प्रमाणपद्धतिः

(११) प्रमाणपद्धतिः

अभावज्ञानकरणमभावप्रमाणम् । तत्रेदानीं कौरवाद्यभावो भारताद्यागमादवगम्यते । देवदत्तस्य चक्षुराद्यभावो रूपाद्यदर्शनलिङ्गगम्यः । सुखाद्यभावप्रमितिस्तु साक्षिप्रत्यक्षेणैव । पुरोवृत्तिघटाद्यभावप्रमितिस्तु खटिति जायमाना प्रत्यक्षफलमेव । न त्वनुपलब्धिमात्रजन्या । अपरोक्षज्ञानत्वात् । अनुपलब्धिस्त्ववर्जनीयसन्निधिरेव । यत्र त्वन्धकारे हस्तप्रसारणादिरूपपरामर्शेन घटाभावं प्रत्येति न तदाऽनुपलब्धिः करणम् । किन्तु लिङ्गत्वेनैव । अत्र घटो नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वादिति । एवं प्रातर्गजाद्यभावज्ञानमनुपलब्धिलिङ्गजन्यम् । अभावस्येन्द्रियसन्निकर्षानुपपत्तिरिति चेन्न । भाववदभावस्यापीन्द्रियसन्निकर्षे बाधकाभावात् । बहुलज्ञानेऽल्पज्ञानं सम्भवः । यथा शतमस्तीति ज्ञाने पञ्चाशज्ज्ञानम् । तदप्यनुमानमेव । देवदत्तः पञ्चाशद्वान् । शतवत्त्वात् । यथाऽहमिति प्रयोगसम्भवात् । प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः परिशेषः । यथा देवदत्तयज्ञदत्तावेताविति ज्ञाने सत्येकस्मिन्नायं यज्ञदत्त इति प्रतिषेधे देवदत्तबुद्धिः । इयमनुमानजन्या । अयं देवदत्तः । देवदत्तयज्ञदत्तयोरन्यतरत्वे सत्ययज्ञदत्तत्वात् । व्यतिरेकेण यज्ञदत्तवदिति प्रयोगोपपत्तेः। उपक्रमादीन्यप्यनुमानान्येव । अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यम् । यथाऽत्र वटे वैश्रवणोऽस्तीति वाक्यं तदागम एव एवमन्यान्यपि प्रमाणान्युक्तेष्वेवान्तर्भाव्यानि ।

जयतीर्थविजय

अभावप्रमाणमनुप्रमाणेष्वन्तर्भावयितुं तल्लक्षणमाह ।। अभावेति । अभावज्ञानलक्षणफलस्य यथासम्भवमागमादिसाध्यत्वान्न तदर्थं प्रमाणान्तरमपेक्षितमित्युपपादयति ।। तत्रेत्यादिना बाधकाभावादित्यन्तेन । तत्र विषयीभूतानामभावानां मध्ये । इदानीं कौरवनाशोत्तरकाले ।। आगमादिति । इदानीं तत्र प्रत्यक्षाद्यप्रवृत्तेरिति भावः । रूपाद्यदर्शनलिङ्गगम्यो देवदत्तो न चक्षुष्मान् । रूपाद्यदृष्टत्वादिति लिङ्गगम्य इत्यर्थः ।। पुरोवृत्तीति । खटिति शीघ्रम् । अनुमानादिजन्यत्वे व्याप्त्यनुसन्धानादिविलम्बितत्वेन खटित्यभावप्रमितिर्न स्यादिति भावः । एवकारव्यावर्त्यमाह ।। न त्विति । न त्वनुपलब्धिमात्रजन्या पररीत्याऽनुपलब्धिरूपकारणजन्या नेत्यर्थः । न त्वनुपलब्धिसहितेन्द्रियजन्या वेत्यर्थः । अनुपलब्धिस्त्ववर्जनीयसन्निधिरित्यनुपदमेव वक्ष्यमाणत्वात् । कुत इत्यत आह ।। अपरोक्षेति । इन्द्रियकरणकत्वाभावेऽपरोक्षज्ञानत्वं न स्यादिति भावः । नन्वनुपलब्धेरभावज्ञानं प्रति करणत्वाभावे घटाद्युपलब्धावपि घटाद्यभावज्ञानापत्तिः । अतोऽकामेनाप्यनुपलब्धिकरणकत्वमभावज्ञानस्याङ्गीकार्यमित्यत आह ।। अनुपलब्धिस्त्विति । पटं प्रत्यन्यथासिद्धरासभतन्तुरूपादिवदवर्जनीयसन्निधिरित्यर्थः । ननु मा भूज्खटित्यभावप्रतीतावनुपलब्धेः करणत्वम् । अन्धकारादौ परामर्शपूर्वकाभावज्ञाने तु स्यादित्यत आह ।। यत्र त्विति । प्रत्येति पुरुष इति शेषः ।। तदेति । नन्वनुपलब्धेः करणत्वे जितमनुपलब्धिप्रामाण्यवादिनेत्यत आह ।। किन्त्विति । एवं चानुपलब्धिरूपलिङ्गज्ञानमेवाभावज्ञाने कारणम् । न तु स्वरूपे सत्यनुपलब्धिरिति भावः । अनुपलब्धेर्लिङ्गीभावज्ञानभवनप्रकारमभिनीय दर्शयति ।। अत्रेति । ननु कश्चित्पुमान्प्रातर्गजाद्यज्ञानवता मार्गेण राजमन्दिरं गच्छन् गजादि निकटवृत्ति वस्तुजातं च पश्यंस्तदा गजास्तित्वनास्तित्वयोरुदासीन एव गच्छति । वस्तुतो मार्गे प्रातर्गजो नाभूदेव । पुनर्गजवार्तानभिज्ञ एव स्वगृहमेति । तं प्रति सायं कश्चित्पृच्छति । वस्तुतः प्रातस्तत्र गजोऽभूद्वा न वेति । एवं प्रष्टारं प्रति राजमन्दिरादागतो वदति प्रातस्तत्र गजो नाभूदिति । तस्य प्रातर्गजाद्यभावज्ञानमनुपलब्धिरूपलिङ्गजन्यमित्यवश्यमास्थेयम् । प्रत्यक्षानुमानयोः प्रातर्गजाभावविषय उदासीनत्वादित्यत आह ।। एवं प्रातरिति । अनुपलब्धिरूपलिङ्गजन्यं प्रातःकाले स्वरूपसता सायमनुसंहितेनानुपलब्धिरूपलिङ्गेन जन्यत इति भावः । स मार्गस्तदानीं गजाभाववान् । स्मरणार्हगजयोगित्वेनास्मर्यमाणत्वे सति स्मर्यमाणत्वादित्यनुपलब्धिलिङ्गमनुमानमत्र द्रष्टव्यम् ।

पुरोवृत्तिघटाद्यभावप्रमितिस्तु खटिति जायमानेत्यत्र शङ्कते ।। अभावस्येति । सन्निकर्षानुपपत्तिरद्रव्यत्वायुतसिद्धत्वेन चेन्द्रियाभावयोः संयोगसमवायानुपपत्तिरिति भावः । परिहरति ।। भाववदिति । इन्द्रियसन्निकर्षे इन्द्रियसंयोगादिलक्षण इत्यर्थः । द्रव्ययोरेव संयोग इति तु नैयायिकानां परिभाषामात्रमिति भावः । तदुक्तं विष्णुतत्त्वनिर्णयटीकायाम् । कोऽसौ सन्निकर्ष इति चेत्संयोग इति ब्रूम इत्यादि । सम्भवमनुमानेऽतर्भावयितुं तत्स्वरूपमाह ।। बहुलेति । बहुलज्ञाने बहुलमस्तीति ज्ञाने । तदुदाहृत्य दर्शयति । यथेति । पञ्चाशज्ज्ञानं पञ्चाशदस्यास्तीति ज्ञानमित्यर्थः । अन्तर्भावयति ।। तदपीति । अनुमानं प्रयुज्य दर्शयति ।। देवदत्त इति । परिशेषमनुमानेऽन्तर्भावयितुं तल्लक्षणमाह ।। प्रसक्तेति । प्रतिषेध इत्यनन्तरमन्यस्मिन्पुरुष इति शेषः । अयमिति पक्षनिर्देशः । देवदत्त इति साध्यनिर्देशः ।। उपक्रमादीनीति । उपक्रमोपसंहारादितात्पर्यलिङ्गानीत्यर्थः । अयमेतच्छब्दतात्पर्यगोचरः । (अप) वादं विनोपक्रान्तत्वात् । यत्र यदुपक्रम्यते तत्र तदपवादाभावे तत्तात्पर्यगोचर इत्याद्यनुमानान्यूह्यानि ।। तदागम एवेति । अदुष्टवाक्यरूपत्वादिति भावः । उक्तन्यायमन्यत्राप्यतिदिशति ।। एवमिति । अन्यान्यपि हस्ताङ्गुलिचेष्टादीनीत्यर्थः । उक्तेष्वनुमानादिष्वित्यर्थः ।

भावदीपः

।। अभावेति । प्रमेयाभावज्ञानकरणं यत्तदभावप्रमाणमित्यर्थः । अभावज्ञानकरणमनेकविधम् । यथायथं प्रत्यक्षादित्रय एवान्तर्भूतं न ततः पृथगिति भावेनाह ।। तत्रेति । अभावेषु मध्य इत्यर्थः । तदानीं तत्र प्रत्यक्षमागमो वाऽपि भवतीतीदानीमित्युक्तिः ।। भारताद्यागमादिति । अतोऽनुपलब्धिरूपं प्रमाणं तदर्थं पृथङ्नाभ्युपेयमिति भावः ।। चक्षुरादीति । श्रोत्राद्यभावः शब्दाद्यज्ञानलिङ्गगम्य इत्यादिपदार्थः । ननु खटिति जायमानघटाद्यभावप्रमितिस्थले योग्यघटाद्यनुपलब्धिबलाज्जायमानाभावप्रमितिरनुपलब्धिप्रमाणमात्रजन्या कुतो नेत्यतः सयुक्तिकं निराह ।। पुरोवृत्तीति । मात्रेति परमतानुवादो न तु साऽपि कारणमिति भावेन तदुक्तिः । अवर्जनीयसन्निधिरेवेत्यग्रिमवाक्यविरोधात् । वर्णनित्यत्ववादे तर्कताण्डवे नेन्द्रियस्यानुपलब्धिः सहकारिणीत्युपक्रम्य युक्तभिरुपपादनाच्च । तर्हि पृथक् प्रमाणत्वं प्राप्तमिति पृच्छति ।। किन्त्विति । ननु प्रातश्चत्वरादौ प्रतियोगिस्मृत्यभावेन गजाद्यभावमनुभूय देशान्तरं गतो गजस्मृतिमान्प्रातस्तत्र गजो नासीदिति प्रतिपद्यते । तत्र नासीदिति प्रत्यक्षस्य प्रवृत्तिरतोऽनुपलब्धिः प्रमाणत्वेनोपेयेत्यत आह ।। एवमिति । प्रातश्चत्वरे गजो नासीत्तत्तुल्यपरिमाणानां सत्यप्युपलम्भे तस्याप्युपलम्भात् । व्याघ्रादिवत् । न चासिद्धः । पूर्वं तत्तुल्यपरिमाणानामुपलम्भेऽपि तदुपलम्भो नासीत् । तत्तुल्यपरिमाणानां स्मरणे सत्यपि तस्य स्मरणाभावादिति स्मृत्यभावलिङ्गेन गजाद्युपलब्ध्यभावनिश्चयसम्भवात् । स्मृत्यभावश्च साक्षिवेद्य इति नानवस्थादोष इति भावः । विस्तरस्त्वर्थापत्त्युपमाभावानुमानान्तर्गताः क्वचित् । प्रत्यक्षान्तर्गतो भावः सुखादेर्नियमेन च । अन्यत्र खटिति प्राप्त इत्यादिभक्तिपादीयानुव्याख्यान सुधयोर्ज्ञेयः ।।

बाधकाभावादिति । द्रव्ययोरेव संयोग इत्यस्याप्रामाणिकत्वेन द्रव्यत्वापत्तिरिति बाधकं न शङ्कार्हमिति भावः ।। बहुलेति । बहुत्वसङ्ख्याविशिष्टवस्तुज्ञाने सति न्यूनसङ्ख्याविशिष्टार्थज्ञानं यज्जायते तत्सम्भवप्रमाणामित्यर्थः । फलप्राधान्यविवक्षयैवमुक्तिः । परिशिष्यमाणे बुद्धिः परिशेष इत्यपि फलप्राधान्यविवक्षयोक्तिः । अयमिति पक्षर्दिशो देवदत्त इति साध्योक्तिः ।। उपक्रमादीति । उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादाः श्रुतिलिङ्गवाक्यप्रकरणस्थानानि चेदमेतत्परं तदुपक्रमवत्त्वाद्यद्यदुपक्रमं तद्वाक्यं तत्परं यथा सम्मतमित्यादिरूपेण व्याप्तिमपेक्ष्य तात्पर्यगमकत्वादनुमानान्येवेत्युक्तम् । एतेऽप्यारम्भाद्याश्च युक्तस्य आगमार्थावसित्यर्था नियतव्याप्तयोऽखिला इत्याद्यनुव्याख्यानसुधयोर्व्यक्ताः । वैश्रवणः कुबेरः । वटे वटे वैश्रवणश्चत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वत्र मधुसूदन इत्यादिरागम एव । न त्वैतिह्यरूपं पृथक् प्रमाणमैतिह्यमागमभेद इति भगवत्पादोक्तेरिति भावः ।। एवमन्यान्यपीति । नयनाङ्गुल्यादिचेष्टावर्णज्ञापकरेखादीन्यस्तङ्गतः सविता गच्छ गच्छसि चेत्कान्ते इत्यादिवाक्यानि चानुमानादिषु यथासम्भवमन्तर्भाव्यानीत्यर्थः ।। अर्थापत्त्यादेरन्तर्भावोक्तिः ।।

श्रीविजयीन्द्रतीर्थ

अनुपलब्धेर्जनकत्वमभ्युपेत्यात्रापादनमुक्तम् । वस्तुतस्तु तदपि नास्तीत्याह ।। अनुपलब्धिस्त्विति । न च घटोपलम्भे तदभावोपलम्भप्रसङ्गः । प्रमापादनस्य घटवति विषयाभावेनासम्भवात् । अभाववति तु प्रतियोगित्वभ्रमजनकदोषत्वस्यैव प्रतिबन्धकत्वादिति भावः ।। योग्यत्वे सतीति । प्रतियोगितत्सन्निकर्षातिरिक्तप्रतियोग्यनुभावकसमवधाने सतीत्यर्थः ।। एवमिति । प्रातश्चत्वरे गजो नासीत् । स्मरणार्हत्वे सत्यस्मर्यमाणत्वादिति स्मरणाभावो लिङ्गमेवेत्यर्थः ।। बहुलेति । अधिकवृत्तिसङ्ख्याज्ञाने न्यूनवृत्तिसङ्ख्याज्ञानमित्यर्थः ।। प्रसक्तेति ।। उपस्थिताभावज्ञानेनैककोटिज्ञानमित्यर्थः ।। उपक्रमादिति । तात्पर्ये तेषां लिङ्गत्वादिति भावः ।। अनिर्दिष्टेति । विशेषतोऽपरिज्ञातवक्तृकमित्यर्थः ।। एवमिति । श्रुतिलिङ्गादीन्यपीत्यर्थः । तत्र श्रुतेः स्फुटोऽन्तर्भावः। लिङ्गस्य तु शेषाशेषित्वादौ लिङ्गत्वम् । वाक्यादेश्च स्फुटोऽन्तर्भावः । प्रसङ्गादाह ।। तदेषामिति ।

श्रीवेदेशभिक्षु

।। खटितीति । अपरामर्शेनेत्यर्थः । अनुपलब्धेः कारणत्वमभ्युपेत्यानुपलब्धिमात्रेत्युक्तम् । वस्तुतस्तु तस्या अभावज्ञानकारणत्वमेव नास्तीत्याह ।। अनुपलब्धिरिति । व्यभिचारादन्यथासिद्धेश्चेति भावः । तथा हि विनश्यदवस्थघटे कपाले घटोऽस्तीति चाक्षुषसाक्षात्कारे तदुत्तरक्षणे घटध्वंसेऽनन्तरमेव चक्षुषा घटध्वंससाक्षात्कारस्य जायमानत्वेन व्यतिरेकव्यभिचारः । ध्वंससाक्षात्कारोत्पत्तिक्षणं व्यवहितपूर्वक्षणे ध्वंसोत्पत्तिक्षणरूपे उक्तरूपघटसाक्षात्कारस्य स्थित्या तदभावरूपानुपलब्धेरभावात् । अवश्यकेनेन्द्रियेणान्यथासिद्धेश्च । अन्यथाऽऽभावग्रहे भावानुपलब्धिरिवाभावानुपलब्धिरपि भावग्रहहेतुः स्यात् । तस्यास्तत्रान्यथासिद्धत्वे प्रकृताया अपि तथात्वमिति । न च प्राप्त्यभावः संयोगस्यैव सम्भवात् । द्रव्ययोरेव संयोग इति प्रक्रियायाश्चाप्रामाणिकत्वात् । तदभावेऽपि विशेषणतायाः सम्भवाच्च । तदनादरेऽनुपलब्ध्याऽपि क्वचिदेवाधिकरणेऽभावो गृह्यत इत्युपपादयितुमशक्यमिति भावः । किञ्चानुपलब्धिव्यतिरेकप्रयुक्तो नाभावज्ञानव्यतिरेको येन तस्यास्तत्र हेतुत्वं स्यात् । न चैवं घटोपलम्भेऽपि तदभावज्ञानं स्यादिति वाच्यम् । घटोपलम्भस्य प्रमात्वे तत्र विषयतत्सन्निकर्षयोरभावेनाभावप्रत्यक्षानुदयात् । न चाभावभ्रमः स्यादिति वाच्यम् । तज्जनकदोषाभावात् । दोषाणां कार्यैकोन्नेयत्वात् । भ्रमत्वेऽपि तज्जनकदोषस्यैव प्रतिबन्धकत्वेन भ्रमरूपघटोपलम्भस्य प्रतिबन्धकत्वे तदुत्पत्तिकालेऽभावज्ञानापत्तिः । न च विनिगमकाभावः । अनुपलब्धेः पूर्वं सत्त्वात् । कार्यसहभूतप्रतिबन्धकाभावो हेतुरिति तु ज्ञानरूपप्रतिबन्धकाभावाव्यतिरिक्तविषयम् । अन्यथासिद्धेरप्रतिबन्धकतापत्तेः । अधिकरणज्ञानसमयेऽभावज्ञानापादने बाधकाभावाच्च । न च विशिष्टज्ञानमात्रे सामान्यत एवासंसर्गग्रहस्य हेतुत्वात्तस्य चानुपलब्धिपर्यवसानात्तस्या हेतुत्वमिति वाच्यम् । आनुमानिकपीतत्वासंसर्गग्रहेऽपि पीतप्रत्यक्षोदयेन तस्यैवासंमतेः । ननु जलपरमाणौ पृथिवीत्वाभावप्रत्यक्षव्यतिरेकः प्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकानुपलब्धिव्यतिरेकप्रयुक्तः । अतोऽनुपलब्धेर्हेतुत्वं प्राप्तमेवेति चेन्न । जातेर्योग्यव्यक्तिवृत्तितयैव योग्यत्वेन तत्र पृथिवीत्वस्य योग्यत्वे तदभावस्याप्ययोग्यत्वेन क्लृप्तयोग्यसन्निकर्षाभावादेव पृथिवीत्वाभावो न प्रत्यक्षः । न त्वक्लृप्तयोग्यानुपलब्धिव्यतिरेकादिति साधूक्तमनुपलब्धिरवर्जनीयसन्निधिरिति । नन्विन्द्रियव्यापाराभावेऽप्यन्धकारे घटाभावज्ञानमनुपलब्धिमात्रेणैव जायमानमुपलब्धमिति चेत् । सत्यम् । तत्रापि नानुपलब्धेरनुपलब्धितयोपयोगोऽपि तु लिङ्गतयैवेत्याह ।। अत्र त्विति । अतीन्द्रिये व्यभिचारवारणाय योग्यत्वे सतीत्युक्तम् । इन्द्रिययोग्यत्वे सतीत्यर्थः । ननु तथाऽपि प्रातर्गजाद्यभावज्ञाने कालव्यवधानेनेन्द्रियव्यापारो नास्त्येव । न चोक्तलिङ्गसम्भवोऽसिद्ध्यापत्तेः । प्रतियोगिनो गजस्योपलभ्यमानत्वात् । प्रातःकालीनगजस्य चायोग्यत्वात् । तथा च तदर्थमभावस्य पृथक् प्रामाण्यमङ्गीकार्यमित्यत आह ।। एवमिति ।। अनुपलब्धीति । अनुपलब्धेश्च प्रातःकालीनगजानुभवाभावरूपायाः स्मरणाभावाल्लिङ्गानुमेयाया लिङ्गत्व मात्रमतो नोक्तदोषः । अन्यथा त्वन्मतेऽपि तत्राभावज्ञानस्यानुपलब्धिजन्यत्वं न स्यादिति भावः । सन्निकर्षेति । संयोगसमवाययोरसम्भवादिति भावः ।। बाधकाभावादिति । प्रक्रियामात्रस्य चाप्रामाणिकत्वेनेन्द्रियाभावयोरपि संयोगस्यैव सम्भवादिति भावः । प्रसक्तप्रतिषेधे ज्ञात इति शेषः ।। अयमिति । घटादौ व्यभिचारवारणाय सत्यन्तम् ।। उपक्रमेति । तात्पर्यानुमापकत्वादिति भावः ।। अनिर्दिष्टेति । अनिश्चितेत्यर्थः । तदिति । सत्यं चेदिति वाक्यशेषः । ननु तथाऽपि शाकुनिलिप्यक्षरचेष्टानां तथा श्रुतिलिङ्गादीनां नैयायिकोपमानस्य च पृथग्विद्यमानत्वान्नित्यत्वानुपपत्तिरित्यत आह ।। एवमिति । यथासम्भवमिति शेषः । अयं भावः । शाकुनिविशिष्टस्येष्टार्थानुमापकत्वेन शाकुनमनुमानान्तर्भूतम् । एवमपशाकुनेऽपीष्टार्थविघातितावनुमानं द्रष्टव्यम् । लिप्यक्षरचेष्टायाश्च वर्णस्मरणहेतुतया प्रत्यक्षेऽन्तर्भावः । उक्तं हि सुधायाम् । पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेवेति । न चात्र पुरुषलिपिरेवोक्ता नाक्षरचेष्टेति वाच्यम् । भक्तिपादे सुधायां शाकुनिलिप्यक्षरचेष्टानामन्तर्भावस्य विलक्षणाधिकरणे सूचितत्वादित्युक्तत्वात् । न च विलक्षणाधिकरणस्थमुक्तं वाक्यं विनाऽक्षरचेष्टान्तर्भावसूचकं तत्रत्यं वाक्यान्तरमस्तीति वाच्यम् । मनस एव स्मृतिकारणत्वेन लिप्यादिदर्शनस्य संस्कारोद्बोधकत्वेन चरितार्थस्य कथं प्रत्यक्षत्वमिति । अर्थोपसर्पणतत्संयोगसहितचक्षुरादिवदवान्तरव्यापार सहितेन्द्रियस्यैव प्रत्यक्षत्वेन लिप्यादिदर्शनजन्यसंस्कारोद्बोधरूपावान्तरसहितस्य मनस एव स्मरणकरणत्वे लिप्यादेरपि प्रत्यक्षशरीरान्तःप्रविष्टत्वेन प्रत्यक्षत्वमेवेत्यभिप्रायात् । न चैवं चेष्टायाश्चानुमानान्तर्भावादिति तत्त्वनिर्णयटीकाविरोध इति वाच्यम् । तत्रार्थविशेषबोधकभ्रूविक्षेपचेष्टाया एवाभिप्रेतत्वेनाक्षरचेष्टान्तर्भावानुक्तेः । अक्षरचेष्टाभिप्रायत्वे तु चेष्टकबुद्धिस्थशब्दानुमापकत्वेन वा तदवबुद्धार्थानुमापकत्वेन वाऽनुमानान्तर्भावादिति पररीत्यैवोक्तत्वादविरोध इति द्रष्टव्यम् । श्रुतिलिङ्गादीनां च तात्पर्यानुमापकत्वे नानुमानत्वमेव । वाक्यप्रकरणादीनां स्वार्थे आगमत्वमपि नैयायिकोपमानमप्यनुमानान्तर्भूतमेव । अयं गवयशब्दवाच्यः । अगोत्वे सति गोसदृशत्वात् । व्यतिरेकेण घटवदित्याद्यनुमानसम्भवादिति ।

अभिनवामृतम्

।। अभावज्ञानकारणमिति । अभावज्ञानकारणस्य प्रत्यक्षादिजन्यत्वासम्भवात्किञ्चित्करणत्वमभ्युपेयम् । तदेवाभावप्रमाणमित्यर्थः ।। न त्वनुपलब्धिमात्रजन्यत्वमिति । परोक्तमनुपलब्धिमात्रजन्यत्वमित्यर्थः । एतेन त्वनुपलब्धिजन्येत्युक्त्या कारणत्वस्य सिद्धत्वात्पुनरनुपलब्धिरवर्जनीया सन्निधिरित्युक्तमयुक्तमिति परास्तम् । अस्य वाक्यस्य परोक्तनिषेधे तात्पर्येणानुपलब्धेः कारणत्वे तात्पर्याभावात् । ननु विमर्शपूर्वकं सायङ्काले राजद्वारि सञ्चरणवतः पुनः प्रातः सञ्चरणवतो गजदर्शने सति नाभूदत्र पूर्वेद्युः सायं गज इति ज्ञानमुपजायते । नेदं ज्ञानमिन्द्रियजन्यम् । असन्निकर्षात् । नापि लिङ्गशब्दाभ्यां तदभावात् । अतः प्रत्यक्षानुमानागमादिव्यतिरिक्तं किञ्चित्प्रमाणमभ्युपेयमित्यत आह ।। एवं प्रातर्गजेति । अयं गज एतद्देशावच्छेदेन पूर्वेद्युरसन् । व्यासङ्गादिप्रतिबन्धकाभावेऽपि तत्राननुभूतत्वात् । अननुभूतत्वं तथा स्मर्तुं योग्ये सत्यस्मर्यमाणत्वादिति लिङ्गेन सिद्धमित्युपलब्ध्यभावलिङ्गतयैव तज्ज्ञानमुपजायत इति न तदर्थं प्रमाणान्तरं कल्प्यमिति भावः । एतेन प्रातरिति नाभावविशेषणम् । असमर्थसमासप्रसङ्गात् । किन्तु ज्ञानविशेषणम् । ततश्च तत्कालीनविषयेण सन्निकर्षसम्भवात्प्रत्यक्षजन्यत्वोपपत्तौ लिङ्गजन्यत्वकथनमयुक्तमिति परास्तम् । प्रातः पूर्वकालीनगजाभावज्ञानस्य विवक्षितत्वात् । प्राग्यदुक्तमभावस्य प्रत्यक्षवेद्यत्वं तदाक्षिपति ।। अभावस्येति ।। बहुलज्ञान इति । अल्पज्ञानकरणं बहुलज्ञानं सम्भवप्रमाणमित्यर्थः । नन्वल्पज्ञानसाधनं बहुलज्ञानमिति कथं, विरोधादित्याक्षिपति ।। यथेति । यथा कथं न कथमपि । ततश्चासम्भवीति भावः । उत्तरमाह ।। शतमस्तीति । पञ्चाशज्ज्ञानमित्यतः परमनुभवसिद्धमिति शेषः । ततश्च बहुलज्ञानेनाल्पज्ञानस्यानुभवसिद्धत्वेन विरोधाभावान्नासम्भव इति भावः । एतेन लक्षणप्रमाणाभ्यां फलीभूतज्ञानस्य सम्भवत्वलाभात्तस्यानुमानेऽन्तर्भावकथनमयुक्तमिति परास्तम् ।। प्रसक्तप्रतिषेध इति । प्रसक्तप्रतिषेधे परिशिष्यमाणे या बुद्धिस्तद्धेतुभूतः प्रसक्तप्रतिषेधः परिशेष इत्यर्थः ।। इयमपीति । फलीभूता परिशिष्यमाणे बुद्धिरित्यर्थः ।। प्रयोगोपपत्तेरिति । यद्यप्यनुमानप्रयोगप्रकाराणां विचित्रत्वादेवं प्रयोगः कर्तव्य इति न निर्बन्धः । तथाऽप्येकविध एवानुमानप्रकार इति निर्बन्धे प्रसिद्धप्रयोगवदत्रापि प्रयोग उपपद्यत इति भावः । एतेन किमियं लौकिकी प्रतीतिराहोस्वित्स्व समयानुरोधात्कल्प्यते । नाद्यः । पूर्वोक्तिप्रयोगं विनैव प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिदर्शनात् । न द्वितीयः । अप्रामाणिकत्वादिति परास्तम् । यद्यनैवं लौकिकी प्रतीतिस्तथाऽपि व्याप्तिबलेनार्थगमकत्वात्परिशेषोऽनुमानमित्येतावन् मात्रस्यैवं लौकिकी प्रतीतिस्तथाऽपि व्याप्तिबलेनार्थगमकत्वात्परिशेषोऽनुमानमित्येतावन्मात्रस्यैव विवक्षितत्वात् । एवं जातीयके सर्वत्र द्रष्टव्यम् । ननु शाकुनिलिपिचेष्टादीनां पृथक् प्रमाणानां विद्यमानत्वात्कथं प्रमाणत्रित्वमित्यत आह ।। एवमन्यानीति ।

आदर्शः

।। भाववदभावस्येति । द्रव्ययोरेव संयोग इति नैयायिकप्रक्रियाया अप्रामाणिकत्वेन संयोगस्यैव सम्भवादित्याशयः । न च तर्हि मूलाभावयोरपि संयोग एव सम्बन्धः स्यादिति चेत् । इष्टापत्तेः । न च घटवत्यपि भूतले घटो नास्तीति प्रत्ययापत्तिः । न चाभावो नास्तीति शक्यते वक्तुम् । पूर्वं नास्तीति प्रतीत्यनुपपत्तेः । न च घटस्येवाभावस्याप्यन्यत्र गमनं निष्क्रियात्वादिति । न च प्रतियोगिज्ञानस्य प्रतिबन्धकत्वेन नाभावधीरिति युक्तम् । दोषवशादुत्पन्नस्य प्रामाण्यापत्तेरिति चेत् । अभावे क्रिया नास्तीत्यत्रापि मानाभावेनाभावस्यान्यत्र गमनाङ्गीकारेऽपि दोषाभावात् । अत्रेदानीं घटो नास्तीति प्रतीतेर्घटदशायां तत्कालावच्छेदेन तद्भूतलसंसर्गविशिष्टघटप्रतियोगि सत्त्वात्तदभावाभावेनासम्भवात् । यत्काले नास्तीति प्रतीतिस्तत्कालवृत्तितद्भूतलसंसर्गविशिष्टघटरूपप्रतियोगिनोऽसत्त्वादेव युज्यते । इदानीमपि तत्कालावच्छेदेनैतद्भूतलविशिष्टप्रतियोगिनोऽसत्त्वादेव युज्यते । इदानीमपि तत्कालावच्छेदेनैतद्भूतलविशिष्टघटो नास्तीत्याकारकप्रतीतेरापत्ताविष्टापत्तिः । अधिकन्तु गुरुपादकृततत्त्वोद्योतप्रकाशे द्वैतद्युमणौ द्रष्टव्यम् ।। ज्ञानजनकातिरिक्तेति । ज्ञानपदं प्रमापरम् । तथा च प्रमाजनकत्वेनोभयसम्मतान्यजन्यत्वं वाऽस्मत्सम्मतान्यत्वं वेत्यर्थः । तादृशश्च गुणत्वे पराभिमत एव । स च प्रत्यक्षादिष्वेकजातीयो न भवतीत्युक्तरूपेण तस्यानुगमः कृतः । एतादृशदोषजन्यत्वान्नाप्रामाण्यस्य स्वतस्त्वमिति भावः । केचित्तु । ज्ञानत्वावच्छिन्नोत्पादकसामग्रयघटकपदार्थघटितसामग्रयनधीनोत्पत्तिकत्वमित्यर्थः । न च दोषाभावस्यापि प्रमाजनकत्वेन ज्ञानत्वावच्छिन्नाजनकत्वेनोक्तस्वतस्त्वानुपपत्तिरिति वाच्यम् । सहजशक्तिं प्रतिबध्य विपरीतशक्त्याविर्भावकत्वेन दोषाणामप्रामाण्यस्य दोषघटितसामग्रीजन्यत्वेऽपि दोषाभावस्य कारणताया अनङ्गीकारेण सामग्रीकोटौ दोषाभावस्यानिवेशात् । न च सामान्यधर्मावच्छिन्नसामग्रया विशेषधर्मावच्छिन्नसहकृताया एव फलजनकत्वेन ज्ञानोत्पत्तिं विना प्रामाण्योत्पत्त्ययोगेन विशेषसामग्रीघटकपदार्थस्य ज्ञान इव प्रामाण्येऽपि प्रयोजकत्वेन स्वतस्त्वानुपपत्तिरिति वाच्यम् । ज्ञानोत्पत्तिप्रयोजकत्वेऽपि प्रामाण्योत्पत्तिप्रयोजकत्वानङ्गीकारात् । न च विशेषसामग्रयभावकाले प्रामाण्यानुत्पत्त्या सामग्रीव्याप्तेर्व्यभिचारो ज्ञानत्वावच्छिन्नोत्पादकत्वेन क्लृप्ता ये ये धर्मास्तत्तन्मात्रवृत्तिसमुदायत्वावच्छिन्नोत्तरज्ञानाधिकरणकालत्वस्य प्रामाण्यव्याप्तत्वेन सामग्रीव्याप्तेर्व्यभिचाराभावात् । न च नियतपूर्ववृत्तीनां सर्वेषां सामग्रीकोटौ निवेशः । तथा सति दोषाभावेऽपि सामग्रीकोटाववश्यं निवेश्य इति वाच्यम् । स्वनिष्ठकार्यानुकूलशक्तिविघटकपदार्थानधिकरणतादृशसमुदायत्वावच्छिन्नाधिकरणकालाव्यवहितोत्तरकालत्वम् । यत्र कार्याधिकरणत्वं तत्रेति सामग्रीव्याप्तेर्विवक्षितत्वात् । दोषकाले कार्यानुत्पादेऽपि दोषाभावात् । न च विनिगमकाभावेन दोषाभावस्यैव सामग्रीकोटौ निवेशश्च कर्तव्य इति गौरवस्यैव विनिगमकत्वात् सामग्रीनिष्ठशक्तिविघटकत्वेन दोषाननुगमय्य तदभावस्यैकस्यैव निवेशोऽस्त्विति वाच्यम् । तथाऽपि तदभावेषु कारणतारूपशक्तिकल्पनायां मानाभावेन तत्कल्पनाया अधिकत्वेन गौरवानपायात् । अन्यथा भर्जनाभावादेरपि वेत्राङ्कुरसामग्रीकोटौ निवेशो वेत्राङ्कुरकारणत्वं च स्यात् । तत्रापि भर्जनकाले सामग्रीसत्त्वेऽपि वेत्राङ्कुरानुत्पत्त्या सामग्रीव्याप्तेर्व्यभिचारेणासम्भवात् । तस्मात्सर्वत्रापि सामग्रीव्याप्तौ प्रतिबन्धकानधिकरणत्वं सामग्रयधिकरणकाले निवेश्यमेव । प्रतिबन्धकाभावस्य कारणत्वं त्वन्यत्र खण्डितमिति नास्तीति । तथा च ज्ञानत्वावच्छिन्नोत्पादकत्वेन क्लृप्ता ये ये धर्मास्तत्तन्मात्रवृत्तिसमुदायत्वावच्छिन्नाधिकरणकालोत्तरज्ञानाधिकरणकालत्वं यत्र तज्ज्ञानप्रामाण्याधिकरणत्वं तत्रेति व्याप्तिरिति भाव इत्याहुः ।

श्रीविट्टलभट्ट

अभावाख्यप्रमाणस्य प्रत्यक्षान्तर्भावं वक्तुं तल्लक्षणमाह ।। अभावज्ञानकरणमिति । ज्ञानपदं प्रमापरम् । अन्तर्भावमाह ।। तत्रेति । अभावरूपप्रमाणगम्येष्वित्यर्थः । येषां कौरवादयः प्रतियोगिनः प्रत्यक्षास्तेषां कौरवादिप्रध्वंसः प्रत्यक्षगम्योऽपि भवतीति ज्ञापयितुमिदानीमित्युक्तम् । आगमैकवेद्यप्रतियोगिप्रध्वंसाद्यभावग्राहकं प्रमाणमागम एवेति भावः ।। चक्षुराद्यभाव इति । घ्राणादीन्द्रियमादिशब्दार्थः । रूपाद्यदर्शनेत्यत्र गन्धादिरादिशब्दार्थः । अनुमानैकवेद्यप्रतियोगिकाभावग्राहकं प्रमाणमनुमानमिति भावः ।। सुखाद्यभावप्रमितिरिति । सुखादिसाक्षिवेद्यमादिशब्दार्थः । साक्षिणैव स्वरूपेन्द्रियेणैव । आविर्भवतीति शेषः । साक्षिवेद्यप्रतियोगिकाभावग्राहकं प्रमाणं साक्ष्येवेति भावः । साक्षिवेद्यसुखाभाव इव बाह्येन्द्रियवेद्यघटाद्यभावः किं प्रतियोगिग्राहकप्रत्यक्षैकवेद्य इति जिज्ञासायामस्तीति विशेषणमित्याशयेनाह ।। पुरोवृत्तीति । पुरोवर्तिनीन्द्रियसन्निकृष्टे देशे खटिति शीघ्रं व्याप्त्याद्यनुसन्धानाभावकाल इति यावत् । जायमाना पटाद्यभावप्रमितिस्तु प्रत्यक्षफलं प्रत्यक्षरूपकरणसाध्यैव नानुपलब्धिफलमित्यर्थः । पुरोवृत्तिपदोपादानेनासन्निकृष्टदेशे जायमानघटाद्यभावप्रमितिर्न प्रत्यक्षफलमिति सूचयति । पुरोवर्तिनि देशेऽपि व्याप्त्याद्यनुसन्धानभावदशायां जायमाना प्रमितिर्न प्रत्यक्षफलमिति ज्ञापनाय खटितीत्युक्तम् । ननु पुरोवर्तिनि देशे खटिति जायमानघटाद्यभावप्रमितिरुपलब्ध्यभावेन भवत्यनुलब्धिफलमेवास्त्वित्यत आह ।। न त्वनुपलब्धिमात्रजन्येति । मात्रपदेन प्रत्यक्षरूपं करणं व्यावर्त्यते । नानुपलब्धिकरणजन्येत्यर्थः । तत्र हेतुमाह ।। अपरोक्षज्ञानत्वादिति । घटाद्यभावं साक्षात्करोमीत्यनुभवात्स घटाभावप्रमितिसाक्षात्कारः साक्षात्कारस्य प्रत्यक्षफलमिति न साऽनुपलब्धिरूपकारणजन्येति भावः । अनुपलब्धेस्तदकरणत्वे तदभावेऽपि सा स्यादित्यत आह ।। अनुपलब्धिस्त्ववर्जनीयसन्निधिरेवेति । योग्यानुपलब्धिरवर्जनीयोऽपरिहरणीयः । नियत इति यावत् । सन्निधिः पूर्ववृत्तित्वं यस्याः सा भावग्रहे भावानुलब्धिरिवाभावग्रहेऽभावानुपलब्धिर्न करणं किन्तु तस्याः प्रतिबन्धकाभावत्वेन नियतपूर्ववर्तित्वमात्रमिति भावः ।

नन्वस्तु पुरोवर्तिनि देशे खटिति जायमाना घटाद्यभावप्रमितिः प्रत्यक्षफलम् । तत्र विलम्बेन जायमाना घटाद्यभावप्रमितिस्त्वनुपलब्धिफलमास्तामित्यत आह ।। यत्र त्विति । यत्र पुरोवर्तिनि देशे यत्र तु यदा त्वन्धकारे करचरणप्रसरणादिरूपेणान्वेषणेन घटाद्यनुपलम्भे सति तदभावं जानाति । अनुपलब्धिर्योग्यानुपलब्धिः । करणं तदभावज्ञानकरणं भवतीत्यर्थः । तर्ह्यनुपलब्धिः पृथक् प्रमाणं स्यादित्यत आह ।। किन्तु लिङ्गत्वेनैवेति । व्याप्यत्वेनैव करणं न प्रकारान्तरेणेत्यर्थः । अयमभिसन्धिः । अनुपलब्धिरभावे पृथक् प्रमाणमिति वदतोपलम्भयोग्यस्यानुपलब्धिरभावज्ञानकरणं नानुपलब्धिमात्रमित्युच्यते । तत्कस्य हेतोरनुपलब्धिमात्रस्याभावव्यभिचारादिति चेत् । किं योग्यानुपलब्धिर्भावव्यभिचारिणी । बाढमिति चेत् । हन्त तर्हि व्याप्तिसापेक्षाऽनुपलब्धिरर्थं गमयतीत्यभ्युपगतं स्यात् । तथा च व्याप्यभूतानुपलब्धिज्ञानार्थं हस्तप्रसरणोपयोग इति व्याप्यत्वेन ज्ञातायास्तस्या अनुमानात्तेनैव कारणत्वमिति । अनुमानप्रयोगप्रकारं दर्शयति ।। अत्रेति । इन्द्रियसन्निकृष्टप्रदेश इत्यर्थः । योग्यत्वे सत्युपलब्धियोग्यत्वे सतीत्यर्थः । उक्तन्यायमन्यत्राप्यतिदिशति । एवमिति ।। राजद्वारे प्रातर्गजो नासीत् । योग्यत्वे सति तदानीमनुपलम्भादिति प्रयोगसम्भवात् । प्रातर्गजाद्यभावज्ञानं योग्यानुपलब्धिरूपलिङ्गजन्यमिति भावः । यद्यत्र घटो नास्तीति प्रतीतिगोचराभावो नान्योन्याभावः । घटवति भूतले तथाप्रतीतिप्रसङ्गात् । तथाप्रतीतावपि तस्याः प्रमात्वप्रसङ्गाच्च । नापि तद्ध्वंसप्रागभावौ घटसामानाकारत्वात्तयोः स्वकालप्रतियोगिसमयविरोधात् । नापि तदत्यन्ताभावः । शशृङ्गं नास्तीत्यबाधितप्रतीतिगोचरस्य शशृङ्गात्यन्ताभावस्य स्वकाले प्रतियोगिसत्ताविरोधित्वेनास्याप्यत्यन्ताभावत्वे घटसमानकालत्वायोगात् । अस्तीति प्रतीतस्य घटादेः स्वकाले सत्त्वात्स्वकाले सत्त्वकालत्रयासत्त्वरूपकालत्रयवृत्तिनिषेधप्रतियोगित्वयोर्व्याहतत्वेन कालत्रयवृत्तिनिषेधरूपात्यन्ताभावासम्भवात् । अन्यथेह भूतले घटो नास्तीति प्रतीतिविषयाभावस्य घटप्रतियोगिककालत्रयवर्तिनिषेधत्वे कालत्रयेऽप्यसच्छशृङ्गमिति प्रतीतिवत्कालत्रयेऽप्यसन्घट इति प्रतीत्यापातात् । तस्माद्घटकालीनस्यास्य निषेधस्य घटप्रध्वंसत्वादिवद्घटप्रतियोगिकत्रैकालिकनिषेधप्रतियोगित्वमपि न सम्भवति । तथाऽप्यस्त्यत्र घट इति प्रतीतेस्तत्संसृष्टघटविषयत्वेन तद्विरुद्धाया नास्त्यत्र घट इति प्रतीतेस्तत्संसृष्टघटनिषेध एव विषयः । तत्संसृष्टघटनिषेधस्तु घटकाले घटनिषेधत्वावच्छिन्नस्यास्त्येव घट इति प्रत्यक्षबाधितत्वेन घटकालीनस्यास्य निषेधस्याघट इति घटप्रतियोगिकत्वाभावात् । संसर्गप्रतियोगिकत्वमेवाभ्युपेयम् । विशिष्टप्रतिषेधस्य विशेषप्रतियोगिकत्वे बाधिते विशेषणप्रतियोगिकत्वस्य स्वर्गी ध्वस्तः स्वर्गी भविष्यतीत्यादिप्रतीतिगोचरा विशिष्टनिषेधव्यवस्थितत्वात् । तथा च घटतद्देशसंसर्गो यदि भावी तर्ह्यत्र घटो नास्तीति प्रतीतिविषयस्तत्प्रागभावः । यद्यतीतस्तर्हि ध्वंसः । यदि तु कदाऽपि न भवति तर्हि तदत्यन्ताभावादेव घटतद्देशासंसर्गः कदाऽपि नास्तीत्यबाधितप्रतीतेरित्यभावः प्रत्यक्षवेद्य इत्युक्तम् । तदयुक्तमिति शङ्कते ।। अभावस्येति । प्रत्यक्षता प्रत्यक्षविषयसत्तेत्यर्थः । संयोगः समवायश्चेति द्वावेव संसर्गौ । तयोश्च भावद्वयधर्मत्वेन भावस्येन्द्रियार्थसन्निकर्षासम्भव इति शङ्कितुराशयः ।

परिहार इति चेति । घटादिभाववत्तदभावस्येन्द्रियेण सन्निकर्षाङ्गीकारे विरोधिप्रमाणाभावादित्यर्थः । संयोगाभावो बाधक इति चेन्न । द्वयोरेव संयोग इति परकीयनियमस्याप्रामाणिकत्वेन घटादिभाववत्तदभावस्यापीन्द्रियसन्निकर्षाङ्गीकारे बाधकाभावात् । तत्र श्रोत्रेन्द्रियेण समवायोऽस्तीति चेत् । तथाऽपीन्द्रियेण संयोगसमवायरहितरूपादिभाववदभावस्यापीन्द्रियेण सन्निकर्षाङ्गीकारे बाधकाभावात् । संयुक्तसमवायस्तत्रास्तीति चेत् । तथाऽपि तद्रहितरूपत्वादिभाववदभावस्यापीन्द्रियेण सन्निकर्षाङ्गीकारे बाधकाभावात् । संयुक्तसमवेतसमवायरूपः परम्परासम्बन्धस्तत्रास्तीति चेत् । तथाऽपि रूपत्वादिभाववदभावस्यापीन्द्रियेण संयुक्तविशेषणतारूपपरम्परासम्बन्धात्मकसन्निकर्षाङ्गीकारे बाधकाभावात् । इन्द्रियसंयुक्तघटादौ रूपादेरिवेन्द्रियसंयुक्तभूतले तदभावस्यासम्बन्धात् । न च तत्रापि विवादः । भूतलाभावसम्बन्धस्य घटाभाववद्भूतलमित्यबाधितप्रत्यक्षसिद्धत्वात् । अन्यथा भावाभावयोः प्रतियोग्यनुयोगिभावकार्यकारणभावव्याप्यव्यापकभावादिरूपसम्बन्धाभावस्यान्यस्वकीयमित्यादिव्यवस्थायाश्चासम्भवापत्त्या लोकव्यवहारोच्छेदप्रसङ्गादिति । सम्भवाख्यप्रमाणस्यान्तर्भावं वक्तुं तल्लक्षणमाह ।। बहुलज्ञान इति । बहुलसङ्ख्यावत्त्वज्ञाने सति जायमानमल्पसङ्ख्यावत्त्वज्ञानं फलरूपसम्भवाख्यमित्यर्थः । लक्ष्ये लक्षणानुगतिं दर्शयति ।। यथेति । सम्भवस्यान्तर्भावमाह ।। तदपीति । प्रातर्गजाभावज्ञानकरणवदल्पसङ्ख्यावत्त्वज्ञानकरणमप्यनुमानमेवेत्यर्थः । अनुमानप्रयोगप्रकारं दर्शयति ।। देवदत्त इति । परिशेषाख्यप्रमाणस्यान्तर्भावकथनाय तल्लक्षणमाह ।। प्रसक्तप्रतिषेध इति । प्रसक्तयोरिमावेताविति प्रतीतयोरेकस्मिन्नितरव्यावृत्तिज्ञाने सति परिशिष्यमाणे व्यावर्त्यमाने परिशिष्ट इति यावत् । बुद्धिरर्थविशेषोऽयमिति निश्चयः फलरूपपरिशेष इत्यर्थः । प्रसक्तव्यावृत्तिप्रतीतिः करणरूपविशेष इति हृदयम् । तदुक्तं प्रमाणलक्षणटीकायाम् । प्रसक्तव्यावृत्तिप्रतीतिः परिशेष इति ।

लक्षणलक्ष्ये दर्शयति ।। यथेति । नायं यज्ञदत्त इति प्रतिषेधे नायं यज्ञदत्त इति व्यावृत्तिज्ञाने सति जाते देवदत्तबुद्धिः परिशिष्टे देवदत्तोऽयमिति निश्चयो भवतीत्यर्थः । तस्यान्तर्भावमाह ।। इयमपीति । फलरूपसम्भववदियमपीत्यपेरर्थः । फलरूपपरिशेषस्यानुमानजन्यत्वेन तत्करणं परिशेषाख्यप्रमाणमनुमानमेवेति भावः । परिशेषानुमानस्थलेऽनुमानप्रयोगासम्भवात्कथं परिशेषस्यानुमानत्वमित्यत आह । अयमिति । विमत इत्यर्थः । देवदत्त इति निर्देशः । देवदत्तात्तिरिक्ते विष्णुमित्रे व्यभिचारवारणाय सत्यन्तं विशेषणम् । इति प्रयोगवदुपपत्तेस्तादृशो यो व्यतिरेक्यनुमानप्रयोगस्तद्वदुपपत्तेः । परिशेषप्रवृत्तिस्थलेऽप्येवंविधप्रयोगसम्भवादित्यर्थः । यद्वेति प्रयोगवतः परिशेषस्यानुमानसम्भवादित्यर्थः । उपक्रमादिप्रमाणानामन्तर्भावमाह ।। उपक्रमादीन्यपीति । प्रकरणादिरुपक्रमः । उपसंहारादिशब्दार्थः । अनुमानान्येव वाक्यतात्पर्यलिङ्गान्येवेत्यर्थः । यत्र वाक्यपदं प्रक्रम्यते तत्तात्पर्यगोचर इत्यादिरूपव्याप्तिज्ञानमपेक्ष्य प्रक्रमादीनां तात्पर्यज्ञानस्यापेक्षितत्वादनुमानत्वमिति भावः । ऐतिह्याख्यप्रमाणस्यान्तर्भावं वक्तुमैतिह्यस्वरूपमाह ।। अनिर्दिष्टप्रवक्तृकमिति । अनिर्दिष्टो विशिष्यानुक्तः प्रवक्ता यस्य तत्तथा । प्रवादपारम्पर्यं परम्परैव पारम्पर्यम् । वचनप्रवाह इत्यर्थः । अनिर्दिष्टप्रवक्तृकवाक्यपरम्पराव्यवच्छेदायानिर्दिष्टेति विशेषणम् । लक्ष्ये लक्षणं दर्शयति ।। यथेति । वैश्रवणःपिशाचोऽस्तीत्यनिर्दिष्टवाक्यप्रवक्तृकवाक्यमित्यर्थः । तस्यान्तर्भावमाह ।। तदिति । तदैतिह्यमागमलक्षणवत्त्वादागम एव भवतीत्यर्थः । उक्तन्यायमन्यत्राप्यतिदिशति ।। एवमिति । एवमुक्तविधयाऽन्यान्यप्यन्तर्भावितप्रमाणातिरिक्तानि चेष्टाविशेषरेखाविशेषादीन्यपि प्रमाणान्यर्थविशेषज्ञापकान्युक्तेषु त्रिविधतयोक्तेषु प्रमाणेष्वन्तर्भाव्यान्यन्तर्भूतत्वेन ज्ञेयानीत्यर्थः । नन्वनुप्रमाणं केवलप्रमाणं च त्रिविधमित्यस्तु तथाऽपि तत्प्रामाण्यं प्रत्याश्रयं भिन्नमेव । भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपीत्यनुव्याख्यानोदाहृतश्रुतेर्धर्मिणामिव धर्माणामप्येकत्वे मानाभावाच्च । अथ भिन्नेषु घटेषु घटोऽयमित्यनुगतप्रत्ययो घटत्वैक्ये मानमिति चेत् । किं तत्प्रत्ययस्यानुगतत्वमेकत्वं वैकघटत्वप्रकारत्वं वा समानघटत्वप्रकारत्वं वा । नाद्यः । अनेकेष्वयं रूपीति प्रत्ययवद्घटोऽयमिति प्रत्ययस्यानेकत्वेनैकत्वायोगात् । एकत्वेऽपि तत्प्रत्ययस्य तदेवेदं घटत्वमिति घटत्वैक्यागोचरत्वेन घटत्वैक्ये मानाभावाच्च । न द्वितीयः अनेकघटत्ववादिनं प्रत्येकघटत्वप्रकारत्वासिद्धेः । अनेकेषु घटेषु घटत्ववैशिष्ट्यगोचरत्वेऽप्यस्य प्रकारस्यानेकघटवृत्तिघटत्वैक्ये उदासीनत्वेनैकप्रकारत्वस्याङ्गीकर्तुमशक्यत्वाच्च । अन्यथा भिन्नेषु घटाद्यर्थेष्वाधारोऽयमाधारोऽयमाधेयोऽयमाधेयोऽस्वीयोऽयं स्वीयोऽयं प्रतियोग्योऽयं प्रतियोग्योऽयं विशेष्योऽयं विशेष्योऽयमित्यादिप्रत्ययस्यैकाधारत्वादिप्रकारत्वापातात् । अभावेष्वभावोऽयमभावोऽयमित्यादिसाक्षात्कारस्यैकाभावात्वादिप्रकारत्वापाताच्च । न चाभावेप्यभावत्वादिकं भावेषु च विद्यमानमाधारत्वादिकमित्यनुगतधर्मवादिभिर्न्नैय्यायिकादिभिरभ्युपगम्यते पदार्थनियमलोपप्रसङ्गात् । सम्बन्धिभिन्नसम्बन्धस्य केनाप्यनभ्युपगमेनाधाराधेयभावादेः सम्बन्धिरूपतयैकत्वायोगाच्च । न तृतीयः । परेष्टासिद्धेरस्मदिष्टसिद्धेश्च । तथा च प्रत्याश्रयं भिन्नं प्रमाण्यमाश्रयोत्पत्तेः प्रागाश्रयसदसत्त्वेनोत्पत्तिमदेवेत्यभ्युपेयम् ।