प्रमाणपद्धतिः
।। प्रमाणपद्धतिः ।।
।। (१) अथ प्रत्यक्षपरिच्छेदः ।।
अष्टटिप्पणी समेता
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।।
मङ्गलश्लोकाः
प्रणम्य चरणाम्भोजयुगलं कमलापतेः ।
प्रमाणपद्धतिं कुर्मो बालानां बोधसिद्धये ।। १ ।।
श्रीजनार्दनविरचिता जयतीर्थविजयनाम्नी टिप्पणी
जयतीर्थविजय
प्रमाणजातसंवेद्यमस्पृष्टावद्यसद्गुणम् ।
सद्भ्यो वितीर्णसर्वार्थं सन्नमामि रमापतिम् ।। १ ।।
पूर्णबोधान्गुरूंश्चान्यान्नत्वा तत्करुणाबलात् ।
प्रमाणपद्धतिं गूढां विवृणोमि यथामति ।। २ ।।
स्खलन्नप्यहमेतस्यां गूढायां मानपद्धतौ ।
नैव हास्योऽस्मि महतां गूढत्वादेव पद्धतेः ।। ३ ।।
भगवाञ्जयतीर्थमुनिः प्रमाणस्वरूपादिकं निरूपयिषुर्ग्रन्थादौ विशिष्टेष्टदेवतानतिपूर्वकं विषयप्रयोजने निर्दिशंश्चिकीर्षितं प्रतिजानीते ।। प्रणम्येति । भक्त्याद्यङ्गपूर्वकस्यैव नमस्कारस्याभिमतसमाप्त्यादिसाधनत्वम् । तादृशनमस्काराभावादेव क्वचित्कृतेऽपि नमस्कारे समाप्त्यभावः । अतो नमस्कारस्य वैफल्यशङ्का न कार्येति सूचयितुं प्रणम्येत्युक्तम् । कमलापतेर्निराकारत्वशङ्कानिरासाय चरणेत्युक्तम् । ननु लक्षणेन सिद्धस्यैव चरणवन्दनमिति किमस्य नारायणस्य लक्षणमित्यत आह ।। कमलापतेरिति । तथा चातिव्याप्त्याद्यभावात्कमलापतित्वं विष्णुलक्षणमिति भावः । ननु किमस्मिन्प्रमाणमित्याशङ्क्य तज्ज्ञानसाधनप्रमाणनिरूपणार्थमेवायमारम्भ इत्याह ।। प्रमाणपद्धतिं कुर्म इति । प्रमाणानां पद्धतिरिव पद्धतिः प्रमाणसामान्यतद्विशेषलक्षणादिप्रतिपादकग्रन्थ इत्यर्थः । पद्धतिसादृश्यं तु प्रवृत्त्युपयोगित्वेनेति बोध्यम् । प्रमाणपद्धतिरित्यन्वर्थकसंज्ञाकरणेनैव प्रमाणस्वरूपमस्य प्रकरणस्य विषय इति सूचितम् । प्रयोजनं निर्दिशति ।। बोधेति । प्रमाणानामिति शेषः। जयतीर्थमुनीन्द्रेण बालबोधाय निर्मितेत्यग्रिमश्लोक इव बोधयेति वाच्ये बोधसिद्धय इति वदता प्रमाणेति सामान्यतो निर्दिशता चैतत्प्रकरणप्रतिपाद्यानि सर्वाण्यपि प्रमाणानि भगवद्बोधोपयोगित्वेन ज्ञातान्येव पुरुषार्थपर्यवसायीनि । अन्यथा गङ्गावालुकापरिगरणनवदिदं प्रमाणादिविभागकथनं व्यर्थं स्यादिति सूचितम् । मन्त्रसिद्धिरित्यादाविव सिद्धिशब्दस्य साफल्यार्थत्वात् । अत एवान्ते वक्ष्यति । तदेवंभूतैः प्रमाणैरित्यारभ्य भगवत्साक्षात्कारे सतीति । प्रमाणलक्षणावसानेऽप्युक्तं मानलक्षणमित्युक्तं सङ्क्षेपाद्ब्रह्मसिद्धय इति । ननु न प्रमाणादिबोधोऽस्य प्रयोजनम् । इष्टानिष्टप्राप्तिपरिहारयोरेव प्रयोजनत्वेन प्रमाणादिबोधस्य तदन्यतरत्वाभावादित्यतोऽप्याह ।। बोधसिद्धय इति । एतच्छङ्कापरिहाराय कमलापतेरित्येतद्बोधसिद्धय इत्यनेनाप्यन्वयितव्यम् । तथा च प्रसादद्वारा मोक्षसाधनीभूतरमापतिबोधायेत्यर्थः । एवं च प्रमाणादिबोधस्येष्टानिष्टप्राप्तिपरिहारान्यतरत्वाभावेऽपि परम्परया तत्कारणत्वात्प्रयोजनत्वमुपपद्यत इति भावः । अधिकारिणं निर्दिशति ।। बालानामिति । बालशब्दार्थस्त्वनुपदमेव स्फुटीभविष्यति ।
श्रीराघवेन्द्रतीर्थविरचितः प्रमाणपद्धति
भावदीपः
लक्ष्मीनारायणं नत्वा तथा मध्वादिदेशिकान् ।।
प्रमाणपद्धतेर्भावदीपं कुर्यां यथामति ।। १ ।।
प्रारिप्सितग्रन्थविघ्नविधातादिप्रयोजनकं भगवत्प्रणामरूपं मङ्गलमादौ कुर्वन्नेव चिकीर्षितं प्रतिजानीते ।। प्रणम्येति । कमलापतेरित्युक्त्या सकलवाङ्मनसदेवतायाः श्रियोऽपि भगवदुपसर्जनत्वेन प्रणतिरुक्ता भवति । प्रमाणेति भावे करणे च ल्युडन्तम् । प्रमाणानां केवलानुप्रमाणानां पद्धतिरुद्देश्यसामान्यलक्षणविभागविशेषोद्देशविशेषलक्षणतत्परीक्षादिरूपा पद्धतिशब्दिता रीतिर्यस्मिग्रन्थे तं ग्रन्थम् । कुर्म इति परस्मैपदोक्त्या सूचितं प्रयोजनमाह ।। बालानामिति । प्रमाणानामुक्तरूपपद्धतेर्बोधसिद्धय इत्यर्थः । नित्यसापेक्षत्वात्समासः । देवदत्तस्य गुरुकुलमिति यथा ।
श्रीविजयीन्द्रतीर्थविरचिता प्रमाणपद्धतिटिप्पणी
श्रीविजयीन्द्रतीर्थ
पद्मापतिपदाम्भोजयुग्ममानम्य मद्गुरून् ।
प्रमाणपद्धतेर्भावं वर्णयामि यथामति ।। १ ।।
प्रारिप्सितग्रन्थस्याविघ्नेन परिसमाप्त्यर्थं कृतं नमस्काररूपमङ्गलं शिष्यशिक्षायै निबध्नंश्चिकीर्षितं प्रतिजानीते ।। प्रणम्येति । अत्र भक्तिश्रद्धातिशयकथनाय प्रशब्दः । प्रणामरूपमङ्गलस्य प्रारब्धाभीष्टकर्मापेक्षया पूर्वकालत्वबोधनाय क्त्वाप्रत्ययः । नम्यचरणाम्भोजयुगलस्य भगवतोऽपि विशिष्टेष्टाधिकृतत्वं नम्यत्वप्रयोजनकं रूपं सूचयितुमाह ।। कमलापतेरिति । प्रस्तुतप्रकरणप्रयोजनमाह । बोधेति । प्रमाणादितत्त्वज्ञानविरहिणोऽन्यत्र व्युत्पन्नांस्तद्बोधप्रयोजकानाह ।। बालानामिति । प्रमाणपद्धतेः क्रियमाणत्वेऽपि प्रमाणपद्धतेरेव प्राधान्याल्लिङ्गसमवायेन प्राणभृत उपधात्विति वाक्यस्थ प्राणभृच्छब्दवत्प्रमाणपद्धतितदन्यपद्धतिसमुदाये प्रमाणपद्धतिशब्दमभिप्रेत्याह ।। प्रमाणपद्धतिमिति । ग्रन्थनामत्वे वा लिङ्गसमवाय एव निमित्तमिति द्रष्टव्यम् । प्रमाणपद्धतिमित्यस्मात्पूर्वं वयमित्यध्याहारः । प्रमाणपद्धतिकर्तुरेकत्वेऽप्यस्मदोर्द्वयोश्चेति वयमिति बहुवचनोपपत्तिः । प्रमाणपद्धतेः करिष्यमाणत्वेऽपि वर्तमानसामीप्ये वर्तमानवद्वेति कुर्म इति लट् प्रयुक्तः । एतत्प्रकरणरूपक्रियाफलस्य बालबोधस्य कर्तृगामित्वाभावादत्र परस्मैपदप्रयोगः । अनेन प्रमाणादितत्त्वमस्य प्रकरणस्य विषय इति सूचितम् । एवं च विषयादीनां यथायथं सम्बन्धो द्रष्टव्यः ।
श्रीवेदेशभिक्षुविरचित प्रमाणपद्धतिःटिप्पणी
श्रीवेदेशभिक्षु
प्रमाणजातैरवबुद्ध्य यस्य सारं पदं भक्तवरा भजन्ति ।
जना निजानन्दपदेच्छवोऽलं तं वासवीसूनुमहं प्रपद्ये ।। १ ।।
श्रीमध्वं जयतीर्थमपि च श्रीराघवाङ्घ्रयम्बुजा
सक्तान्तःकरणान् रघूत्तमयतीनानम्य विद्यागुरून् ।
वेदव्यासयतीश्च पद्धतिगताभिप्रायसंवर्णनम्
वेदेशस्तनुते गुरुकृपामालम्ब्यधीशुद्धये ।। २ ।।
इह खलु सुखमेव मे स्याद्दुःखं मनागपि मा भूदिति निखिलापेक्षितमोक्षस्येश्वरप्रसादमन्तरेणासम्भवात्तस्य च तत्साक्षात्कारमन्तरेणानुदयात्तस्य च वैराग्यादिद्वारा नित्यानित्यवस्तुनिश्चयसाध्यत्वान्नित्यानित्यवस्तुनिश्चयस्य च प्रमाणानि विनाऽनुदयात्तेषां च यथावद्विदितानामेव तद्धेतुत्वोपपत्तेस्तत्स्वरूपं यथावज्ज्ञापयितुकामो जयतीर्थश्रीमच्चरणः प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनशिष्टाचारपरम्पराप्राप्तेष्टदेवतानतिपूर्वकं श्रोतृशेमुषीमनुकूलयिष्यंश्चिकीर्षितं प्रतिजानीते ।। प्रणम्येति । अत्र भक्तिश्रद्धाद्यतिशयद्योतनाय प्रशब्दः । तादृश एव हि नमस्कारो भवत्यभिमतसिद्धेरङ्गम् । ल्यप्प्रत्ययप्रयोगेण च प्रमाणस्वरूपमङ्गलस्य ग्रन्थकरणाङ्गत्वं सूचयति । नम्यत्वप्रयोजकमिष्टत्वं विशिष्टत्वं चाह । कमलापतेरिति । कमला हि सर्वपुरुषार्थप्रदा ब्रह्माद्युत्तमा च प्रसिद्धा । अतस्तत्पतिः सुतरां तदुभयरूप इति भावः । अनेन सकलवाङ्मनसदेवताऽवश्यं वन्दनीया न पृथक् वन्दनीया रमापि वन्दिता भवति । कमलापतेर्दक्षिणसव्यपादयोः क्रमेणानन्दज्ञानप्रदत्वात्तदुभयप्रार्थनाय चरणाम्भोजयुगलमित्युक्तम् । यथोक्तम् ।
स्वित्यानन्दस्त्यमुद्दिष्टो वरिति ज्ञानमुच्यते ।
मुक्तिदानेन तद्दानात्सुवरस्य पदद्वयम् ।
दक्षिणश्चैव सव्यश्चेति ।
चरणाद्युक्त्यैव सावयवत्वसिद्धेर्न तदर्थं युगलग्रहणम् । प्रमाणपद्धतिमिति ग्रन्थसंज्ञा । यथा ग्रामादिकं मार्गेण सुखेन प्राप्तुं शक्यमेवमनेन ग्रन्थेन प्रमाणादिकं सुखेन बोद्धुं शक्यमिति भावेन पद्धतिशब्दप्रयोगः । अत एव वक्ष्यति । सुखेन शक्यते बोद्धुमिति तदर्थमिति च । वर्तमानसामीप्याद्वर्तमानवव्द्यपदेशः । प्रकरणावान्तरप्रयोजनमाह ।। बालानामिति । प्रमाणादिस्वरूपज्ञानरहिता अन्यत्र व्युत्पन्ना बालास्तेषां प्रमाणादिस्वरूपबोधप्राप्तय इत्यर्थः ।
श्रीसत्यनाथतीर्थविरचितम्
अभिनवामृतम्
नमामि श्रीमदानन्दतीर्थपूजितविग्रहम् ।
रामचन्द्रं निजानन्दसान्द्रमिष्टतमं गुरुम् ।। १ ।।
अपारिजातो यः ख्यातो द्वेषदोषविवर्जनात् ।
इष्टदानात्पारिजातं वन्दे सत्यनिधिं मुदे ।। २ ।।
प्रमाणपद्धतौ बुद्धिसञ्चारश्रमशान्तये ।
सत्यनाथयतिः सेव्यमारभेऽभिनवामृतम् ।। ३ ।।
शिष्यशिक्षार्थं स्वग्रन्थस्येष्टदेवतानतिपूर्वकत्वं सूचयंश्चिकीर्षितं प्रतिजानीते ।। प्रणम्येति । चरणावेवाम्भोजे तयोर्युगलं प्रणम्येति सम्बन्धः । अत्र युगलशब्दो द्वयपर्यायोऽप्येकप्रकारतासमानाधिकरणद्वित्ववाचकः । तद्यथा हयवाज्यर्वाश्वादिशब्दाः पर्याया अपि देवगन्धर्वासुरमनुष्यवाहनवाचकाः। तदुक्तम् । हयो भूत्वा देवानवहत् । वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यानिति । चरणौ प्रणम्येत्येव वक्तव्येऽम्भोजग्रहणमतिकोमलत्वज्ञापनाय । युगलग्रहणं त्वेकप्रकारताद्योतनायेति बोध्यम् ।
श्रीव्यासपुरी नरसिंहविरचितः
आदर्शः
कमलाहस्तगलितामृतसिक्तकलेवरम् ।
हयग्रीवमहं वन्दे चन्द्रस्थं ज्ञानदं प्रभुम् ।। १ ।।
श्रीमच्छ्रीशैलसंवासिश्रीनिवासमहं भजे ।
समस्तदुरितध्वान्तविध्वंसनदिवाकरम् ।। २ ।।
समस्तमानैः सकलेशितुर्हरेः सर्वोत्तमत्वं प्रकटीचकार ।
निरस्य दुर्वादिमतं समस्तं तं भारतीनाथमहं प्रपद्ये ।। ३ ।।
श्रीमदानन्दतीर्थार्यशास्त्रगूढार्थसन्ततिः ।
प्रदर्शिता येन सम्यक् तं जयेन्द्रमहं भजे ।। ४ ।।
कण्ठपल्लीवरग्रामवासिनं विदुषां वरम् ।
रघुनाथार्यनामानं परमं गुरुमाश्रये ।। ५ ।।
पितृन् श्रीवासुदेवार्यान् विद्यामन्त्रोभयप्रदान् ।
नमामि यत्प्रसादेन ग्रन्थमेनं करोम्यहम् ।। ६ ।।
द्वैतद्युमणिकर्तारं दुर्मतध्वान्तभास्करम् ।
श्रीनाथार्यं नमस्कृत्य तदुक्तार्थं वदाम्यहम् ।। ७ ।।
अग्रजान् श्रीनिवासार्यान् नत्वा सन्मानपद्धतेः ।।
नरसिंहेन चादर्शः क्रियते बुद्धिशुद्धये ।। ८ ।।
दोषो यदि दातव्यस्तर्हि विचार्यं समग्रं यत् ।
आशयबोधनिमित्तो दोषो नो दुःखमावहति ।। ९ ।।
ग्रन्थादौ मङ्गलमाचरति ।। प्रणम्येति । प्रणम्य कुर्म इत्युक्त्या ग्रन्थारम्भे मङ्गलमावश्यकमिति सूचितम् । कमलापतिरित्यनेन सकलवाङ्मनसदेवताया जगन्मातुश्च वन्दनं कृतं भवति ।
श्रीनिवासतीर्थविरचिता
वाक्यार्थमञ्जरी
प्रणम्य जानकीकान्तचरणौ मानपद्धतिम् ।
वेदेशमुनिसन्त्यक्तवाक्यार्थो लिख्यते मया ।। १ ।।
चरणाम्भोजयुगलमिति । चरणावम्भोजे इव तयोर्युग्ममित्यर्थः । अत्र भगवच्चरणयोः पद्मसाम्योक्त्या कोमलत्वादिलाभेन तस्य सुकुमारत्वादिगुणविशिष्टत्वं नम्यत्वप्रयोजकं सूचितम् । ग्रन्थक्रियाफलस्य बालबोधस्य कर्तृगामित्वाभावात्कुर्म इति परस्मैपदप्रयोगः । अधिकार्यादिदर्शयितुं बालानां बोधसिद्धय इत्युक्तम् । प्रमाणपद्धतिमित्युक्त्या प्रमाणस्वरूपबोधेति लभ्यते । तथाच प्रमाणं तत्त्वमत्र विषयः । तज्ज्ञानं प्रयोजनम् । बाला अधिकारिणः । प्रकरणप्रयोजनयोः कार्यकारणभाव इत्यादि यथाथोग्यसम्बन्धो द्रष्टव्यः ।
श्रीविट्टलभट्ट विरचिता प्रमाणपद्धतिटिप्पणी
श्रीविट्टलभट्ट
पूर्णप्रज्ञाचार्यशुद्धहृत्सरोजाग्रमन्दिरम् ।
इन्दिरार्चितपादाब्जं श्रीनृसिंहमहं भजे ।। १ ।।
प्रणम्य जयतीर्थाख्यान्विठ्ठलाख्यविपश्चिता ।
प्रमाणपद्धतेर्व्याख्या क्रियते बालबोधिनी ।। २ ।।
इहखलु सुखमेव मे स्याद्दुःखं मनागपि मा भूदिति निखिलापेक्षितमोक्षस्य भगवत्प्रसादमन्तरेणासम्भवात्तस्य च तस्मिन्नुद्रिक्तभक्तिं विनाऽयोगादुद्रिक्तभक्तेश्च तत्साक्षात्काराधीनत्वात् तत्साक्षात्कारस्य वैराग्यभक्तिश्रवणमननादिसाध्यत्वात् । तेषां च नित्यानित्यत्वभगवन्माहात्म्यश्रवणादीतिकर्तव्यताबोधकप्रमाणसापेक्षत्वात्तद्बोधकानां च श्रुतिस्मृत्यादिप्रमाणानां प्रामाण्यनिश्चये ततो वैराग्यस्य निष्पत्तेरायाससाध्यवैराग्यादिसाधनसम्पादनार्थं निष्कम्पप्रवृत्त्ययोगात्प्रमाणप्राबल्यदौर्बल्यप्रामाण्यावधारणव्यतिरेकेण मननासम्भवाच्चेदमेव प्रमाणानां वैराग्यादावुपयोगात्तेन रूपेण प्रमाण्यावधारणस्य च प्रमाणलक्षणादिवचनसापेक्षत्वात्प्रमाणादिस्वरूपं यथावज्ज्ञापयितुं प्रमाणलक्षणादिकं वक्तुकामः श्रीमज्जयतीर्थवर्यः प्रारिप्सितप्रकरणपरिसमाप्त्यादिप्रयोजनकेष्टदेवताचरणयुगलप्रणतिपूर्वकं श्रोतृशेमुषीमनुकुलयिष्यंश्चिकीर्षितं प्रतिजानीते ।। प्रणम्येति । इह हि कृतदेवतावन्दनानामपि या ग्रन्थापरिसमाप्तिः सा नमस्कारस्य भक्तिश्रद्धातिशयपूर्वकत्वाभावनिबन्धना न तु तस्य तदहेतुत्वात् । भक्तिश्रद्धाद्यविशिष्टस्याव्यभिचारेऽपि तद्विशिष्टस्य व्यभिचारात् । अत एव नमस्कारस्य भक्तिश्रद्धाद्यातिशयपूर्वकत्वलक्षणप्रकर्षं शिष्टाननुग्राहयितुं प्रणम्येत्युक्तम् । या त्वकृतदेवतानतीनामपि नास्तिकानां प्रारिप्सितकर्मसमाप्तिः सा कारणान्तरादपि भविष्यति । न ह्येकजातीयं कार्यमेकजातीयकारणजन्यमिति नियमोऽस्ति । तथात्वे त्वेकसजातीयकार्ये विजातीययोर्व्रीहियवयोर्विकल्पेन हेतुत्वं न स्यात् । न च तत्र कार्यवैजात्यमनङ्गीकार्यमिति वाच्यम् । पुत्रकामेष्टिकारीर्ययोरिव व्रीहियवयोर्विकल्पोच्छेदप्रसङ्गात् । अन्यथा तत्रापि विकल्पप्रसङ्गात् । ननु तथाऽपि व्यतिरेकव्यभिचारान्न तस्य प्रारिप्सितप्रकरणपरिसमाप्तिहेतुतेति चेन्न । एकजातीयशक्तिमत्त्वेन हेतुत्वाङ्गीकारेणाव्यभिचारात् । तदुक्तं कथालक्षणटीकायाम् । इह हि कृतदेवतानतीनामपि या ग्रन्थापरिसमाप्तिः सा भक्तिश्रद्धाद्यतिशयपूर्वकत्वाभावनिमित्ता न तत्पूर्वकप्रणामस्य प्रारिप्सितपरिसमाप्त्यहेतुतां गमयितुं शक्नोति । न ह्येकदेशव्यभिचारेण सामग्री व्यभिचारिणी स्यात् । या त्वकृतदेवतानतीनामपि समीहितफलसिद्धिः सा कारणान्तरादपि भविष्यति । न ह्येकस्यैकमेव कारणमिति । विद्यारम्भसमये सकलविद्याभिमानिन्या लक्ष्म्या अप्यवश्यवन्दनं कार्यं तद्वन्दनं च भगवत्पारतन्त्र्येणैव कार्यमिति ज्ञापयितुं कमलापतेरित्युक्तम् । प्रमाणपद्धतिं कुर्म इति प्रमाणपद्धतिपदं प्रमाणलक्षणादिप्रतिपादकस्यास्य प्रकरणस्याखण्डसंज्ञा । यद्वा प्रमाणानां पद्धतिः प्रमाणपद्धतिः । पद्धतिपदं तु प्रवृत्तिनिवृत्त्युपयोगित्वस्वरूपमार्गसाधर्म्याल्लक्षणादिप्रतिपादकोक्तिपरम् । लक्षणादिवचनस्य लक्ष्यरूपार्थनिश्चयद्वारा प्रवृत्तिनिवृत्त्युपयोगः सकलवादिसम्प्रतिपन्नः । तथा चोभयथाऽपि प्रमाणपद्धतिपदं प्रमाणलक्षणादिप्रतिपादकग्रन्थपरम् । अत एव प्रमाणपद्धतिं कुर्म इति प्रतिज्ञाय यद्यपीत्यादिनोत्तरवाक्येन प्रमाणलक्षणाद्यभिधानस्य वैय्यर्थ्यमाशङ्क्य तत्सार्थक्यकथनमुपपद्यते । तथा च प्रमाणलक्षणप्रतिपादकं प्रकरणं कुर्म इत्यर्थः । नन्वधिकारिविषयप्रयोजनसम्बन्धशून्यत्वादनारम्भणीयमिदं प्रकरणमित्यत आह ।। बालानां बोधसिद्धय इति । बालानामल्पबुद्धीनां बोधः प्रमाणलक्षणादितत्त्वाध्यवसायस्तस्य सिद्धय उत्पत्तय इत्यर्थः । बालादिरूपाधिकार्यादिसद्भावादारम्भणीयमेवेदं प्रकरणमिति भावः । अत्र बाला अधिकारिणः प्रमाणलक्षणादिरूपं विषयः । तन्निर्णयः प्रयोजनम् । अधिकारिविषययोर्ज्ञातृज्ञेयभावसम्बन्धः । विषयप्रयोजनयोर्विषयविषयिभावः सम्बन्धः । अधिकारिप्रयोजनयोः स्वस्वामिभावसम्बन्ध इति ज्ञातव्यम् । एतेन शास्त्रेणैव प्रमाणलक्षणादिस्वरूपावधारणसम्भवादनारम्भणीयमिदं प्रकरणमिति चोद्यं निरस्तम् । बालानां शास्त्रेऽनधिकारात् । बालबोधार्थमस्यावश्यमारम्भणीयत्वात् ।