प्रमाणपद्धतिः
(४२) प्रमाणपद्धतिः
।। १८ ।। मतानुज्ञा । इष्टापादनं मतानुज्ञा । यथा केनचित्स्वस्य चोरत्वमभ्युपेत्य त्वं चोरः पुरुषत्वादित्युक्ते तर्हि तवापि चोरत्वं प्रसज्येतेति । इयमसङ्गतिरेव ।
जयतीर्थविजय
।। इष्टापादनमिति । परस्येति शेषः । तदुक्तं वरदराजेन
अनिष्टभ्रमतोऽन्येषामिष्टमापादयेद्यदि ।
मतानुज्ञेति तस्य स्यान्निग्रहस्थानमुद्भटम् ।। इति ।
अन्तर्भावयति ।। इयमिति ।। असङ्गतिरेवेति । तवापि चोरत्वं प्रसज्येतेत्यापादनस्यानाकाङ्क्षिताभिधानरूपत्वादिति भावः ।
भावदीपः
इयमसङ्गतिरेवेति । तर्केऽनिष्टापादनस्य सङ्गतत्वेनेष्टापादनस्यानाकाङ्क्षितत्वादिति भावः।
श्रीविजयीन्द्रतीर्थ
।। इष्टेति । कथायामिति शेषः ।। इयमिति । अनिष्टापादनस्यैवाकाङ्क्षितत्वात्तदभावेऽसङ्गतिरेव दोष इत्यर्थः ।
श्रीवेदेशभिक्षु
।। इष्टापादनमिति । कथायामित्युपस्कर्तव्यम् । अत्रानिष्टभ्रमत इति पूरणीयम् । तच्चेष्टस्यापादनासम्भवेनासम्भववारणाय तथा चोक्तमनिष्टभ्रमतोऽन्येषामिति ।। असङ्गतिरेवेति । अनिष्टापादनस्यैव सङ्गतत्वादिति भावः ।
अभिनवामृतम्
।। प्रसज्येत इति । तं प्रत्यापादनमिति शेषः ।। इयमसङ्गतिरेवेति । अनिष्टापादनस्यैव सङ्गतित्वादिति भावः ।
आदर्शः
।। इष्टापादनं मतानुज्ञेति द्वयं चासङ्गतिरेवेति । इष्टापादनस्याजिज्ञासितोक्तित्वादिति भावः । उक्तदूषणस्यैव जिज्ञासितत्वात् । इष्टस्याजिज्ञासितत्वात् । अजिज्ञासितोक्तिरिति वा ।। असङ्गतिरेवेति । अनिष्टोक्तेरेव जिज्ञासितत्वेनेष्टापत्तिरूपोक्तेरजिज्ञासितत्वात् । न चेष्टापत्तित्वेनापि पराजयहेतुताऽस्त्विति वाच्यम् । तथा सत्यप्रयोजकत्वात् । न हीष्टापत्तिकर्तृत्वं वाद्यादिनिष्ठविपर्ययादौ साक्षात्प्रयोजकम् । इष्टेऽप्यनिष्टत्वभ्रमो यदा वादिप्रतिवादिनोरस्ति तदा तादृशेष्टापादनकर्तुः पराजयादृष्टेः । प्रतिवादिन एव निवृत्तिदर्शनाच्च । न चेष्टत्वेन ज्ञातं यत्तदापादनकर्तृत्वमेव तथेति वाच्यम् । तादृशस्यापादनं कृत्वा पश्चात्तस्यानिष्टत्वं व्यवस्थापयितुः पराजयादर्शनात् । यथा वेदापौरुषेयत्वानङ्गीकारे धर्माद्यसिद्धिमापाद्य चार्वाकेणापत्तौ कृतायां तदनङ्गीकारस्यानिष्टत्वं व्यवस्थापयताम् । तथा च यत्काले यद्रूपावच्छिन्नं यस्य पुरुषस्य जिज्ञासितं तद्रूपावच्छिन्नत्वेन ज्ञातं तं प्रति बोधनीयं नान्यत् । अन्यथा वैय्यर्थ्यापत्तेः । तथा चेष्टापत्तिस्थले इष्टस्य तत्काले जिज्ञासितत्वेनाज्ञातत्वात्तदा पराजयहेतुत्वं वक्तव्यम् । अजिज्ञासितत्वं च जिज्ञासितत्वेनाज्ञातत्वमेवेति । अजिज्ञासितत्वेन ज्ञातोक्तिरसङ्गतिः । तस्या एव पराजयहेतुरिति । न चानिष्टत्वं नाम स्वपक्षविरोधित्वम् । तद्भिन्नत्वमेवेष्टत्वं तदापत्तिकर्तृत्वमेव साक्षात्पराजयहेतुर्भवत्येव । अविरोधिनि विरोधित्वभ्रमं विना तदापादनायोगादिति वाच्यम् । तादृशभ्रमाभावेऽपि विरोधित्वमुत्पादयामीति स्वपाण्डित्याभिमानेन तदापादन सम्भवात् । यदा प्रतिवाद्यादीनां प्रतिवाद्युक्तपक्षे न दूषणे जिज्ञासा किन्तु वादिसाधनविषये । तद्दार्ढ्याय प्रमेयान्तराकाङ्क्षा । तदा प्रतिवाद्युक्तपक्षे दूषणं वक्तुरपि दोषदर्शनात् । तस्मादन्वय व्यतिरेकाभ्यामजिज्ञासितोक्तेरेव पराजयनिमित्तत्वम् । तस्मादिष्टापत्तेरसङ्गतत्वेनैव दोषत्वमिति ज्ञातव्यम् ।
श्रीविट्टलभट्ट
।। इष्टापादनमिति ।। इयमसङ्गतिरेवेति । इष्टापादनमिति वाद्युक्तदूषणस्यैवाकाङ्क्षितत्वादिष्टापादनस्यादूषणतयेष्टापादनरूपा मतानुज्ञाऽऽकाङ्क्षितत्वाभावरूपाऽसङ्गतिरेवेति बोध्यम् ।