उपलब्धिसमः
(६४) प्रमाणपद्धतिः
।। २० ।। (२) (२०) ।। उपलब्धिसमः ।। निर्दिष्टहेत्वभावेऽपि साध्योपलब्ध्या हेतोरप्रयोजकत्वाभिधानमुपलब्धिसम इत्येके । यथा क्वचिद्धूमवत्वाभावेऽप्यग्निमत्वोपलब्धेरप्रयोजकं धूमवत्त्वमिति । उत्थानबीजाभावान्नेदं जात्युत्तरम् । किन्तु हान्याद्याभास एव । तस्माद्वादिवाक्यस्यावधारणे तात्पर्यमारोप्यावधारणं विकल्प्य दूषणमुपलब्धिसम इत्युदयनः । यथा पर्वतोऽग्निमानित्युक्ते किं पर्वत एवाग्निमानुत पर्वतोऽग्निमानेवेति । नाद्यः । महानसादेरप्यग्निमत्त्वात् । न द्वितीयः । कदाचिदनग्निमत्त्वादित्यादि । इदमप्यसत् । तात्पर्यान्तरारोपेण सामान्यछलत्वात् । विकल्पेनोत्थानान्नेति चेन्न । अवधारणस्यैव विकल्पेनावधारणतात्पर्यारोपापरिहारात् । व्यवच्छेदवाक्यार्थरुचीनामवधारणं स्थितमेवेति चेन्न । तेषामप्यतद्य्वावृत्त्यङ्गीकारेणैवंविधावधारणस्यानिष्टत्वात् ।
जयतीर्थविजय
।। निर्दिष्टेति । साध्यस्य हेतुं प्रत्यप्रयोजकत्वापादनस्य सदुत्तरत्वात्तद्य्वावृत्त्यर्थं हेतोरित्युक्तम् । एके जरन्नैयायिका इत्यर्थः । क्वचिदयःपिण्डादावित्यर्थः । अप्रयोजकं वह्निमत्त्वं प्रतीति शेषः ।। उत्थानेति । धूमं विना वह्न्युपलब्धिस्तु वह्नेर्धूमवत्त्वं प्रत्यप्रयोजकत्वोद्भावने बीजम् । न तु धूमस्याग्निमत्त्वं प्रत्यप्रयोजकत्वोद्भावन इति भावः ।। हानाद्याभास इति । अप्रयोजकत्वस्य प्राप्तावपि तदुद्भावनादिति भावः ।। तस्मादिति । अवधारणमेवकारमित्यर्थः । अवधारणं विकल्प्य दूषणमुपलब्धिसम इत्येवोक्ते यत्रैवकारो वादिनोच्चारितस्तत्र तद्विकल्प्य दूषणेऽतिव्याप्तिः । तद्वारणाय तात्पर्यमारोप्येत्यन्तम् । एतदेवोक्तं वरदराजेन ।
अवधारणतात्पर्यं वादिवाक्ये विकल्पयत् ।
तद्बाधात्प्रत्यवस्थानमुपलब्धिसमो हि स ।। इति ।
महानसादेरपीति । तथा च पर्वत एवाग्निमानिति प्रतिज्ञाया बाध इति भावः ।। कदाचिदिति । एवं च प्रतिज्ञाया अंशतो बाध इति भावः । उपलब्धिसमस्य जातित्वमेव नास्तीति दूषयति ।। इदमित्यादिना सामान्यछलत्वादिति । वाक्छलं सामान्यछलमुपचारछलमिति त्रिविधछलमध्ये सामान्यछलत्वादित्यर्थः । तात्पर्यान्तरेण प्रत्युक्तस्य तु शब्दतात्पर्यान्तरकल्पनेन दूषणं सामान्यछलमिति तल्लक्षणयोगादिति भावः ।। विकल्पेनेति । पर्वत एवाग्निमान्पर्वतोऽग्निमानेवेति विकल्पेनेत्यर्थः ।। नेति चेदिति । छलत्वमिति शेषः ।। अवधारणस्येति । एवकारस्येत्यर्थः ।। अवधारणतात्पर्येति । विकल्परूपधर्मांशविकल्पेन छलत्वाभावेऽपि धर्मिभूतावधशरणांशे तात्पर्यारोपाच्छलत्वं दुष्परिहरमिति भावः । अवधारणतात्पर्यारोपो नाम नास्तीत्याशयेन शङ्कते ।। व्यवच्छेदेति । व्यवच्छेद इतरव्यावृत्तिः । तद्घटितवाक्यार्थे रुचिमतां पुंसामित्यर्थः । स्थितमनुच्चारणेऽपि सिद्धमित्यर्थः । त्रीन्घटानानयेत्यत्रावधारणानुच्चारणेऽपि त्रीनेवेति सिद्धत्वादिति भावः ।। अतद्य्वावृत्तीति । न द्वौ न चतुर इत्येवेतरव्यवच्छेदाङ्गीकारेणेत्यर्थः ।। एवं विधेति । पर्वत एवाग्निमान्पर्वतोऽग्निमानेवेत्येवंविधावधारणस्येत्यर्थः । अनिष्टत्वादतात्पर्यविषयत्वादित्यर्थः ।
भावदीपः
।। निर्दिष्टेति । वाद्युक्तहेतोरसत्त्वेऽपीत्यर्थः ।। उत्थानबीजाभावादिति । हेत्वभाववति साध्योपलम्भस्य साध्यं विनाऽप्यस्तु हेतुरित्यप्रयोजकत्वोद्भावनं प्रत्यनिमित्तत्वेनान्यस्याप्रयोजकत्वोद्भावनबीजस्याभावेनोत्थानबीजाङ्गवैकल्यान्नेदं जात्युत्तरमित्यर्थः । एवमुद्भावनस्याजातित्वे क्वान्तर्भाव इति प्रष्टारं प्रत्याह ।। किन्तु हान्याद्याभास एवेति । छलं जातिर्हान्याद्याभास इति प्रागुक्तनिरनुयोज्यानुयोगप्रभेदहान्याद्याभासेऽप्रयोजकत्वाप्राप्तौ तदुद्भावनरूपत्वादप्रयोजकत्वाभास इति तत्रान्तर्भूयत इत्यर्थः ।। अवधारण इति । एवकार इत्यर्थः ।। इत्यादीति । यो धूमवानसावग्निमान्यथा महानस इति दृष्टान्तेऽप्यग्निमानेवेति वा महानस एवाग्निमानिति वा विकल्प्य दूषणाभिधानमादिपदार्थः । समान्यछलत्वादिति । तदुक्तपदानां वाक्यस्य वाऽर्थान्तरकल्पनाद्बहिरेवावधारणतात्पर्यकल्पनात् । सामान्यछलत्वादित्युक्तिः । लक्षणटीकायां वाक्छलं सामान्यछलमुपचारछलं त्रिविधमित्युक्त्वैवमेव सामान्यछलस्वरूपोक्ते वादिनोऽवधारणतात्पर्यं सिद्धमेव नारोप्यमिति शङ्कते । व्यवच्छेदवाक्यार्थरुचीनामिति बहुव्रीहिः । इतरव्यावृत्तिरूपवाक्यार्थरुचिमतां पुंसामित्यर्थः ।। अतद्य्वावृत्तीति । अनग्निमत्त्वव्यावृत्त्यङ्गीकारेणैवं विधस्य त्वदुक्तप्रकारस्यावधारणस्यानिष्टत्वादित्यर्थः । नेति । पर्वतो निर्वह्नित्वव्यावृत्तिपरत्वेऽपि न पूर्वोक्तावधारणस्य सार्वत्रिकमिति तात्पर्यारोपोऽपरिहार्य इत्यर्थः ।
श्रीवेदेशभिक्षु
।। निर्दिष्टेति । निर्दिष्टहेतुभिन्नहेतुप्रयोज्यसाध्योपलब्ध्योपलब्ध्येत्यर्थः ।। अग्निमत्त्वोपलब्धेरिति । आलोकादिनेति शेषः ।। उत्थानबीजेति । अयं भावः । वादिना धूमवत्त्वादिति प्रयुक्ते यदि वक्ष्यमाण इव धूमत्वादेव वह्निमानित्यवधारणे तात्पर्यं प्रकल्प्य प्रतिवादी वदति त्वन्निर्दिष्टहेत्वभावेऽप्यालोकविशेषादिना वह्न्युपलम्भादवधारणविशिष्टत्वदीयहेतोरप्रयोजकत्वमिति । तदा परवाक्यस्यावधारणे तात्पर्यावश्यम्भावरूपमुत्थानबीजं युक्तं स्यात् । अवधारणतात्पर्यकल्पनाभावे त्वालोकादिप्रयुक्तवह्न्युपलम्भमात्रेण धूममात्रस्य वह्निप्रयोजकत्वं वादिनोक्तमिति ।। हान्याद्याभास इति । अप्रयोजकत्वाभावेऽपि प्रयोजकान्तरदर्शनजन्यतद्भ्रमेण तदापादनमिति भावः।। व्यवच्छेदेति । पदार्थसंसर्गस्य न वाक्यार्थत्वं किन्त्वतद्य्वावृत्तेरेव दण्डस्यास्तीत्युक्तेऽदण्डिव्यावृत्तसत्ताप्रतीतिरित्येतेषां हृदयम् । तथा चैतन्मतेऽवधारणस्य व्यवच्छेदस्यारोपाभावान्न छलत्वमिति भावः ।। नेति । तेषामपि मते वह्निमानित्युक्ते वह्निव्यावृत्तिलाभेऽपि पूर्वविकल्पतावधारणार्थस्यानङ्गीकारेण तत्र तात्पर्यारोपेऽवश्यंवाच्ये पुनः छलत्वमेवेति भावः ।
अभिनवामृतम्
उदयनग्रन्थमनुवदति ।। निर्दिष्टहेत्वभावेऽपीति ।। उत्थानबीजाभावादिति । यद्यपि साधनं विनाऽपि साध्यस्य दर्शनादप्रयोजकत्वं साधकमिति प्रत्यवस्थानं पाक्षिकजयहेतुरिति बुद्धिरुत्थानबीजं सम्भवति । तथाऽप्युदयनेनोत्थानबीजाभावेनेदं जात्युत्तरमित्युक्तत्वात्तथाऽनुवादः कृत इति बोध्यम् ।। हान्याद्याभास एवेति । अप्रयोजकत्वस्यानैकान्तिकविशेषत्वादनैकान्तिकाप्राप्तावपि भ्रान्त्या तदुपन्यासाद्धान्याभास इत्यर्थः ।। तस्माद्वादिवाक्यस्येति । पर्वतोऽग्निमानिति वादिवाक्यस्यावधारणे तात्पर्यं प्रकल्प्य किं पर्वत एवाग्निमानुत पर्वतोऽग्निमानेवेति विकल्प्य पराङ्गीकारमनपेक्ष्य स्वयमेव दूषणाभिधानमुपलब्धिसम इत्यर्थः ।। अवधारणे तात्पर्यमारोप्य तद्दूषणे पाक्षिकजयबुद्धिरुत्थानबीजम् । बाध आरोप्यः । व्यवच्छेदवाक्यार्थरुचीनां बौद्धादीनामित्यर्थः ।
आदर्शः
।। उत्थानबीजाभावादिति । ननु प्रयोजकत्वस्य कारणत्वसमशीलत्वादन्वय व्यतिरेकज्ञानापेक्षत्वेन प्रकृते व्यतिरेकाभावात्प्रयोजकत्वासम्भव इति शङ्कायां व्यतिरेकाभावरूपोत्थान बीजं सम्भवतीति चेन्न । अग्निमत्त्वसामान्यं प्रति धूमवत्त्वस्य प्रयोजकत्वमित्यङ्गीकारे सति व्यभिचारान्न प्रयोजकता सम्भवतीत्युक्तेः सदुत्तरत्वेन जातित्वाभावात् । धूमवत्त्वस्याग्निमत्त्वसामान्यं प्रति प्रयोजकत्वस्यानभिप्रेतत्वाच्च । न च सामान्यधर्मावच्छिन्ननिरूपितव्यभिचारज्ञानस्य तद्विशेषधर्मावच्छिन्ननिरूपितप्रयोजकत्वग्रहं प्रति प्रतिबन्धकत्वाभिमान एवोत्थानबीजमस्त्विति वाच्यम् । अनुभवविरुद्धत्वेन तादृशाभिमानासम्भवात् । अन्यथा मूर्खत्वापत्त्या सभाप्रवेशानुपपत्तेः । अन्यथैतादृशशङ्काया निरवधिकत्वेन तत्प्रयोज्यजातेरप्यनङ्गत्वापत्तेः । यथा घटवति वह्निर्न पर्वत इत्येवं वह्निमत्त्वं जलव्याप्तं प्रतियोग्यभावयोर्न विरोध इत्यादिनिर्मूलाभिमानिनां तन्निमित्तकोत्तराणां चानन्तत्वात्सामान्यधर्मावच्छिन्ने व्यभिचारज्ञानेन विशेषधर्मावच्छिन्नव्यभिचारः शङ्क्यत इति चेत्तर्हि शङ्कामात्रस्य सदुत्तरत्वात् । निश्चयाङ्गीकारे च विकल्पसमसाङ्कर्यापातात् । धर्मान्तरस्य धर्मान्तरेण व्यभिचारदर्शनेनान्यत्रापि व्यभिचारचोदनरूपत्वाद्धूमवत्त्वादेवेत्यवधारणे तात्पर्याङ्गीकारे उत्तरमतान्तर्भावः । तत्र छलत्वापत्तिरिति दोष उक्त एव ।। छलत्वादिति । वाद्यादितात्पर्यविषयीभूतार्थे दूषणोक्तिरूपरूपत्वाभावादित्यर्थः ।। अतद्य्वावृत्त्यङ्गीकारणेति । यद्धर्मवत्त्वमुच्यते तत्र तदनधिकरणभिन्नत्वाङ्गीकारेणेत्यर्थः ।
श्रीविट्टलभट्ट
।। निर्दिष्टहेत्वभावेऽपीति । वादिप्रयुक्तहेत्वोरसत्त्वेऽपि साध्योपलम्भेनेत्यर्थः ।। उत्थानबीजाभावादिति । हेत्वभाववति संशयोपलम्भस्य साध्यं विनाऽप्यस्तु हेतुरित्यत्र प्रयोजकत्वाभावादुक्ताप्रयोजकत्वोद्भावनमप्रयोजकत्वशङ्कोत्थानबीजरहितत्वान्न जात्युत्तरमिति भावः । तर्हि क्वान्तर्भूतमेतदिति पृच्छन्तं प्रत्याह ।। किन्तु हान्याद्याभास एवेति । हानाद्यप्राप्तावपि हान्याद्युद्भावनं हान्याद्याभासः । तथा च प्रयोजकत्वाप्राप्तावप्रयोजकत्वोद्भावनमप्रयोजकत्वाभास एवेतीदं निरनुयोज्यानुयोगप्रभेदरूपहान्याद्याभास एव न तु प्रभेदरूपा जातिरित्यर्थः ।। तस्मादिति । उदयन आहेति शेषः । अवधारण एवकारार्थ इत्यर्थः । सावधारणवाक्याप्रयोगेऽवधारणार्थं विकल्प्य दूषणस्य सदुत्तरत्वात्तद्य्ववच्छेदायावधारणे तात्पर्यं परिकल्प्येत्युक्तम् ।। इत्यादीति । यो धूमवानसौ वह्निमान्यथा महानस इत्युक्ते किं महानसे धूमाग्नी अन्ययोगव्यवच्छेदेनास्तां किंवाऽयोगव्यवच्छेदेन । नाद्यः । पर्वतादेरपि धूमादिमत्त्वात् । न द्वितीयः । महानसस्य कदाचिद्धूमाग्निरहितत्वादित्यादि रादिशब्दार्थः । इदमप्यसदिति । एकदेश्युक्तोपलब्धिसमलक्षणमप्ययुक्तमित्यर्थः । तत्र हेतुजिज्ञासायामाह ।। तात्पर्यान्तरारोपेणेति । वक्तृतात्पर्यान्तरिके तात्पर्यकल्पनेन कारणेन सामान्यछलत्वात्तात्पर्यवैपरीत्येन कल्पितार्थबोधनं सामान्यछलत्वादित्यर्थः । तात्पर्यान्तरारोपेण दूषणस्यास्य सामान्यछलत्वान्न जात्युत्तरत्वमिति भावः । विकल्पमुखेन दूषणप्रवृत्तेनास्य छलत्वमिति शङ्कते ।। विकल्पेनेति । तात्पर्यान्तरारोपमन्तरेण विकल्पस्यैवानवकाशात्तात्पर्यारोपेण प्रवृत्तस्य दूषणस्य छलत्वं दुष्परिहरमित्यभिप्रेत्य परिहरति ।। नेति । तात्पर्यारोपेणेदं दूषणं न प्रवृत्तमित्यभिप्रेत्य शङ्कते ।। व्यवच्छेदवाक्यार्थरुचीनामिति । इतरव्यावृत्तिरूपव्याप्याङ्गीकार वतामवधारणेन सदेव न त्वारोप्यमित्यर्थः ।। तेषामपीति । व्यवच्छेदवाक्यार्थरुचीनामन्यापोहापरनामकातद्य्वावृत्तेर्वाक्यार्थत्वाङ्गीकारेणैवं विधावधारणस्यायोगान्ययोगव्यवच्छेदस्यानभिमतत्वादित्यर्थः । यद्येप्येवंविधावधारणस्य परेषामभिमतत्वेऽप्युदयनोक्तलक्षणमयुक्तम् । तत्पक्षेऽवधारणे तात्पर्यसत्त्वेन तदारोपायोगादारोपघटितलक्षणकथनायोगात् । तथाऽप्येवंविधावधारणाभ्युपगमः परेषां नास्तीति ज्ञापनमुखेनास्योक्तछलत्वनिग्रहायैवमुपलब्धिरिति मन्तव्यम् ।