अनित्यसमः
(६७) प्रमाणपद्धतिः
।। अनित्यसमः ।। वादिसाधनप्रतिबन्द्या धर्मान्तरेण तद्वतां साध्यधर्मवत्त्वापादनमनित्यसमः । यथा यदि कृतकत्वाच्छब्दोऽनित्यः स्यात्तर्हि सत्त्वात्सर्वमनित्यं स्यादिति । इयमप्यविशेषसमलक्षणेनैव सङ्गृहीतत्वान्न पृथग्वाच्यैव ।
जयतीर्थविजय
।। वादीति । उत्कर्षसमव्यावृत्त्यर्थं धर्मान्तरेणेत्युक्तम् । एतदेवाह वरदराजः ।
साधर्म्यादेर्विपक्षस्य सपक्षत्वप्रसञ्जनम् ।
साधनप्रतिबन्द्या यत्स ह्यनित्यसमो मत ।। इति ।
इयमिति । साधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थानामविशेषापादनत्वरूपविशेषसमलक्षणस्य सामान्यरूपतया तेनैव साध्यधर्मवत्त्वापादनरूपानित्यसमस्य विशेषस्य सङ्गृहीतत्वात् पृथङ् न वाच्येत्यर्थः । सामान्यविशेषापादनत्वाभ्यामेव जात्यन्तरत्वाभ्युपगमे जात्यानन्त्यं स्यादिति भावः ।
भावदीपः
सत्प्रतिपक्षत्वव्युदासाय साधनप्रतिबन्द्येति ।। इयमपीति । यथा प्रकरणसमजातिः साधर्म्यसमलक्षणेन सङ्गृहीता तथेयमप्यनित्यत्वाविशेषापादनरूपत्वात्तल्लक्षणेनैव सङ्गृहीतेत्यर्थः । प्रयत्ना नन्तरीयकत्वात्प्रयत्नानन्तरभावित्वादिति वादिनोक्ते प्रतिवादी वदति । प्रयत्नानन्तरीयकत्वमित्यादि ।।
इति जातीनामन्तर्भावोक्तिः ।
श्रीविजयीन्द्रतीर्थ
।। इयमपीति । तथा च जातित्वसिद्धत्वाभावादिति भावः ।
श्रीवेदेशभिक्षु
।। न वाच्येति । अविशेषसमायां पक्षादेरपि विशेषमात्रापादनमिह तु विपक्षस्य सपक्षत्वापादने तात्पर्यमिति तात्पर्यभेदमुक्त्वा तृतीयहान्याद्याभासकल्पनया जातिभेदकल्पनायामतिप्रसङ्ग इति भावः ।
अभिनवामृतम्
।। वादिसाधनेति । व्याप्तिसदसद्भावाभ्यां विशेषमनादृत्य प्रत्यवस्थानं पाक्षिकजयहेतुरिति बुद्धिरुत्थानबीजम् । असाधकत्वमारोप्यम् ।
श्रीविट्टलभट्ट
।। वादिसाधनप्रतिबन्द्येति । सत्प्रतिपक्षेऽतिव्याप्तिवारणायेदं विशेषणम् । इदमप्यविशेष्य लक्षणैव सङ्गृहीतत्वादिति यथा प्रकरणसमा जातिः साधर्म्यसमजातिलक्षणेन गृहीता यथार्थविशेषसमा जातिरपि साधनप्रतिबन्द्या । तदितरधर्मेण तद्वतां सर्वपदार्थानां सविशेषापादनत्वेनाविशेषणं समजाति लक्षणेन साधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थानां साध्यरूपधर्मविशेषधर्मवत्त्वस्यापि सङ्गृहीतत्वात्स्वाश्रयान्तःपातित्वेन कृतत्वोत्तरः पृथङ् न वक्तव्य एवेत्यर्थः ।