अर्थापत्तिसमः

(६१) प्रमाणपद्धतिः

।। २० ।। (२) (१७) ।। अर्थापत्तिसमः ।। अर्थापत्त्याभासेन प्रत्यवस्थानमर्थापत्तिसमः । यथा पर्वतोऽग्निमानित्युक्तेऽर्थादापद्यतेऽन्यदनग्निमदितीत्यादि । तथा च साध्यविकलो दृष्टान्त इति । अत्रानुपपद्यमानदर्शनादुपपादके बुद्धिरर्थापत्तिः । न चात्रानुपपद्यमानं किञ्चिदस्ति । अतो नायं प्रसङ्ग इति वाच्यम् । उक्तविपरीताक्षेपमात्रमर्थापत्तिरित्यङ्गीकारे तु स्वन्यायविरोध इति । उपपत्तिसमवद्बीजाभावान्नेदं जात्युत्तरम् ।

जयतीर्थविजय

।। अर्थापत्तीति । सदुत्तरस्यार्थापत्त्या प्रत्यवस्थानस्य व्यावृत्त्यर्थमाभासेनेत्युक्तम् । एतदेवाह वरदराजः ।

व्याप्तिं विना वादिवाक्यादर्थाक्षेपाभिमानतः ।

विपरीतसमारोपमर्थापत्तिसमं विदुः ।। इति ।

स्वव्याघातं वक्तुमुत्तरकथाप्रवृत्तिप्रकारमाह ।। अत्रेत्यादिना ।। न चात्रेति । पर्वतेऽग्निमत्त्वस्य महानसानग्निमत्त्वं विनाऽनुपपत्त्यभावादिति भावः ।। स्वन्यायेति । धूमवत्त्वमसाधकमित्युक्तेऽन्यत्सर्वं साधकमिति । तथा च दृष्टान्तः साध्यविकल इति प्रतिषेधानुमानेऽपि वक्तुं शक्यत्वाद्य्वाघात इत्यर्थः ।

भावदीपः

।। अर्थापत्तीति । व्याप्तिहीनार्थदर्शनेनार्थान्तरकल्पनमर्थापत्त्याभासः । तेन दूषणाभिधानमित्यर्थः ।। इत्यादीति । यथा महानसो धूमवानग्निमांश्चेत्युक्तेऽर्थादापन्नोऽन्यो निर्धूमोऽनग्निकश्चेति । तथा च पर्वतस्तदुभयहीनः स्यादित्यादिरादिपदार्थः । अनुपपद्यमानत्वरूपयुक्ताङ्कहीनत्वमुत्तरं वाच्यमिति भावेनाह ।। अत्रेत्यादिना ।। स्वन्यायेति । वादिसाधनमसाधकम् । साध्यविकलदृष्टान्तकत्वात्सम्मतवदिति जातिवाद्युक्तप्रतिषेधहेतावपीदमसाधकमित्युक्त्याऽर्थादन्यत् साधकमित्युक्तं स्यात् । तथा च वादिदृष्टान्तः साध्यविकल इत्यपि सुवचत्वात्स्वन्यायविरोध इति भावः । वादिसाधनेन पक्षदृष्टान्तयोरविशेषापादनरूपोत्कर्षसमनिरासाय तदितरेणेत्युक्तम् । साधनभिन्नेनेत्यर्थः । अविशेषापादने बीजोक्त्यर्थं साधनप्रतिबन्द्येति ।

श्रीविजयीन्द्रतीर्थ

।। अत्रानुपपद्यमानेति । तथा चायुक्ताङ्गहानिः । अनुपपद्यमानत्वत्यागादिति भावः ।

अभिनवामृतम्

।। अर्थापत्त्येति । अत्रानुपपद्यमानदर्शनं विनाऽपि प्रत्यवस्थानं पाक्षिकजयहेतुरिति बुद्धिरुत्थानबीजम् । साध्यवैकल्यमारोप्यम् ।। अत्रानुपपद्यमानेति । प्रथमस्यात्रेतिशब्दस्येति वाच्यमित्यनेन सम्बन्धः । परचित्तवर्तिनः कल्पकस्यानुपपद्यमानत्वं कल्प्यस्य तदुपपादकत्वं च नावश्यकमित्यभिमानस्याद्यापि ज्ञातुमशक्यत्वान्नायं प्रसङ्ग इत्युत्तरं वाच्यम् । न जातित्वमित्यर्थः ।। उक्तविपरीताक्षेपमात्रमिति । यत्र यदुच्यते तदन्यत्र तदभावकल्पनमेवार्थापत्तिः । न त्वनुपपद्यमानदर्शनात्तदुपपादके बुद्धिरित्यङ्गीकारे स्वन्यायविरोध इत्यर्थः ।

आदर्शः

।। अर्थापत्तिसम इति । अत्राग्निमत्त्वविधेरेवाक्षेपकत्वाभिमानसिद्धत्वं ज्ञेयम् ।

वाक्यार्थमञ्जरी

।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या तर्कपराहतिमापाद्य न धूमः साधकस्तर्कपराहतत्वात् दृश्यत्ववदिति वादिसाध्यसाधकत्वं साधनीयम् । तत्राप्येवं वक्तुं शक्यम् । तथा हि । यदि तर्कपराहतत्वाद्धूमदृश्यत्वयोरसाधकत्वविशेषस्तदा सर्वपदार्थानां वस्तुत्वादनित्यत्वाविशेषः स्यात् । न च व्याप्त्यादिसदसद्भावाभ्यां विशेषान्न प्रतिबन्दीग्रहणमिति वाच्यम् । विशेषेऽपि प्रतिबन्दीग्रहणस्य त्वयैवाङ्गीकारादिति । तथा च विशेषसद्भावेऽपि प्रतिबन्दीग्रहणमिति तद्वाक्यन्यायेन धूम इत्यादितद्वाक्यस्य विरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।

।। इति श्रीबिदरह•ी श्रीनिवासनिर्मिता प्रमाणपद्धतित्यक्तवाक्यार्थचन्द्रिका समाप्ता ।।

श्रीविट्टलभट्ट

।। अर्थापत्त्याभासेनेति । व्याप्तिपरहितार्थदर्शनानन्तरकल्पनमर्थापत्त्याभासेन प्रत्यवस्थानं वादिसाधनदूषणमित्यर्थः । सदर्थापत्त्या प्रत्यवस्थानव्यावृत्यर्थमाभासपदम् । यथाऽत्र महानसे धूमवानग्निमांश्चेत्युक्तेऽर्थादापद्यते । अन्यधूमाग्निरहितमिति पक्षः साध्यहेतुरहितः स्यादित्यादिरादिशब्दार्थः । अर्थापत्त्याभासस्तेन प्रत्यवस्थाने कृते इत्यर्थः । अस्येत्युत्तरं वाच्यमित्यनेनान्वयः । न चात्रेति । अत्र पर्वतोऽग्निमानित्यत्रेत्यर्थः । नायं प्रसङ्गोऽनिष्टप्रसङ्ग इत्यर्थः ।। उक्तविपरीताक्षेपमात्रमिति । मात्रपदेनानुपपद्यमानार्थदर्शनं व्यापकतयेति । तथाचानुपपद्यमानार्थदर्शनं विना युक्तविरुद्धार्थकल्पनमर्थापत्तिरित्यङ्गीकारे स्वन्यायविरोधो भवतीत्यर्थः । अत्र वादिसाधनं स्वसाध्यसाधकं न साध्यविकलदृष्टान्तत्वात्सम्मतवदिति जातिवादिनो विवक्षितम् । अस्यापि हेतोरुक्तरीत्या दूषणसम्भवादर्थापत्तिसमः स्वन्यायविरोधो भवतीत्यर्थः ।