सिद्धमपि दूषणासमर्थमुत्तरं जातिः
(४५) प्रमाणपद्धतिः
।। २० ।। (२) जातिः । सिद्धमपि दूषणासमर्थमुत्तरं जातिः । असामर्थ्यं च द्विविधम् । साधारणमसाधारणं च । तत्र साधारणं स्वव्याहतिः । असाधारणं तु युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वं चेति । सा च साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमभेदाच्चत्ुर्विंशतिधा । तत्र वादिना स्थापनाय हेतौ प्रयुक्तेऽनभ्युपेतयुक्ताङ्गेन प्रतिपक्षोद्भावनं प्रतिधर्मसमाजातिः । सा च प्रत्यक्षाभासादिभेदेन बहुविधा ।
जयतीर्थविजय
।। सिद्धमपीति । तदुक्तं वरदराजेन ।
प्रयुक्ते स्थापनाहेतौ दूषणाशक्तमुत्तरम् ।
जातिमाहुरथान्ये तु स्वव्याघातकमुत्तरम् ।। इति ।
सिद्धमपि वक्तुर्विवक्षितार्थानुसारेण प्रवृत्तमपीत्यर्थः । इदं छलेऽतिव्याप्तिवारणाय । दूषणासमर्थमिति सदुत्तरेऽतिव्याप्तिवारणाय । विषयव्याप्त्यर्थमसामर्थ्यं विभजते ।। असामर्थ्यं चेति ।। साधारणमिति । जातीनामिति शेषः । असाधारणमित्यत्र स्वन्यायविरोधस्येति शेषः । युक्ताङ्गहीनत्वं युक्तानि व्याप्त्याद्यङ्गानि तद्राहित्यमित्यर्थः । अयुक्ताङ्गानि सिद्धार्थत्वादीनि । तैरधिकत्वमित्यर्थः । विभजते ।। सा चेति । द्वन्द्वान्ते श्रूयमाणः समशब्दः प्रत्येकमभिसम्बध्यते । जात्युत्तराभिधात्रोर्वादिप्रतिवादिनोः साम्यापादकत्वात्सर्वत्र समशब्दप्रयोगः । यद्यपि जातिलक्षणगतोत्तरपदापेक्षया निर्देशश्चेत्समशब्दस्य नपुंसकलिङ्गतैवोचिता । जातिशब्दापेक्षया निर्देशश्चेत्स्त्रीलिङ्गता स्यात् । तथाऽपि स्वपक्षसाधनपरपक्षदूषणाभ्यां विभागेन प्रत्यवस्थाने प्रतिषेधभागेन जातित्वमिति सूचयितुं प्रतिषेधशब्दापेक्षया पुल्लिङ्गनिर्देश इति वरदराजीयटीकायां हरिदीक्षितेनोक्तम् ।। चतुर्विंशतिधेति । इदं चतुर्विंशतित्वकथनं प्रतिधर्मसमजात्यवान्तरभेदसाहित्यविवक्षया द्रष्टव्यम् । तदविवक्षया तु प्रतिधर्मसमजात्या सार्धं त्रयोविंशतित्वमेवेति द्रष्टव्यम् । अत एव प्रमाणलक्षणटीकायां ताश्च प्रतिधर्मोत्कर्षापकर्षेत्यादिना त्रयोविंशतिधेत्येव विभक्तम् । तदुक्तं वरदराजेन ।
साधर्म्यवैधर्म्यसमौ तद्भेदावेव सूचितौ ।
अवान्तरभिदाः सन्ति सर्वत्रेति प्रसिद्धय ।। इति ।
अत एव साधर्म्यवैधर्म्यसमयोः प्रतिधर्मसमजात्यवान्तरभेदत्वख्यापनायोभयसाधारण्यायानुद्दिष्टाया अपि तस्या लक्षणमाह ।। तत्रेति । उद्दिष्टजातीनां मध्य इत्यर्थः ।। अनभ्युपेतयुक्ताङ्गेनेति । अनङ्गीकृतोचिताङ्गवतेत्यर्थः । उचिताङ्गानि व्याप्त्यादीनि । प्रतिप्रमाणेन विरोधिप्रमाणेनेत्यर्थः । अत्रानभ्युपेतयुक्ताङ्गेनेति विशेषणेन वस्तुत उचिताङ्गाभावेऽप्यभ्युपेतयुक्ताङ्गवतः सदुत्तरप्रकरणसमस्य व्यवच्छेदः । वक्ष्यमाणप्रकरणसमजाति व्यवच्छेदायोक्तं प्रतिपक्षेति । तत्र बाधेन प्रत्यवस्थानस्य वक्ष्यमाणत्वान्नातिव्याप्तिः । साधर्म्यवैधर्म्यसमयोः प्रतिधर्म प्रभेदत्वं वक्तुं तां विभजते ।। सा चेति ।। प्रत्यक्षाभासादिभेदेनेति । तेन यत्प्रत्यवस्थानं तद्भेदेनेत्यर्थः ।
भावदीपः
स्वोक्तेष्वन्तर्भावयितुं जातिसामान्यलक्षणतद्विभागादीनाह ।। सिद्धमपीति । छलव्यावृत्त्यर्थं सिद्धमपीति विशेषणम् । जातिवादिना हि महानससाधर्म्याद् धूमवत्त्वाद्गिरिरग्निमांश्चेत्तर्हि ह्रदसाधर्म्याद्द्रव्यत्वादनग्निकोऽपि स्यात् । तथा च धूमवत्त्वहेतुरसाधकः । सत्प्रतिपक्षत्वादित्युक्तो हेतुः सिद्धः छलवादिना गामानयेति वादिवाक्यं नाभिमतार्थसाधकम् । अशक्यार्थबोधकत्वादित्युक्तो हेतुर्वाद्यनभिमतार्थकल्पनालब्धत्वादसिद्धः । अतोऽनेन तद्य्वावृत्तिः । अन्यविशेषणं तु सदुत्तरव्युदासाय ।। साधारणमिति । यावन्तो जात्यवान्तरभेदास्तावत्सर्वानुगतमित्यर्थः । असाधारणमेकैकमात्रनिष्ठमित्यर्थः । तद्विभज्याह ।। असाधारणं त्विति । सामर्थ्यमित्यनुषङ्गः । सदुत्तरे यद्योग्यमङ्गं व्याप्त्यादि तद्राहित्यमयोग्याङ्गाधिक्यमनुचितविषयवृत्तित्वमिति त्रिविधमिति शेषः ।। सा चेति । जातिरित्यर्थः । न तु जातित्वम् । समशब्दस्य प्रत्येकं साधर्म्यसमवैधर्म्यसमइत्यादिरूपेणान्वयः । न्यायसूत्रे प्रतिधर्मसमेति पठितव्यम् । साधर्म्यवैधर्म्येति प्रतिधर्मसमावान्तरभेदनिर्देशेन पाठो जात्यन्तरेऽप्यवान्तरभेदोऽस्तीति ज्ञापनायेत्युक्त्वा तत्रैव प्रतिधर्मसमं लक्षयित्वा तद्विभागस्य तदभियुक्तैर्दर्शितत्वात् । तदनुरोधेन लक्षणविभागाद्याह ।। तत्रेत्यादिना । तेषु मध्य इत्यर्थः । तदुत्तरव्युदासायानभ्युपेतयुक्ताङ्गेनेत्युक्तिः । बाधोद्भावनरूप प्रकरणसमजातिनिरासाय प्रतिपक्षोद्भावनमित्युक्तिः । अनभ्युपेतयुक्ताङ्गेनेत्यस्य विवरणेनानुवादो व्याप्तिहीनेनेति ।
श्रीविजयीन्द्रतीर्थ
।। सिद्धमपीति । अकल्पितदूष्यमित्यर्थः । तेन छलनिरासः । दूषणासमर्थमित्यनेन सदुत्तरनिरासः । असामर्थ्यमसदुत्तरत्वप्रयोजकम् । युक्ताङ्गतद्य्वाप्त्यादिराहित्यमयुक्ताङ्गसाध्यप्राप्त्यादि । अविषयोऽन्यव्यभिचाराद्यधीनासाधकत्वस्य सद्धेतुस्तद्वृत्तित्वम् । तदेतज्जातिशेषे ऊह्यम् । जातिभेदमाह । सेति । साधर्म्यवैधर्म्यसमयोः प्रतिधर्मसमाभेदत्वेऽपि जातीनामवान्तरसूचनाय प्रत्येकमुक्तिः । प्रतिधर्मसमां लक्षयति ।। तत्रेति । उद्दिष्टास्वित्यर्थः । प्रकरणसमव्युदासायानभ्युपगमेति । तत्र व्याप्त्याद्यभिमानोऽस्तीति तद्य्वावृत्तिः ।। सा चेति । प्रत्यक्षाभासादिना प्रतिरोधेनेत्यर्थः ।
श्रीवेदेशभिक्षु
।। सिद्धमपीति । पक्षधर्मत्वोपेतमित्यर्थः । तेन छलव्यावृत्तिः । छलवादिविवक्षितहेतोरसिद्धत्वात् । तथा हि । आढ्योऽयं नवकम्बलवत्त्वादिति प्रयुक्ते कुतोऽस्य नवकम्बल इति वदतश्छलवादिनो नेदं साध्यसाधकमसिद्धत्वादिति हि विवक्षितम् । तत्रासिद्धत्वादिति हेतोर्व्याप्तौ सत्यामपि पक्षभूते वादिहेतावसिद्धिः । अविवक्षितस्यैव सङ्ख्याविशेषस्य हेतुवाक्यार्थत्वेन कल्पनात् । जातिवाद्यभिमतहेतौ च व्याप्त्यभावेऽपि पक्षधर्मत्वमस्ति । वादिना हेतौ प्रयुक्ते नेदं साध्यसाधकं युक्ताङ्गानपेक्षप्रतिप्रमाणविरुद्धत्वादिजातिवादिहेतोर्वादिसाधननिष्ठत्वात् । अतो नासम्भव इत्यकल्पितदूषणमित्यर्थः। तेन छलनिरास इत्यन्ये ।। असामर्थ्यमिति । उत्तरस्येति शेषः । साधारणं सर्वजात्यनुगतम् । असाधारणं न सर्वजात्यनुगतम् । युक्ताङ्गं व्याप्त्यादि । अयुक्ताङ्गं व्यभिचारादि ।। अविषयवृत्तित्वमिति । अनुचितस्थलसञ्चाराभ्युपगम इत्यर्थः । एतच्चोत्तरत्रोदाहरणप्रदर्शनावसर एव स्फुटं भविष्यति । जातिविभागमाह ।। सा चेति । द्वन्द्वान्ते निर्दिष्टः समशब्दः प्रत्येकमभिसम्बध्यते । यद्यपि साधर्म्यवैधर्म्यसमौ प्रतिधर्मसमावान्तररूपभेदौ । अतः प्रतिधर्मसमैव जातिरत्रोद्देशमर्हति । तथाऽपि सर्वजातीनामवान्तरभेदवत्त्वसूचनाय प्रतिधर्मसमोद्देश एवात्र तदवान्तरभेदरूपसाधर्म्यवैधर्म्यसमोद्देशमुखेन तात्पर्यतो विवक्षित इति द्रष्टव्यम् । अत एव प्रतिधर्मसममेव लक्षयति ।। तत्रेत्यादिना । तत्रोद्दिष्यास्वित्यर्थः । निराश्रयस्य प्रतिपक्षोद्भावनस्यासम्भवपरिहाराय वादिना स्थापनाहेतौ प्रयुक्त इत्युक्तम् । सदुत्तरप्रकरणसमव्यवच्छेदायानभ्युपेतयुक्ताङ्गेनेत्युक्तम् । तत्रावश्याभ्युपगन्तव्यानां तत्तत्प्रमाणाङ्गानां वास्तवसत्त्वाभावेऽप्याभिमानिकं तदस्ति । अत्र त्वाभिमानिकमपि तत्सत्त्वं नेति भावः । प्रत्यक्षादिनाऽपि प्रतिपक्षचोदनसङ्ग्रहाय सामान्यतः प्रमाणेनेत्युक्तम् । प्रमाणत्वेनाभिमतेनेत्यर्थः । अयुक्ताङ्गहीनस्य वास्तवप्रामाण्यासम्भवात् । प्रकरणसमजातिव्यवच्छेदाय प्रतिपक्षेत्युपात्तम् । तत्र बाधोद्भावनस्य वक्ष्यमाणत्वात् । ननु साधर्म्यवैधर्म्यसमयोः स्वतन्त्रजातितैव किं न स्यात् । किं पूर्वं मुखतोऽनुद्दिष्टप्रतिधर्मसमावान्तरभेदरूपताङ्गीकारेणेत्यत आह ।। सा चेति ।। प्रत्यक्षाभासादिभेदेनेति । प्रत्यक्षाभासादिना प्रतिपक्षोद्भावनभेदेनेत्यर्थः । इदमुक्तं भवति । यदि साधर्म्यवैधर्म्यसमयोः प्रतिधर्मसमावान्तरभेदरूपता न स्यात्तदाऽनङ्गीकृतयुक्ताङ्गेन प्रत्यक्षशब्दाभासादिना प्रतिपक्षचोदनस्य जात्यन्तरानन्तर्भावात्पृथग्जातित्वं स्यादतोऽस्य सङ्ग्रहाय प्रतिधर्मसमैव स्वतन्त्रजातिः साधर्म्यसमादिकं तु तदवान्तरभेद इत्येवोचितमिति ।
अभिनवामृतम्
।। सिद्धमपीति । सिद्धस्यापि दूषणासमर्थस्य दूषणतया प्रतिवचनं जातिरित्यर्थः । दूषणासमर्थस्याभिधानं तु छलवाक्येऽपि गतम् । अतः सिद्धस्येत्युक्तम् । छलवाक्योक्तदूषणस्याप्यसिद्धत्वात्तद्व्युदासो भवति । सिद्धस्योत्तरत्वं त्वनैकान्त्यादिप्रतिवचनेऽप्राप्तकाले च गतम् । अतो दूषणासमर्थस्येत्युक्तम् । प्रतिवचनविशेषणं तु पर्वतोऽग्निमान्प्रमेयत्वादिति वादिवचनेऽतिव्याप्तिवारणायाप्राप्तकाले ग्रहणस्य दूषणसमर्थत्वेन दूषणासमर्थत्वाभावात् । न तत्रातिव्याप्तिः।। असामर्थ्यमिति । उत्तरस्येति शेषः ।। युक्ताङ्गहीनत्वमिति । साधर्म्यवैधर्म्यमात्रं प्रयोजकं किं व्याप्त्यादिनेति व्याप्त्यादियुक्ताङ्गानङ्गीकार इत्यर्थः ।। अयुक्ताङ्गाधिकत्वमिति । पक्षवद्दृष्टान्तस्याप्यसिद्धार्थसाधनत्वं विवक्षितमित्ययुक्त एवाङ्गस्वीकार इत्यर्थः । एतेनायुक्तं चेन्नाङ्गमङ्गं चेन्नायुक्तमित्ययुक्ताङ्गादिकत्वमिति रिक्तं वच इति परास्तम् ।। अविषयवृत्तित्वं चेति । अविषये हेत्वधिकरणत्वायोग्ये हेतुसत्त्वस्यावश्याभ्युपगम इत्यर्थः । तद्यथा पर्वतस्योत्पत्तेः प्राग्घेतुसत्त्वस्यावश्यकत्वमभ्युपगम्य तदभावेन भागासिद्ध्युद्भावनमित्यादि ।
आदर्शः
जातिलक्षणमाह ।। सिद्धमपीति । यद्यपि जातेर्दूषणासमर्थोत्तरत्वरूपजातित्वे पराजयलिङ्गत्वं सम्भवति । तथाऽपि येन व्याहत्यादिना तदुक्तदूषणाभिमतस्य दूषणासामर्थ्यं ज्ञायते तस्यैव प्रथमोपस्थितस्य तल्लिङ्गत्वं सम्भवतीति तदेव निग्रहस्थानं न जातिः । तच्च ज्ञापकं क्वचिद्य्वाहतिः क्वचिदव्याप्त्यादिकमिति न पृथक्त्वमिति ज्ञापयितुं परनिरूपितजातिं सप्रपञ्चमाह ।। असामर्थ्यं चेत्यादिना । जातेः सप्ताङ्गानि । सिद्धत्वं व्याहतिर्युक्ताङ्गहीनत्वमयुक्ताङ्गाधिक्यमविषयवृत्तित्वमुत्थानबीजं दोषरूपफलं चेति तत्र तत्र प्रदर्शयिष्यामः । सर्वत्र जातौ सप्तभिर्भाव्यमिति न नियमः । अविषयवृत्तित्वादिकमौत्सर्गिकमुत्थानबीजं फलं व्याहतिरुत्थाङ्गहीनत्वं सिद्धत्वं च शिष्टं तु क्वाचित्कमिति । अत्र तु साधर्म्यवैधर्म्यसमयोः साहचर्यमात्रस्याङ्गत्वकल्पनेनायुक्ताङ्गाधिक्यं व्याप्तिहीनत्वाद्युक्ताङ्गराहित्यम् । वह्न्यभावसाधने बाधितविषयत्वादावविषयवृत्तित्वम् । द्रव्यत्वादिहेतोः पक्षे सिद्धत्वासिद्धत्वम् । युक्ताङ्गहीन प्रतिप्रमाणोपालम्भः । उत्थानबीजं सत्प्रतिपक्षारोपः । फलं द्रव्यत्वादिः । सत्प्रतिपक्षत्वेनाभिमतो हेतुर्न साध्याभावसाधकः । द्रव्यत्वादिति प्रयोगसम्भवात् । धूमवत्त्वं न वह्निसाधकं सत्प्रतिपक्षितत्वादिति हेतुर्जातिवादिनोऽभिमतः । स न स्वसाधकः पदार्थत्वात् सम्मतवदिति प्रमाणविरोधः । अङ्गत्वेनाभिमतस्य सहचरितस्य पदार्थत्वे सत्त्वाद्य्वाप्त्यादेरुभयत्राप्यभावात्स्वन्यायविरोध इत्यर्थः । एवमेवोत्तरत्रापि द्रष्टव्यम् । प्रमाणलक्षणटीकायामुक्तत्वादत्र नोच्यते । यत्र च स्पष्टमनुक्तिस्तत्रोच्यते ।
श्रीविट्टलभट्ट
जातिलक्षणमाह ।। सिद्धमपीति । पक्षे विद्यमानमपि दूषणाशक्तमुत्तरं जातिरित्यर्थः । छलोत्तरव्यवच्छेदाय सिद्धमपीत्युक्तम् । आढ्योऽयं नवकम्बलवत्त्वादिति केनचिदुक्ते नवशब्दस्य सङ्ख्याविशेषपरत्वं परिकल्प्य कुतोऽस्य नवकम्बलाः प्रत्यक्षविरोधादिति छलवादी दूषयति । तस्य हि नेदं साध्यासाधकमसिद्धत्वादिति विवक्षितम् । तत्रासिद्धत्वादिति छलोत्तरात्मको हेतुर्वादिहेतौ नवकम्बलवत्त्वे पक्षेऽसिद्ध एव । तथा च सिद्धमिति विशेषणेन तद्य्ववच्छेदो भवतीत्यनुसन्धेयम् । सदुत्तरहेत्वाभासव्यवच्छेदार्थं दूषणसमर्थमिति विशेषणम् । दूषणासमर्थमुत्तरं जातिरित्युक्तम् । तत्रासामर्थ्यं किमिति जिज्ञासायां विभागकथनपूर्वकं तत्स्वरूपं निरूपयति ।। असामर्थ्यं चेति । साधारणं सकलजात्यनुगतमित्यर्थः । असाधारणं तत्तन्मात्रवृत्तीत्यर्थः । स्वव्याहतिः स्वव्याघातः । स्ववचनविरोध इति यावत् ।। असाधारणं त्विति । त्रिविधमिति शेषः । युक्ताङ्गहीनत्वं युक्ताङ्गरहितत्वमित्यर्थः । अयुक्ताङ्गाधिकत्वमयुक्तमनुपयुक्तमङ्गमुपकारकमधिकं यस्य तत्तथा तस्य भावस्तत्वम् । अनुपयुक्ताङ्गोपेतत्वमिति यावत् । अविषयवृत्तित्वमविषयेष्वयोग्यार्थेषु वर्तमानत्वमित्यर्थः । परोदीरितजातीनां स्वोक्तजातित्रयान्तर्भावकथनाय परोदीरितजातिविभागमाह ।। सा चेति । द्वन्द्वान्ते श्रूयमाणः समशब्दः प्रत्येकमभिसम्बध्यते । निग्रहस्थानं यथा बहुविधमेवं जातिरपि साधर्म्यसमादिभेदेन चतुर्विंशतिप्रकारेत्यर्थः । साधर्म्यवैधर्म्यसमौ प्रतिधर्मसमजातिभेदावेव न तूत्कर्षसमादिवत्प्रधानजाती इति ज्ञापयितुं प्रतिधर्मसमजातिं लक्षयति ।। तत्रेति । प्रधानजातिष्वित्यर्थः । वादिना स्थापनाहेतोरप्रयुक्ते स्वपक्षसाधनार्थलिङ्गेऽभिहिते तस्यानभ्युपेतयुक्ताङ्गेनानङ्गीकृतामुपयुक्तां यस्य तत्तथा तेन प्रतिप्रमाणेन विरोधप्रमाणेन प्रतिपक्षोद्भावनमिति विशेषणम् । अङ्गीकृतानधिकबलेन प्रतिप्रमाणेन बाधोद्भावनरूपत्वात्प्रकरणसमजातेरनेन व्यवच्छेदः । वादिना स्थापनाहेतौ प्रयुक्त इत्येतत्प्रतिप्रमाणेन प्रतिपक्षोद्भावनप्रसक्तार्थमुपात्तं तत्तु लक्षणशरीरप्रवेशाभिप्रायेण । साधर्म्यवैधर्म्यसमयोरेतज्जातिप्रभेदत्वकथनाय तद्विभागमाह ।। सा चेति । उक्ताङ्गहीनं प्रतिप्रमाणं प्रत्यक्षाभासानुमानाभासादिभेदेन चतुर्विधम् । तथा च प्रत्यक्षाभासानुमानाभासादीनां चतुर्विधत्वेन निमित्तेन प्रत्यक्षाभासादिना प्रतिप्रमाणेन प्रतिपक्षोद्भावनरूपा सा च प्रतिधर्मसमजातिश्च बहुविधा चतुर्विधेत्यर्थः ।