प्रमाणपद्धतिः

हेत्वाभासाः

(७२) प्रमाणपद्धतिः

हेत्वाभासः ।। पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्य्वावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति हेतोः पञ्चरूपाणि । तत्रान्वयव्यतिरेकिणः पञ्चापि विवक्षितानि । इतरयोस्तु चत्वारि । केवलान्वयिनो विपक्षाभावेन ततो व्यावृत्त्यभावात् । केवलव्यतिरेकिणः सपक्षाभावेन तत्र सत्त्वानुपपत्तेः । तत्र विवक्षितरूपेषु कतिपयसहिताः कतिपयरहिता हेत्वाभासाः । ते चासिद्धविरुद्धानेकान्तिकानध्यवसितकालात्ययापदिष्टसत्प्रतिपक्षप्रकरणसमाः । तत्र व्याप्तस्य पक्षधर्मत्वप्रमितिः सिद्धिः । तदभावोऽसिद्धः । तद्वानसिद्धः । स चतुर्विधः । व्याप्यत्वासिद्ध आश्रयसिद्धः पक्षधर्मत्वासिद्ध एतत्प्रमित्यसिद्धश्चेति । तत्र व्याप्यत्वासिद्धो द्विविधः । साध्यसम्बन्धरहितः सोपाधिकसम्बन्धश्चेति । आद्यो यथा । सर्वं क्षणिकं सत्त्वादिति । अयमुभयसम्बन्धाभावादव्याप्तावन्तर्भूतः । द्वितीयो यथा । वैधी हिसाऽधर्मसाधनम् । हिंसात्वाद्ब्रह्महिंसावदिति । हिंसात्वपापसाधनयोः सम्बन्धे निषिद्धत्वस्योपाधेः सत्त्वात् ।

जयतीर्थविजय

जरन्नैयायिकमतमाह ।। ते चेति । असिद्धं निरूपयितुं तद्घटकीभूतामसिद्धिं निरूपयति । तत्रेति ।। साध्यसम्बन्धेति । साध्यस्यालीकत्वेन निमित्तेनेत्यर्थः । अतो नास्याविरुद्धेन साङ्कर्यमिति ध्येयम् । आद्यं व्याप्यत्वासिद्धमसिद्धस्त्रिविधेत्यादिना स्वेन विभक्तायामव्याप्तावन्तर्भावयति । अयमिति ।। उभयसम्बन्धाभावादिति । पक्षातिरिक्ते साध्यतदभावसम्बन्धाभावादित्यर्थः ।

भावदीपः

सूत्रक्रमप्राप्तद्वाविंशहेत्वाभासलक्षणं विवक्षुरुपोद्घातमाह ।। पक्षधर्मत्वमित्यादिना । पक्षादेर्लक्षणं प्रागुक्तमिति भावः । इदानीं लक्षणमाह ।। तत्र विवक्षितेति । तत्रेत्यस्यैवं सतीति वा त्रिविधानुमानेष्विति वाऽर्थः । उक्तानुमानत्रये यत्र यावन्ति विवक्षितानि तेषु कतिपयसहिताः कतिपयरहिता इत्यर्थः । हेतुवदवभासनत्वघटनाय कतिपयसहिता इत्युक्तम् । तान्पररीत्या परिगणयति । ते चेति । तेषां लक्षणान्यवान्तरभेदांश्चोक्त्वा यथायोगमुक्तेष्वन्तर्भावमाह ।। तत्र व्याप्तस्येत्यादिना । तद्वानिति । व्याप्तिपक्षधर्मतावत्त्वेन प्रमितिहीन इत्यर्थः ।। स चतुर्विध इति । वह्निव्याप्यधूमवान्पर्वत इत्येवंरूपसिद्ध्यभावत्वं च व्याप्त्यभावेनाश्रयाभावेन वा पक्षधर्मत्वाभावेन वा व्याप्त्यादित्रयस्य प्रमित्यभावेन वेति भावेनाह ।। व्याप्यत्वासिद्ध इत्यादिना ।। एतत्प्रमितीति । व्याप्त्यादेः प्रमित्यसिद्धश्चेत्यर्थः । अज्ञानासिद्ध इति यावत् ।। साध्यसम्बन्धेति । व्याप्तिग्रहस्थलरूपदृष्टान्तहीनतया साध्यसम्बन्धरहित इत्यर्थः ।। अयमिति । साध्यसम्बन्धहीनासिद्धः प्रागुक्तेऽव्याप्तिरूपहेतुविरोधावान्तरभेदे साध्यतदभावरूपोभयसम्बन्धाभावरूपेऽन्तर्भूत इत्यर्थः । ब्रह्महिंसावदितीत्यनन्तरमत्र हेतुसाध्ययोः सम्बन्धः सोपाधिक इति शेषः ।

श्रीविजयीन्द्रतीर्थ

।। अपसिद्धान्तस्त्विति । स्ववचनपदार्थः प्रागुक्तः । हेत्वाभासरूपनिग्रहस्थानलक्षणं वक्तुमाह ।। पक्षेति ।। तत्रेति । अनुमित्यनुकूलरहित इति लक्षणार्थः । तच्चान्वयादौ यथायोगं द्रष्टव्यम् । अतः परमाद्वितीयप्रकरणसमाप्तिः स्फुटो ग्रन्थः क्वचिद्य्वाख्यायते ।। अयमुभयसम्बन्धेति । पराभिमतलाक्षणिकत्वासिद्धेरिति भावः ।

श्रीवेदेशभिक्षु

क्रमागतहेत्वाभासरूपनिग्रहस्थानान्तर्भावकथनाय तावल्लक्षणं वक्तुमुपोद्घातेन किञ्चिदाह । तत्रेत्यादिना । इदानीं लक्षणमाह ।। तत्रेति । तेष्वित्यर्थः ।। विवक्षितरूपेष्विति । यथायोग्यं चतुर्षु पञ्चसु वेत्यर्थः । घटादिनिरासायाद्यं विशेषणम् । सद्धेतुव्यावृत्त्यै द्वितीयमिति बोध्यम् ।। तद्वानिति । व्याप्तस्य पक्षधर्मत्वप्रमित्यभाववानित्यर्थः । अयं च विशिष्टाभावः । क्वचिद्य्वाप्त्यभावेन क्वचित्पक्षाभावेन क्वापि हेत्वभावेन क्वचित्प्रतीत्यभावेन चतुर्विधोऽपि लक्ष्येऽनुगत इति ध्येयम् ।। उभयसम्बन्धाभावादिति । यद्यप्यत्र क्षणिके क्षण एव साध्यसम्बन्धोऽस्ति । तथाऽपि सर्वस्यापि पक्षत्वेन अस्यापि तदन्तःप्रवेशे पक्षातिरिक्ते साध्यतदभावसम्बन्धाभाव इति द्रष्टव्यम् ।

अभिनवामृतम्

।। विवक्षितरूपेष्विति । कतिपयरहिता इत्येव लक्षणम् । कतिपयसहिता इति स्पष्टार्थमुक्तम् ।। उभयसम्बन्धाभावादिति । उभयसम्बन्धाभावप्रयुक्ता या व्याप्तिस्तत्रान्तर्भूत इत्यर्थः। तृतीयव्याप्तिरिति यावत् ।। सोपाधिकस्येति । सोपाधिकस्य नोपाधिना दूषणे नाभासत्वमपि त्वव्याप्त्या वा समबलप्रमाणविरोधेन वाऽऽभासत्वमिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ।

आदर्शः

किञ्चैकस्यैव तत्प्रमेयाङ्गीकारानङ्गीकारयोर्व्याहतत्वेन तज्ज्ञापकयोर्वचनयोरपि व्याहतत्वेन दुष्टत्वं वाच्यम् । तथा केवलाचार्यवचनत्वमात्रस्याङ्गीकारज्ञापकत्वाभावेन तत्त्वेन नापसिद्धान्तशरीरे निवेश उचितः । वादकथायां तु गुरूक्तस्य दोषकथनाभावादिति विभावनीयम् । अनुमिति प्रतिबन्धकयथार्थज्ञानविषयत्वं नवीनाभिमतम् । तं हेत्वाभाससामान्यलक्षणत्वेनाङ्गीकर्तुमुचितम् । अव्याप्तिग्रस्तत्वेन सार्वत्रिकव्यवहाराहेतुत्वात् । तथा हि निर्वह्निवह्निमानित्यादिस्थलीयवह्न्यभाववद्वह्न्यभावरूपबाधादौ प्रतिबध्यज्ञानाप्रसिद्ध्योक्तलक्षणासम्भवात् । यद्यपि तादृशस्थले तस्य हेतोर्हेत्वाभासत्वासम्भवेऽपि तादृशन्यायप्रयोक्तुर्व्याघातेन निग्रहः सम्भवति । तथाऽपि तत्र हेत्वाभासत्वस्य सर्वसम्मतस्यानुपपत्तिरिति । अतो हेतुसाध्यभेदेन दोषाणामपि भिन्नत्वाद्यादृशस्थले प्रतिबध्यज्ञानाप्रसिद्धिस्तादृशबाधान्यतमत्वं लक्षणम् । यत्र तु प्रतिबध्यज्ञानाप्रसिद्धिस्तत्रत्यदोषाणामेवेदं लक्षणमिति वाच्यम् । एवं चैकोक्त्या सर्वत्र प्रसिद्धदोषबोधो न सम्भवति । यद्रूपावच्छिन्नविषयतानिरूपकानुमितिसामान्ये प्रकृतपक्षे प्रकृतसाध्यावगाहित्वाभावस्तत्त्वं बाधत्वमित्युक्तावुदासीनपदार्थसामान्येऽतिव्याप्तिः । तादृशानुमितेरेवाप्रसिद्धत्वेनानुमितिसामान्येऽप्युक्ताभावसत्त्वात् । अतस्तद्विहाय प्राचीनाभिमतं लक्षणत्वेनाङ्गीकर्तुमुचितमित्याशयेनाह ।। सपक्षे सत्त्वमिति । हेत्वाभास इत्यत्र हेतुवदवभासत इति व्युत्पत्त्या हेतुसादृश्यप्रकारकज्ञानविषयत्वमित्यर्थः प्रतीयते । तथा च हेतुसादृश्यं पदात्प्रतीतं सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् । तथा च सद्धेतुभिन्नत्वमेवात्र लक्षणम् । अन्यस्य प्रयोजनाभावात् । सति प्रयोजने निवेश्यतां वा नात्राग्रहः । पञ्चरूपत्वं सद्धेतुत्वं तद्भिन्नत्वं च पञ्चरूपाभाववत्त्वमेवेति वक्तुं पञ्चरूपाणि तावदाह ।। पक्षधर्मत्वमिति ।। विवक्षितरूपेष्विति । हेतुसादृश्यहेत्वाभासपदशक्यतावच्छेदककोटिप्रविष्टत्वेन तत्सादृश्यतद्गतभूयोधर्मवत्त्वं विनाऽसम्भवात्सादृश्योपपादनायाह ।। कतिपयसहिता इति । तथा च यादृशहेतौ यावन्ति पञ्चसु मध्येऽपेक्षितानि तावद्रूपाभाववत्त्वमिति लक्षणं पर्यवसितम् । तेन केवलान्वयिनि विपक्षस्यैवाभावेन तद्वृत्तित्वाप्रसिद्धावपि न दोषः । तयोः पञ्चरूपवत्त्वस्यानपेक्षितत्वात् । विपक्षादिसत्त्वस्थल एव पञ्चरूपत्वस्यापेक्षितत्वात् । यज्जातीययावन्तो धर्माः प्रकृतानुमितिजनकतायामुपयुक्तास्तज्जातीयत्वेनाभिमतहेतोस्तावद्धर्मकूटराहित्यमित्येकोक्त्या सर्वस्थलीयदोषाणां बुद्धिस्थत्वं सम्भवतीति भावः । न च वह्निमान्धूमादित्यादौ बाधाप्रसिद्ध्या सत्प्रतिपक्षाप्रसिद्ध्या बाधितत्वादेरप्यप्रसिद्ध्याऽबाधितत्वमप्रसिद्धम् । सर्वस्थलीयबाधेषु बाधत्वमखण्डजातिर्येनानुगतबाधत्वावच्छिन्नप्रतियोगिताकाभावो निवेशयितुं शक्येत । तथा सति वन्ह्यभाववान्पर्वत इत्यत्र वह्निमत्पर्वतस्य तज्ज्ञानस्य वा बाधत्वेन तस्यैकज्ञानविषयत्वादिसम्बन्धेन प्रकृतहेतौ सत्त्वसम्भवेनाबाधितत्वस्य पुनः प्रसिद्ध्यापत्तेः । किन्तु तत्तत्स्थलीयबाधाभिन्नभिन्ना एव निर्वाच्याः । तथा च सद्धेतुस्थले बाधाप्रसिद्धिः । भ्रमरूपबाधप्रसिद्धावपि तद्विशिष्टत्वस्यैव हेतौ सत्त्वादिति वाच्यम् । स्वजन्यानुमितित्वेनाभिमतं यज्ज्ञानं तद्विपरीतज्ञानसामान्यनिष्ठप्रमात्वाभावकत्वस्याबाधितत्वरूपत्वात् । तादृशविपरीतानुमितिजनकपरामर्शसामान्यनिष्ठभ्रमत्वकत्वस्य प्रमात्वाभावकत्वस्य वाऽसत्प्रतिपक्षितत्वरूपत्वेन प्रसिद्धत्वात् ।। सर्वं क्षणिकं सत्त्वादितीति । अर्थक्रियाकारित्वादित्यर्थः । तेन तत्तत्क्षणविशिष्टेषु क्षणिकेषु सत्त्वात्कथं साध्यसम्बन्धाभाव इति शङ्कानवकाशः । तादृशविशिष्टेष्वर्थक्रियाकारित्वाभावात् । वस्तुतस्तु नैयायिकमते क्षणद्वयावस्थान एव क्षणिकत्वव्यवहारविषयत्वादेकक्षणमात्रावस्थायित्वं कुत्रापि नास्तीत्युदाहरणत्वं सम्भवतीति ध्येयम् । न च साध्याप्रसिद्धिः । स्ववृत्तित्वस्वोत्तरकालवृत्तित्वोभयसम्बन्धेन क्षणस्यैव साध्यत्वाद्दिनाद्यात्मककालप्रतियोगिकोक्तसम्बन्धस्यापि दिनमात्रवृत्तिपदार्थे प्रसिद्धत्वात् ।

श्रीविट्टलभट्ट

परोदीरितहेत्वाभासानां स्वोक्तानुमानदोषेष्वन्तर्भावकथनाय हेत्वाभासलक्षणं वक्तुमुपोद्घातमाह ।। पक्षधर्मत्वमिति । पक्षादीनां लक्षणं प्रागुक्तमत्रानुसन्धेयम् । पक्षधर्मत्वं पक्षे विद्यमानत्वमित्यर्थः । विपक्षाद्य्वावृत्तिर्विपक्षे सत्त्वाभाव इत्यर्थः । अबाधितविषयत्वं तदभावनिश्चायकं प्रमाणं बाधस्तद्वान्बाधितो धृतांशविषयकत्वमित्यर्थः । असत्प्रतिपक्षत्वं सन्विद्यमानः प्रतिपक्षः साध्यविपरीतसाध्यकत्वं हेत्वन्तरं यस्य तत्सत्प्रतिपक्षं तन्न भवतीत्येतन्न च सम्बध्यते । पञ्चापि रूपाणीत्यनुवर्तते । सत्प्रतिपक्षं तस्य भावस्तत्त्वमित्यर्थः । हेतोः पञ्चरूपाणि रूपाण्यङ्गानि हेतोः साध्यसाधकतायामुपयुक्तानीति यावत् ।। तत्रेति । बुद्धिसन्निहितत्वेन प्रकृते हेतुत्रयमित्यर्थः । इदमन्वयव्यतिरेकिण इत्यनेन च सम्बध्यते । यद्वा तत्र हेतुरूपेष्वित्यर्थः । अस्मिन्पक्षे इदं पदं पञ्चापीत्यनेन चत्वारीत्यनेन च सम्बध्यते । पञ्चापि रूपाणीत्यनुवर्तते । विवक्षितान्यङ्गीकृतानीत्यर्थः । अपिः सम्भावनार्थः । तर्हीतरयोः कतीति जिज्ञासायामाह ।। इतरयोस्त्विति । अन्वयव्यतिरेकिव्यतिरिक्तयोः केवलान्वयिकेवलव्यतिरेकिणोरित्यर्थः । चत्वारि रूपाणि विवक्षितानीत्यनुवर्तते ।। तत्रेति । यस्य हेतोर्यावन्ति रूपाण्यभिमतानि तावत्सु रूपेषु कतिपयरहिता इत्येव लक्षणोक्तिः । कतिपयसहिता इति विशेषणं हेत्वाभासेषु हेतुपदप्रयोगसम्भवनार्थं स्वरूपकथनपरम् ।। अयमुभयसम्बन्धाभावादिति । साध्यतदभावसम्बन्धाभावादित्यर्थः । स व्याप्त्यन्तर्गतः । अव्याप्तिस्त्रिविधा । लिङ्गस्य साध्यतदभावाभ्यां सम्बन्धः ।। उभयसम्बन्धाभावादिति । तत्रास्य हेतोरव्याप्तिविशेषोभयसम्बन्धाभावादयं व्याप्यत्वासिद्धोऽव्याप्त्यन्तर्गत इत्यर्थः । सामान्यं विना विशेषायोगादिति भावः ।