयित्वा स्वोक्तेऽन्तर्भावयति ।। प्रतिज्ञाहान्यादीति । प्रतिज्ञान्तरादिरादिपदार्थः ।। भ्रान्त्यादिनेति । परव्यामोहनमादिपदार्थः ।

श्रीविजयीन्द्रतीर्थ

एवं छलजाती निरूप्य निरनुयोज्यानुयोगप्रभेदमुक्त्वा तृतीयं हान्याद्याभासरूपं तद्भेदमाह ।। प्रतिज्ञेति ।। भ्रान्त्यादिनेति । इदं चानेकविकल्पस्फुरणेन विकल्पयतोऽनिष्टविकल्पत्यागेन प्रतिज्ञाहानिः । प्रकरणाद्यापन्नविशेषणाविष्करणेन प्रतिज्ञान्तरम् । नञः प्रयोगमात्रेण विरोध इत्यादिपरग्रन्थानुसारेण द्रष्टव्यम् । तस्यान्तर्भावमाह ।। स इति ।

अभिनवामृतम्

।। प्रतिज्ञाहान्यप्राप्तावपीति । उदाहरणानि तु विमतं मिथ्या दृश्यत्वादिति वादिनोक्ते प्रतिवादिना किमिदं मिथ्यात्वमसत्त्वमनिर्वचनीयत्वं वेत्युक्ते वादी वदति । अनिर्वचनीयत्वं वदता प्रतिज्ञातस्यासत्त्वस्य त्यागात्प्रतिज्ञाहानिरिति । अयं हान्याद्याभासः । अत्रैवोदाहरणेऽसत्त्वमिति प्रतिज्ञायार्निर्वचनीयत्वं वेति प्रतिज्ञान्तरस्य कृतत्वात्प्रतिज्ञान्तरमिति यद्वादिवचनं तत्प्रतिज्ञान्तराभासः। वादिना पर्वतोऽग्निमान्धूमवत्त्वादित्युक्ते प्रतिवाद्याह । प्रतिज्ञाविरोध इति । अयं तदवभासः । धेनुविवक्षया सास्नादिमान्गौरिति वादिनोक्ते प्रतिवाद्याह । पृथिव्यां सास्नादिमत्त्वस्य प्रमाणबाधितत्वादसम्भवीदं लक्षणमिति । वाद्याह । न मया पृथिव्याः सास्नादिमत्त्वं लक्षणमिति । प्रतिवाद्याह । प्रतिज्ञासन्न्यास इति । अयं प्रतिज्ञासन्न्यासाभासः । शब्दोऽनित्यो भावत्वे सति कृतकत्वादिति वादिनोक्ते भावत्वे सतीति विशेषणान्न ध्वंसे व्यभिचार इति वादिनोक्ते प्रतिवादी वदति । हेत्वन्तरमिति । अयं तदाभासः । वादिना वह्निसाधनाय धूमवत्त्वादिहेतुं प्रयुज्य यो धूमवानसावग्निमानिति व्याप्तौ चोदितायां प्रतिवाद्याह । अर्थान्तरमिति । अयं तदाभासः । वादिना कपालादिशब्दे प्रयुक्तेऽर्थापरिज्ञानात्प्रतिवाद्याह । निरर्थक इति । अयं तदाभासः । वादिना विमतं सत्यं प्रमाणदष्टत्वादिति त्रिवारमभिहितस्य परिषदविज्ञातार्थस्यार्थाप्रतिपत्त्या प्रतिवाद्यविज्ञातार्थमाह । अयं तदाभासः । वादिनाऽन्वितवाचकपदप्रयोगेऽप्यननुसाधने प्रतिवाद्याह । अपार्थकमिति । अयं तदाभासः । पर्वतोऽग्निमान्धूमवत्त्वादिति वादिनोक्ते सभाक्षोभादिना धूमवान्पर्वत इत्युक्तमिति सम्भ्रान्तचित्त आह । अप्राप्तकाल इति । अयं तदाभासः । वादिना समग्रानुमानप्रयोगे आह न्यूनमिति । अयं तदाभासः । वादिना पर्वतोऽग्निमान्धूमवत्त्वादिति प्रयोगे पार्श्वस्थेन प्रकाशविशेषत्वादिति हेत्वन्तरे प्रयुक्ते भ्रान्त आह । अधिकमिति । अयं तदाभासः । वादिना सकृदुक्त्वा पुनर्वक्तव्यमिति सभ्यादिभि र्नियुक्तः पुनस्तमेवार्थं यदा ब्रवीति तदा प्रतिवादी पुनरुक्तमित्याह । अयं तदाभासः । यदा वादिनोक्तस्योच्चारणायोग्यत्वात्प्रतिवादी न प्रत्युच्चारणं करोति तदा वाद्याह । अननुभाषणमिति । अयं तदाभासः । वादिनोक्तस्य केनाप्यविज्ञातार्थस्यार्थं स्वार्थं प्रतिवादी न जानाति तदा वाद्याह । अज्ञानमिति । अयं तदाभासः । वादिनोक्तस्य प्रत्युत्तराभिधानवेलायां स्वेदादिना व्यासङ्गे सत्याह । अप्रतिभेति । अयं तदाभासः । कथामारभ्य गृहदाहाद्यनिष्टं श्रुत्वाऽऽह । अद्य मे महत्प्रयोजनमस्तीति तस्मिन्नवसिते वक्ष्यामीति । अपर आह । विक्षेपेति । अयं तदाभासः । अनिष्टापादने कृते परवञ्चनायेष्टत्वान्न मतानुज्ञेत्याह । अयं तदाभासः । पर्वतोऽग्निमान्धूमवत्त्वादिति प्रतिवादिना तूष्णीं स्थिते वाद्याह । मदीयहेतोर्व्यभिचारस्य त्वयाऽनुद्भावितत्वात्पर्यनुयोज्योपेक्षणमिति । अयं तदाभासः । हान्याद्याभासस्य निरनुयोज्यानुयोगैकदेशत्वान्निरनुयोज्यानुयोगाभासः किन्तु तदेकदेशादिछलजात्यप्राप्तकाले ग्रहणं नामाभासः । छलजात्यप्राप्तकाले ग्रहणानामप्राप्तौ तदुद्भावनं तदाभासः । पूर्वाचार्योक्ताभिधाने परव्यामोहनायापसिद्धान्तमित्याह । अयं तदाभासः । सद्धेतुप्रयोगे व्यामोहनाय हेत्वाभास इत्याह । अयं तदाभासः ।। उद्भावनकालमिति । यद्यपि निग्रहप्राप्तिरस्ति तथाऽपि तस्मिन्काले प्राप्त्यभावान्निरनुयोज्यानुयोगलक्षणस्यात्रानुगमो द्रष्टव्यः ।

आदर्शः

।। स प्रमाणविरोध एवेति । अयमाशयः । उक्तस्थलेऽभावत्वेन नोद्भावनीयता किन्तु प्रमाणविरोधत्वेन । तस्यैव प्रथमत उपस्थितत्वात् । तस्यानुपस्थितौ तद्वाक्यादौ प्रतिज्ञाहान्याद्याभासत्वज्ञानानुदयादिति ।

श्रीविट्टलभट्ट

निरनुयोज्यानुयोगांशयोश्छलजात्योरन्तर्भावमभिधाय तदंशस्य हानाद्याभासस्य स्वोक्तान्तर्भावं वक्तुं तत्स्वरूपमाह ।। प्रतिज्ञाहान्याद्यप्राप्तावपीति । प्रतिज्ञान्तरादिरादिशब्दार्थः । भ्रान्त्यादिना । आदिपदेन व्यामोहनं गृह्यते । भ्रान्त्या परव्यामोहनिमित्तेन वेत्यर्थः । तदुद्भावनं हान्यादेरुद्भावनमित्यर्थः । प्रतिज्ञाहान्यादिव्यवच्छेदाय हान्याद्यप्राप्ताविति विशेषणम् । भ्रान्त्यादिनेति तु स्वरूपकथनपरम् ।