प्रमाणपद्धतिः

(९) प्रमाणपद्धतिः

तस्य निर्णायकाभावसहकृताः साधारणधर्मासाधारणधर्मविप्रतिपत्त्युपलब्ध्यनुपलब्धयः पञ्च कारणानीति केचिदाहुः । तद्यथा । स्थाणुपुरुषयोः साधारणमूर्ध्वतालक्षणं धर्मं पुरोवर्तिन्युपलभ्य स्थाणुपुरुषौ स्मृत्वा विशेषजिज्ञासायां स्थाणुत्वनिश्चायकं वक्रकोटरादिकं पुरुषत्वनिश्चाकं शिरःपाण्यादिकं चानुपलभमानस्य डोलायमानं संशयज्ञानमुत्पद्यते किमयं स्थाणुर्वा पुरुषो वेति । शब्दे चाकाशविशेषगुणत्वमसाधारणधर्ममुपलभमानस्य निर्णायकमजानतः संशयो भवति किं शब्दो नित्योऽनित्यो वेति । इन्द्रियेषु वैशेषिकसाङ्ख्ययोर्भौतिकत्वाभौतिकत्वविप्रतिपत्तिं पश्यतो निश्चायकमजानतः सन्देहो भवति किमिन्द्रियाणि भौतिकान्युताभौतिकानीति । कूपखननानन्तरं जलोपलब्धौ सत्यां निश्चायकाभावे संशयो जायते किं प्राक् सदेवोदकं कूपखनननेनाभिव्यक्तमुपलभ्यते उतासत्तेनोत्पन्नमिति । अस्मिन्वटे पिशाचोऽस्तीति वार्तां श्रुतवतो वटसमीपं गतस्य तत्र पिशाचानुपलब्धौ सत्यां निर्णायकाभावे संशयो भवति । किं विद्यमान एव पिशाचोऽन्तर्धानशक्त्या नोपलभ्यते किंवाऽविद्यमान एवेति । उपलब्ध्यनुपलब्ध्योः साधारणधर्म एवान्तर्भावात्त्रीण्येव कारणनीत्यपरे । उपलब्धिर्हि सतामेव घटादीनां प्रदीपारोपणेन दृष्टा । असतां च कुलालादिव्यापारान्तरमिति । तथाऽनुपलब्धिः सतामीश्वरादीनामसतां च शशविषाणादीनां दृष्टेति ।

जयतीर्थविजय

ननु साधारणधर्मस्य संशयहेतुत्वे पुरुषत्वव्याप्यकरादिमत्त्वनिश्चयकालेऽपि पुरोवर्तिनि पुरुषत्वसंशयापत्तिः । तदानीमपि स्थाणुपुरुषसाधारणोर्ध्वतादर्शनस्याक्षुण्णत्वादित्यत आह ।। निर्णायकाभावेति ।। विशेषजिज्ञासायामिति । एककोटिनिर्णायकजिज्ञासायां सत्यामित्यर्थः । असाधारणधर्मस्य संशयहेतुत्वं दर्शयति ।। शब्दे चेति । आकाशविशेषगुणत्वं नामाकाशेतरावृत्तित्वे सत्यकाशवृत्तिधर्मत्वम् । विप्रतिपत्तिर्विरुद्धार्थप्रतिपादकवाक्यद्वयम् ।। उतासदिति । प्रागिति शेषः ।। पिशाचानुपलब्धाविति । पिशाचप्रत्यक्षाभाव इत्यर्थः । इत्थं पञ्चसंशयकारणानि निरूप्य तत्रासाधारणदीनां चतुर्णां साधारणधर्मेऽन्तर्भावं वक्तुमुपलब्ध्योस्तावत्साधारणधर्म एवान्तर्भावं नैयायिकैर्वाचयति ।। उपलब्धीति । एतेनार्थान्नैयायिकमतमपि दर्शितं भवति ।। अपर इति । नैयायिका इत्यर्थः।

भावदीपः

इदानीं तत्साधनमाह ।। तस्येति । संशयस्येत्यर्थः । केचिच्चिरन्तनतार्किका भूषणकारादयः। तद्वक्ष्यमाणमुदाहरणं यथा स्पष्टं तथोच्यत इत्यर्थः ।। विशेषजिज्ञासायामिति । अन्यतरनिर्धारणेच्छायामित्यर्थः । आद्यं संशयकारणमुदाहरणेन प्रदर्श्य द्वितीयमपि तथा दर्शयति ।। शब्दे चेति । तृतीयमपि हेतुं व्यनक्ति ।। इन्द्रियेष्विति । चतुर्थं व्यनक्ति ।। कूपेति ।। तेनेति । कूपखननेनेत्यर्थः । पञ्चमं हेतुं व्यनक्ति ।। अस्मिन्निति । अपरे नवीननैयायिकाः । तदन्तर्भावं व्यनक्ति ।। उपलब्धिर्हीति । व्यापारानन्तरमित्यतःपरमुपलब्धिर्द्दष्टेत्यनुषङ्गः । दृष्टेत्यत्रानुपलब्धिरित्यनुषङ्गः । इतिपदस्येति सदसत्साधारण्यमुपलब्ध्यनुपलब्ध्योर्वदन्तोऽपरे त्रीण्येव कारणानीत्याहुरिति पूर्वेणान्वयः ।

श्रीविजयीन्द्रतीर्थ

संशयवन्निरस्यं संशयसाधनमादौ कस्यचिन्मतमुपन्यस्यति ।। तस्येति । तथा च तत्कारणजन्यसंशयत्वेन संशयः पञ्चविध इति भावः ।। विशेषजिज्ञासायामिति । अन्यतरकोटिजिज्ञासायामित्यर्थः । इदं च क्वाचित्कमभिप्रेत्यैकत्रक्लृप्तसामग्रीद्वयसमाजात्संशयोत्पत्तेरप्रत्यूहत्वादिति । निर्णायकाभावसहकृता इति । अन्यतरनिर्णायकाभावसहकृता इत्यर्थः । उभयव्याप्त्यदर्शनस्य तदानीमनिश्चायकत्वादिति भावः ।। डोलायमानमिति । अव्यवस्थितकोटिकमित्यर्थः । यद्वेदमित्थमेवेत्यभिलापाजनकमित्यर्थः ।। किमयमिति । असाधारणधर्महेतुकं संशयमुदाहरति ।। शब्दे चेति । ध्वनेरनित्यत्वानिश्चयदशायां वायुधर्मत्वं वाऽभिप्रेत्येदं द्रष्टव्यम् ।। अभिव्यक्तमिति । अपगतप्रतिबन्धकमित्यर्थः । तदेतत्परद्वारा दूषयति ।। उपलब्ध्यनुपलब्ध्योरीति । अन्तर्भावमेवाह ।। उपलब्धिरिति । तथाऽपि त्रिविध एव संशय इति भावः ।

श्रीवेदेशभिक्षु

इदानीं संशयसाधनप्रदर्शनाय नैयायिकैकदेशिनां मतमाह ।। तस्येति । पुरुषत्वादिनिश्चायकशिरःपाण्यादिदर्शने साधारणधर्मदर्शनादिमात्रेण न संशय इत्युक्तम् ।। निर्णायकाभावेति । अन्यतरनिर्णायकाभावेत्यर्थः । तत्र साधारणधर्मज्ञानस्य संशयहेतुत्वमुपपादयति ।। स्थाणुपुरुषयोरिति । विशेषजिज्ञासायामन्यतरकोटिजिज्ञासायामित्यर्थः । इदं च क्वाचित्काभिप्रायम् । जिज्ञासाभावेऽपि संशयोदयस्यानुभवसिद्धत्वादिति ध्येयम् ।। डोलायमानमिति । अव्यवस्थितकोटिकमित्यर्थः। असाधारणधर्मज्ञानस्य संशयहेतुत्वमुपपदायति ।। शब्दे चेति । विप्रतिपत्तेः संशयकारणत्वमुपपादयति ।। इन्द्रियेष्विति । उपलब्धेस्तदुपपादयति ।। कूपेति । अनुपलब्धेरपि तदाह ।। अस्मिन्निति । न्यायैकदेशिनमुदयनमुखेन दर्शयति ।। उपलब्धीति । उपलब्धेः सदसत्साधारण्यमुपपादयति ।। उपलब्धिर्हीति । अनुपलब्धेरपि सदसत्साधारण्यमुपपादयति ।। तथाऽनुपलब्धिरपीति ।

अभिनवामृतम्

।। तस्येति । तदेकदेशस्य डोलायमानसंशयस्येत्यर्थः । अत एव डोलायमानसंशयज्ञानमुत्पद्यत इति वक्ष्यते ।। इन्द्रियेष्विति । विप्रतिपत्तिवाक्याभ्यामेककोटिसंशयद्वयानन्तरं डोलायमान संशयो भवतीत्यर्थः ।। कूपखननान्तरमिति । नन्विदं संशयव्युत्पादनमयुक्तम् । तद्बीजानभिधानात् । न च जलोपलब्धिः संशयबीजमित्युक्तमिति वाच्यम् । तस्य धर्म्युपलब्धित्वेन तद्भिन्नस्यैव संशयस्य वक्तव्यत्वात् । अन्यथा संशयमात्रे धर्म्युपलब्धेः सत्त्वेन सर्वोऽपि संशय उपलब्धिजन्य एव स्यात् । किञ्च किमयं संशयो जलधर्मिकः सत्त्वासत्त्वकोटिक आहोस्विदभिव्यक्तयुत्पत्तिकोटिकः । नाद्यः किमिदं कूपखननात्प्राक् सद्वासद्वेत्येतावतैव पूर्णत्वात्कूपखननेनाभिव्यक्तमुपलभ्यते । तेनोत्पन्नमित्यंशवैय्यर्थ्यापातात् । न द्वितीयः । प्राक् सदेवेत्यस्यासदित्यस्योपलभ्यत इत्यस्य च वैय्यर्थ्यापातात् । किञ्चोपलब्धिर्हि सतामेव घटादीनामित्युत्तरग्रन्थपर्यालोचनया सत्त्वासत्त्वयोरेव कोटित्वलाभेन तद्विरोध इति चेत् । न ब्रूमो वयं जलोपलब्धिमात्रं सन्देहबीजमिति । येनोक्तदोषः स्यात् । किन्नाम कूपखननप्रयुक्ततया ज्ञातसंशयबीजमिति । धर्मिज्ञानं तु न ज्ञातकारणम् । किन्तु स्वरूपसदेव । ततश्च न सर्वसंशयस्योपलब्धिजन्यत्वप्रसङ्गः । यदत्रोक्तं संशयः किंकोटिक इति । प्राक् सत्त्वासत्त्वकोटिक इति ब्रूमः । न च कूपखननेनाभिव्यक्तमुपलभ्यते तेनोक्तमित्यंशे वैय्यर्थ्यमिति वाच्यम् । न कूपखननान्तरभावितयैव ज्ञातोपलब्धिः संशयहेतुः । अपि तु प्राक् सत्त्वेऽभिव्यक्ततयाऽसत्त्वे उत्पन्नतयेत्युभयोपपन्नतया ज्ञातेति ज्ञापनार्थत्वात् । एतेन संशयबीजानां ज्ञातकारणत्वादुपलब्धेर्ज्ञातकारणत्वेन संशयबीजत्वायोग इति परास्तम् । उपलब्धेरपि ज्ञातकारणत्वाङ्गीकारात् ।। अस्मिन्वटे पिशाच इति । पिशाचानुपलब्धावित्यतःपरं सत्त्वासत्त्वाभ्यामुपपन्नतया ज्ञातायामिति शेषः ।। किं विद्यमान एव पिशाच इति । अत्रापि पिशाचो विद्यमानोऽविद्यमानो वेति संशयः । अन्तर्धानशक्त्येत्यादिकं तु न स्वरूपेण ज्ञातानुपलब्धिः सन्देहहेतुः अपि तु सत्त्वेऽप्यन्तर्धानशक्त्या वाऽसत्त्वेन वोपपन्ना भवतीति ज्ञाता संशयहेतुरिति ज्ञापनार्थमिति बोध्यम् । एतेन धर्मिज्ञानस्य संशयहेतुत्वादनुपलब्धिः संशयहेतुरित्युक्तमिति परास्तम् । शब्दे धर्म्युपलब्धिमङ्गीकृत्य चाक्षुषाऽनुपलब्धेः संशयहेतुत्वाङ्गीकारात्प्रामाण्यसंशयाहितसंशयस्य बहुलमुपलम्भेन संशयस्य संशयबीजते तथोपलब्ध्यनुपलब्धेश्च पृथक् संशयहेतुत्वे सत्यपि त्रीण्येव कारणानीत्यवधारयन्तं धिक्कर्तुमसाधारणधर्मविप्रतिपत्त्योर्गूढाभिसन्धिश्छत्रिन्यायेनान्तर्भावः स्यादित्यत आह ।। वयं तु ब्रूम इति ।

आदर्शः

।। तस्येति । संशयकोटिवृत्तिधर्मसजातीयत्वं साधारणत्वं तज्ज्ञानं च न साधारणधर्मत्वेन रूपेण किन्तु येन धर्मेण संशयकोटिवृत्तिधर्मसजातीयो यो धर्मस्तद्धर्मविशिष्टत्वेनापेक्षितम् । अत एव कोटिस्मृतेः संशयकारणता । अन्यथा साधारणधर्मज्ञानस्यैव कोटिस्मरणरूपत्वेन कोटिस्मरणान्तरस्यानपेक्षितत्वेन साधारणधर्मदर्शनानन्तरं कोटिस्मरणोक्तेरसत्यापत्तेः । ननूर्ध्वतादिविशिष्टधर्मज्ञानस्य कोटिस्मारकत्वं कथमिति चेत् । सम्बन्धिज्ञानस्य सम्बन्ध्यन्तरस्मारकत्वेनोर्ध्वताविशिष्टज्ञाने तत्सजातीयोर्ध्वताविशिष्टस्थाणुपुरुषयोः संस्कारोद्बोधेन स्मृतिर्जायते । स्थाणुत्वपुरुषत्वयोरूर्ध्वत्वाधिकरणवृत्तित्वेनानुभूतत्वेन तत्संस्कारवशादूर्ध्वत्वज्ञाने सति तदधिकरणे स्थाणुत्वपुरुषत्वयोः प्रसक्तिर्भवतीति । विशेषजिज्ञासायामिति । उदासीनपदार्थविषयकसंशयस्य मध्ये मार्गं सहस्रशः साधारणधर्मदर्शनेऽप्यनुदयादिति भावः । यदि पुनः सर्वत्र संशयपूर्वं विशेषजिज्ञासा नानुभूयत इति विशेषजिज्ञासाया न संशयहेतुत्वमित्याग्रहस्तदा जिज्ञासायाः प्रायिकत्वात्तदुपपादनमिति द्रष्टव्यम् । सामान्यधर्मप्रकारकज्ञानस्य विशेषजिज्ञासां प्रति हेतुत्वेनोर्ध्वतादिरूपसाधारणधर्मज्ञानस्यैवेच्छासामग्रीत्वेन विशेषजिज्ञासा सति प्रयोजने सार्वत्रिक्येव । न च संशयजनकदोषस्येच्छाप्रतिबन्धकत्वं कल्प्यत इति न शङ्क्यम् । जिज्ञासाभावसिध्द्युत्तरकालिकत्वेनोक्तप्रतिबन्धकतया इतरेतराश्रयाद्विचारस्थले जिज्ञासयैव संशयस्यानुभूयमानत्वेन तद्विरोधाच्च । सत्यपि जिज्ञासाऽन्यथासिद्धेत्यपि न शङ्क्यम् । जिज्ञासयैव निर्णयार्थं प्रवृत्तौ निर्णायकालाभे संशयजनकत्वस्यानुभवसिद्धत्वात् । अन्यथा मध्येमार्गं दृष्टपदार्थे साधारणधर्मदर्शननिर्णायकाभावयोः सत्त्वे संशयधाराया आपत्तेः । न च कोटिस्मृतिस्तत्र नास्तीति वाच्यम् । तयोरेवापादनात् । उद्बोधकाभावान्न कोटिस्मृतिसम्भवेऽप्यस्या अप्युद्बोधकत्वाक्षतेः । वस्तुतस्तु कोटिस्मृत्यादिकारणकलापसत्त्वेऽपि निर्णायकाभावकाल एव संशयः । निर्णयार्थं प्रवृत्तावपि तदलाभे एव संशयः । मध्ये मार्गं साधारणधर्मवत्पदार्थज्ञानेऽपि कोटिस्मृतिसत्त्वेऽपि स्वत एव निर्णायकाभावसत्त्वेऽपि संशयस्याननुभूयमानत्वात् । तन्निर्णयार्थं प्रवृत्तिश्च तत्रेच्छाभावेन युज्यते । तादृशप्रवृत्तिसम्पादकतया निर्णयेच्छायाः संशयकारणत्वं क्वचित्कारणान्तरेण संशयाङ्गीकारेऽप्युक्तरीत्योक्तस्थले जिज्ञासाया हेतुत्वं दुर्वारम् । क्वचित्संशयजननानुकूलशक्तेरवधृतत्वेन तत्सजातीयत्वाच्च जिज्ञासाया हेतुत्वमिति मन्तव्यम् ।

वाक्यार्थमञ्जरी

।। साधारणधर्मेति । अनेककोटिसमूहचरितधर्मेत्यर्थः । ज्ञानोपलक्षणमेतत् । केचित्तु भूषणकारादयः ।। तद्यथेति । तेषां संशयकारणत्वं यथेत्यर्थः ।। डोलायमानमिति । यथाऽऽन्दोलिका न नियतदेशसम्बन्धिनी तथाऽनियतकोटिकमित्यर्थः ।। संशयज्ञानमिति । संशयरूपज्ञानमित्यर्थः ।। अभिव्यक्तमिति । अपगतावरणमित्यर्थः ।। असदेवेति । प्रागित्यनुवर्तते ।। व्यापारानन्तरमिति । उपलब्धिर्द्दष्टेत्यनुवर्तते ।। प्रदीपारोपेणेति । प्रदीपोत्पादनेनेत्यर्थः ।

श्रीविट्टलभट्ट

मतान्तर इव नास्माकं मते संशयोऽनेकविध इति ज्ञापयितुं कारणभेदात्संशयभेदं वदतां मतमनुवदति ।। तस्येति । तस्य संशयस्य निर्णायकाभावसहकृताः संशयकोटिनिर्णयहेतुप्रमाणाभावसहकृता इत्यर्थः । सावधारणधर्मादिपदेन तद्विषयज्ञानमुपलक्ष्यते ।। तद्यथेति । तत्पञ्चानां संशयकारणत्वमित्यर्थः । क्रमेण तद्दर्शयति ।। स्थाणुपुरुषयोः साधारणमित्यादिना । विशेषजिज्ञासायामूर्ध्वताव्याप्ययोः स्थाणुपुरुषत्वयोः कोट्योः जिज्ञासायामित्यर्थः । शिरःपाण्यादिकं चेत्यनन्तरं पुरोवर्तिनीत्येतदनुवर्तनीयम् । डोलायमानमिदमादावेत्याकारम् । संशयज्ञानं संशयरूपं ज्ञानं जन्यत इत्यर्थः ।। निर्णायकमजानत इति । नित्यत्वानित्यत्वव्याप्यमजानत इत्यर्थः । निश्चायकाभावे जले प्राक् सत्त्वासत्त्वयोर्निर्णायकहेतुप्रमाणाभाव इत्यर्थः । कूपखननेनाभिव्यक्तं भग्नावरणमित्यर्थः । उतासत्प्रागसदित्यर्थः । पिशाचानुपलब्धौ सत्यामेतदनन्तरं पिशाचसत्त्वात्त्वयोरिति शेषः । निश्चायकाभावे निर्णयहेतुप्रमाणाभाव इत्यर्थः । उपपत्तिपूर्वकं मतान्तरमाह ।। उपलब्धनुपलब्ध्योरिति । तयोः साधारणधर्मत्वमुपपादयति ।। उपलब्धेर्हीत्यादिना । सतामेव प्राक् सतामेवेत्यर्थः । दीपारोपणेन दीपोत्पादनेनेत्यर्थः । असतां च प्रागसतां चेत्यर्थः । पटादीनामुपलब्धितर्दृष्टेत्यनुवर्तते । सतामीश्वरादीनां दृष्टेति वक्ष्यमाणमत्रापि सम्बध्यते । दृष्टेतीत्यत्रेतिशब्दः परमतानुवादसमाप्तौ वर्तते ।