प्रमाणपद्धतिः
(१२) प्रमाणपद्धतिः
एवमापाद्यस्य प्रमाणविरोधोऽपसिद्धान्तश्च न दूषणम् । निर्धूमो भवतीत्यसाधनात् । यथा साधनानुमाने न व्याप्तिमात्रं नापि पक्षधर्मतामात्रं साध्यप्रमितिसाधनं किन्तु मिलितमेव । एवमनिष्टापादनं विपर्यये पर्यवसानं चोभयं मिलितमेवानुमितिसाधनं भवतीति तर्कस्य प्रामाण्यमुपपद्यते । सोऽयं क्वचिद्विपरीतशङ्कानिरसनद्वारेण प्रमाणानामनुग्राहकोऽपि भवतीति ।
जयतीर्थविजय
ननु तथाऽपि न तर्कस्यानुमानत्वं सङ्गच्छते । तर्कस्यानुमानत्वे ह्यापाद्यं निर्धूमत्वं लिङ्गीति वाच्यम् । तस्य धूमवत्यभावाद्बाधः । अपसिद्धान्तश्च । सिद्धान्तिनाऽपि पक्षे निर्धूमत्वास्वीकारात् । धूमस्य प्रतीतत्वाच्चेत्याशङ्क्य निराकरोति । एवमिति । न दूषणमिति । अयं भावः । साध्यरूपस्यैव लिङ्गिनो बाधो दोषो न त्वापाद्यरूपस्य । आपाद्यत्वव्याघातात् । यदापाद्यं तत्प्रमाणबाधितमेव । अनिष्टं ह्यापाद्यम् । प्रमाणबाध एवानिष्टत्वम् । न चात्र निर्धूमत्वं साध्यम् । तथात्वे यदि तर्हीति च न स्यात् । किन्तु निर्धूमोऽयमिति स्यात् । न च निर्धूमोऽयमिति ज्ञानस्य यावान्विषयस्तावानेव तर्हि निर्धूमः स्यादित्यस्यापि विषयः । अधिकस्य तर्हि स्यादिति शब्दयोरर्थस्याप्युल्लेखात् । अत एव नापसिद्धान्तोऽपि । स हि सिद्धान्तविरुद्धस्य साधने स्यात् । न त्वापादनेन । तस्मात् साधनानुमान एव बाधापसिद्धान्तयोर्दूषणत्वम् । न प्रसङ्गानुमानरूपतर्के । प्रत्युत तयोर्भूषणत्वमेवेतीत्याशयवानाह । निर्धूमो भवतीत्यसाधनादिति । अस्य न दूषणमिति पूर्वेणान्वयः । साधनानुमान एव तयोर्दोषत्वमित्येकः पक्षः । अथवा यक्षानुरूपबलिन्यायेन लिङ्गिनाऽऽपाद्यस्य निर्धूमत्वादेरपि पक्षे परेणाभ्युपगमनीयत्वमेव बाधाभाव इति पक्षान्तरमूह्यम् ।
ननु विपर्यये पर्यवसाने विरहिते सति केवलतर्केणोद्देश्याया न निरग्निक इति प्रतीतेरनुत्पादात्कथं तर्कस्य प्रामाण्यमित्याशङ्क्य निराचष्टे ।। यथेति ।। एवमनिष्टापादनमिति । अनिष्टापादनात्मकस्तर्क इत्यर्थः । न हि सहकारिविरहदशायां प्रमित्यजनकत्वमात्रेणाप्रामाण्यम् । तथात्वे संसारसापेक्षतया प्रत्यभिज्ञानजनकस्य चक्षुरादेरप्रामाण्यापातादिति भावः । तर्कस्य प्रामाण्यं बहुधा पूर्वपक्षयित्वा समर्थितं तर्कताण्डवे व्यासतीर्थैः । विस्तरभीरुत्वादस्माभिर्नेह कृत्स्नमुच्यते । ननु सधूमोऽपि पर्वतो निरग्निकोऽस्त्विति या पक्षे साध्याभावजिज्ञासा तन्निवृत्तिमात्रोपक्षीणस्य तर्कस्य कथं प्रामाण्यम् । तदुक्तं वरदराजेन । प्रत्यक्षादेः प्रमाणस्य तर्कोऽनुग्राहको भवेत् । पक्षे विपक्षजिज्ञासाविच्छेदस्तदनुग्रह इति । एतन्निरसितुमाह ।। सोऽयमिति ।। क्वचिदिति । अद्रिरग्निमान्धूमवत्त्वादिति प्रयोगेऽग्निमत्त्व शङ्काप्रतिक्षेपद्वाराऽनुग्राहको भवति । अपिशब्दात्क्वचित्स्वतन्त्रोऽपि भवति । कुत्रेति चेत् । अद्रिरग्निमान्न वेति विप्रतिपत्तौ साधनानुमानं विनैव यदि निरग्निकः स्यात्तर्हि निर्धूमः स्यात् । न चायं निर्धूम इति तर्करूपानुमानेनैवाग्निसिद्धेः । न हि विधिमुखेन साधयित्वैव निषेधमुखेन साधनीयमिति कुलधर्म इत्यर्थः । यद्वा क्वचिद्दशाविशेषे करणनिष्पत्तेरर्वाक् प्रतिप्रमाणनिरसनद्वारेण करणस्यानुग्राहको भवति । अपिशब्दात्ततः प्राग्व्यभिचारशङ्कानिरसनद्वारेण करणशरीरनिष्पादकश्च भवतीत्यर्थः । यद्वा क्वचित्प्रत्यक्षादावनुग्राहको भवति । सर्वत्र करणशरीरनिष्पादकत्वासम्भवात् । अपिशब्दादनुमाने उक्तरीत्योभयात्मकश्च भवतीत्यर्थः । तस्माद्यथा प्रमाणानुग्राहकः । साधकं बाधकं वा प्रमाणमेव हि शङ्कानिवर्तकमित्यर्थः । अत्र सुधायां तर्कताण्डवे चोक्तं तर्कस्य साधनानुमानान्तर्भावादिकं बहु वक्तव्यमस्ति । विस्तरभयादुपरम्यते । गतस्तर्कप्रमाणविचारः ।।
भावदीपः
ननु तर्के निरग्निकत्वनिर्धूमत्वरूपापादकापाद्यगोचरज्ञानयोर्यथाक्रमं करणत्वेन फलत्वेनाभिमतयोर्द्वयोरपि भ्रमत्वात्कथं तर्कस्य प्रामाण्यमित्यतो मैवं फलकरणभावः किन्त्वन्यथैवेति भावेन दृष्टान्तपूर्वकमाह ।। यथेति । पक्षधर्मतेति परमताभिप्रायेण समुचितदेशवृत्तित्वाभिप्रायेण चोक्तिः । निर्धूमः स्यान्न च निर्धूमस्तस्मान्न निरग्निक इत्यनिष्टापादनविपर्यये पर्यवसानरूपं द्वयमपि मिलितमेवेत्यनेन निर्धूमत्वाभावज्ञानं करणम् । निरग्निकत्वाभावज्ञानं फलम् । ज्ञानद्वयमपि प्रमास्वरूप मेवेति तर्कस्य प्रामाण्यं प्रमितिकरणत्वमित्यर्थः । तर्कताण्डवे तु निर्धूमः स्यादित्यस्य निर्धूमत्वेनाभ्युप गमनीयः स्यादित्यर्थः । तथा च निरग्निकत्वाङ्गीकारज्ञानं करणम् । निर्धूमत्वेनाङ्गीकर्तव्यत्वज्ञानं फलमित्यापादकापाद्यगोचरज्ञानयोर्द्वयोरपि प्रमात्वमेव । तथाऽपि मिलितमेवेत्युक्तिस्तु न प्रामाण्योपपादनाय । किन्तु तर्कोद्देश्यिकायां निरग्निकत्वाभावप्रमायां विपर्ययपर्यवसानसापेक्षत्वाभिप्रायेणेत्युक्तम् । सोऽयमिति । हेतुरस्तु साध्यं माऽस्त्विति हेतोरप्रयोजकत्वेनाव्याप्यत्वशङ्का हि लिङ्गपरामर्शात् पूर्वकालीना स्वारसिका परामर्शोत्पत्तिप्रतिबन्धिका । तदुत्तरकालीना तु साध्याभावं विषयं प्रति प्रमाणाहितानुमितिफलप्रतिबन्धिका । करणफलयोरुत्पत्तिप्रतिबन्धकशङ्काद्वयमपि तर्केण निरस्यत इत्येवंरूपविपरीतशङ्कानिरसनद्वारा करणस्वरूपफलस्वरूपनिष्पादनरूपोपकारकतयाऽनुमानानुग्राहका अपि न केवलं स्वतन्त्रप्रमाणमित्यर्थः । प्रमाणान्तरेत्युक्त्या प्रागुक्तदिशा प्रत्यक्षस्योपाध्यभावग्रहे सहकारिता सूचिता । क्वचिदित्युक्त्या विपरीतशङ्कास्थल एव न त्वन्यत्रेति दर्शितम् ।। तर्कोक्तिः ।।
श्रीविजयीन्द्रतीर्थ
विपर्ययपर्यवसानाङ्गत्वस्यानुग्रहतर्कविषयतां वक्तुमाह ।। एवमिति । अनुमितीति । वह्न्यनुमित्युपयोगीत्यर्थः ।। सोऽयमिति । विपर्ययपर्यवसायीत्यर्थः ।
श्रीवेदेशभिक्षु
आपाद्ये बाधादिकं परिहरति ।। एवमिति । स्यादिदं बाधादिकमापाद्यस्य यद्यापाद्यं पक्षे केनापि सम्बन्धेन न स्यात् । न चैवं प्रकृतेऽस्ति । किं नाम निर्धूमत्वस्यापि पक्षे परेणाभ्युपगमनीयत्वरूपसम्बन्धेन सत्त्वात् । अत एवापादके आपाद्ये चोक्तसम्बन्धद्योतनाय यदीति । तर्हीत्युभयत्र स्यादिति चोपपद्यते । अन्यथा निरग्निकत्वान्निर्धूमो भवतीति स्यादिति भावः । एतेनेदमपि निरस्तम् । अग्न्यभावज्ञानधूमाभावज्ञानयोः करणफलयोरुभयोरप्यप्रमात्वात्कथं तर्कस्य प्रामाण्यमिति । उक्तसम्बन्धेनोभयज्ञानयोरपि प्रमात्वात् । नन्वेवमपि तर्कोत्पन्नया निर्धूमत्वेनाभ्युपगमनीयत्वप्रमया व्यभिचारशङ्काविधूननद्वारा धूमे वह्निव्याप्तिप्रमोदयेऽपि तर्केण परमप्रमेयवह्निसिद्धिः कथमित्यत आह ।। यथेत्यादिना ।। अनुमितिसाधनं भवतीति । साधनानुमानवत्स्वातन्त्र्येणाग्निप्रमापको भवतीत्यर्थः । पर्वतोऽग्निमान्न वेति विप्रतिपत्तौ साधनानुमानं विनैव यदि निरग्निकः स्यात्तर्हि निर्धूमः स्यात् । न चायं निर्धूम इति तर्करूपानुमानेनैवाग्निसिद्धेरनुमानसिद्धत्वादिति भावः । अनेन तर्कस्य यदा स्वातन्त्र्येण साध्यसाधकत्वं तदा विपर्ययपर्यवसानोपयोगः । यदा तु वक्ष्यमाणरीत्या मानान्तरानुग्राहकत्वं तदा न विपर्ययपर्यवसानोपयोग इत्युक्तं भवति । तर्कः किमुक्तरीत्या स्वातन्त्र्येणैव सर्वत्र साध्यप्रमापको नेत्याह ।। सोऽयमिति । अनुमानस्थले तर्कनिवृत्त्या शङ्का द्विविधा । एका लिङ्गपरामर्शात्पर्वतो धूमवानपि कश्चिन्निरग्निः स्यादिति व्यभिचारशङ्का । अपरा परामर्शोत्पत्यनन्तरं प्रमाणोपलम्भेन धूमवानपि पर्वतो निरग्निकः किं न स्यादिति बाधसत्प्रतिपक्षशङ्का । ततश्चैतन्निवर्तकसाध्यानुग्रहोऽपि द्विविधः । आद्ये व्यभिचारशङ्कारूपं विपरीतशङ्कानिरसनद्वारेण व्याप्तिप्रमाफलकतया लिङ्गपरामर्शरूपप्रमाणनिष्पादनरूपः । द्वितीयस्तु निष्पन्ने लिङ्गपरामर्शे प्रतिप्रमाणशङ्कारूपविपरीतशङ्काविधानेन द्वारेण वह्न्यनुमितिरूपकेवलप्रमाणनिष्पादनरूपः । ततश्चानुमानेऽयमुभयविधोऽप्यनुग्रहस्तर्कसाध्यो विवक्षित एव । प्रत्यक्षादावपि तर्कसाध्यानुग्रहप्रकारो द्रष्टव्यः । नन्वनुमानेऽनुक्तरूपानुग्रह एव तर्केणापादकोद्देश्यः । तदा तर्के विपर्ययपर्यवसानस्यावसानस्यापेक्षिततया प्रयोगेऽङ्गहीनस्य तस्य तर्काभासः स्यादिति चेन्न । तत्प्राप्तिविपर्ययपर्यवसानप्रयोगाङ्गीकारात् । अन्यथा कथकसम्प्रदायविरोधात् । न च वैय्यर्थ्यम् । निर्धूमतायाः अङ्गीकर्तव्यत्वात् । साधनस्य सिद्धसाधनतानिरासार्थत्वेन स्यादित्यनेन बाधितप्रमाणविरोधोपपादनार्थत्वेन वा सार्थकत्वादित्याहुः ।। अनुग्राहकोऽपीति । न केवलमुक्तरीत्या स्वातन्त्र्येणानुमापकः किञ्चानुग्राहकोऽपीत्यपिशब्दार्थः ।
अभिनवामृतम्
नन्वथापि तर्क आभास एव । आपाद्यस्य प्रमाणविरुद्धत्वसिद्धान्तविरुद्धत्वाच्चेत्यत आह ।। एवमापाद्यस्येति । अनुमानत्वादसिद्धिर्यथा दूषणं न भवति । एवमपसिद्धान्तः प्रमाणविरोधश्च न दूषणमिति भावः । ननु तथाऽपि नानिष्टापादकस्तर्कः प्रमाणं प्रमितिसाधनत्वाभावानित्यत आह ।। यथा साधनानुमान इति । यथाऽज्ञाता पक्षधर्मताऽनुमितिहेतुरिति मते तन्मात्रस्यानुमितिहेतुत्वाभावेऽपि मिलितयोस्तत्र हेतुत्वात्प्रामाण्यं न विहन्यते । तथाऽनिष्टापादनमात्रस्यानुमिति हेतुत्वाभावेऽपि विपर्ययपर्यवसानसहितस्य तदस्त्येवेति न प्रामाण्यहानिरित्यर्थः । यद्यपि पञ्चाङ्गसाहित्यमेव तर्कस्य प्रमितिसाधनत्वोपयोगि तथाऽपि विपर्ययपर्यवसानस्य प्राधान्यज्ञापनाय तथोक्तम् । ननु तर्कस्य प्रामाण्ये प्रमाणान्तरानुग्राहकत्वप्रसिद्धिविरोध इत्यत आह ।। सोऽयमिति । प्रमाणान्तरानुग्राहकस्यापि विद्यमानत्वात्प्रसिद्धिरुपपन्नेति भावः ।
आदर्शः
ननु तथाऽप्यापत्तेर्न प्रामाण्यम् । स्वयं भ्रमरूपत्वात् । भ्रमत्वं च प्रमाणविरोधात् । स्वेनाप्यापाद्यस्यानङ्गीकृतत्वेन तद्विरोधाच्चेत्यत आह ।। एवमिति । विरोधो विपरीतार्थविषयकत्वम् । अपसिद्धान्तः प्रमाणत्वेन स्वाङ्गीकृतविपरीतार्थविषयकत्वम् । अदूषणं भ्रमत्वासम्पादकम् ।। असाधनादिति । विधिरूपविषयतानाश्रयत्वादित्यर्थः । अयमाशयः । तदभाववति तत्प्रकारकत्वमात्रं न भ्रमत्वं किन्तु तदभाववति तन्निष्ठविधिरूपविषयताश्रयत्वं वा दोषप्रयोज्यताविषयताश्रयत्वं वा । तच्चापत्तौ नास्त्येव । विधिरूपविषयताया एव दोषप्रयोज्यत्वादापत्तौ तदभावादापत्तिविषयताया विजातीयत्वादिति ।। मिलितमेवेति । आपाद्यापादकयोर्व्याप्तिज्ञानस्वातन्त्र्येणानुमितिकारणतायां मानाभाव एव । किन्त्वापत्तावनुमितिजननानुकूलशक्तिसम्पादनद्वारा । एतदभिप्रायेणेव व्याप्तिज्ञानजन्यत्वव्यवहार इत्याशयेनोभयमित्युक्तमिति द्रष्टव्यम् ।। सोऽयं तर्क इति । तर्को द्विविधः । प्रकृतसाध्यस्य प्रकृतपक्षे साधकहेत्वाद्युपस्थितेः पूर्वं प्रवृत्तस्तत्पाश्चात्यश्चेति । आद्यस्तु विपर्ययपर्यवसानसहितः साध्यप्रमितिमेव जनयति । द्वितीयस्तु धूमादिहेतूपस्थितौ तत्र वह्निव्यभिचारशङ्कायां धूमरूपहेतौ व्याप्तिनिश्चायकतयाऽनुग्रहको भवति । तत्र धूमाधिकरणे वह्न्यभावस्याशङ्कितत्वेन यदि धूमाधिकरणं वह्न्यभाववत्स्यात्तर्हि धूमाभाववत्स्यादित्यापत्त्या धूमाधिकरणे वह्निप्रमित्युत्पत्त्या व्यभिचारशङ्काया विधूननात् । पर्वतादौ वह्निनिश्चयस्तु धूमादिरूपहेतुबलादेव । यत्र तु परामर्शोत्तरं यत्र प्रतिपक्षोत्थित्या नानुमितिस्तत्र पर्वतादावेव धूमाभावापत्या वह्न्यभावाभावत्वेन रूपेण वह्निसिध्द्या प्रतिपक्षे निरस्तेऽप्रतिबद्धेन धूमहेतुना वह्नित्वेन वह्निः सिध्यति । व्यभिचारशङ्कातन्निरासप्रकारस्तु प्रदर्शित एव । यद्यपि वह्न्यभावाभावत्वेन वह्निसिध्द्यनन्तरं विनाऽपि धूमपरामर्शं वह्नित्वेन वह्निसिद्धिः सम्भवति । तथाऽपि प्रतिबन्धाभावो धूमपरामर्शः स्वकार्यं जनयत्येव । तथा च प्रतिबन्धकनिरासकत्वादिरूपमनुग्राहकत्वं तर्कस्याक्षतमिति भावः ।
श्रीविट्टलभट्ट
नन्वस्त्वापाद्यस्य प्रमाणविरोधाद्यदूषणम् । तथा चापद्यस्य निर्धूमत्वस्यापादनमात्रेण पक्षे तदङ्गीकार्यमित्यनुमितिसम्भवात् । विपर्यये पर्यवसानं किमर्थमित्यत आह ।। यथा साधनानुमान इति । साध्यप्रमितिसाधनं साध्यप्रमितौ साधनं निमित्तौ प्रयोजकमित्यर्थः । एवमित्यनन्तरं प्रसाङ्गान्न इति शेषः । अनुमितिसाधनमापाद्यानुमितिसाधनमित्यर्थः । अयं भावः । यद्यपि निर्धूमः स्यादित्यापादनेन स्यादेवापाद्यस्य निर्धूमत्वस्याङ्गीकार्यत्वसम्बन्धेन पक्षयित्वानुमितिस्तथाऽपि न निर्धूमत्वमिहानुमेयं परपक्षसाधुत्वज्ञापनार्थत्वे तर्कस्यानुमानवैय्यर्थ्यात् । किन्त्वनिष्टत्वेनैव निर्धूमत्वमङ्गीकार्यमित्यनुमितिर्वस्तुतोऽनिष्टस्य निर्धूमत्वस्यापादनं विपर्यये पर्यवसानमपेक्ष्यैव । अत एव यत्र निर्धूमत्वादेरापाद्यस्य विपर्ययो नास्ति । आपादनस्य पर्यवसानं तत्राप्रामाणिकं तदङ्गीकार्यमित्यनुमित्यभाव इत्युभयमुक्तानुमितावपेक्षित एवेति ।। तर्कस्येति । तर्क्यतेऽनेनेति व्युत्पत्त्या तर्कस्यापादकस्य प्रामाण्यमुपपन्नमित्यर्थः । यद्वा वस्तुतोऽनिष्टस्य निर्धूमत्वादेरापाद्यस्य विपर्यये पर्यवसानं चोभयं मिलितमेवायं निरग्निरिति परपक्षसाधुत्वानुमानमिति साधनं भवतीति हेतोस्तर्कस्यानिष्टप्रसङ्गस्य प्रामाण्यमुपपन्नमित्यर्थः । यदङ्गीकारेऽनिष्टप्रसङ्गस्तदसाध्विति सुप्रसिद्धमिति युक्तमेव तर्कस्य परपक्षासाधुत्वप्रमितिसाधनत्वेन प्रामाण्यमिति भावः । नन्वस्तु तर्कः प्रमाणम् । तथाऽपि प्रमाणानुग्राहक एव न भवति किमिति जिज्ञासायामाह ।। सोऽयमिति । स स्वयं प्रमाणभूतोऽयं तर्कः । आगमस्य यत्रान्यथात्वशङ्का भवति । यत्र च लिङ्गस्य साधुमत्त्वेऽप्ययं निरग्निकोऽस्त्विति पक्षे विषयाभावशङ्का धूमवानपि कश्चिदनग्निरस्त्विति पक्षतदितरसाधारणो न व्याप्त्यभावशङ्का भवति । तत्र तादृशविपरीतशङ्कानिरासत्वात् । आगमादिप्रमाणसहकार्यपि भवतीत्यर्थः । स्वयमङ्गीकृतमप्रामाणिकमङ्गीकारयति ।। तदप्रामाणिकमिति । सुप्रसिद्धत्वात्तर्को विपरीतशङ्कानिवर्तक इति भावः । इतिशब्दस्तर्कनिरूपणसमाप्तौ वर्तते ।