प्रमाणपद्धतिः
(२) प्रमाणपद्धतिः
चतुष्टयी खलु धर्माणां गतिः । केचित्समवृत्तयो यथा निषिद्धत्वपापसाधनत्वे । यत्र निषीद्धत्वं तत्र पापसाधनत्वं यत्र पापसाधनत्वं तत्र निषिद्धत्वमिति नियमात् । तत्र द्वयोरप्यन्योन्यं व्याप्यव्यापकभावः । केचिन्न्यूनाधिकवृत्तयः । यथा धूमवत्त्वाग्निमत्त्वे । तत्र न्यूनवृत्ति धूमवत्त्वं व्याप्यमेव । अधिकवृत्यग्निमत्त्वं व्यापकमेव । केचित्परस्परपरिहारेणैव वर्तन्ते । यथा गोत्वाश्वत्वे । यतो यत्र गोत्वं न तत्र सर्वथाऽश्वत्वम् । यत्र चाश्वत्वं न तत्र सर्वथा गोत्वम् । तेषां नान्योन्यं व्याप्यव्यापकभावः । सम्बन्धस्यैवाभावात् । केचित्क्कचित्समाविष्टा अपि क्वचित्परस्परपरिहारेणैव वर्तन्ते । यथा पाचकत्वपुरुषत्वे । तयोः पुरुषविशेषे समावेशेऽपि पाचकत्वं पुरुषत्वपरिहारेण स्त्रीषु वर्तते । पुरुषत्वमपि पाचकत्वपरिहारेणापचति पुरुषे वर्तते । तेऽपि नान्योन्यं व्याप्यव्यापकभाववन्तः । सत्यपि सम्बन्धे परस्परव्यभिचारित्वात् । तत्र व्याप्यो धर्मो व्यापकप्रमितिसाधनं भवन्ननुमानमित्युच्यते । व्यापकश्चानुमेय इति ।
जयतीर्थविजय
शिष्यव्युत्पादनायानुपपत्तिनियम्यं साहचर्यमनेकविधमिति वक्ष्यन्साहचर्यनिरूपकान् धर्मभेदानाह ।। चतुष्टयीत्यादिना ।। व्याप्यमेवेति । न तु व्यापकमित्यर्थः । अधिकवृत्तीत्यग्निमत्त्वस्य व्यापकत्वे हेतुगर्भविशेषणम् । अधिकवृत्तित्वादिति भावः । व्यापकमेव न तु व्याप्यमपीति भावः ।। सम्बन्धस्यैवेति । अधोदेशनदीपूरोर्ध्वदेशवृष्ट्योरिव ज्ञाप्यज्ञापकभावसम्बन्धस्याभावादिति तदर्थः । न तु सामानाधिकरण्यसम्बन्धस्यैवाभावादित्यर्थः । तदभावेऽपि नदीपूरवृष्ट्योरनुपपत्तिलक्षण व्याप्तेरुपपादितत्वादिति ज्ञेयम् ।। सत्यपि सम्बन्ध इति । सामानाधिकरण्ये सत्यपीत्यर्थः । परस्परव्यभिचारित्वात् परस्परं विनोपपत्तेरित्यर्थः । नन्वनुमानशब्दस्य ल्युडन्तत्वाल्ल्युटश्च कृत्यल्युटो बहुलम् करणाधिकरणयोश्चेत्यनेकार्थत्वादत्र कोऽर्थो विवक्षित इति प्रश्नानुपसंहारव्याजेन परिहरति ।। तत्रेति । इत्युक्तचतुर्विधधर्माणां मध्य इत्यर्थः ।। प्रमितिसाधनं भवन्निति । एवं चानुमीयते येन तदनुमानमिति करणसाधनोऽनुमानशब्द इत्युक्तं भवति ।
भावदीपः
अत्र विशेषणविशेष्ययोर्व्यावर्त्यं व्यक्तीकर्तुं तथाऽव्यभिचरितत्वं सम्बन्धिनोरन्योन्यसम्बन्धस्यान्यतरेणान्यतरसम्बन्धस्य चेति द्वेधा विवक्षितमिति दर्शयितुं च धर्माणां स्थितिमाह ।। चतुष्टयीति । धर्माणां गतिः स्थितिश्चतुष्टयी चतुरवयविका चतुष्प्रकारेति यावत् । सङ्ख्याया अवयवे तयबिति चतुश्शब्दादवयवार्थे तयप् ।। व्याप्यमेवेति । एतेन समवृत्तयो न्यूनाधिकवृत्तयश्चोभयेऽपि लक्ष्या इति दर्शितम् । एवकारेण धूमस्याग्निसम्बन्धाव्यभिचारेऽप्यग्नेर्धूमसम्बन्धस्य व्यभिचारात्कथं तयोस्सम्बन्धोऽव्यभिचरित इति निरस्तम् । अग्नेर्धूमसम्बन्धस्यालक्ष्यत्वेनादोषतया तस्याव्यभिचरितत्वविशेषणेन व्यावर्त्यत्वादिति । सम्बन्धपदव्यावर्त्यमाह ।। केचिदिति । अव्यभिचरितत्वविशेषणव्यावर्त्यमाह । केचिदिति । एवमियता ग्रन्थेन व्याप्यमुपपत्तिरिति व्युत्पाद्याधुना करणसाधनल्युडन्तानुमानपदोक्तानुमितिकरणत्वं दर्शयन्नुपपत्तिशब्दोक्तव्याप्यस्यानुमानत्वं व्यनक्ति । तत्रेति । व्याप्यव्यापकयोर्मध्य इत्यर्थः ।
श्रीवेदेशभिक्षु
ननु धर्माणां बहुविधत्वात्केचिद्य्वभिचारिणो येऽव्यभिचारपदव्यवच्छेद्याः के च व्याप्यव्यापकभावोपेता येऽत्र लक्ष्याः । न हि धूमानुमान इव सर्वत्र व्याप्यव्यापकभावप्रकारः । कीदृशस्य व्याप्यत्वं व्यापकत्वं च व्याप्यव्यापकयोश्च कस्यानुमानत्वं कस्य चानुमेयत्वमिति जिज्ञासायामाह ।। चतुष्टयीत्यादिना । गतिः स्थितिः ।
अभिनवामृतम्
।। धर्माणां गतिरिति । धर्मयोश्च धर्मयोश्च धर्मयोश्च धर्माणां चतुर्धेत्यर्थः । द्वयोर्द्वयोर्धर्मयोर्मेलनेन स्वरूपानिरीक्षणे वक्ष्यमाणप्रकारेण चतुर्धा गतिर्दृश्यत इत्यर्थः ।। अन्योन्यं व्याप्यव्यापकभाव इति । अत्र सर्वत्रापि व्याप्यशब्दो व्याप्त्याश्रयपरः । व्यापकशब्दस्तु व्याप्तिनिरूपणकर्तृपर इति बोध्यम् ।
आदर्शः
किञ्च व्याप्तिकर्मत्वं न व्याप्यत्वं किन्तु व्याप्तिसम्बन्धित्वमेव । अत एव पापसाधनत्वव्यापकेऽपि निषिद्धत्वे व्याप्यत्वव्यवहारः । उक्तरीत्या व्याप्तिकर्मत्वस्यैव व्याप्यत्वरूपत्वे सर्वस्यापि पदार्थस्य व्याप्तिग्रहदशायामनुमापकत्वमध्यक्षसिद्धमिति व्याप्तिज्ञानाहितानुमिति जननानुकूलशक्तिमत्त्वं केवलान्वयीति न लक्ष्यालक्ष्यविभागो युज्यत इत्यत आह ।। चतुष्टयी खल्वित्यादिना । चतुष्टयी चतुः प्रकारोपेता गतिः स्थितिः समव्याप्ता विषमव्याप्ता व्यभिचारिणो विरुद्धा इति चतुर्विधा धर्मा इत्यर्थः । व्याप्यमेव व्याप्यत्वेन व्यवहारविषय एव । व्यापकमेव व्यापकत्वेन व्यवहारविषय इत्यर्थः । अन्योन्यं न व्याप्यव्यापकभाव इति तत्त्वेन व्यवहारविषयत्वाभावो दृष्टान्तविधयोक्तिः ।। परस्परव्यभिचारित्वादिति । परस्पराभावसम्बन्धवत्त्वादित्यर्थः ।। तत्र व्याप्यो धर्म इति । व्याप्त्याश्रय इत्यर्थः । अयमाशयः । अत्र तत्पक्षतत्साध्यकानुमितिबोधकपदसमभिव्याहृतसद्धेतुपदव्यवहारविषयो लक्ष्यः । तादृशव्यवहारविषयावच्छेदकस्य निरुक्तिः कर्तव्या । लोके व्याप्त्याश्रये व्याप्य इति प्रचुरव्यवहारः प्राय आश्रयस्यैव कर्मत्वात् । व्याप्तिभ्रमेणानुमितिजननेऽपि तादृशानुमितिजननानुकूला शक्तिर्न स्वारसिकी किन्त्वाहिता व्याप्तिभ्रमात्मकदोषप्रयोज्यत्वात् । तत्प्रमाधीना शक्तिः स्वाभाविकी प्रमाधीनत्वात् दोषाप्रयोज्यत्वात् । अत एव व्याप्त्याश्रय एव लोकानां व्याप्य इति व्यवहारः । न च भ्रमाहितशक्तिरपि स्वाभाविकी । तथा सति विरुद्धेऽपि व्याप्य इति व्यवहारापत्तेः ।
नन्वत एव न व्याप्तिकर्मत्वं व्याप्यपदप्रवृत्तिनिमित्तमिति चेत् । कर्मवाचकयत्प्रत्ययान्तत्वेन व्याप्तिकर्मत्वावच्छिन्नवाचकत्वस्य प्रमितत्वाद्वह्निर्धूमं व्याप्नोतीति प्रयोगेन धूमादेः कर्मत्वस्यावश्यकत्वाच्च । न चाश्रयत्वमेव व्याप्तिकर्मत्वमिति वक्तुं युक्तम् । क्रियाजन्यफलशालित्वस्य कर्मत्वरूपत्वस्य सुप्रसिद्धत्वात् । तादृशकर्मबोधतात्पर्येण धूमो वह्निं व्याप्नोतीति मुख्यप्रयोगस्य दुर्वारत्वात् । तस्माद्भ्रमाहितशक्तिरस्वाभाविकी । बाधोत्तरं तादृशशक्तेरसत्त्वेन कादाचित्कत्वात् । अत एव धूमादौ व्याप्तिग्रहेऽप्रामाण्यग्रहकालेऽनुमित्यजननेऽपि धूमोऽनुमितिजनक एवेति लोका व्यवहरन्ति । किञ्च यत्र धूमस्तत्राग्निरिति व्याप्तेर्धूमोऽनुमितिजनक इति लोकप्रवादः । पञ्चम्याः प्रयोजकत्वमर्थः । तस्य जनकतायामन्वयः । तथा च व्याप्तिप्रयोज्यत्वं जनकतारूपायां शक्तौ सिध्यति । न च तत्र ज्ञाप्यत्वं पञ्चम्यर्थः । कुतो धूमाद्वन्ह्यनुमितिर्जायते प्रमेयत्वान्न जायत इति प्रश्नेऽस्य वाक्यस्योत्तरत्वानुपपत्तेः । तत्र धूमनिष्ठानुमितिजनकतायां निमित्तस्यैव पृष्टत्वेन वह्नौ प्रमाणस्यास्पष्टत्वात् । धूमज्ञानवह्न्यनुमित्यो र्जन्यजनकभावे वा प्रमाणस्यास्पष्टत्वात् । व्याप्तिस्तु ज्ञातैव सहकारिणीति व्याप्तिप्रमाप्रयोज्यैव शक्तिः स्वाभाविकी । तथा च व्याप्तिप्रमाप्रयोज्यानुमिति जननानुकूलशक्तिमत्त्वं सद्धेतावेव न केवलान्वयीति न सर्वस्यापि लक्ष्यत्वापत्तिः । व्याप्तिप्रमाप्रयोज्यतादृशशक्तिमत्त्वस्योपपत्तियुक्त्यादिपदमुख्यार्थत्वाभिप्रायेणानुमा युक्तिरेवोक्तेत्यादौ निर्दोषत्वरूपविशेषणानुक्तिः । न च बाधितादिव्यावृत्त्यर्थं निर्दोषत्वविशेषणमावश्यकमिति वाच्यम् । बाधितादेः समुचितदेशवृत्तित्वरूपपक्षधर्मताविकलत्वे तन्निष्ठानुमितिजननानुकूलशक्तेरप्यस्वाभाविकत्वात् सामानाधिकरण्यादिरूपसाध्यसम्बन्धज्ञानमात्रस्य नानुमितिजनकत्वं सम्भवति । तथा सति वह्निज्ञानादपि धूमप्रमोत्पत्त्यापत्तेः । न चोक्तमेव हेतुतावच्छेदकावच्छेदेन व्याप्तिज्ञानमेवानुमितिहेतुरिति वाच्यम् । हेतुतावच्छेदकावच्छेदेनेत्यस्य कोऽर्थः। हेतुतावच्छेदकाश्रयासु निखिलव्यक्तिष्विति चेत् । तर्ह्यनाद्यनन्तनिखिलकालीनधूमव्यक्त्युपस्थित्यभावकालेऽनुमित्यनुपपत्तिः । न चेष्टापत्तिः अनुभवविरोधात् । सामान्यप्रत्यासत्त्या तत्सम्भवेऽपि प्रकृतहेतुव्यक्तावपि सामानाधिकरण्यज्ञानस्य पूर्वं सत्त्वापत्त्या व्याप्तिज्ञानस्यैवानुमितिरूपत्वापत्तेः । उत्सर्गस्थले व्याप्तिज्ञानस्य नियमेन भ्रमत्वापत्तेश्च । तत्र नियमेनापवादस्थले साध्यसम्बन्धाभावेन तद्य्वक्तौ साध्यसम्बन्धावगाहित्वात् । मन्मते तु साध्याभावप्रतियोगिकानौपाधिकसम्बन्धस्य हेतावभावेन तद्वत्प्रतियोगिकाभाववत्साजात्यरूपव्याप्तिज्ञानस्य प्रमात्वसम्भवात् । अत एव हेतुतावच्छेदकव्यापकत्वं साध्यसम्बन्धे भासत इति पक्षोऽपि परास्तः । उत्सर्गव्याप्तिस्थले व्याप्तिग्रहस्याप्रमात्वापत्तेः । लाघवाद्यभावाच्चेति । किञ्च सामानाधिकरण्यमात्रस्य व्याप्तित्वे धूमो वह्निव्याप्य इतिवद्वह्निर्धूमव्याप्य इति व्यवहारः स्यात् । न चेष्टापत्तिः । व्यभिचारास्फूर्तिदशायां तादृशव्यवहारदर्शनादिति वाच्यम् । तर्हि विरुद्धेऽपि विरोधास्फूर्तिदशायां व्याप्य इति व्यवहारदर्शनेन तस्यापि व्याप्यत्वापत्त्या सामानाधिकरण्यस्यापि व्याप्तित्वं न स्यात् । ननु तथाऽपि पापसाधनत्वव्यापके निषिद्धत्वादावपि व्याप्य इति व्यवहाराद्य्वाप्तिसम्बन्धित्वमेव व्याप्यत्वं वक्तव्यं न तु व्याप्त्याश्रयत्वम् । व्याप्तिकर्मत्वं व्याप्तेः कर्म व्याप्यमित्युक्तिः कथमिति चेन्न । निषिद्धत्वादेरपि व्याप्त्याश्रयत्वमस्त्येव । व्याप्तिकर्मत्वमपि तत्रैव तयोः समव्याप्तत्वात्तदभिप्रायेणैव व्याप्य इति व्यवहारः । अन्यथा विषमव्याप्तिस्थले धूमो वह्निव्याप्य इतिवद्वह्निर्धूमव्याप्य इति व्यवहारापत्तेः । न चास्ति तथा व्यवहारः किन्तु व्यापक इत्येव । अतो व्याप्यो धर्मो व्यापकप्रमितिसाधनं भवन्नेवानुमानमुच्यत इति व्याप्तिकर्मत्वमेव व्याप्यत्वमित्युक्तिर्युक्तैवेति ।
श्रीविट्टलभट्ट
धर्माणामानन्त्यात्तेषु कयोरन्योन्यव्याप्यव्यापकभावः । कयोर्व्याप्यव्यापकभावमात्रं कयोश्च व्याप्यव्यापकभाव एव नास्तीति जिज्ञासायामाह ।। चतुष्टयी खल्विति । गतिः स्थितिरित्यर्थः ।। समवृत्तय इति । अन्यूनानधिकवृत्तिः सत्त्वं येषां ते तथोक्ता इत्यर्थः ।। यथानिषिद्धत्वं पापसाधनत्वे इति । समवृत्तित्वमुपपादयति ।। यत्रेति ।। निषिद्धत्वमित्यनन्तरं पापसाधनत्वमित्यनन्तरं वाऽस्तीति शेषः । इति हेतोः निषिद्धत्वपापसाधनत्वादेरन्योन्यसम्बन्धस्य नियमाददव्यभिचार इत्यर्थः ।। तत्र द्वयोरिति । तत्र तयोर्द्वयोर्निषिद्धत्वपापसाधनत्वयोरित्यर्थः ।। यथा धूमत्वाग्निमत्त्वे इति । न्यूनाधिकवृत्तीति शेषः ।। तत्रेति । तयोर्धूमाग्न्योरित्यर्थः । व्याप्यव्यापकभावाभावश्च द्वेधा ज्ञातव्य इत्याह ।। केचिदित्यादिना ।। परस्परपरिहारेणैव वर्तन्त इति । अन्योन्यसत्त्वाभाववत्येव वर्तन्त इत्यर्थः । यथा गोत्वाश्वत्वे इति । परस्परपरिहारेण वर्तमाने इति शेषः ।। यतो यत्र गोत्वमिति । गोत्वमित्यनन्तरमश्वत्वमित्यनन्तरं वाऽस्तीति शेषः । यत्र गोत्वमस्ति तत्र सर्वथा क्वाप्यश्वत्वं नास्ति । यत्राश्वत्वमस्ति तत्र सर्वथा क्वापि गोत्वं नास्ति । यतोऽतो गोत्वाश्वत्वे परस्परविरहेण वर्तमाने इति पूर्वेणान्वयः ।। तेषामिति । परस्परपरिहारेणैव वर्तमाने इत्यर्थः । यद्यपि परस्परपरिहारेणैव वर्तमानयोरधोदेशनदीपूरोर्ध्वदेशवृष्ट्योरस्ति व्याप्यव्यापकभावस्तथा नियमतः सामानाधिकरण्यरूपपर्यवसन्नाविनाभावरूपव्याप्त्यपेक्षया व्याप्यव्यापकभावपरमिदं वचनमिति नोक्तशङ्कावकाश इति बोध्यम् ।। सम्बन्धस्यैवाभावादिति । तदधिकरणवृत्तित्वरूपतत्सम्बन्धस्यैवाभावादित्यर्थः । एवेत्यनेन व्याप्यव्यापकभावस्य दौर्घट्यं ज्ञापयति ।। केचिदिति । क्वचित्समाविष्टा अपि क्वचिद्देशे सहवर्तमाना अपि । परस्परपरिहारेणान्योन्यसत्त्वव्यतिरेकेणेत्यर्थः ।। यथा पाचकत्वपुरुषत्वे इति । क्वचित् समावेशेऽपि परस्परपरिहारेण वर्तमाने इति शेषः । समावेशेऽपि सहावस्थानेऽपीत्यर्थः । अपचति पुरुषे वर्तमाने यतोऽत इति शेषः । अस्य पाचकत्वपुरुषत्वे समाविष्टेऽपि परस्परपरिहारेण वर्तमाने इति पूर्वेणान्वयः ।। तेऽपीति । यतः परस्परपरिहारेणैव वर्तमानधर्मास्तथा क्वचित्समाविष्टा अपि परस्परपरिहारेण वर्तमानाः पाचकत्वपुरुषत्वादयो धर्मा इत्यर्थः । तत्र व्याप्यभावहेतुमभिप्रेत्य तमुपपादयति ।। सत्यपि सम्बन्ध इति । पाचकत्वपुरुषत्वादिधर्माणां परस्परमन्योन्यं सम्बन्धे समानदेशत्वरूपसम्बन्धे सत्यपि व्यभिचारित्वात्स्वाश्रयजातीये सर्वत्रावर्तमानत्वादित्यर्थः । ननु व्याप्यव्यापकयोर्व्याप्तिसम्बन्धित्वाविशेषादुपपत्तिरनुमानमित्युक्तौ किं निमित्तमित्यत आह ।। तत्र व्याप्यो धर्म इति । तत्र व्याप्यव्यापकयोर्मध्य इत्यर्थः । अनुमीयतेऽनेनेति व्युत्पत्तिलब्धमनुमितिकरणत्वमनुमानमित्युक्तौ निमित्तं तच्च व्याप्य एवास्तीति भावः । नन्वनुमितिकरणत्वव्याप्यमनुमानमित्युक्तौ निमित्तं चेदनुमेयप्रमितिकरणत्वं वाच्यम् । व्यापकमिति साधनत्वोक्तिरसङ्गतेत्यत आह ।। व्यापकश्चेति ।। चकारो धर्म इत्यनुकर्षणार्थः । अनुमेयमितीत्यस्योच्यत इत्यनुवृत्तेनान्वयः ।