प्रमाणपद्धतिः

(२५) प्रमाणपद्धतिः

।। १ ।। प्रतिज्ञाहानिः ।। तत्र येन यद्यथा साध्यत्वादिना निर्दिष्टं तेन तस्य तथा परित्यागः प्रतिज्ञाहानिः । यथा पर्वतोऽग्निमान्प्रमेयत्वादित्युक्तेऽनैकान्तिकत्वेन च प्रयुक्ते मा भूत्तर्हि पर्वतोऽग्निमानिति । अयन्तु संवाद एव ।

जयतीर्थविजय

।। तत्रेति । तत्र कथायाम् । येन वादिना वा प्रतिवादिना वा । यत् पक्षहेतुदृष्टान्त दूषणादीनामन्यतमं प्रथमनिर्दिष्टं तस्य दूषणसमुन्मेषणे कथानिर्वाहमपश्यता तेन वादिना परित्यागः प्रतिज्ञाहानिरित्यर्थः । एतदेवाह वरदराजोऽपि । कथायां यच्च पक्षादि येन निर्दिष्टमादितः । तस्य तेन पुनस्त्यागः प्रतिज्ञाहानिरिष्यत इति । प्रतिज्ञाहानेरन्तर्भावमाह ।। अयमिति ।। संवाद एवेति । विप्रतिपन्नप्रमेयाङ्गीकाररूपत्वस्य स्पष्टत्वादिति भावः ।

भावदीपः

एतेषां क्रमाल्लक्षणोदाहरणानि वदन्नेव कानिचिन्निग्रहस्थानानि । केषाञ्चिन्निग्रहस्थानत्वेऽपि स्वोक्तनिग्रहस्थानेषु यथासम्भवमन्तर्भाव इत्याह ।। तत्रेति । तेषु मध्य इत्यर्थः ।

श्रीविजयीन्द्रतीर्थ

प्रतिज्ञाहानिं लक्षयति ।। तत्रेति । उद्दिष्टेष्वित्यर्थः । येन निर्दिष्टं तेनेत्यनेन कथकनिर्दिष्टस्य चोक्त्या त्यागस्य तदीयत्वोक्त्या च कथाबाह्यभिन्नकर्तृकव्यावृत्तिः । यथा निर्दिष्टं तथा त्याग इत्यनेन शब्दानित्यत्वसाधने ध्वन्यंशे सिद्धसाधने वर्णात्मक इति पक्षविशेषणप्रक्षेपे प्रतिज्ञान्तरे ध्वन्यंशस्य पक्षस्य त्यागेन तत्रातिव्याप्तिः परिहृता । तत्र शब्देन पक्षनिर्देशे तेन रूपेण पक्षत्यागाभावात् । खटिति संवरणे पूर्वोक्तत्यागेऽपि संवरणानवसर इति पूरणेऽतिप्रसङ्गपरिहारः ।। उदाहरति । यथेति । अस्यान्तर्भावमाह ।। अयमिति । परित्याग इत्यर्थः ।। संवाद इति । विप्रतिपन्नस्य पर्वतनिर्वह्नित्वरूप प्रमेयस्याङ्गीकारादिति भावः ।

श्रीवेदेशभिक्षु

।। तत्रेति । उद्दिष्टेष्वित्यर्थः । येन वादिना प्रतिवादिना वा । कथायामित्युपस्कर्तव्यम् । यत् पक्षहेतुदृष्टान्तानामन्यतमत् । यथा येन प्रकारेण तेन वाद्यादिना तस्य पक्षाद्यन्यतमस्य तथा तेन प्रकारेण । अत्र कथायामित्युक्त्या कथाबाह्यपक्षादित्यागे येन तेनेति समानार्थकर्तृकत्वोक्त्या भिन्नकर्तृकत्यागे यत्तत्तस्येति प्रमेयैक्योक्त्या भिन्नप्रमेयत्यागे यथा तथेति प्रकारैक्योक्त्यैकस्यैव पक्षादेः प्रमेयस्यैक्येनैव पुंसा प्रकारान्तरेण च त्यागे चातिव्याप्तिः परिहृतेति ज्ञातव्यम् । प्रतिज्ञाहानेर्बहुविधत्वेऽपि दिङ्मात्रप्रदर्शनायोदाहरति ।। यथेति । एवमग्रेऽपि द्रष्टव्यम् । विस्तरस्तु प्रमाणलक्षणटीकातोऽवगन्तव्यः । अयमिति त्यागपरामर्शः । विधेयलिङ्गत्वं वा ।

अभिनवामृतम्

।। अयं तु संवाद एवेति । ननु प्रतिज्ञान्तरं न निग्रहस्थानम् । एवं प्रतिज्ञाहानिरपि न निग्रहस्थानं न्यायसाम्यात् । तथा हि । पर्वतोऽग्निमान्प्रमेयत्वादित्युक्तेऽनैकान्ते चाभिहिते मा भूत्तर्हि पर्वतोऽग्निमानित्यभिधानं प्रतिज्ञाहानिरित्युदाहृतम् । अत्र वक्तव्यम् । किं पूर्वैव कथा प्रवर्तते । उत कथान्तरम् । नाद्यः । एकस्य साधनस्य दूषणस्य स्थितौ भङ्गे वा कथायाः परिसमाप्तत्वेन निग्रहस्थानाभिधानायोगात् । न द्वितीयः । द्वितीयकथायां मा भूत्तर्हि पर्वतोऽग्निमानित्यग्निमत्त्वाभावस्यैव प्रतिज्ञातत्वात् । तस्य च परित्यागाभावेन प्रतिज्ञाहान्यभिधानायोगात् । ततश्च निग्रहस्थानत्वमङ्गीकृत्यान्तर्भावकथनमयुक्तमिति चेत् । सत्यम् । परोक्तोदाहरणादेरप्रतिज्ञाहानेः प्रतिज्ञान्तरवन्निग्रहस्थानत्वाभावः । तथाऽप्युदाहरणान्तर सद्भावान्निग्रहस्थानत्वमेव । इदमत्रोदाहरणम् । पर्वतोऽग्निमान्धूमवत्त्वादित्यभिहिते कथमस्य व्याप्तिरिति पृष्टे ब्रवीति । मा भूत्तर्हि पर्वतोऽग्निमानिति । अत्र साधनदूषणयोः स्थितेर्भङ्गस्य वाऽभावेन कथापरिसमाप्त्यभावात् । भवत्येव हि प्रतिज्ञाहानिर्निग्रहस्थानमिति ।

आदर्शः

।। तत्रेति ।। साध्यत्वादिनेति । आदिपदेन हेत्वादीनां परिग्रहः । तेन पक्षे साधनधर्मितद्विशेषणानां पक्षे दृष्टान्ते च हान्यादीनां द्वादशविधानामपि सङ्ग्रहः । एतेषां पृथक् पृथुग् उदाहरणानि प्रमाणलक्षणटीकायां द्रष्टव्यानि । त्यागस्तत्साधनसंकल्पाभावः । अन्यविधस्य त्यागस्य प्रकृतेऽसम्भवात् ।। अयं तु संवाद एवेति । संवादज्ञाप्य इत्यर्थः । संवाद इति सप्तमी ज्ञायत इति शेष इति वा । त्यागस्य संवादरूपत्वासम्भवात् । एवमुत्तरत्रापि बोध्यम् । एवं च संवादस्य प्रथममुपस्थितत्वात्स एवोद्भाव्य इति भावः । यद्यपि यद्दूषणभयेन परित्यजति तद्दूषणस्य प्रथममुपस्थितत्वमस्तीति प्रतिभाति । तथाऽपि सद्विषयप्रतिज्ञाहान्यादौ तादृशदोषस्यैवासत्त्वेन तस्य हेतुत्वासम्भवः । असत्स्थलेऽपि पूर्वोक्तरीत्या स्थिरत्वज्ञानाभावात्स्वपक्षसाधनसङ्कल्पस्येच्छारूपत्वेन प्रतिज्ञाहानेस्तदभावरूपत्वेन परपराजयरूपत्वात् तस्य तल्लिङ्गत्वासम्भवाच्च संवादस्यैव निग्रहस्थानत्वमिति भावः ।

श्रीविट्टलभट्ट

कथं द्वाविंशतिनिग्रहस्थानानामन्तर्भाव इति जिज्ञासायां तल्लक्षणकथनपूर्वकमन्तर्भावमाह । तत्रेति । द्वाविंशतिनिग्रहस्थानेष्वित्यर्थः । येन वादिना यत्पक्षहेतुदृष्टान्तदूषणान्यतमं यथा येन रूपेण साध्यत्वादिना निर्दिष्टपक्षवादिनोक्तं तेन वादिप्रतिवादिनोरन्यतरेण तस्य पक्षादेस्तथा निर्दिष्टप्रकारेण निर्वाहासम्भवे परित्यागः प्रतिज्ञाहानिरित्यर्थः । हेतुहान्यादेर्निग्रहस्थानान्तरत्वनिवारणायादि पदोपादानम् । अनैकान्तिकेन प्रयुक्त इति व्यभिचारेण तस्मिन्हेतौ तथा दूषिते माऽस्त्वसौ हेतुर्धूमवत्त्व मस्त्वित्यादिरादि शब्दार्थः ।। अयं त्विति । प्रतिज्ञाहानिरूपदोषस्तु संवाद एव न ततोऽतिरिक्त इत्यर्थः । मा भूत्पर्वतोऽग्निमानित्यङ्गीकारस्य विप्रतिपन्नप्रमेयत्वाङ्गीकारत्वादिति भावः ।