प्रमाणपद्धतिः
(७९) प्रमाणपद्धतिः
।। २२ ।। एवमुदाहरणाभासानपि हेत्वाभासेऽन्तर्भावयन्तस्तेषां न पृथग्वाच्यतामाहुः । तथा हि । उदाहरणलक्षणरहिता उदाहरणवदवभासमाना उदाहरणाभासाः । तत्र साधर्म्योदाहरणे साध्यविकलो यथा । मनोऽनित्यं मूर्तत्वात् । यन्मूर्तं तदनित्यम् । यथा परमाणुरिति । साधनविकलो यथा । यथा कर्मेति । उभयविकलो यथा । यथाऽऽकाश इति । आश्रयहीनो यथा । यथा शशविषाणमिति । अव्याप्त्यभिधानं यथा । यथा घटवदिति । विपरीतव्याप्त्यभिधानं यथा । यदनित्यं तन्मूर्तम् । यथा घट इति । वैधर्म्योदाहरणे साध्याव्यावृत्तो यथा । यदनित्यं न भवति तन्मूर्तं न भवति । यथा कर्मेति । साधनाव्यावृत्तो यथा । यथा परमाणुरिति । उभयाव्यावृत्तो यथा । यथा घट इति । आश्रयहीनः पूर्ववत् । अव्याप्त्यभिधानं यथा । यथाऽऽकाश इति । विपरीत व्याप्त्यभिधानं यथा । यन्मूर्तं न भवति तदनित्यं न भवति । यथाऽऽकाश इति । अत्र वैधर्म्योदाहरणस्यानुपयुक्तत्वात्तदाभासकथनमनुपयुक्तम् । अव्याप्त्यभिधानं तु न दोषो न्यूनं वा । विपरीतव्याप्त्यभिधानमप्यसङ्गतम् । आश्रयहीनत्वं चाश्रयासिद्धवददूषणम् । अन्यतरवैकल्येनैव दृष्टत्वादुभयवैकल्यं न पृथग्गणनीयम् । तस्मात्साध्यवैकल्यं साधनवैकल्यं च द्वयमेव दृष्टान्तदूषणम् । तत्र साध्यवैकल्ये दृष्टान्तो विपक्षो भवति । तत्र वर्तमानं साधनमनैकान्तिकं विरुद्धं वा भवति । साधनवैकल्ये व्याप्यत्वासिद्धिरिति । दृष्टान्तदोषो हेत्वाभासेऽन्तर्भवतीति चेन्न । दृष्टान्तोक्त्यनन्तरं प्रतिभासात् । सपक्षान्तरे वर्तमानस्य साधनस्य दृष्टान्तीकृते सपक्षेऽवृत्तौ हेत्वाभासत्वानुपपत्तेश्च । तत्राप्यनुपदर्शितव्याप्तिकत्वेन व्याप्यत्वासिद्ध इति चेन्न । तथाऽप्यर्थदोषाभावादिति ।।
।। इति श्रीमज्जयतीर्थपूज्यचरणविरचितप्रमाणपद्धतावनुमानपरिच्छेदः समान्तः ।।
जयतीर्थविजय
।। एवमिति । अत्राहुरित्यतः प्राक् नैयायिका इति शेषः । उदाहरणाभासान् उदाहरणवदवभासमानान् । साध्यविकलादीनित्यर्थः । नैयायिकोदाहृतोदाहरणाभासानुदाहरति ।। तत्रेत्यादिना यथाऽऽकाश इत्यन्तेन ।। मूर्तत्वादिति । इयत्तावच्छिन्नपरिमाणवत्वादित्यर्थः ।। यथा कर्मेति । कर्माणि परिमाणरूपगुणाभावात्साधनवैकल्यमिति भावः ।। यथाऽऽकाश इति । परिमाणलक्षणगुणसत्त्वेऽपि परिच्छिन्नगुणाभावात्साधनवैकल्यं बोध्यम् ।। विपरीतेति । साध्यपुरः सरमित्यर्थः ।। साध्याव्यावृत्त इति । साध्याभावरहित इत्यर्थः ।। पूर्ववदिति । यथा शशविषाणमितिवदित्यर्थः ।। विपरीतेति ।। साधनाभावपुरःसरमित्यर्थः । अत्र केषाञ्चिदुदाहरणाभासानां दोषत्वमेव नास्ति । कतिपयानां दोषत्वेऽप्यस्मदुक्तविरोधादिषट्क एवान्तर्भावः । अतः साध्यसाधनवैकल्ये एव दृष्टान्तदूषणे इत्याह ।। अत्रेत्यादिना द्वयमेव दृष्टान्तदूषणमित्यन्तेन ।। वैधर्म्योदाहरणस्येति । व्यतिरेकव्याप्तेरनुपयुक्ततया तत्प्रदर्शकवैधर्म्योदाहरणस्याप्यनुपयुक्तत्वादिति भावः ।। द्वयमेव दृष्टान्तदूषणमिति । दूषणमिति श्रुत्वा लब्धावकाशो नैयायिकश्चोदयति ।। तत्रेत्यादिना ।। विरुद्धं वेति । दृष्टान्तादस्मिन्नपि साध्यवत्त्वव्यावृत्ताविति शेषः । एतदेवोक्तं वरदराजेन ।
साधारणे विरुद्धो वा दृष्टान्ते साध्यवर्जिते ।
असाधारणता हेतोस्तस्मिन्साधनवर्जिते ।
व्याप्त्यसिद्धिरभावे स्यादाश्रयस्य तयोरपि ।। इति ।
दृष्टान्तोक्त्यनन्तरमिति । यो यन्निष्ठतया ज्ञातः सन्ननुमितिप्रतिबन्धकः स तस्य दोष इति व्याप्तेरिति भावः । साधनवैकल्ये व्याप्यत्वासिद्धिरित्यत्र दूषणमाह ।। सपक्षान्तर इति । अवृत्ताविति पदच्छेदः । तादृशस्थलं च पर्वतोऽग्निमान्धूमवत्त्वादयोगोलकवदिति बोध्यम् । भ्रान्तः शङ्कते ।। तत्रापीति । तप्तायःपिण्डादिसपक्षैकदेश इत्यर्थः ।। तथाऽपीति । तप्तायःपिण्डादिसपक्षैकदेशे व्याप्तेरप्रदर्शनेऽपीत्यर्थः ।। अर्थदोषेति । महानसवदिति वक्तव्येऽयःपिण्डवदित्युक्तेः पुरुषदोषत्वेनार्थदोषत्वाभावादित्यर्थः । अर्थदोषस्यैव हेत्वाभासत्वादिति भावः ।।
इति जनार्दनभट्टाचार्यविरचिते प्रमाणपद्धतिटिप्पणो जयतीर्थविजयनामि्न द्वितीयप्रकरणम् ।।
भावदीपः
पूर्वं दृष्टान्तविरोधो द्विविधः साध्यवैकल्यं साधनवैकल्यं चेत्युक्तं तत्साधयितुमाह ।। एवमिति । पक्षाभासा यथा एवमित्यर्थः । सामान्यलक्षणं तावदाह ।। उदाहरणेति । सम्यग्व्याप्तिप्रदर्शनपूर्वकं दृष्टान्तवचनस्वरूपोदाहरणलक्षणरहिता इत्यर्थः । ते चान्वयव्यतिरेकोदाहरणभेदेन द्वादश विधा इति भावेनान्वयोदाहरणषाडि्वध्यं तावत्क्रमेण दर्शयति ।। तत्रेत्यादिना । तत्र तेषूदाहरणाभासेषु व्यतिरेकोदाहरणे तद्दर्शयति ।। वैधर्म्योदाहरण इत्यादिना । प्रागुक्तप्रयोग इति योज्यम् ।। पूर्ववदिति । यथा शशविषाणमिति ज्ञेयमित्यर्थः ।। अनुपयुक्तत्वादिति । केवलव्यतिरेकिखण्डनप्रस्तावे व्यतिरेकव्याप्तेरनुमित्यनङ्गत्वस्योक्तत्वादिति भावः ।। न दोष इति । व्युत्पन्नस्य घटवदित्युक्त्यैव व्याप्तिस्मृतिसम्भवादिति भावः । अव्युत्पन्नं प्रति कथमित्यतोऽभ्युपेत्यवादेनाह ।। न्यूनं वेति ।। असङ्गतमिति । अनाकाङ्क्षिताभिधानरूपत्वादसङ्गतावन्तर्भवतीत्यर्थः ।। आश्रयासिद्धवदिति । असङ्कीर्णोदाहरणाभावादिति भावः । साध्यसाधनवैकल्ययोर्दोषत्वमुपपादयति ।। तत्र साध्यवैकल्य इति । तत्र तयोर्मध्ये । विरुद्धमिति । सर्वसपक्षस्यापि साध्यहीनत्वे विरुद्धं सम्भवतीत्यर्थः । यद्वा साध्यहीनसपक्षे वर्तमानं साध्यवति सपक्षान्तरेऽवर्तमानं पक्षत्रयवृत्तित्वादनैकान्तिकम् । साध्यवति पक्षान्तरेऽवर्तमानं साध्यहीनसपक्ष एव वर्तमानमित्यर्थः । इतिशब्दो दोषतोपपादनसमाप्तौ । यद्वा तर्कताण्डवोक्तरीत्या साध्यवैकल्य इत्यारभ्यैव शङ्का । इतिशब्दो हेत्वर्थः । इति हेतोर्दृष्टान्तदोषो हेत्वाभासेऽन्तर्भवतीति चेदिति । बाधकान्तरमाह ।। सपक्षान्तरेति । पर्वतोऽग्निमान्धूमवत्त्वादयोगोलकवदित्यत्र धूमवत्त्वसाधनस्य महानसादौ साध्यवति वर्तमानस्य परेण दृष्टान्तीकृतेऽयोगोलकेऽसत्त्वेऽपि व्याप्यत्वासिद्धत्वरूपहेत्वाभासत्वायोगाच्चेत्यर्थः ।। तथाऽपीति । पुरुषदोषत्वेऽपि धूमादिरूपार्थस्य व्याप्यत्वासिद्धत्वरूपदोषाभावादिति ।।
इति श्रीप्रमाणपद्धतिभावदीपे राघवेन्द्रयतिकृतेऽनुमानप्रकरणं समाप्तम् ।।
श्रीविजयीन्द्रतीर्थ
।। तथाऽप्यर्थदोषाभावादिति । वस्तुतो हेतोरदोषत्वादित्यर्थः ।।
इति श्रीमज्जयतीर्थपूज्यचरणविरचितायाः प्रमाणपद्धतेष्टीकायां विजयीन्द्रतीर्थविरचितायां द्वितीयप्रकरणव्याख्या समाप्ता ।।
श्रीवेदेशभिक्षु
अव्याप्त्यभिधानं न दोष इति । अवयवनियमाभावादिति भावः । अभ्युपेत्याह ।। न्यूनं वेति । तथाऽप्यर्थदोषाभावादिति । वस्तुतस्तु तत्र हेतोरदृष्टान्तत्वात्तद्दोष एव वाच्यः । तथा चासङ्कीर्णतया दोषत्वात्तत्पार्थक्यं सिद्धमेवेति भावः ।।
इति श्रीवेदेशतीर्थविरचितश्रीमज्जयतीर्थकृतप्रमाणपद्धतेर्भावविवरणेऽनुमानपरिच्छेदः समाप्तः ।
अभिनवामृतम्
स्वन्यायैकदेशमतं दूषयितुमनुवदति ।। एवमुदाहरणाभासादिति । अत्रोदाहरणाभासादीनां हेत्वाभासेष्वन्तर्भावो नाम हेत्वाभासोपन्यासेनैव जयसम्भवादुदाहरणाभासानां दूषणतयाऽनुपादानमेव न त्वर्थापत्त्यादीनामनुमानैकदेशत्वमिवोदाहरणाभासानां हेत्वाभासैकदेशत्वमिति बोध्यम् । एतेन हेत्वाभासस्य हेत्वभिमतनिष्ठत्वाद्दृष्टान्तनिष्ठसाध्यवैकल्यादि प्रयुक्तोदाहरणाभासस्य हेत्वाभासान्तर्भावकथनमयुक्तमिति परास्तम् । अन्तर्भावनिरूपणार्थमुदाहरणाभासाननुवदति ।। तथा हीत्यादिना । यन्मूर्तं न भवति तदनित्यं न भवति । यथाऽऽकाश इत्यन्तेन । उदाहरणाभासज्ञानस्य लक्षणज्ञानाधीनत्वाल्लक्षणमाह ।। उदाहरणलक्षणरहिता इति । उदाहरणाभासो द्विविधः । साधर्म्योदाहरणाभासो वैधर्म्योदाहरणाभासश्चेति । तत्राद्यः षड्विधः । साध्यविकलः साधनविकल उभयविकल आश्रयहीनो व्याप्त्यभिधानविकलो विपरीतव्याप्त्यभिधानश्चेति । द्वितीयोऽपि षड्विधः । साध्याव्यावृत्तः साधनाव्यावृत्त, उभयाव्यावृत्त, आश्रयाहीनो, व्याप्त्यभिधानविकलो, विपरीतव्याप्त्यभिधानश्चेति ग्राह्यम् । आद्यनुदाहरति ।। तत्र साधर्म्योदाहरण इति । साधर्म्योदाहरणाभासे साध्यविकलो यथा दृष्टान्तस्य साध्यवैकल्यप्रयुक्तः साधर्म्योदाहरणाभासः कथमित्यर्थः । उदाहरणस्यानुमानप्रयोगसापेक्षत्वात्तदनुमानं तावदाह ।। मनोऽनित्यमिति । अत्र यन्मूर्तं तदनित्यं यथा परमाणुरिति । दृष्टान्तस्य साध्यवैकल्यप्रयुक्तोऽयमुदाहरणाभास इत्यर्थः ।। साधनविकल इति । साधनवैकल्यप्रयुक्तोदाहरणाभासः कथमित्यर्थः ।। यथा कर्मेति । यन्मूर्तं तदनित्यमिति वर्तते ।। आश्रयहीन इति । असदाश्रयप्रतिपादकः कथमित्यर्थः ।। यथा शशविषाणमितीति । अत्रापि यन्मूर्तं तदनित्यमिति वर्तते । यद्यप्यत्रोभयवैकल्यमस्ति । तथाऽपि पुरः स्फूर्तिकत्वादसदाश्रयत्वमेवोक्तम् ।। घटवदितीति । यन्मूर्तं तदनित्यमिति नानुवर्तते ततश्चायं व्याप्त्यभिधानविकलः ।। वैधर्म्योदाहरण इति । दृष्टान्तस्य साध्यव्यावृत्तिप्रयुक्तो वैधर्म्योदाहरणाभासः कथमित्यर्थः । साधनव्यावृत्तो यथेत्यादिव्याख्यानं पूर्ववत् । एवं सपरिकरमुदाहरणाभासाननूद्य तत्र कतिपयस्य हेत्वाभासान्तर्भावं वक्तुमितरेषां केषाञ्चिदवक्तव्यतैव केषाञ्चिदनाभासत्वमन्येषामन्यत्रान्तर्भाव इत्याह ।। वैधर्म्योदाहरणस्येत्यादिना ।। द्वयमेव दृष्टान्तदूषणमिति । उदाहरणस्याभासप्रयोजकमिति शेषः । अथेदानीं दृष्टान्तगतसाध्यवैकल्यसाधनवैकल्यप्रयुक्तोदाहरणाभासस्य तत्प्रयुक्तहेत्वाभासोद्भावनेनैव गतार्थत्वरूपं पारिभाषिकं हेत्वाभासान्तर्भावमाह ।। तत्र साध्यवैकल्य इति । दृष्टान्ते साध्यविकले सति तत्र विद्यमानहेतुरनैकान्तिको वा विरुद्धो वा । दृष्टान्ते साधनविकले सति हेतुरसिद्धो भवतीति तत्प्रयुक्तोदाहरणाभासः । तत्प्रयुक्तहेत्वाभासोद्भावनेनैव गतार्थता भवतीत्यर्थः । दूष्यांशं निषेधति ।। दृष्टान्तदोष इति । चेच्छब्दो यद्यर्थे । दृष्टान्तदोषप्रयुक्तोदाहरणाभासो हेत्वाभासोद्भावनेन गत इति यत्तन्नेत्यर्थः । एतेन पृथग्वाच्यतामाहुरिति प्रागभिहितत्वात्तन्नेति वक्तव्यमिति चेन्नेत्यसङ्गतमिति परास्तम् । चेच्छब्दस्य यद्यर्थत्वेनेति यदाहुस्तन्नेत्यर्थस्यैव लाभात् । एतेनैवोदाहरणाभासान्हेत्वाभासेऽन्तर्भावयन्त इत्युपक्रम्योपसंहारे दृष्टान्तदोषे हेत्वाभासेऽन्तर्भवतीत्यभिधानमयुक्तमिति परास्तम् । दृष्टान्तदोषशब्देन दृष्टान्तदोषप्रयुक्तोदाहरणाभासस्यैव विवक्षितत्वात् ।।
इति श्रीमत्सत्यनिधितीर्थश्रीमच्चरणाराधकश्रीसत्यनाथयतिविरचित प्रमाणपद्धतिःव्याख्यानेऽभिनवामृतेऽनुमानपरिच्छेदः समाप्तः ।।
आदर्शः
अर्थदोषाभावादिति । व्याप्तेरुभयवादिसम्मतत्वे तज्ज्ञानासिद्धेरप्यभावाद्य्वाप्यत्वासिद्धत्वेन तत्रोद्भावनासम्भवादिति भावः ।।
इति श्रीमट्टीकाकृत्पादविरचित प्रमाणपद्धतिभावप्रकाशिका श्रीमद्य्वाघ्रपुरवासिवासुदेवाचार्यशिष्यश्रीनिवासाचार्यशिष्यनरसिंहविरचिताऽदर्शनामग्रन्थेऽनुमिति परिच्छेदः समाप्तः ।।
श्रीविट्टलभट्ट
।। उदाहरणलक्षणरहिता इति । सम्यग्व्याप्तिप्रदर्शनपूर्वकदृष्टान्तवचनमुदाहरणम् । तद्रहिता इत्यर्थः । उदाहरणपदवता समानां तत उदाहरणपदप्रयोगसम्भावनार्थं स्वरूपकथनपरमेव । आश्रयाहीनः।। पूर्ववदिति । आश्रयाहीनो दृष्टान्तः । पूर्ववदाश्रयहीनान्वयदृष्टान्तवदित्यर्थः ।। अत्रेति । उदाहरणाभासेषु तदाभासकथनं न युक्तमित्यन्वयः । तत्र हेतुवैधर्म्योदाहरणकथनमेवासङ्गतमिति तदाभासकथनं सुतरामनुपयुक्तमित्यर्थः ।। अव्याप्त्यभिधानं तु न दोष इति । अनुमानमुद्राभिज्ञस्य दृष्टान्तोक्तिमात्रेण व्याप्तिस्मृतेस्तन्न दोष इति भावः । तस्य दोषत्वमभ्युपेत्याह ।। न्यूनं वेति । अवक्तव्यस्यावचनरूपस्येति भावः ।। असङ्गतमिति । अनाकाङ्क्षिताभिधानत्वादस्यासङ्गतत्वमिति भावः ।। आश्रयाहीनत्वं चेति । आश्रयासिद्धस्येवास्यापि साधनवैकल्यरूपदृष्टान्तदोषासङ्कीर्णोदाहरणाभावाददोषत्वमिति भावः ।। अन्यतरवैकल्येनैवेति । साध्यसाधनयोरन्यतरवैकल्येन साध्यवैकल्येन वा साधनवैकल्येन वा दृष्टान्तस्य दुष्टत्वादाधिक्येनोभयवैकल्यं पृथग्दोषान्तरत्वेन न गणनीयमित्यर्थः । अन्यथाऽनैकान्तिककालातीतोऽसिद्धकालातीतश्चेत्याद्येष्वपि हेत्वाभासान्तरं गणनीयमित्यापातादिति भावः ।। विरुद्धं वेति । सता व्यावृत्तत्वे विरुद्धमिति बोध्यम् ।। दृष्टान्तोक्त्यनन्तरं प्रतिभासादिति । प्रतिभासानुसारेणैव दोषस्योद्भाव्यत्वेन साधनवैकल्यादेर्दृष्टान्तदोषत्वमेव । अन्यथा बाधे पक्षस्यैव विपक्षत्वात्तत्र हेतोर्वृत्तौ व्यभिचारः । अवृत्तौ च स्वरूपासिद्धिरिति बाधस्यापि पृथग्दोषत्वाभावप्रसङ्गादिति ज्ञातव्यम् । दूषणान्तरमाह ।। सपक्षान्तरे वर्तमानस्येति । महानसादौ दृष्टान्तेन वर्तमानस्य धूमादेर्हेतोर्दृष्टान्तीकृते ह्रदादौ सपक्षेऽसत्त्वेऽपि व्याप्यत्वासिद्धरूपहेत्वाभासत्वासम्भवाच्चेत्यर्थः ।। अनुपदर्शितव्याप्तिकत्वेनेति । यथा च व्याप्तिज्ञानाभावेन व्याप्यत्वासिद्धिरिति हृदयम् ।। तथाऽप्यर्थदोषाभावादिति । अनुपदर्शितव्याप्तिकत्वेऽप्यर्थस्य हेतोर्व्याप्यत्वरूपदोषादित्यर्थः । अनुपदर्शितव्याप्तिकत्वं हेतोरर्थस्य न दोषः । व्याप्त्यप्रदर्शनेऽपि धूमस्य वह्निव्याप्त्यक्षतेः । वादिप्रतिवादिनोः परस्परमनाश्वासात् यथा महाह्रद इति दृष्टान्तवचनस्याप्तवाक्यतया व्याप्तिबोधाजनकत्वात् । गृहीतव्याप्तेस्तत्स्मारकत्वेनागृहीतव्याप्तेस्तज्जिज्ञासाजनकत्वेनोपयोगो वाच्यः । तथा चानुमानमुद्राभिज्ञस्य यथा महानस इत्यनेनैव यथा महाह्रद इत्यनेनापि व्याप्तिस्मृत्यादेर्जायमानत्वाद्य्वाप्तिज्ञानाक्षतेश्च । किन्त्वनुमानप्रयोक्ता व्याप्तेः प्रदर्शनाय तत्त्वात्तदनुपदर्शनम् । उपलक्षणं चैतत् । यथा महानस इति दृष्टान्ताभिधानेऽनुपदर्शितव्याप्तिकत्वाभावाच्चेत्यपि द्रष्टव्यम् । तथा सति निर्दिष्टदृष्टान्तपरित्यागो दोषः स्यादिति चेत् । किं तावता दृष्टान्तदोषस्य हेत्वाभासान्तर्भावस्य स्थितत्वान्न दृष्टान्तपरित्यागस्य पुरुषदोषत्वात् । वादे निर्दिष्टदृष्टान्तपरित्यागस्यादोषत्वाच्चेति । इति शब्दोऽनुमानप्रकरणपरिसमाप्तौ वर्तते ।।
इति श्रीनिवासबालनरसिंहभट्टसूनुना विठ्ठलेन विरचिते
प्रमाणपद्धतिव्याख्यानेऽनुमानप्रकरणव्याख्यानं समाप्तम् ।।