प्रकरणसमः
(५९) प्रमाणपद्धतिः
।। २० ।। (२) (१५) ।। प्रकरणसमः ।। प्रत्यनुमानेन प्रत्यवस्थानं प्रकरणसम इत्येके । यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । अत्र प्रत्यनुमानस्याङ्गसाकल्याभिमाने सदुत्तरमेव । अन्यथा साधर्म्यसमाद्यन्तर्भावः । तस्मादङ्गीकृतानधिकबलेन बाधचोदनं प्रकरणसम इत्युदयनः । एतदप्ययुक्तम् । यथा प्रतिदृष्टान्तसमादावन्यतरचोदनेनैकजातित्वं तथा साधर्म्यसमादिनाऽप्येकजातित्वसम्भवेन पृथक्करणानुपपत्तिः । उद्धारस्तु तद्वदेव ।
जयतीर्थविजय
।। प्रत्यनुमानेनेति । विरोध्यनुमानेनेत्यर्थः । प्रत्यनुमाने प्रतिवादिनोऽङ्गसाकल्याभिमानोऽस्ति न वेति विकल्प्याद्यं निराह ।। अत्रेति ।। अङ्गसाकल्याभिमान इति । प्रतिवादिन इति शेषः । द्वितीयं निराकरोति ।। अन्यथेति ।। साधर्म्यसमादीति । अनभ्युपेतयुक्ताङ्गेन प्रतिप्रमाणेन प्रत्यवस्थानरूपत्वात्साधर्म्यसमादेरित्यर्थः । आदिशब्देन वैधर्म्यसमस्य ग्रहणम् ।। तस्मादिति । प्राचीनलक्षणस्य दुष्टत्वादित्यर्थः ।। अङ्गीकृतानधिकबलेनेति । एतत्सदुत्तरबाधचोदनेऽतिव्याप्तिनिरासाय । एतदेवोक्तं वरदराजेन ।
तुल्यत्वमभ्युपेत्यैव परहेतोः स्वहेतुना ।
बाधेन प्रत्यवस्थानं प्रकरण सम इष्यत ।। इति ।
अस्य साधर्म्यसमाद्यपेक्षयाऽऽधिक्यमेव नास्तीति निराकरोति ।। एतदपीति । एकजातित्वं त्वयाऽङ्गीकृतमिति शेषः ।। एकजातित्वसम्भवेनेति । प्रकरणसमस्येति शेषः । यदि महानसदृष्टान्तेन पर्वतोऽग्निमानिष्यते तर्हि ह्रददृष्टान्तेनानग्निक एवास्तु । अनग्निकोऽपि किं न स्यादिति बाधप्रतिरोधचोदनयोर्भिन्नरूपयोरपि बाधप्रतिरोधान्यतरोद्भावनत्वरूपेण क्रोडीकरणाद्यथैकजातित्वं त्वयाङ्गीकृतं तथा प्रकरणसमं साधर्म्यसमादिकं च तेनैव रूपेण क्रोडीकृत्यैकजातित्वमङ्गीकुरुष्वेति भावः ।। तद्वदेवेति । नेदं साधकम् । बाधितसाध्यकत्वादिति प्रतिषेधकानुमानेऽप्यनधिकबलेन धर्मत्वादिना । बाधस्य वक्तुं शक्यत्वाद्य्वाघात इति भावः ।
भावदीपः
।। साधर्म्यसमाद्यन्तर्भाव इति । वैधर्म्यसम आदिपदार्थः ।। अङ्गीकृतानधिकबलेनेति । प्रत्यनुमानेनेत्यनुषङ्गः ।। यथा प्रतिदृष्टान्तसमादाविति । आदिपदेनापकर्षसमग्रहः । तत्र प्रतिदृष्टान्तसमे बाधचोदने प्रतिरोधचोदने चैकजातित्वम् । न तु तत्र भेदः । अपकर्षसमे च दृष्टान्ते साध्येन साधनेन वा सह दृष्टस्य स्थाल्यादेः पर्वते निवृत्त्या साध्याभावचोदने साधनाभावचोदने चैकजातित्वम् । तथा साधर्म्यसमादावपि प्रतिपक्षचोदने बाधचोदने चैकजातित्वं स्यात् । साधर्म्यसमादौ प्रतिपक्षचोदनमिह तु बाधचोदनमित्येतावता भेदे प्रतिदृष्टान्तादावपि भेदः स्यादित्यर्थः । तथाऽपि जातित्वानपायात् । तत्र प्रत्युत्तरोक्तिप्रकारः कथमित्यत आह ।। तदुद्धार इति । अधिकबलत्वरूपयुक्ताङ्गहीनत्वान्नेदं बाधकं भवितुमर्हतीति वाच्यम् । अधिकबलत्वं न बाधकत्वे तन्त्रमिति वदता नेदं वादिसाधनं साधकं बाधितविषयत्वादित्युक्तप्रतिषेधेऽपि हेतुत्वात्साधकमेव धूमवत्त्वादिसाधनमिति सुवचत्वात्स्वन्यायविरोध इत्यर्थः ।
श्रीविजयीन्द्रतीर्थ
।। अत्रेति । निर्णायकाभावरूपाङ्गत्याग इति भावः ।। अन्यथेति । व्याप्त्यपुरस्कारे ।
श्रीवेदेशभिक्षु
।। अत्रेति । तथा च युक्ताङ्गनिर्णायकाभावरूपयुक्ताङ्गत्याग इति भावः ।। अन्यथेति । व्याप्त्याद्यङ्गसाकल्याभिमानाभाव इत्यर्थः ।। अन्यतरचोदनेनेत्यादि । अयं भावः । यथा प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधचोदनयोर्न भिन्नजातिता । किन्तु तदन्यतरेण प्रत्यवस्थानमेकैव जातिस्तथा साधर्म्यसमजातिलक्षणमेवानभ्युपेतयुक्ताङ्गेनानुमानेन बाधप्रतिरोधान्यतरेण प्रत्यवस्थानमित्यभिधायेयमपि जातिर्न पृथग्गणनीया । अन्यथा प्रतिदृष्टान्तमात्रेण बाधचोदनमपि तन्मात्रेण प्रतिपक्षचोदनाद्भिद्येतेति । आदिपदेन सामान्यतया प्रतिधर्मसमग्रहणम् ।। तद्वदेवेति । साधर्म्यसमादिवदेवेत्यर्थः । ततश्चैवमुत्थानक्रमः । बाधकत्वेऽधिकबलवत्त्वस्याङ्गत्वात्तस्य चानभ्युपगमाद्युक्ताङ्गत्याग इति वाच्यम् । तदनङ्गत्वे तु स्थापनायैव जातेर्बाधप्राप्तेः स्वन्यायविरोध इति ।
अभिनवामृतम्
।। सदुत्तरमेवेति । दूषणसमर्थत्वान्न जात्युत्तरमिति भावः ।। तस्मादनङ्गीकृतेति । अत्रानधिकबलप्रमाणोपन्यासे पाक्षिकजयबुद्धिरुत्थानबीजम् । बाध आरोप्यः । यथा प्रतिदृष्टान्तसमादाविति हेतुनिरपेक्षेण प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधयोरन्यतरोद्भावनं प्रतिदृष्टान्तसमलक्षणं कृत्वा बाधप्रतिरोधयोरेव प्रतिजातित्वमङ्गीक्रियते । तथा साधर्म्येण बाधप्रतिरोधयोरन्यतरोद्भावनं साधर्म्यसमलक्षणं कृत्वा साधर्म्यप्रकरणसमयोरेकजातित्वं वाच्यमित्यर्थः ।। उद्धारस्त्विति । एतदुद्धारस्तु साधर्म्यसमजात्युद्धारवदेवेत्यर्थः । तथा हि । बाधप्रयोजकस्याधिकबलवत्त्वस्याप्रयोजकतायाः पराभ्युपगतायाः प्रथमं ज्ञातुमशक्यत्वादधिकबलवत्त्वाभावान्न बाधकत्वमित्युत्तरं वाच्यम् । तदनङ्गीकारे स्वन्यायविरोध इति ।
वाक्यार्थमञ्जरी
।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या साध्यसाधकयोरन्योन्यसापेक्षत्वेनान्योन्याश्रयमापाद्य धूमो न साधकस्तर्कपराहतत्वादिति वादिसाधनस्यासाधकत्वं साधनीयम् । तत्राप्येवं वक्तुं शक्यम् । तथा हि । न तावत्तर्कपराहतत्वरूपसाधनमसाधकरूपसाध्यात्पूर्वम् । साध्याभावे तन्निरूपितसाध्यत्वायोगात् । नापि पश्चात् । साधनाभावे साध्यत्वायोगात् । नापि द्वयोर्यौगपद्यम् । अविशेषणसाध्यसाधनभावायोगात् । न च कृतौ पूर्वभाविन इत्याद्युक्तरीत्या परिहारो वक्तव्यः । तत्प्रकारस्य त्वयाऽनङ्गीकारात् । तथा च न तत्साधनं साध्यात्पूर्वमित्यादि तद्वाक्यन्यायेन धूमो न साधक इत्यादि तद्वाक्यस्यविरोधात्स्वन्याय विरोधान्तर्भाव इति भावः ।
श्रीविट्टलभट्ट
।। प्रत्यनुमानेनेति । साध्यविपरीतसाधकहेतुना प्रत्यवस्थानं वादिसाधनदूषणमित्यर्थः ।। अङ्गसाकल्याभिमान इति । पक्षाद्यङ्गानां साकल्यमङ्गसाकल्यमस्तीत्यभिमाने सतीत्यर्थः ।। अन्यथेति । सकलाङ्गोपेतत्वाभिमानाभाव इत्यर्थः । साधर्म्यसमान्तर्भावः स्यादिति शेषः । वैधर्म्यसम आदिशब्दार्थः । अनभ्युपेतयुक्ताङ्गेन साधर्म्येण प्रतिपक्षचोदने साधर्म्यसमेऽनभ्युपेतयुक्ताङ्गेन वैधर्म्येण प्रतिपक्षचोदने वैधर्म्यसमे चोक्तप्रकरणसमलक्षणस्य सत्त्वात्तत्रान्तर्भाव इति हृदयम् ।। तस्मादिति । उक्तलक्षणस्यातिव्याप्तत्वादित्यर्थः । सदुक्तकालात्ययापादिष्टव्यवच्छेदायाङ्गीकृताधिकबलेनेति ।। एतदप्ययुक्तमिति । एकदेश्युक्तलक्षणवदुदयनोक्तलक्षणं चायुक्तमित्यर्थः । तदुपपादयति ।। यथेति । प्रतिदृष्टान्तमात्रेण बाधितप्रतिरोधयोरन्यतरोऽन्यतरोद्भावनेन प्रतिदृष्टान्तसमे दृष्टान्ते साध्येन साधनेन वा सहचरितस्य धर्मस्य पक्षे निवृत्त्या साध्यसाधनयोरन्यतराभावचोदनरूपे आदिपदोपात्तापकर्षसमे चान्यतराचोदनेनान्यतराचोदनमिति विशेषणेनैकजातित्वम् । बाधप्रतिरोधचोदनयोः पक्षेः साध्याभावसाधनाभावचोदनयोश्चान्यतरचोदनेन विशेषणेन साधर्म्यसमेनादिपदोपात्तेनैव वैधर्म्यसमेन चास्यैकजातित्वसम्भवेन ततः पृथक्करणायोग इत्यर्थः । अनभ्युपेतयुक्ताङ्गेन साधर्म्येण बाधप्रतिरोधनयोरन्यतरचोदनं साधर्म्यसम इति साधर्म्यसमलक्षणकथने अनभ्युपेतयुक्ताङ्गेनैव धर्म्ये बाधनप्रतिरोधनयोरन्यतरचोदनं साधर्म्यसम इति । वैधर्म्यसमलक्षणकथने चास्याप्यन्यतरचोदने विशेषणेन सङ्गृहीतत्वात्ततः पृथक्करणमयुक्तम् । नियामकाभावात् । अन्यथा प्रतिदृष्टान्तसमादावपि पृथक्करणापातादिति हृदयम् । नन्वस्य जात्युत्तरस्य साधर्म्यसमाद्यभेदस्तथाऽपि प्रकरणसमजात्युत्तरोद्धारः कथमिति जिज्ञासायामाह ।। तद्वदेवेति । प्रकरणसमजात्युत्तरस्य परिहारस्तु तद्वदेव साधर्म्यादिवदेवेत्यर्थः । तत्राधिकबलत्वरूपयुक्ताङ्गहीनत्वचोदनं बाधकमित्युत्तरं वाच्यम् । यद्यधिकबलत्वं न बाधके तन्त्रं किन्तु विरोधविषयत्वमेवेति परो ब्रूयात् । तर्ह्यनभ्युपेतानधिकबलेन प्रत्यनुमानेन जातिवादिहेतोरपि बाधचोदनसम्भवात्स्वव्याहतिस्तदुद्धारप्रकार इत्यनुसन्धेयम् ।