प्रमाणपद्धतिः
(२६) प्रमाणपद्धतिः
।। २ ।। प्रतिज्ञान्तरम् । प्रथममविशिष्टतयोक्ते साध्यभागे पुनर्विशेषणप्रक्षेपः प्रतिज्ञान्तरम् । प्रतिज्ञोदाहरणे प्रयोज्यभागो निगमनं चेति साध्यभागः । यथा शब्दोऽनित्य इति प्रतिज्ञाते ध्वनिभिः सिद्धसाधनत्वोद्भावने वर्णात्मकः शब्दोऽनित्य इत्यादि । अत्र वक्तव्यम् । किं पूर्वैव कथाऽनुवर्ततेऽथ कथान्तरम् । नाद्यः । एकस्य साधनस्य दूषणस्य वा स्थितौ भङ्गे वा कथायाः परिसमाप्तत्वात् । साधनान्तरोपन्यास (स्यावसराभावात्) स्य व्यर्थत्वात् । न चेदं पूर्वोक्तमेव । तथात्वे पूर्वदूषणेनैव दुष्टत्वप्रसङ्गात् । न द्वितीयः । तथा सति प्रथममेव विशिष्टस्योपात्तत्वेन प्रतिज्ञान्तराभावात् । वादे तु कथैक्येऽपि न निग्रहस्थानम् । शङ्कानिवृत्तिपर्यन्तं प्रतिवक्तव्यत्वात् । सत्यम् । निवृत्तयोरपि जल्पवितण्डयोः पुनर्विशेषणं प्रक्षिपतः को दोष इति चेत् । असङ्गत्यादिकमिति ब्रूमः । तदपि कथाबाह्यत्वान्न निग्रहस्थानम् ।
जयतीर्थविजय
कोऽयं साध्यभाग इत्यत आह ।। प्रतिज्ञेति । उदाहरण इति सप्तम्यन्तपदम् । न तु प्रतिज्ञोदाहरणे इति द्वन्द्वः । एतदेवाह वरदराजोऽपि । अविशेषितपूर्वोक्तसाध्यांशे दूषिते पुनः । तद्विशेषणनिक्षेपः प्रतिज्ञान्तरमिष्यत इति । प्रतिज्ञान्तरं जल्पवितण्डयोर्निग्रहस्थानमुत वादेऽपीति विकल्पं हृदि निधायाद्यं द्वेधाविकल्पनीयमित्याह ।। अत्रेति । प्रतिज्ञान्तरस्य निग्रहस्थानतावादिनं प्रतीति शेषः ।। पूर्वैव कथेति । वर्णात्मक इति विशेषणप्रक्षेपकाल इति शेषः । जल्परूपा वितण्डारूपा वेत्यर्थः । कुतो नाद्य इत्यत आह ।। साधनान्तरोपन्यासस्य व्यर्थत्वादिति । ननु पूर्वोपक्रान्तकथायां यद् ध्वनिभिस्सिद्धसाधनत्वं प्राप्तं तत्परिहारायैव साधनान्तरोपन्यासस्सार्थक इत्यत आह ।। एकस्येति । अत्र स्थितिभङ्गपदे साधनदूषणपदाभ्यां प्रत्येकं सम्बध्येते । साधनस्य स्थितौ भङ्गे वा दूषणस्य स्थितौ भङ्गे वेति । साधनस्य स्थितावित्यत्र निष्प्रत्यूहं समाप्तत्व इत्यर्थः । दूषणस्य स्थितावित्यत्र सम्यग्लग्नत्व इत्यर्थः ।। साधनान्तरेति । वर्णात्मक इति विशेषणरूपसाधनान्तरोपन्यासस्येत्यर्थः । एवं साधनान्तरोपन्यास वैय्यर्थ्यपरिहारायैव पूर्वोक्तैव कथाऽनुवर्तत इत्याद्यपक्षेऽवश्याभ्युपेये सति विशेषणान्तरप्रक्षेपस्यासङ्गतत्वमेव स्यान्न प्रतिज्ञान्तरत्वमिति भावः । अस्मदुक्तमाचार्याशयमजानानो यथा कथञ्चित्प्रत्युत्तरदानमात्रेण प्रकृतसङ्गतिरिति मन्वानो भ्रान्तश्शङ्कते ।। न चेदमिति । इदं वर्णात्मकत्वविशेषणविशिष्टम् । पूर्वोक्तमेव शब्दो नित्य इत्यनेनैवोक्तमिति न चेत्यर्थः। इदं पूर्वोक्तमेवेति नैयायिकेन शङ्किते सत्याचार्यैः कथाया अविच्छेदायैवेत्थं मत्वेदं पूर्वोक्तमेवेति शङ्कितम् । वस्तुतस्तु नेदं सम्भवति । विशिष्टाविशिष्टसाध्ययोरेकत्वायोगात् । एकत्वे वा वर्णात्मक शब्दस्य शब्द इत्यनेन पौनरुक्त्यप्रसङ्गाच्चेति दूषणे सत्येवाहृदयं वाचामहृदयमेवोत्तरमिति न्यायेन दूषणान्तरमाह ।। तथात्व इति ।। पूर्वदूषणेनेति । सिद्धसाधनेनेत्यर्थः ।। वादेत्विति । प्रतिवक्तव्यत्वादुत्तरस्य दातव्यत्वात् । ननु सिद्धसाधनत्वमात्रेण यदि कथा निवृत्ता तर्हि कथासमाप्त्यनन्तरं विशेषणान्तरप्रक्षेपस्य कथं दूषणत्वमिति पृच्छति ।। निवृत्तयोरिति । वादे तस्यादोषत्वाज्जल्पवितण्डयोरित्युक्तम् । जल्पवितण्डयोरेव प्रतिज्ञान्तरस्य दोषत्वमाह वरदराजोऽपि । विक्षेपः प्रतिभाज्ञानं हेत्वन्तरमुपेक्षणम् । साध्यान्तरं मतानुज्ञा वादेऽनुद्भाव्यसप्तकम् । साध्यान्तरमिति प्रतिज्ञान्तरमुच्यते । प्रमादादिना सम्भवतामप्येषामनुद्भावनेनापि कथाप्रवृत्तौ तत्त्वनिर्णयाविधातादनुद्भाव्येत इति ।। असङ्गत्यादिकमितीति । कथायाः समाप्तत्वादाकाङ्क्षाविरहादिति भावः । नन्वेवं विशेणान्तरप्रक्षेपस्य निग्रहस्थानत्वं न स्यात् । कथाबाह्यत्वादित्याशङ्क्येष्टापत्त्या परिहरति ।। तदपीति । निग्रहस्थानलक्षणे कथायामित्यनेन कथाबाह्यानां व्यावर्तितत्वादिति भावः ।
भावदीपः
।। अत्रेति । विशेषणप्रक्षेपणरूपप्रतिज्ञान्तर इत्यर्थः । स्थितौ भङ्गे वेति द्वयोः प्रत्येकमन्वयः ।। पूर्वोक्तमेवेति । पूर्वोक्तपक्षवचनरूपमेव नाधिकम् । येन कथान्तरप्रसक्तिरिति भावः ।। तथा सतीति । कथान्तरे सतीत्यर्थः । विशिष्टस्य विशेषणयुक्तस्य । ननु जल्पवितण्डयोः कथाभेदेन प्रतिज्ञान्तरस्योक्तदिशा प्रसक्त्यभावेऽपि वादकथायां स्यादित्यत आह ।। वादे त्विति ।। शङ्कानिवृत्ति पर्यन्तमिति । तत्त्वनिर्णयफलकत्वात्तस्येति भावः । शङ्कते ।। सत्यमिति । प्रागुक्तं सत्यं यथार्थमित्यर्थः । असङ्गतीत्यादीत्यादिपदेनाप्राप्तकालताग्रहः । पदयोर्विरोधे वाक्ययोर्विरोधे च क्रमादुदाहरणे ।
श्रीविजयीन्द्रतीर्थ
प्रतिज्ञान्तरं लक्षयति ।। प्रथममिति । हेत्वन्तरव्यावर्तनाय साध्यभाग इति । तद्य्वाचष्टे ।। प्रतिज्ञेति । वह्निमानित्युदाहरणांश इत्यर्थः । उदाहरति ।। यथेति । अस्य निग्रहस्थानत्वं दूषयितुमाह । अत्रेति ।। न चेति । हेतोः सत्त्वादिति भावः ।। पूर्वेति । सिद्धसाधनेत्यर्थः ।। प्रथममिति । कथान्तरे तस्यैव प्राथमिकत्वादित्यर्थः । ननु वादकथावसानस्य प्रतिज्ञान्तरेणाभावः । हेत्वाभासनिरनुयोज्यानुयोगयोरेव तथात्वात् । तथा च कथैक्येन प्रथमोत्पाद्यत्वाभावात्प्रतिज्ञान्तरनिग्रहस्थानता स्यादित्यत आह ।। वाद इति । वादे तत्सत्त्वेऽपि न तस्य दोषत्वम् । तत्त्वनिर्णयफलत्वेन तन्मात्रेणापर्यवसानादिति । सुहृद्भावेन पृच्छति ।। सत्यमिति । उत्तरयति ।। असङ्गतीति । न चैवं सैव निग्रहस्थानमत आह ।। तदपीति ।
श्रीवेदेशभिक्षु
हेत्वन्तरव्यावृत्तये साध्यभाग इत्युक्तम् । अस्य निग्रहस्थानत्वमेव नास्ति कुतोऽन्तर्भावचिन्तेत्याशयेनाह ।। अत्रेत्यादिना ।। साधनान्तरेति । हेत्वैक्येऽपि प्रतिज्ञान्तरकरणेन साधनान्तरत्वमिति भावः ।। न चेदमिति । हेत्वैक्यादिति भाव इत्याहुः । वस्तुतस्तु विशिष्टस्य विशेष्यादिनाऽभेदादेवमुक्तमिति द्रष्टव्यम् । अत एवाह ।। तथात्व इति ।। प्रथममिति । कथान्तरस्यैव प्राथमिकत्वादिति भावः । ननु वादे कथैक्यसम्भवात्तन्नेदं निग्रहस्थानं भविष्यतीत्यत आह ।। वाद इति । प्रतिज्ञान्तरमिति शेषः । तटस्थः पृच्छति ।। सत्यमिति । एकवक्तृक इति भिन्नवक्तृकवाक्ये मिथो विरुद्धेति व्याप्तिवारणाय महावाक्येऽवान्तरवाक्यानामवान्तरवाक्ये च पदानां मिथो व्याघात इति विशब्दार्थ उक्तः । एकवक्तृकमिथोविरुद्धवाक्यत्वमेव लक्षणं द्रष्टव्यम् ।
अभिनवामृतम्
।। प्रथममविशिष्टतयोक्त इति । अस्मिन्वाक्ये लक्ष्यपरं प्रतिज्ञान्तरमिति पदमुपलक्षणम् । उदाहरणान्तरं निगमनान्तरमित्यपि द्रष्टव्यम् । ततश्चानेन प्रतिज्ञायां पुनर्विशेषप्रक्षेपे प्रतिज्ञान्तरमुदाहरणेन प्रयोज्याभावेन पुनर्विशेषणप्रक्षेपे उदाहरणान्तरमिति निगमने विशेषणप्रक्षेपे निगमनान्तरमिति त्रीणि लक्षणान्युदितानि । एवमुत्तरत्रापि बोध्यम् । साधनान्तरोपन्यासस्यापि प्रयोगान्तरोपन्यासस्येत्यर्थः । एतेन विशेषणान्तरस्यैवोपात्तत्वेन साधनान्तरस्यानुपादानात्साधनान्तरनिरासोपपादनमसङ्गतमिति निरस्तम् ।। न चेदमिति । शब्दो नित्य इति प्राक् शब्दशब्देन वर्णात्मकः शब्द एव वादिना विवक्षितः । तद्यथा गामानयेत्युच्चारयन्नपि गोविशेषमभिप्रैति । परेण तु तदभिप्रायानवबोधेन सिद्धसाधनतोक्ता । पुनर्वादिना स्वाभिप्रायाविष्कारेणैव सिद्धसाधनतोद्धृतेति पुनः प्रतिवादिना प्रतिज्ञान्तरमवधातव्यमेव । न चैवमपि पूर्वोक्तार्थस्यैव प्रतिज्ञातत्वात्प्रतिज्ञान्तराभावः । प्रतिज्ञायाः प्रतिपक्षवचनरूपत्वेनार्थरूपत्वाभावादर्थैक्येऽपि शब्दभेदसद्भावात्प्रतिज्ञान्तरं निग्रहस्थानं भवत्येवेति वाच्यं नेत्यर्थः ।। तथात्व इति । वादिना प्रतिवादिनोक्तस्य सिद्धसाधनत्वस्योद्धारे पूर्वदोषेणैव कथायाः परिसमाप्तत्वादिति । अस्मदुक्तदूषणेनैव प्रतिज्ञान्तरस्य दुष्टत्वप्रसङ्गान्निग्रहस्थानाभासत्वप्रसङ्गादित्यर्थः । यद्यपि समयबन्धानुसारेण शब्दोऽनित्य इति प्रतिज्ञाय सिद्धसाधनत्वादेवेति भ्रान्तचित्त आह वर्णात्मकः शब्दो नित्य इति । तदा प्रतिज्ञान्तरमिति वक्तुं शक्यम् । तथाऽपि परपरिगणितार्थान्तरादसङ्कीर्णमुदाहरणं नास्तीत्यन्तर्भावानुक्तावनवसर एवोक्तः । शङ्कते ।। सत्यमिति ।
आदर्शः
साध्यभाग इत्यस्यार्थमाह ।। प्रतिज्ञेति । उदाहरणे प्रयोज्यभागः स वह्निमानिति भागः । कथायाः परिसमाप्तत्वादिति । इदमधस्तादुक्तमेव । प्रमाणलक्षणटीकायां तु प्रतिज्ञान्तरस्या सङ्गतावन्तर्भावः । स त्वङ्गीकारवादेन । अत्र शिष्यज्ञापनाय वस्तुस्थितिरुक्ता । अतो न विरोधः । एवमुत्तरत्रापि विरोधाभावो ज्ञेयः ।
वाक्यार्थमञ्जरी
।। एकस्येति । एकस्य साधनस्य स्थितौ भङ्गे वैकस्य दूषणस्य स्थितौ भङ्गे वा कथापरिसमाप्तिनियमात्प्रकृते च दूषणे स्थिते साधनभङ्गे कथायाः परिसमाप्तत्वादित्यर्थः । नन्वेवं प्रतिज्ञाहानिरपि दूषणं न स्यात् । तत्राप्यनैकान्त्योक्त्या पूर्वकथाया निवृत्तत्वात् द्वितीयकथायां वह्निमत्त्वाभावस्य प्रथमप्रतिज्ञानेन पूर्वोक्तपरित्यागाभावादिति चेत् । मा भूत्तर्हीत्यनेन पूर्वपरित्यागस्य स्फुटमवभासात् । अन्यथा निरग्निकः पर्वत इति वाक्यविन्यासापत्तेः । हेत्वनभिधानाच्च नेयं वह्न्यभावप्रतिज्ञा । प्रतिज्ञान्तरे तु कृतकत्वमेव पूर्वोक्तयोर्हेतुरिति ।। प्रतिवक्तव्यत्वादिति । प्रत्युत्तरस्य वक्तव्यत्वादित्यर्थः ।। निवृत्तयोरिति । समाप्तयोरित्यर्थः ।
श्रीविट्टलभट्ट
।। प्रथममविशिष्टतयोक्त इति । विशेषणरहिततयाऽभिहिते साध्याभावे दूषिते पुनर्विशेषणदानमित्यर्थः ।। प्रतिज्ञेति । द्य्वंशोऽनुमानप्रयोगः साध्यभागः साधनभागश्चेति । साध्यभागः प्रतिज्ञेत्यंश इति ज्ञातव्यम् । उदाहरणे प्रयोज्यभागो दृष्टान्तप्रतिपादकवचने साध्यप्रतिपादकांश इत्यर्थः ।। इत्यादीति । अयं वह्निमान्सुरभिमिलितधूमवत्त्वादित्युक्ते विशेषणसामर्थ्येऽभिहिते स कृष्णागरुवह्निमानित्यादिरादिशब्दार्थः । अस्यान्तर्भावं वक्तुं पृच्छति ।। अत्र वक्तव्यमिति । अतः पुनर्विशेषणप्रक्षेपे कृते पूर्वैवोपक्रान्तैव कथाऽनुवर्तते । किमुत कथान्तरं तदन्यैव कथेति वक्तव्यं प्रष्टव्यमित्यर्थः । आद्यपक्षे दोषमाह ।। नाद्य इति । एकस्य साधकस्य स्वपक्षसाधकानुमानस्य स्थितावदूषितत्वे भङ्गे च दूषितत्वे चैकस्य दूषणस्य दूषणानुमानस्य स्थितास्थितापरिहार्यत्वे भङ्गे परिहारे चेत्यर्थः । नन्वेकस्य साधनस्य भङ्गेऽपि न कथापरिहारसमाप्तिस्तस्यामेव कथायां साधनान्तरोपन्याससत्त्ववदित्यत आह ।। साधनान्तरोपन्यासस्येति । सिद्धसाधनेन यस्य साधनस्य भग्नतया वादिनो रजतत्वेन पराजयफलकथापरिसमाप्त्योरावश्यकत्वात् । तस्यामेव कथायां साधनान्तरोपन्यासप्रसक्तिर्नास्तीति भावः ।। न चेदमिति । वर्णात्मकमिति विशेषणं विशिष्टं साधनमित्यर्थः ।। पूर्वेति । पूर्वेण प्रथममुक्तेन दूषणेनैव स्वपक्षसाधकानुमानस्य सिद्धसाधनेनैवोक्तविशेषणविशिष्टस्यापि साधनस्य दुष्टत्वापातादित्यर्थः । द्वितीयपक्षमपाकरोति ।। न द्वितीय इति । तथा सति वर्णात्मकशब्द इत्यस्य कथान्तरत्वे पूर्वमेव वर्णात्मकत्वरूपविशेषणयुक्तस्योक्तत्वेनेत्यर्थः । ननु वादरूपकथायामेकस्य साधनस्य सिद्धसाधनोद्भावनेन भङ्गेऽपि पुनर्विशेषणप्रक्षेपेण तस्या एव कथायाः प्रसक्तिसद्भावात्कथाभेदाभावेन तत्र तत्र प्रतिज्ञान्तरमस्तु निग्रहस्थानमित्यत आह ।। वादे त्विति । विनिर्णयफलककथायां तु सत्यपि कथैक्ये प्रतिज्ञान्तरं न निग्रहस्थानमित्यर्थः । तत्र हेतुमाह ।। शङ्कानिवृत्तिपर्यन्तमिति । तत्त्वनिर्णयविरोधिसकलशङ्कोच्छेदपर्यन्तं वादिना प्रत्युत्तरस्य वक्तव्यत्वादित्यर्थः । कथान्तर इव वादे न प्रतिज्ञान्तरस्य निग्रहस्थानत्वेन तूष्णीम्भावापत्त्या तत्त्वनिर्णयप्रतिबन्धकसकलशङ्कोच्छेदपर्यन्तं प्रत्युत्तरमनुपपन्नं स्यादिति भावः ।। सत्यमिति । जल्पवितण्डयोः पुनर्विशेषणप्रक्षेपस्य सङ्गतत्वादसङ्गतिदोष इति भावः । कथासमाप्तौ पुनर्विशेषणप्रक्षेपस्यासङ्गतत्वेनावक्तव्यतया पुनर्विशेषणप्रक्षेपे वक्तव्यस्य वचनरूपासक्तिरपि भवतीत्यनुक्तिरादि शब्दार्थः । ननु कथायाः परिसमाप्तत्वात्पुनर्विशेषणप्रक्षेपे कथमसङ्गत्यादिनिग्रह स्थानं स्यादित्यत आह ।। तदपीति । तदपि प्रतिज्ञान्तरवदसङ्गत्यादिकमपि कथाबहिर्भूतत्वान्निग्रहस्थानं न भवतीत्यर्थः ।