प्रमाणपद्धतिः
(१५) प्रमाणपद्धतिः
पक्षव्यापकमविद्यमानसपक्षं सर्वस्माद्विपक्षाद्य्वावृत्तं केवलव्यतिरेकि । यथा जीवच्छरीरजातं सात्मकं प्राणादिमत्त्वादिति । अस्य हि यत्सात्मकं न भवति तत्प्राणादिमन्न भवति यथा घट इति व्यतिरेक एवास्ति । न तु यत्प्राणादिमत्तत्सात्मकमित्यन्वयः । सर्वस्यापि जीवच्छरीरस्य पक्षत्वात् । अन्यस्य सर्वस्य निरात्मकत्वात् । तेनैतत्केवलव्यतिरेकीत्युच्यते ।
जयतीर्थविजय
केवलव्यतिरेकिणो लक्षणमाह ।। पक्षव्यापकमित्यादिना । पक्षव्यापकं सर्वपक्षवृत्तीत्यर्थः । सर्वपक्षवृत्तित्वे सत्यविद्यमानसपक्षत्वे सति सर्वविपक्षव्यावृत्तत्वं केवलव्यतिरेकिणो लक्षणमिति निष्कर्षः । तदुक्तं वरदराजेन
असपक्षं विपक्षेभ्यो व्यावृत्तं पक्षभूमिषु ।
सर्वासु वर्तमानं यत्केवलव्यतिरेकि तदिति ।
आद्यविशेषणमात्रोपादाने केवलान्वय्यन्वयव्यतिरेकिणोरतिव्याप्तिः । अतोऽविद्यमानेति द्वितीयविशेषणम् । पक्षव्यापकत्वे सत्यविद्यमानसपक्षत्वमेव लक्षणमित्युक्ते सर्वमभिधेयं प्रमेयत्वादित्यनुपसंहारिणि गतम् । अतस्तृतीयं विशेषणम् । विपक्षविशेषणसर्वपदानुपादाने त्वाकाशकालातिरिक्तं सर्वमनित्यम् । आकाशान्यत्वादित्यत्रातिव्याप्तिः । तस्यापि सर्वपक्षवृत्तित्वादविद्यमान सपक्षत्वाद्यत्किञ्चिदाकाशादि व्यावृत्तत्वाच्च । अतः सर्वेति विपक्षविशेषणम् । एवं च नातिव्याप्तिः । कालरूपविपक्षव्यावृत्तत्वाभावात् । आद्यविशेषणे पक्षविशेषणसर्वपदानुपादाने आकाशपटातिरिक्तं सर्वमनित्यम् । आकाशपटान्यत्वादित्यत्र गतम् । अतः सर्वेति पक्षविशेषणम् । इति क्रमेण व्यावर्त्यानि । व्युत्क्रमेण तु विपक्षव्यावृत्तत्वं लक्षणमित्युक्ते आकाशकालातिरिक्तं सर्वमनित्यम् । आकाशान्यत्वादित्यत्र गतम् । अतः सर्वेति । सर्वविपक्षव्यावृत्तत्वमेव लक्षणमित्युक्ते आकाशघटातिरिक्तं सर्वमनित्यम् । आकाशान्यत्वादित्यत्र गतम् । अतोऽविद्यमानसपक्षमिति । अविद्यमानसपक्षत्वे सति सर्वविपक्षव्यावृत्तत्वमित्येवोक्ते आकाशातिरिक्तं सर्वमनित्यम् । आकाशाधिकरणत्वादित्यत्र गतम् । अतः पक्षवृत्तित्वे सतीति । पक्षविशेषणसर्वपदपरित्यागेन त्रितयग्रहणे त्वाकाशातिरिक्तं सर्वमनित्यम् । आकाशान्यत्वे सति रूपवत्त्वादित्यत्र गतम् । अतः सर्वेति पक्षविशेषणमिति । आद्यन्तग्रहणेनाविद्यमानसपक्षपदपरित्यागे तु घटाकाशातिरिक्तं सर्वमनित्यम् । आकाशान्यत्वादित्यत्र गतम् । अतोऽविद्यमानसपक्षेति । अत्र घटस्यैव सपक्षत्वान्नातिव्याप्तिरिति सर्वं सार्थकम् । उदाहृत्य दर्शयति । यथेति । अविद्यमानसपक्षसम्पादनार्थं प्रतिज्ञायां ज्ञानग्रहणम् । सात्मकं ज्ञानासमवायिकारणसंयोगावच्छेदकमित्यर्थः । यदवच्छिन्नात्मनि ज्ञानसमवायिकारणसंयोगो जायते तत्सात्मकमिति यावत् । तेन सात्मकत्वं यद्यात्मसंयोगित्वं तदा तस्य घटादावपि सत्त्वेन तत्र हेतोरवृत्त्याऽसाधारण्यम् । यद्यात्मसमवायित्वं तदा बाध इति निरस्तम् । हेतौ प्राणादीत्यादिशब्देन प्राणापाननिमेषोन्मेषजीवनमनोगतेन्द्रियान्तरमनोविकारसुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानीति तृतीयाध्याय कणादसूत्रोक्तापाननिमेषादयो विवक्षिताः ।
भावदीपः
असपक्षं विपक्षेभ्यो व्यावृत्तं पक्षभूमिषु । सर्वासु वर्तमानं यत्केवलव्यतिरेकि तदित्युक्तदिशा केवलव्यतिरेकिलक्षणमाह ।। पक्षव्यापकमिति ।। प्राणादीति । प्राणा इन्द्रियाणि श्वासवायवश्चादिपदेनाङ्गचेष्टादयः ।
श्रीवेदेशभिक्षु
।। पक्षव्यापकमिति । अत्र जीवच्छरीरपक्षके सात्मकत्वसाध्यके नीलशरीरत्वादौ हेतोर्भागासिद्धेऽतिव्याप्तिवारणाय पक्षव्यापकमित्युक्तम् । अन्वयव्यतिरेकिव्यावृत्तयेऽविद्यमानसपक्षमिति । जीवच्छरीरं सात्मकं प्रमेयत्वादित्यत्रातिव्याप्तिवारणाय विपक्षाद्य्वावृत्तमित्युक्तम् । तस्यामेव प्रतिज्ञायां कतिपयविपक्षव्यावृत्तये पृथिवीत्वादिहेतावतिव्याप्तिपरिहाराय सर्वस्मादित्युक्तमिति द्रष्टव्यम् । अत्रापि केवलव्यतिरेकिपदवाच्यत्वे निमित्तं वक्तुमाह ।। अस्य हीति ।
अभिनवामृतम्
जीव प्राणधारण इति धातुव्याख्यानात्प्राणवायुधारि शरीरमित्यर्थः ।। व्यतिरेक एवास्तीति । ज्ञानत्वात्साध्यसिद्ध्यङ्गतयाऽस्तीत्यर्थः ।। न त्विति । निदर्शनाभावेन ज्ञानसम्भवात्साध्यसिद्ध्यङ्गतयाऽन्वयो नास्तीत्यर्थः ।
आदर्शः
।। जीवच्छरीरमिति । चेष्टावच्छरीरमित्यर्थः । तेन पक्षतावच्छेदकपक्षप्रमितेरेव साध्यप्रमितत्वात्कथमनुमानप्रवृत्तिरिति दोषानवकाशः ।
श्रीविट्टलभट्ट
केवलव्यतिरेकिलक्षणमाह ।। पक्षव्यापकमिति । पक्षं व्याप्नोतीति पक्षव्यापकं सर्वस्मिन् पक्षे वर्तमानमित्यर्थः । अन्वयव्यतिरेकिण्यतिव्याप्तिपरिहाराय द्वितीयं विशेषणम् । अत्रैवातिव्याप्तिवारणायाद्येति विशेषणं सर्वस्मिन्निति विशेषणम् ।। प्राणादिमत्त्वादिति । इतीत्यनन्तरं हेतुरिति शेषः । जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यादेः केवलव्यतिरेकीति संज्ञायां किन्निमित्तमिति जिज्ञासायामाह ।। अस्य हीति । यथा पट इतीत्यनन्तरं निदर्शनसद्भावादिति शेषः ।। अन्वय इति । निदर्शनाभावादिति शेषः । दृष्टान्ताभावमेवोपपादयति ।। सर्वस्यापीत्यादिना ।। तेनेति । केवलव्यतिरेकित्वेन । एतत्प्राणादिमत्त्वादित्यनुमानमित्यर्थः ।