प्रमाणपद्धतिः

(७४) प्रमाणपद्धतिः

आश्रयासिद्धोऽपि द्विविधः । असदाश्रयः सिद्धसाधनश्चेति । आद्यो यथा । शशविषाणं तीक्ष्णम् । विषाणत्वादिति । प्रमाणविरोधाद्यसङ्कीर्णोदाहरणाभावादयं हेत्वाभास एव न भवति । द्वितीयो यथा । ईश्वरवादिनं प्रति क्षित्यादिकं सकर्तृकं कार्यत्वादिति । अयमसङ्गतावन्तर्भवति । अनाकाङ्क्षितसाधनाय प्रवृत्तत्वात् ।

जयतीर्थविजय

प्रमाणविरोधादिति । शशविषाणतत्तैक्ष्ण्ययोरभावस्य प्रमाणत्वेनावधारणादिति भावः ।

श्रीवेदेशभिक्षु

।। प्रमाणविरोधादिति । शशविषाणतत्तैक्ष्ण्ययोरभावस्य प्रमाणत्वेनावधारणादिति भावः ।

अभिनवामृतम्

।। प्रमाणविरोधाद्यसङ्कीर्णोदाहरणाभावादिति । शशविषाणमसदप्रामाणिकत्वादिति सङ्कीर्णोदाहरणस्य सांव्यावहारिकत्वेन दुष्टत्वात् । दुष्टस्य च शशविषाणं तीक्ष्णं विषाणित्वादित्यनुमानस्य प्रमाणविरोधादीनां सङ्कीर्णत्वेन तेनैव दुष्टत्वसम्भवादसदाश्रयो हेत्वाभास एव न भवतीति भावः । ईश्वरवादिनं प्रतीति । सन्दिग्धस्यैव पक्षत्वात्सिद्धाश्रयस्यापक्षवृत्तित्वादाश्रयासिद्धत्वमिति भावः ।

आदर्शः

।। हेत्वाभास एव न भवतीति । ननु कथं न हेत्वाभासत्वम् । रूपपञ्चकमध्ये पक्षे सत्त्वस्याभावात्सपक्षत्वादीनां सत्त्वादुक्तलक्षणवत्त्वाद्धेतुवदवभासमानत्वाच्चेति चेन्न । हेत्वाभासत्वेनोद्भावनीयो न भवतीत्यर्थकत्वेन दोषाभावात् । यद्वा तेन रूपेणोद्भाव्यतेति शङ्काविषय एव न भवतीत्यर्थः । तथा हि । प्रमाणविरोधादिज्ञानं विना हेत्वाभासत्वं ज्ञातुं शक्यते । प्रमाणविरोधादिना पक्षेऽसत्त्वज्ञानोत्तरमेव हेत्वाभासत्वज्ञानं भवेत् । तथा च प्रथमोपस्थितपरित्यागे निमित्ताभावात्स एवोद्भावनीयो न तु पश्चाज्ज्ञायमानं हेत्वाभासत्वमित्यर्थः । अत एवासङ्कीर्णोदाहरणाभावादित्युक्तम् । प्रमाणविरोधादीनामेव प्रथममुपस्थितेः । न कदाऽपि हेत्वाभासत्वस्य प्रथममुपस्थितिः सम्भवतीत्युद्भावनीयत्वेन बुद्धिस्थ एव न भवतीति तदभिप्रायः । एवमुत्तरत्रापि बोध्यम् ।

श्रीविट्टलभट्ट

।। आश्रयासिद्धोऽपीति । व्याप्यत्वासिद्धवदाश्रयासिद्धश्च द्विविध इत्यर्थः ।। असदाश्रय इति । पक्षीकृताकारेणासदाश्रय इत्यर्थः । तथा च सुवर्णमयोऽद्रिरग्निमानित्यस्यापि सङ्ग्रहो भवति । अत एव यथा शशविषाणमित्यनेनात्यन्तासदाश्रयमुदाहृत्यादिपदोपादानं कृतमुपपद्यते ।। प्रमाणविरोधाद्यसङ्कीर्णोदाहरणाभावादिति । स्वरूपासिद्धेरादिशब्दार्थः । प्रमाणबाधस्वरूपासिद्धव्यावृत्तोदाहरणाभावादयमाश्रयो हेत्वाभास एव न भवतीत्यर्थः । असतः पक्षत्वे विशेष्याभावेन साध्यविशिष्टस्य प्रतिज्ञातार्थस्याभावात्प्रमाणहेतोस्तत्राभावात् । स्वरूपासिद्धत्वेन चासदाश्रयस्य हेतोर्दुष्टतया सिद्धत्वेनादुष्टत्वे कल्पकाभावात् । अन्यथा वन्ध्यासुतो न वक्ताऽचेतनत्वादिति यथार्थता स्यात् । तस्मादाश्रयो हेतुर्नाश्रयासिद्धत्वेन हेत्वाभास इति भावः ।। अयमसङ्गताविति । स च सिद्धसाधनरूप आश्रयासिद्ध आकाङ्क्षाभावरूपासङ्गतावन्तर्भवतीत्यर्थः ।