प्रमाणपद्धतिः
(३९) प्रमाणपद्धतिः
।। १५ ।। अज्ञानम् । वादिना त्रिवारमभिहितस्य परिषदा विज्ञातार्थस्य वाक्यस्यार्थाप्रतिपत्तिरज्ञानम् ।
जयतीर्थविजय
।। वादिनेति । अत्र परिषदा विज्ञातार्थस्येत्यज्ञातार्थनिरासः । अर्थाप्रतिपत्तिः प्रतिवादिन इति शेषः । तदुक्तं वरदराजेन ।
ज्ञापिते वादिवाक्यार्थे प्राश्निकैस्तत्र चेत्परः ।
स्वाज्ञानमुद्भावयति तदाऽज्ञानेन निग्रह इति ।
भावदीपः
अज्ञानाप्रतिभाविक्षेपाणां त्रयाणां क्रमेण लक्षणानि वदन्नन्तर्भावमाह ।। वादिनेति । अविज्ञातार्थव्यावृत्तये परिषदा विज्ञातार्थस्येत्युक्तिः ।
श्रीविजयीन्द्रतीर्थ
।। वादिनेति । परिषदेत्यविज्ञातार्थनिरासः । वादिनेति दोषत्वोपपादकम् । स्पष्टमन्यत् ।
श्रीवेदेशभिक्षु
वादिनाऽसकृद् द्विवारं चोक्ते तदर्थाप्रतीतेरदूषणत्वात्तत्रातिव्याप्तिपरिहाराय त्रिवारमभिहितस्येत्युक्तम् । परिषदेत्यविज्ञातार्थनिषेधः ।
अभिनवामृतम्
।। वादिना त्रिरभिहितस्येति । वादिना त्रिरभिहितस्य परिषदा विज्ञातार्थस्य वाक्यार्थाप्रतिपत्तिः । अर्थाप्रतिपत्तिप्रतिपादकारोपणमज्ञानमित्यर्थः । तद्यथा वादिना त्रिरभिहितस्य परिषदा विज्ञातार्थस्य वाक्यार्थाप्रतिपादकत्वभ्रमेण दुष्टत्वं ज्ञापयन्नाह । न मयाऽस्यार्थो ज्ञायत इति । एतेनार्थाप्रतिपत्तेर्निग्रहत्वेन तल्लिङ्गस्यैव निग्रहस्थानत्वादर्थाप्रतिपत्त्यात्मकमज्ञाननिग्रहस्थानमिति परास्तम् ।
श्रीविट्टलभट्ट
अज्ञाताप्रतिभाविक्षेपाणामेकत्रान्तर्भावं वक्तुं त्रयाणां लक्षणमाह ।। वादिना त्रिवारमभिहितस्येति । एतच्च विशेषणं त्रिवारमुक्तेः प्राश्निकैरपेक्षितत्वाद्वादिना त्रिवारमनुक्तस्य वचनस्य या प्रतिवादिनाऽर्थाप्रतिपत्तिस्तद्य्ववच्छेदाय त्रिवारमुक्तेऽपि परिषदाऽप्यविदितार्थस्य वाक्यस्याविज्ञातार्थतया तद्य्ववच्छेदाय परिषदा विज्ञातार्थस्येति विशेषणम् ।