प्रमाणपद्धतिः

स्मृतेः प्रामाण्यम्

(२६) प्रमाणपद्धतिः

ननु स्मृतेर्याथार्थ्यमेव नास्ति । न हि यदा यादृशोऽर्थः स्मर्यते तदाऽसौ तादृशः । पूर्वावस्थाया निवृत्तत्वादिति चेन्न । यतो ज्ञानकाले वस्तुनस्तथात्वं याथार्थ्योपयुक्तं न भवति । किन्तु यद्देशकालसम्बन्धितया यद्वस्तु ज्ञानेन यादृशं गृह्यते तद्देशकालयोस्तस्य तथात्वम् । स्मृतिश्च तदासौ स इति गृण्हाति । न च तत्र तदासौ न तादृशः । ननु पूर्वानुभवजनितसंस्कारः स्मृतिकारणम् । स चानुभूतविषय एव स्मृतिजननस्येष्टे । न चानुभवेन निवृत्तपूर्वावस्थतयाऽर्थो गृहीतः । तत्कथमनुभवसमानविषयसंस्कारजन्या स्मृतिरर्थं निवृत्तपूर्वावस्थतया विषयीकुर्यादिति । मैवम् । भवेदेतदेवं यदि संस्कारमात्रजन्यत्वं स्मृतेरभ्युपगच्छामः । न चैवम् । मनोजन्या स्मृतिः । संस्कारस्तु मनसस्तदर्थसन्निकर्षरूप एव । यथा योगीन्द्रियाणां योगजो धर्मः । ततश्च संस्कारसहकृतं मनोऽननुभूतामपि निवृत्तपूर्वावस्थां विषयीकुर्वत्स्मरणं जनयेदिति को दोषः । वर्तमानमात्रविषयाण्यपीन्द्रियाणि सहकारिसामर्थ्यात्कालान्तरसम्बन्धितामपि गोचरयन्ति । यथा संस्कारसहकृतानि सोऽयमित्यतीतवर्तमानत्वविशिष्टविषयप्रत्यभिज्ञासाधनानि । प्राकृतेन्द्रियाणि मनोवृत्तिज्ञानं जनयन्ति । तत्र सन्निकर्षः प्रत्यक्षमित्युक्ते घटपटसन्निकर्षेऽतिव्याप्तिः । इन्द्रियसन्निकर्षः प्रत्यक्षमित्युक्ते चक्षुराकाशसन्निकर्षेऽतिव्याप्तिः । अर्थसन्निकर्ष इत्युक्ते पूववदतिव्याप्तिः । दुष्टार्थानां दुष्टेन्द्रियैर्वा सन्निकर्षं व्यावर्तयितुमुभयत्र निर्दोषग्रहणम् ।

जयतीर्थविजय

भवतु मनसः स्मरणसाधनत्वम् । तथाऽपि स्मरणस्य यथार्थत्वाभावेन यथार्थज्ञानसाधनत्वमनुप्रमाणलक्षणं मनस्यव्याप्तमित्याशयेन शङ्कते ।। स्मृतेरित्यादिना ।। यतो ज्ञानकाल इति । स्मरणरूपज्ञानकाल इत्यर्थः । तथात्वमनुभवविषयीभूतदेशकालविशिष्टत्वमित्यर्थः । स्मृतेस्तत्र तदाऽसौ तादृश इत्याकारत्वमसिद्धमित्याशयेन शङ्कते ।। नन्वित्यादिना ।। अनुभूतविषय एवेति । अननुभूतविषयेऽपि संस्कारस्य स्मृतिहेतुत्वे श्यामघटानुभवजनितसंस्कारेण रक्तघटस्मरणापत्तेरिति भावः ।। निवृत्तपूर्वावस्थामिति । पूर्वावस्थानिवृत्तिमित्यर्थः । न च स्मृतेरननुभूतविषयत्वेऽतिप्रसङ्ग इति वाच्यम् । अननुभूतस्यापि स्मृतौ भानेऽनुभवविषयदेशकालध्वंसत्वस्य नियामकस्य सर्वत्राभावेनाति प्रसङ्गाभावात् । अतिप्रसङ्गं त्वनुभव एव पराकरिष्यतीत्याचार्याशयात् । अत एवोक्तं प्रमाणलक्षण टीकायाम् । अननुभूतैतावन्मात्रविषयस्यास्य साक्षिसिद्धत्वेनातिप्रसङ्गायोगादिति ।

भावदीपः

स्मृतिसाधनत्वेन मनसः प्रत्यक्षान्तर्भाव इति यदभिप्रेतं तदयुक्तमिति शङ्कते ।। नन्विति । एवकारेण कुतस्तत्साधनत्वेनानुप्रमाणता कुतस्तरां च प्रत्यक्षप्रमाणतेति सूचयति ।। पूर्वावस्थाया इति । अनुभवो यस्मिन्काले जातस्तस्य कालस्येदानीं स इति स्मृतिविषयस्य निवृत्तेरित्यर्थः ।। तथात्वमिति । याथार्थ्योपयोगि यतोऽतो नेति पूर्वेणान्वयः । अस्तूक्तदिशा स्मृतेर्याथार्थ्यम् । तथाऽपि तदुत्पत्तिसामग्य्रा संस्कारस्य तज्जननासामर्थ्यात्कथं तदुत्पत्तिरिति सौहार्देन शङ्कते ।। नन्विति ।। स्मृतिजननस्येष्ट इति । अधीगर्थदयेषां कर्मणीति षष्ठी ।। भवेदेतदेवमिति । एवं त्वदुक्तरीत्यैतत्स्मृतिजन्मदौर्घट्यं भवेदित्यर्थः ।। योगजो धर्म इति । अतीन्द्रियार्थविषये प्रत्यासत्तिरूपस्तथेत्यर्थः । एवं साक्षिणो मनसश्च यथार्थज्ञानसाधनत्वेनानुप्रमाणान्तर्भावमुपपाद्य घ्राणादीनामपि तदाह ।। प्राकृतेन्द्रियाणीति ।। मनोवृत्तीति । मनःपरिणामरूपमित्यर्थः । यद्वा पूर्वमिन्द्रियपदेन ज्ञानेन्द्रियाणि गृह्यन्त इत्युक्तम् । तत्र साक्षिमनसोर्ज्ञानेन्द्रियत्वमुक्त्वा घ्राणादीनां तदाह ।। प्राकृतेन्द्रियाणीति । आत्मसमवेतं ज्ञानं जनयन्तीति न्यायमतनिरासाय मनोवृत्तीत्युक्तम् । एवमुपयुक्तं सर्वं निरूप्याधुना पदकृत्यान्याह ।। तत्रेति । प्रत्यक्षलक्षणे ।

श्रीविजयीन्द्रतीर्थ

।। याथार्थ्यमेव नास्तीति । तथा च यथार्थज्ञानसाधनप्रत्यक्षविशेषेषु विभागो नोचित इति भावः ।। निवृत्तत्वादिति । स्मृतिकाले तत्ताया अभावादित्यर्थः ।। ज्ञानेनेति । ज्ञानविषयीभूतकाले विशेष्ये विशेषणसत्ताया याथार्थ्यप्रयोजकत्वम् । न तु ज्ञानाधारकाले । तथा सत्यतीताद्यनुमित्यादेरप्य यथार्थापत्तेरित्यर्थः । प्रसङ्गात्पृच्छति ।। नन्विति ।। अननुभूतमपीति । विशेषसंस्कारस्य पूर्वावस्थानिवृत्त्या सम्बन्धविशेषणतायाः प्रत्यासत्तेः सत्त्वात् । विशेषणज्ञानस्याकारणत्वात् । मनसस्तथाविधस्मृत्युपपत्तौ न किञ्चिद्बाधकमित्यर्थः ।। तत्रेति । तत्रप्रत्यक्षलक्षणे । इदं च यथाश्रुतमभिप्रेत्य । वस्तुतस्तु दोषाणां प्रत्येकमभिधातुमशक्यत्वात् । स्वेतरसकलसहकारिसमवहितः सन्निकर्षः प्रत्यक्षमिति वाच्यम् । न चैवमभिधानेऽतिप्रसङ्ग इति ध्येयम् ।

श्रीवेदेशभिक्षु

।। याथार्थ्यमेव नास्तीति । तथा च तत्साधनस्य मनसोऽनुप्रमाणत्वानुपपत्तिरिति भावः ।। न हीति । स्मृतिकाले तद्देशकालवैशिष्ट्यरूपपूर्वावस्थाया अभावेनाविद्यमानविषयकत्वात्स्मृतेरयथार्थत्वमेव युक्तमिति भावः ।। यत इति । ज्ञानोल्लिखितदेशकालयोर्विषयासत्त्वमेव ज्ञानायथार्थत्वे तन्त्रं न तूल्लिखितस्य विषयस्य ज्ञानकालेऽसत्त्वम् । तथात्वेऽतीतानागतप्रमेययोरप्ययाथार्थ्यापत्तेः । स्मृत्युल्लिखितदेशकालयोश्च स्मृतिविषयः सन्निति न स्मृतेरयाथार्थ्यमिति प्रघट्टिकोऽर्थः । तदाऽसौ तादृश इति गृण्हातीत्यनेन निवृत्तपूर्वावस्थतयाऽर्थविषयकत्वं स्मृतेरुक्तम् । तदनुपपन्नमिति तटस्थः शङ्कते ।। नन्विति ।। स चेति । अन्यथाऽतिप्रसङ्गादिति भावः ।। संस्कारस्त्विति । एतेन स्मृतेर्याथार्थ्ये तत्कारणसंस्कारस्य प्रमाणान्तरतापत्तिरित्यपि परास्तम् । मनस एव तत्करणत्वेन संस्कारस्य व्यापारमात्रत्वात् ।। को दोष इति । अनुभवबलेनैवेत्थं सहकारिसामर्थ्यकल्पनान्नातिप्रसङ्गः । विशेषणज्ञानं च न विशिष्टज्ञानकारणमिति भावः । नन्विन्द्रियाणां वर्तमानमात्रग्राहित्वात्कथं मनो निवृत्तपूर्वावस्थाविषयकस्मरणं जनयेदित्यत आह ।। वर्तमानेति । सत्यमिन्द्रियाणामियं सहजशक्तिर्यद्वर्तमानमात्रग्राहित्वमिति । तथाऽपि सहकारिसामर्थ्याच्छक्त्यन्तराविर्भावेनावर्तमानवस्तुविषयकत्वमपि तेषामुपलक्ष्यत इति भावः । यद्वक्ष्यति सहकारिसामर्थ्यात्कारणानां शक्त्यन्तराविर्भावस्य बहुलमुपलम्भादिति । एवं प्राकृतेन्द्रियाणि निरूप्य तत्फलमाह ।। प्राकृतेन्द्रियाणीति । स्वरूपज्ञाननिरासाय मनोवृत्तीति । अनेन प्रत्यक्षं सप्तविधं साक्षिषडिन्द्रियभेदेनेति प्रत्यक्षविभागोऽपि कृतो भवतीत्यवधेयम् । एवं प्रत्यक्षलक्षणान्तर्गतार्थेन्द्रियतद्दोषान्निरूप्येदानीं तल्लक्षणशरीरनिष्ठविशेषणानां कृत्यमाह ।। तत्रेत्यादिना । तत्र प्रत्यक्षलक्षण इत्यर्थः ।

अभिनवामृतम्

ननु तत्र तदाऽसौ तादृश इति न स्मृत्याकारः । तद्धेतुसंस्कारजनकानुभवस्या तदाकारत्वात् । किन्त्वयमिदानीमेवंविध इत्यनुभवसमानाकारः । तत्र तदाऽसौ तादृश इति स्मृत्याकारावगाह्यनुव्यवसायो नीलं नभः प्रादेशसम्मितश्चन्द्रमा इत्यादिवद्भ्रमः । ततश्च बाधितविषयत्वादप्रमाणमेव स्मृतिरिति गूढाभिसन्धिः शङ्कते ।। ननु स्मृतेरिति ।। याथार्थ्यमिति । ननु स्मृतेरयमिदानीमेवंविध इत्यनुभवसमानाकारत्वेऽपि न याथार्थ्यहानिः । इदानीमित्यनुभवविषयकालस्यैवावगाहनेन वर्तमानकालानवगाहनात् । स्मृतिकाले च वस्तुनस्तथात्वे बाधितविषयत्वाभावादित्यत आह ।। न हीति । यदा यस्मिन्काले यादृशोऽर्थो यद्धर्मावच्छिन्नः स्मर्यते तदाऽसौ तादृशो नेति हि प्रसिद्धमित्यर्थः । सत्यम् । अनुभवसमानाकारा स्मृतिस्तथाऽपि नानुभवविषयकालविषया किन्तु वर्तमानकालविषया । संस्कारस्य घटादिज्ञापने सामर्थ्याभावेन तदर्थमनुभवनिरीक्षणेऽपि कालस्य ज्ञानजनकमात्राधीनज्ञानविषयत्वेन कालज्ञापनेऽनुभवमनपेक्ष्यैव सामर्थ्यसद्भावात् । चक्षुःसहकारिवशाच्चन्दनं सौरभ्येनेव संस्कारोऽप्यनुभवोपनीतं घटं स्वमहिम्ना वर्तमानकालसम्बद्धतया ज्ञापयतीति भावः । एतेन निवृत्तपूर्वावस्थावगाहित्वेन स्मृत्यप्रामाण्यशङ्का न युक्ता । अतीतानागतविषयकयौगिकज्ञानस्यातीतविषयकागमजज्ञानस्य तादृशानुमितेश्चाप्रामाण्यप्रसङ्गात् । न च तदिष्टम् । तथा सति सर्वप्रामाण्यस्यैव शङ्कनीयत्वेन विशिष्टस्मृत्यप्रामाण्यशङ्कायोगादिति परास्तम् । पूर्वपक्ष्यभिप्रायमजानन्निव समाधत्ते ।। यतो ज्ञानकाल इति । कदा तर्हि सत्त्वं याथार्थ्येऽपि युक्तमिति पृच्छति ।। किन्त्विति । उत्तरमाह ।। यद्देशकालतयेति । स्मृतिविषयस्य सत्त्वमुपपादयितुं स्मृत्याकारमनुवदति ।। स्मृतिश्चेति । यद्यपि स्मृत्याकारं नैवं परो मन्यते । तथाऽपि तदाशयस्य गूढत्वाल्लोकप्रसिद्ध्यनुसारेणानुवादः कृत इति बोध्यम् । पूर्वपक्षी स्वाभिसन्धिमुद्घाटयति ।। ननु पूर्वानुभवेति ।। स चानुभूतविषय एवेति । अनुभूतस्यैव स्मृतिजनने समर्थः । कालांशे तु संस्कारजन्यज्ञानस्य स्मृतित्वमेव नेति न कालांशेऽनुभवापेक्षेति भावः । ननु विषयस्यासत्त्वात्कथमसौ सन्निकर्षः स्यादित्यत आह ।। अननुभूतामिति । निवृत्ततयाऽननुभूतामित्यर्थः ।। वर्तमानमात्रविषयाणीति । वर्तमानमात्रविषयीकरणस्वभावान्यपीन्द्रियाणि सहकारिसामर्थ्यादतीतत्वेनापि विषयीकुर्वन्तीत्यर्थः ।

आदर्शः

।। पूर्वावस्थाया निवृत्तत्वादिति । पूर्वकालसम्बन्धित्वरूपसत्त्वस्येत्यर्थः । तदभाववति तत्प्रकारकत्वाद् भ्रमत्वमित्यर्थः ।। यत इति । पूर्वकालसम्बन्धित्वेन स्वकालवृत्तित्वं स्मृतौ भासते येन भ्रमत्वं स्यात् । किन्तु यत्काले स्वयं जायते तत्कालवृत्तिध्वंसप्रतियोगित्वम् । तच्चास्त्येवेति न भ्रमत्वम् । न च तथाऽप्येतत्कालेऽसतो धर्मस्यावगाहित्वाद् भ्रमत्वमेव स्यादिति वाच्यम् । तथा सति कुत्रापि प्रमात्वस्यैवाभावप्रसङ्गात् । न सोऽस्ति प्रत्ययो लोके यत्र कालो न गोचर इति वचनात् । अनुभवस्यापि वर्तमानसम्बन्धावगाहित्वात्तादृशवर्तमानकालसम्बन्धस्य तस्मिन्नेव वस्तुनि पूर्वकाले चोत्तरकालेऽभावात् । तदभाववति तत्प्रकारकत्वस्य सर्वत्र सत्त्वात् । अभावे प्रतियोगिवैय्यधिकरण्यादिनिवेशे स्मृतावपि साम्यादिति भावः । वस्तुतस्तु सतोऽसत्त्वावगाहित्वमसतः सत्त्वावगाहित्वान्यतरत्वस्यैव भ्रमरूपत्वेन स्मृतेर्घटादौ तत्कालेऽसति तत्कालासत्त्वावगाहित्वेन न भ्रमत्वमिति प्रघट्टिकार्थः ।। ननु पूर्वानुभवजनितसंस्कार इति । इदमुपलक्षणम् । अनुभवस्य स्मृतिं प्रति समानविषयकत्वेन कारणत्वेन चानुभवाविषयविषयकत्वं स्मृतेर्न सम्भवतीत्यपि बोध्यम् ।। न चैवमिति । अनुभवजन्यत्वमपि नास्तीत्यपि बोध्यम् । संस्कारेणान्यथासिद्धत्वात् । न च संस्कारस्य व्यापारत्वेन व्यापारेण व्यापारिणोऽन्यथासिद्धिर्न सम्भवतीति । तथा सति यागस्यापि स्वर्गं प्रत्यन्यथासिद्धत्वं स्यादिति चेन्न । वैषम्यात् । श्रुत्या यागस्य स्वर्गकारणत्वसिद्धौ तदन्यथाऽनुपपत्त्या व्यापारः कल्प्यते । तत्र व्यापारेण यागस्यान्यथासिद्धिकथनं न सम्भवति । यागस्य स्वर्गकारणत्वाभावे व्यापारस्वरूपस्यैवासिद्धेः । यत्र तु व्यापारत्वेनाभिमतस्य स्वतः सिद्धत्वं तत्रोक्तौ दोषाभावात् । न च प्रकृतेऽप्यनुभवस्य स्मृतिकारणत्वोपपत्त्यर्थं संस्कारस्य कल्पनीयत्वेनान्यथासिद्धत्वकल्पनमयुक्तमिति वाच्यम् । अनुभवस्मृतिकारणत्वोपपत्त्यर्थं संस्कारस्याकल्पनात् । संस्कारोद्बोधेन कदाचित् स्मृत्युत्पत्तौ भवदुक्तकारणत्वानुसन्धानाभावेऽपि तदानीमुत्पन्नस्मृतेः सकारणकत्वानुमानेन स्मृतिकारणतयैव संस्कारसिद्धेः । अनुभवस्य संस्कारकारणत्वं तु कारणान्तरासम्भवरूपहेतुना प्रमाणान्तरेण वा कल्प्यते । अनुभवस्य स्मृतिकारणत्वे प्रमाणं तु नास्त्येवेति बोध्यम् ।। मनोजन्येति । ननु ज्ञानसामान्यस्य मनसः कारणत्वेन तत्र विवादाभावेन मनोजन्यत्वोक्तिरयुक्तेति विशेषकारणस्यैव वक्तव्यत्वादिति चेत् । चक्षुरादीनां चाक्षुषत्वावच्छिन्नं प्रति चक्षुष इव प्रत्यक्षत्वव्याप्यमानसत्त्वावच्छिन्नं प्रति मनस एव विशेषतोऽपि कारणत्वाङ्गीकारात् । न च चक्षुरादिभिःसंयोगादिलक्षणसन्निकर्षसत्त्वात्तेषां कारणत्वसम्भवेऽपि प्रकृते स्मृतिजनने सन्निकर्षाभावात्कथं स्मृतिं प्रति विशेषतः कारणत्वं सम्भवति । मानसत्वावच्छिन्नं प्रति मनसो विशेषतः कारणत्वसत्त्वेऽपि स्मृतेर्विशेषतः कारणजिज्ञासायां तदुक्तिरसङ्गतैवेत्यत आह ।। संस्कारस्त्विति । स्मृतेरपि मानसरूपप्रत्यक्षत्वेन नासङ्गतिरिति भावः । ननु कुत्रापि संस्कारस्य सन्निकृष्टत्वं न दृष्टमित्यत आह ।। चक्षुरिति । न च तत्र सहकारित्वमेव न सन्निकर्षत्वमिति वाच्यम् । ज्ञानस्य सन्निकर्षरूपताया उपनीतभाननिर्वाहाय त्वयाऽप्यङ्गीकृतत्वेन नासङ्गतिरिति भावः । ननु कुत्रापि संस्कारस्य सन्निकृष्टत्वं न दृष्टमित्यत आह ।। चक्षुरिति । न च तत्र सहकारित्वमेव न सन्निकर्षत्वमिति वाच्यम् । ज्ञानस्य सन्निकर्षरूपताया उपनीतभाननिर्वाहाय त्वयाऽप्यङ्गीकृतत्वेन तद्विषयकोपनयत्वावाच्छिन्नं प्रति तद्विषयकत्वेनैव संस्कारसाधारणरूपेणैव कारणताकल्पनस्यैव न्याय्यत्वेन ज्ञानवत्तस्यापि सन्निकर्षत्वा सम्भवात् । मन्मते मानसोपनीतसामान्यस्यापि स्मृतित्वेन ज्ञानजन्यत्वाभावेन संस्कारत्वेनैव हेतुत्वाच्च । उद्बोधकाभावकाले उपनीतभानादेः स्मृतेश्चाभावेनोद्बोधकविशिष्टे संस्कारे एव कारणत्वं वक्तव्यमित्युद्बोधकानामननुगतत्वेनानुगतकार्यकारणभावानुपपत्तिः । विनिगमकाभावेनोद्बोधकविशिष्टे संस्कारे संस्कारोद्बोधके वा कारणत्वं स्यादिति गौरवम् । न च मन्मते ज्ञानस्यैव मानसप्रत्यक्षत्वावच्छिन्नं प्रति कारणत्वाङ्गीकारेण नैष दोष इति वाच्यम् । भवन्मते स्मृतित्वावच्छिन्नं प्रति संस्कारत्वेन कारणताया आवश्यकत्वात्तत्रोक्तदोषस्य सत्वान्मानसत्त्वावच्छिन्नं प्रति ज्ञानत्वेन कारणताया अधिकत्वाच्च । मन्मते मानसप्रत्यक्षत्वस्मृतित्वयोरेकत्वेनोक्तरीत्या कारणाद्बयस्याभावाल्लाघवम् । एवं उक्तेः कारणतारूपत्वेन तस्योभयत्राङ्गीकारेऽपि बाधकाभावादवच्छेदकत्वादेरप्रामाणिकत्वेन गुरुतरकार्यकारणतावच्छेदकत्वादिकल्पनाप्रयुक्तगौरवादेरभावाच्च । स्वनिष्ठज्ञानजननानुकूलशक्त्यभिव्यञ्जकत्वरूपोद्बोधकत्वस्यानुगतत्वेनानुगमस्याप्यभावाच्च । अत एवोद्बोधकविशिष्टसंस्कारस्यैवार्थविशेषविषयकत्वविशिष्टज्ञानजनने शक्तिमत्त्वेन विशेषणीभूतोद्बोधकस्यापि ज्ञाननिष्ठार्थविषयकत्वरूपशक्तिप्रयोजकत्वेन प्रमाणमविरोधत इत्यनुव्याख्याव्याख्यावसरे निपुणतरमुद्बोधकेऽपि प्रामाण्यमुपपादितम् । केवलसंस्कारस्यासन्निकर्षत्वेन तद्रूपसन्निकर्षविशिष्टो मनसि प्रमाव्याप्तत्वरूपपूर्वोक्तप्रमाकरणत्वाभावेऽपि न दोषः । उद्बुद्धसंस्कारविशिष्टमनस एव प्रमाणत्वात् । न च मन्मते उद्बुद्धसंस्कारस्य कारणत्वानङ्गीकारेण लाघवमिति वाच्यम् । ज्ञानकाले उद्बुद्धसंस्कारस्यावश्यकत्वेनान्यत्र क्लृप्तसंस्कारस्यैवात्रापि हेतुकल्पनौचित्यादित्यलं विस्तरेण ।

वाक्यार्थमञ्जरी

।। याथार्थ्यमेवेति । कुतस्तत्साधनमनसः प्रामाण्यमित्येवार्थः । कुत इत्यत आह ।। न हीति । यदा स्मृतिकाले । यादृशो यद्धर्मवान् । कुत इत्यत आह ।। पूर्ववस्थाया इति । स घट इति स्मृतिस्तद्देशसम्बन्धत्वाख्यपूर्वावस्थाविशिष्टघटं विषयीकरोति । तद्देशकालसम्बन्धश्च नेदानीमित्यर्थः । तथात्वं तद्धर्मोपेतत्वम् । अनुभूतविषय इति सप्तम्यन्तम् ।। न चानुभवेनेति । अनुभवकाले पूर्वावस्थायाः सत्त्वेऽपि तन्निवृत्त्याभावादिति भावः ।। अनुभवसमानविषयकेति । अनुभवविषयमात्रविषयको यः संस्कारस्तज्जन्येत्यर्थः । नन्विन्द्रियाणां प्राप्यप्रकाशकारित्वादतीतेन सह मनसः सन्निकर्षाभावात्कथं तेन तज्ज्ञानम् । तथात्वे चाननुभूतस्मृतिरपि किं नोत्पद्यत इत्यत आह ।। संस्कार इति ।। तदर्थेति । स्मृतिविषयातीतार्थेत्यर्थः । नन्वसम्बन्धरूपस्य कथं सन्निकर्षत्वमित्यत आह ।। यथेति । योगीश्वराणामतीतानागतज्ञानं जायते तेन तदिन्द्रियाणां तैः सन्निकर्षान्तरमस्ति । अतो योगजन्यपुण्यमेव सम्बन्धरूपमपि प्रत्यसत्तिः सन्निकर्षस्थानीया इति वाच्यम् । तथाऽत्रापीत्यर्थः । अस्त्वेवं संस्कारसहकृतमनोजन्यत्वं स्मृतेस्तथाऽपि कथमुक्तशङ्कापरिहार इत्यत आह ।। ततश्चेति । संस्कारसहकृतमनसः स्मृतिजनकत्वादित्यर्थः । तथा च विशेष्यपूर्वावस्थासंस्कारसहकृतमनसाननुभूताऽपि निवृत्तिर्विषयीक्रियते । न च निवृत्त्यंशे प्रत्यासत्त्यभावः । सम्बन्धे विशेषणताया एव प्रत्यासत्तित्वात् । फलबलेनाननुभूतैतावन्मात्राविषयत्वेऽतिप्रसङ्गाभावादिति भावः ।। चक्षुराकाशसन्निकर्ष इति । अतिव्याप्तिरित्यनुवर्तते । अर्थशब्देन तत्तदिन्द्रियविषयवाचकेन तत्परिहारः इति भावः ।। पूर्ववदिति । घटपटसन्निकर्ष इत्यर्थः ।। दुष्टार्थानामिति । वाशब्दो व्यवस्थितविकल्पे । दुष्टार्थानामदुष्टेन्द्रियैः सन्निकर्षं व्यावर्तयितुमर्थेष्वदुष्टार्थानां दुष्टेन्द्रियैः सन्निकर्षं व्यावर्तयितुमिन्द्रियेषु निर्दोषत्वग्रहणमित्यर्थः । नन्विन्द्रियार्थयोर्भेदस्येव संयोगस्याप्यनेकत्वेनार्थधर्मिकेन्द्रियसंयोगे समग्र लक्षणस्यातिव्याप्तिरिति चेन्न । इन्द्रियार्थसन्निकर्ष इत्यत्रेन्द्रियधर्मिकार्थप्रतियोगिकसन्निकर्षस्यैव विवक्षितत्वात् ।

श्रीविट्टलभट्ट

ननु रागादीनां तद्रहितस्य स्मृतिसाधनस्य मनसो यथार्थस्मृतिहेतुत्वं वाच्यम् । निर्दुष्टकरणस्य यथार्थज्ञानसाधनत्वान्न च तत्सम्भवति । स्मृतियाथार्थ्यस्यैवाभावेन यथार्थस्मृतिजनकत्वायोगादित्यभिप्रेत्य शङ्कते ।। ननु स्मृतेरिति । यथार्थमेव नास्ति । यथार्थस्मृतिजनकत्वं मनसः सुतरां नास्तीत्येवार्थः । यथार्थराहित्यमुपपादयति ।। न हीति । यदा यस्मिन्काले यादृशोऽर्थो यैः कुण्डलादि धर्मैर्युक्तोऽर्थः स्मर्यते तदा तस्मिन्काले तादृशस्तद्युक्तो न हि भवतीत्यर्थः । कुत एतदित्यत आह ।। पूर्वावस्थाया इति । पुरातनाया अनुभवकालीनायास्तादृशकालकुण्डलादिसम्बन्धरूपाया इत्यर्थः ।। नेति । यतो यस्माज्ज्ञानकाले वस्तुनस्तथात्वं ज्ञानविषयीकृतधर्मयुक्तत्वं ज्ञानस्य यथार्थोपयोगि न भवति तस्मान्नेत्यर्थः । तर्हि याथार्थ्ये किं तत्त्वमिति पृच्छति ।। किन्त्विति । उत्तरमाह ।। यद्देशेति । यद्वस्तु ज्ञानेन यद्देशकालतया यद्देशकालसम्बद्धतया यादृशं यद्धर्मविशिष्टं गृह्यते विषयीकरोति । तद्देशकालयोस्तर्योर्देशकालयोस्तस्य वस्तुनस्तत्त्वं याथार्थ्योपयुक्तमित्यर्थः । अन्यथाऽतीतानागतवस्तुविषयकानुनित्यादेरपि याथार्थ्यं स्यादिति भावः । अस्तु नामेदं याथार्थ्योपयोगि । तथाऽपि किं प्रकृत इत्यत आह ।। स्मृतिश्चेति । स्मृतिस्तु तद्देशे तदाऽनुभवकालेऽसौ देवदत्तादिरर्थस्तद्धर्मविशिष्ट इति तत्पदार्थं विषयीकरोतीत्यर्थः ।। न च तत्रेति । यद्देशकालयोः स्मृतिर्यादृशमर्थं गोचरयति । तत्र देशे तदा तस्मिन्कालेऽसौ स्मृतिगतोऽर्थस्तादृशो न भवतीति न चेत्यर्थः । ननु स्मृतेस्तत्त्वं च तदाऽसौ तादृश इत्येव स्मारकत्वे हि याथार्थ्योपयोगिरूपसम्पत्त्या याथार्थ्यं सिध्येत् । न च स्मृतिस्तथा भवितुमर्हति । सामग्य्रभावादित्यभिप्रेत्य शङ्कते ।। नन्विति । परिहरति ।। मैवमिति । यदि संस्कारमात्रजन्यत्वं संस्कारेतराकारणकत्वे सति संस्कारजन्यत्वं स्मृतेरङ्गीकुर्मस्तर्ह्येतन्निवृत्तपूर्वावस्थितयाऽर्थाविषयीकारित्वं भवेत्स्यात् । न चैवमेवं संस्कारमात्रत्वाभ्युपगमो न चेत्यर्थः । तर्हि केन कारणेन जायत इति जिज्ञासायामाह ।। मनोजन्येति । मनोरूपेन्द्रियजन्येत्यर्थः । शब्दलिङ्गज्ञानाकरणकस्य जन्यस्येन्द्रियजन्यत्वनियमादिति भावः । न च मनःकरणकत्वे मानाभावः । लिङ्गेन वन्हिं जानामीत्यनुभवस्य वन्ह्यनुमितेर्लिङ्गकरणकत्वे मानत्ववच्चक्षुषा घटं जानामीत्यनुभवस्यायं घट इति ज्ञानस्य चक्षुःकरणकत्वे मानत्ववच्च बालं मुकुन्दं मनसा स्मरामीत्यनुभवस्य

कायेन प्रणमेद्विष्णुं वाराहं नाम कीर्तयेत् ।

मनसा संस्मरेद्विष्णुं भक्त्या भक्तजनप्रियम् ।

इत्याद्यागमस्याद्यापि तामेव मनसा स्मरामीति लोकव्यवहारस्य च तत्र मानत्वादिति । ननु स्मृतेर्मनःकारणत्वे संस्कारजम्यत्वमेव न स्यात् । अथ सन्निकृष्टमनसैव स्मृतिजन्यत्वसम्भवादित्यत आह ।। संस्कारस्त्विति । मनसो मनोरूपेन्द्रियस्य तदर्थसन्निकर्षरूप एव । तैः पूर्वानुभूतैरर्थैस्तस्य मनसोऽर्थैर्वा प्रत्यासत्तिभूत एव न तु स्वातन्त्र्येण कारणकमित्यर्थः । पूर्वानुभूतपदार्थसन्निकर्षत्वेन सहकारित्वाभ्युपगमान्नोक्तचोद्यावकाश इति बोध्यम् । नन्विन्द्रियार्थात्सम्बन्धरूपस्य संस्कारस्य कथं सन्निकर्ष इत्यत आह ।। यथा योगीन्द्रियाणामिति । तदर्थसन्निकर्ष इत्यनुवर्तते । असम्बन्धरूपोऽपि वियोगजो धर्मो योगीन्द्रियाणां तदर्थैः सन्निकर्षस्तदर्थन्द्रियार्थासम्बन्धरूपोऽपि संस्कारः सन्निकर्षस्थानीयत्वात्संस्कार इति भावः । उक्तं च सुधायाम् । संस्कारसन्निकर्षस्थानीयतायाऽङ्गीकारादिति । प्रमाणलक्षणटीकायां च संस्कारस्तत्र सहकारिमात्रमित्युक्तम् । अत एव संस्कारसहकृतस्यापि कथमनुभूतातीतपूर्वावस्थाविषयस्मरणजनकत्वमतिप्रसङ्गात् । कथं वा साक्षात्स्मरणस्य प्रत्यक्षफलत्वमित्यत उक्तम् ।। को दोष इति । किं शब्द आक्षेपे । न कोऽपि दोष इत्यर्थः । स्मृतेः पूर्वावस्थाविषयकत्ववन्निवृत्तविशेषकत्वस्यापि साक्षिसिद्धत्वादनुभूतपूर्वावस्थानिवृत्तत्वस्यापि स्मृतिविषयतायां तत्र नातिप्रसङ्गः । न च स्मृतेरसाक्षात्काररूपप्रतीतितज्ज्ञानकरणकज्ञानत्वात्स्वप्नवन्मानसत्वाच्च स्मरणत्वसाक्षात्कारासिद्धेः । अनुमितिशाब्दज्ञानयोर्ज्ञानरूपकरणजन्यतायां नानुमितिशब्दत्वं वा तन्त्रमननुगमात् । नाप्यनुमितिशब्दज्ञानान्यत्वं गौरवात् । किन्तु परो वा साक्षात्कारातिरिक्तज्ञानत्वं वा तन्त्रमित्यभ्युपेयम् । सति सम्भवे त्यागायोगात् । अन्यथा क्वचिदपि प्रयोजकानभ्युपगमप्रसङ्गात् । तथा च स्मरणस्यासाक्षात्कारत्वे ज्ञानपरणत्वापत्तिः प्रयोजकमभ्युपेत्य प्रयोज्यानभ्युपगमस्य व्याहतत्वात्पञ्चहेतूच्छित्तिप्रसङ्गान्नाद्यो हेतुरप्रयोजकः । नापि द्वितीयो हेतुरप्रयोजकः । चाक्षुषत्वादेरिव मानसत्वस्यापि साक्षात्कारव्याप्यत्वात् । न च द्वितीयो हेतुरसिद्धः । लिङ्गेन वह्निं जानामीत्यनुभवाद्वन्हिज्ञानस्य लैङ्गिकत्वव्यवच्छेदेन धर्माधर्मादिकं जानामीत्यनुभवतज्ज्ञानस्य शाब्दवद्योऽहं चक्षुषा घटमन्वभूवं सोऽहं त्वं वा घटमनुभवामीत्याद्यनुभवात्तदनुभवस्य चाक्षुषत्वस्पार्शनत्वादिवच्च योऽहं चक्षुषा स्त्रियमन्वभूवं सोऽहं मनसा तामेव स्मरामीत्यनुभवात्स्मरणस्य मानसत्वसिद्धेः । अन्यथोदाहृतानुभवस्यापि चाक्षुषत्वाद्यविषयतापातात् । किञ्चेन्द्रियकरणत्वेन स्मरणस्य साक्षात्कारत्वमभ्युपेयम् । असिद्धं तस्येन्द्रियकरणकत्वमिति चेन्न । परिशेषानुमानात्तत्सिद्धेः । तथा हि । ज्ञानस्य प्रत्यक्षमनुमानं शब्दश्चेति त्रयं करणमित्यविवादम् । तथा च क्रियात्वेन रूपादिप्रतीतिवत्स्मरणस्य करणजन्यत्वे वाच्ये लिङ्गशब्दानुसन्धानव्यतिरेकेणापि जायमानत्वात् स्मरणस्य नाऽनुमानमागमश्चाकरणं किन्तु प्रत्यक्षमिन्द्रियमेव करणमभ्युपेयम् । ज्ञानाकारके रूपाद्यभावे क्लृप्तत्वात् । न तु संस्कारः करणमक्लृप्तत्वात् । अन्यथा क्लृप्तहानाक्लृप्तकल्पनाप्रसङ्गात् । ननु संस्कारस्य स्मृतिसाधनत्वे कथं संस्कारः सन्निकर्षः स्यादिति चेन्न । परिशेषाच्चक्षुरिन्द्रियस्य रूपादिप्रतीतिकरणसिद्धावसन्निकृष्टस्य चक्षुरादेस्तत्करणत्वासम्भवाच्चक्षुरादिसंयोगस्य सन्निकर्षत्वाभ्युपगमवदिन्द्रियस्य स्मृतिसाधनत्वसिद्धौ बाह्येन्द्रियव्यापाराभावेऽपि जायमानस्य स्मरणस्य परिशेषादन्तरिन्द्रियकरणकत्वसिद्धावसन्निकृष्टस्य मनसस्तत्साधनत्वासम्भवेन संस्कारस्य सन्निकर्षत्वाङ्गीकारसम्भवात् । सन्निकर्षत्वेन संस्कारकरणकत्वं च स्मरणस्य साक्षात्कारत्वसाधकमेव न प्रतिकूलम् ।। न च स्मरणस्य साक्षात्कारत्वे घटादेरिव धर्मादेरप्यैन्द्रियकत्वापत्तिः । स्मरणसाधनमनोरूपेन्द्रियविषयत्वादिति वाच्यम् । योगजधर्मसहकृतेन्द्रियविषयत्वेऽपीन्द्रियविषयत्व संस्कारसहकृतेन्द्रियविषयत्वेनातीन्द्रियविषयत्वोपपत्तेः एतेन स्मरणस्य साक्षात्कारत्वाङ्गीकारे धर्मादेरपि प्रत्यक्षत्वाभ्युपगमविरोधप्रसङ्ग इति परास्तम् । लौकिक साक्षात्कारस्य योगिसाक्षात्कार इव स्मृतावनभ्युपगमेन घटादितुल्यतया प्रत्यक्षत्वस्य तत्रानभ्युपगमात् । न च स्मरणस्य मानससाक्षात्कारत्वे तत्र साक्षात्कारत्वस्य प्रत्यक्षतापत्तिः । इष्टापत्तेः । संस्काराकरणके धर्मादिज्ञानेऽनुभवत्वशब्दत्वादिवदज्ञानकरणकानुमिति शाब्दज्ञाने व्यावृत्तस्य ज्ञानकरणकम् । ज्ञानसाधारणस्येन्द्रियजन्यताप्रयोजकस्य साक्षात्कारस्य स्मृतौ साक्षिसिद्धत्वात् । न चात्र विवादः । मनसा स्मरामीत्यनुभवस्यैव स्मृतौ च मानसत्वसाक्षात्कारत्वगोचरत्वात् । स्मरणं मानससाक्षात्कार इति व्यवहारस्तु व्यवजिहीर्षाभावादेव । सत्यां च व्यवजिहीर्षायामस्त्येव स्मरणम् । मानससाक्षात्कार इति व्यवहारः । अन्यथा लिङ्गेन वह्निं जानामीत्यनुभवस्यानुमितित्वानुभवत्वगुणत्वाविषयकस्य शब्देन धर्माधर्मादिकं जानामीत्यनुभवस्याशाब्दत्वानुभवत्वगुणत्वाविषयकत्वस्य च त्वचा घटं स्पृशामीत्यनुभवस्य स्पार्शनसाक्षात्कारत्वानुभवत्वगुणत्वाविषयकत्वस्य चापातात् । तस्माद्यथा शब्दकरणके संस्कारकरणके धर्मादिज्ञाने शब्दत्वमनुभवत्वं च साक्षिप्रत्यक्षसिद्धम् । तथा मनोरूपेन्द्रियकरणके स्मरणे मानसत्वं साक्षात्कारत्वं च साक्षिप्रत्यक्षसिद्धमिति स्मृतिर्मानससाक्षात्कार इति । तदुक्तं सुधायाम् । ‘‘मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकमित्यनुव्याख्यान व्याख्यानावसरेऽसाक्षात्काररूपत्वान्न प्रत्यक्ष फलमित्यत उक्तम् ।। विज्ञानमिति’’ । साक्षात्कार इत्यर्थः । स्मरणस्य मानसत्वं साक्षात्कारत्वं च कुत इत्यत आह ।। तच्चेति ।। तदिति मानसत्वं च शब्दात्साक्षात्कारत्वं च परामृश्यत इति । नन्विन्द्रियाणां वर्तमानग्राहित्वादन्तरिन्द्रियजन्या स्मृतिः कथमतीतकालसम्बन्धितामर्थस्य विषयीकुर्यादित्यत आह ।। वर्तमानविषयाण्यपीति । तत्र दृष्टान्तमाह ।। संस्कारसहकृतानीति । प्रत्यभिज्ञासाधनानीत्यनन्तरमिन्द्रियाणीत्यनुवर्तनीयम् । मनसः संस्काररूपसहकारिसामर्थ्यात्तद्युक्तमिति भावः । स्वरूपेन्द्रियस्येव प्राकृतेन्द्रियाणां न ज्ञानव्यञ्जकत्वं न ज्ञानेन्द्रियकत्वं किन्तु तज्जनकत्वेनैवेत्याह ।। प्राकृतेन्द्रियाणीति । मनोवृत्तिज्ञानं मनोवृत्तिरूपं ज्ञानमित्यर्थः । प्रत्यक्षलक्षणे विशेषणकृत्यमाह ।। तत्रेति । प्रत्यक्षलक्षणवाक्य इत्यर्थः ।। चक्षुराकाशसन्निकर्ष इति । अतिव्याप्तिरित्यनुवर्तते । यद्यप्यर्थपदोपादानेऽपि तत्रातिव्याप्तिरेव । आकाशशब्दार्थस्याव्याकृताकाशस्य स्वरूपेन्द्रियविषयत्वेनार्थत्वस्य तत्र सत्त्वात् । न चार्थशब्देनेन्द्रियविषया गृह्यन्त इत्यत्रेन्द्रियपदं प्राकृतेन्द्रियपरमिति वाच्यम् । चक्षुरादेर्गन्धादिसन्निकर्षे विशिष्टलक्षणस्यातिव्याप्त्यापातात् । साक्षिसुखादिसन्निकर्षेऽतिव्याप्तिप्रसङ्गाच्च । तथाऽप्यर्थ शब्देनेन्द्रियविषया गृह्यन्त इत्यत्रेन्द्रियपदं न तत्तदिन्द्रियपरम् । अत एव स्वसन्निकृष्टमिन्द्रियं प्रत्यक्षमिति वक्ष्यति । तथा चाव्याकृताकाशस्य चक्षुरर्थत्वाभावान्न चक्षुराकाशसन्निकर्षेऽतिव्याप्तिरिति बोध्यम् । यद्वाऽऽकाशपदं भूताकाशपरम् । तच्चातीन्द्रियमित्यर्थपदोपादानेन चक्षुराकाशसन्निकर्षेऽति व्याप्तिपरिहार इत्यवगन्तव्यम् ।। पूर्ववदिति ।। व्याप्तिरिति । पूर्ववत्सन्निकर्षः प्रत्यक्षमित्युक्ते यथा घटपटसन्निकर्षेऽतिव्याप्तिस्तत्सन्निकर्षः प्रत्यक्षमित्युक्तेऽपि तत्रातिव्याप्तिरेव न तत्रातिरिक्तः कश्चिद्दोषो मृग्य इत्यर्थः ।। दुष्टार्थानामिति । अदुष्टेन्द्रिये दुष्टार्थानामिति शेषः । वाशब्दो व्यवस्थितविकल्पार्थः । तथा च दुष्टार्थानामदुष्टेन्द्रियैरदुष्टार्थानां दुष्टेन्द्रियैर्वा सन्निकर्षं व्यावर्तयितुमुभयत्रार्थेन्द्रिये च क्रमेण निर्दोषत्वोपादानमित्यर्थः । नन्विन्द्रियार्थयोर्भेदस्येवेन्द्रिय सन्निकर्षस्य संयोगस्यानेकत्वेनार्थधर्मिकैन्द्रिय सन्निकर्षे विशिष्टलक्षणस्यातिव्याप्तिः । न च सोऽपि लक्ष्यं वेति वाच्यम् । अर्थस्य घटादेरिव तद्धर्मिकेन्द्रियसंयोगस्यापि यथार्थज्ञानहेतुत्वस्यैवाभावेन तत्साधनत्वस्य सुतरामभावात् । अनुप्रमाणविशेषप्रत्यक्षत्वायोगादिति चेन्न । प्रत्यक्षलक्षणवाक्ये निर्दोषयोरर्थेन्द्रिययोः सन्निकर्षोऽर्थरूपेन्द्रियधर्मिकः संयोगः प्रत्यक्षमिति विवक्षितत्वेनोक्तचोद्यानवकाशात् । अत एव क्वचित्तु धर्मिप्राधान्यविवक्षया स्वस्वविषयसन्निकृष्टमिन्द्रियं प्रत्यक्षमुच्यत इति वक्ष्यतीति । अत्रापीन्द्रियकरणधर्मातिरिक्त प्रत्यक्षरूपकरणेऽपीन्द्रियं करणधर्मीत्यर्थः । धर्मिरूपकरणं वाऽवान्तरव्यापारवद्भवति । तस्यावान्तख्यापारवत्त्वमविकलमिति भावः ।