प्रमाणपद्धतिः

(३८) प्रमाणपद्धतिः

।। १४ ।। अननुभाषणम् । वादिनोक्तस्य प्राश्निकैर्विज्ञातार्थस्य वादिना परिषदा वा पुनरनूद्य दत्तस्योच्चारणयोग्यस्य स्वाज्ञानमनाविष्कुर्वता कथामविच्छिन्दता यदप्रत्युच्चारणं तदननुभाषणम् । तत्पञ्चविधम् । यत्तदित्याद्यनुवादो दूष्यैकदेशानुवादः केवलं दूषणोक्तिरन्यथानुवादस्तूष्णीं भावश्चेति । तत्राद्यत्रयं न्यूनम् । चतुर्थमसङ्गतम् । पञ्चममनुक्तिः ।

जयतीर्थविजय

।। वादिनेति । अनाविष्कुर्वताऽप्रकटयता ।। अप्रत्युच्चारणमिति । नञः पर्युदासवृत्त्या प्रत्युत्तरविरोधिवचनमित्यर्थः । तदुक्तं वरदराजेन ।

ज्ञातार्थं प्राश्निकैर्वाक्यैस्त्रिरुक्तं नानुभाषते ।

योऽनुद्भाव्य स्वमज्ञानं तस्यैवाननुभाषणमिति ।

अत्र प्राश्निकैर्विज्ञातार्थस्येत्यविज्ञातार्थनिरासः । अज्ञानमनाविष्कुर्वतेत्यज्ञाननिरासः । कथामविच्छिन्दतेति विक्षेपनिरासः । इति विशेषणानि तु निग्रहस्थानत्वोपपादकानि । न च पञ्चममज्ञानमप्रतिभा वा । ज्ञातार्थस्य स्फुरदुत्तरस्यापि सभाक्षोभादिना तूष्णींभावोपपत्तेः । तथा चाननुभाषणमेव निर्णीतं नान्यदिति भावः।

भावदीपः

।। वादिनोक्तस्येति । अनुक्तिनिमित्ताप्रत्युच्चारणव्यावृत्तये वादिनोक्तस्येत्युक्तम् । अविज्ञातार्थकस्य मनोव्यासङ्गनिमित्ताप्रत्युच्चारणस्यातितीव्रोच्चारितस्याज्ञाननिग्रहस्थानस्य विक्षेपस्य च व्यावृत्तये क्रमात्प्राश्निकैर्विज्ञातार्थकस्येत्यादि षष्ठ्यन्तानि त्रीणि तृतीयान्ते द्वे चेति पञ्च विशेषणानि ।

श्रीविजयीन्द्रतीर्थ

।। वादिनेति । प्राश्निकैरित्यनेनाविज्ञातार्थव्यवच्छेदः । वादिना परिषदेत्युच्चारणेऽति दोषत्वोपपादनाय । स्वाज्ञानमित्यनेनाज्ञानस्य कथामित्यनेन विक्षेपस्य निरासः । अन्तर्भावविशेषं वक्तुं तद्भेदमाह ।। तदिति ।। तत्रेति । विशेष्यानुवादस्यैव वक्तव्यत्वेन यदित्यनुवादस्य सकल दूष्यानुवादस्यावश्यकत्वेनैकदेशानुवादस्य दूषणार्थं दूष्यानुवादस्यावश्यकत्वे केवलदूषणोक्तेश्च न्यूनत्वम् । अन्यथाऽनुवादे आकाङ्क्षाविरहः । तूष्णींभावेऽनुक्तेरेव दोष इत्यर्थः ।

श्रीवेदेशभिक्षु

प्राश्निकैरित्यनेनाविज्ञातार्थव्यवच्छेदः । वादिनेति परिषदेत्युच्चारणेति च दोषत्वोपपादनाय स्वरूपकथनं न व्यावर्तकम् । स्वाज्ञानमनाविष्कुर्वतेत्यनेनाज्ञानस्य व्यवच्छेदः । तत्राज्ञानाविष्करणस्य वक्ष्यमाणत्वात् । कथामविच्छिन्देत्यनेन विक्षेपस्य निरासः । अन्तर्भावकथनसौकर्याय तद्विभागमाह ।। तदिति ।

अभिनवामृतम्

।। वादिनोक्तस्येति । यदप्रत्युच्चारणं तदननुभाषणमित्येतावन्मात्रोक्तौ कथाबाह्योक्तस्याप्रत्युच्चारणस्याननुभाषणत्वं विज्ञायेत । तन्मा विज्ञायीति वादिनोक्तस्येत्युक्तम् । वादिनोक्तस्याप्रत्युच्चारणं त्वपार्थकाप्रत्युच्चारणे गतम् । अतः प्राश्निकैर्विज्ञातार्थस्येत्युक्तम् । तावदप्यनूद्य दत्तस्याप्रत्युच्चारणे गतम् । अतो वादिना परिषदावापुनरनूद्य दत्तस्येत्युक्तम् । तावताऽप्यनूद्यांशस्याप्रत्युच्चारणे गतम् । अत उच्चारणयोग्यस्येत्युक्तम् । तदर्थस्तु दूषणायानुवादयोग्यत्वम् । कथमन्योऽपि छिन्नं वदतीति विक्षेपेऽतिव्याप्तिवारणायाज्ञानेऽतिव्याप्तिवारणाय ज्ञानमनाविष्कुर्वतेति ।

आदर्शः

अन्तर्भावसौकर्यायाननुभाषणं निरूपयति ।। वादिनेति ।। आद्यत्रयं न्यूनमेवेति । स्वस्मिन्प्रकृतार्थज्ञानानुमापकयावत्पदोच्चारणाभावस्यैव न्यूनतापदार्थत्वेन यत्तदित्यनुवादस्य तज्ज्ञानाभावेऽपि सम्भवेन न्यूनतैवेत्यर्थः ।। चतुर्थमसङ्गतमिति । न चान्यथावादत्वेन निग्रहस्थानत्वं कुतो नास्तीति चेत् । तदुक्तवाक्यात्प्रतिवाद्यर्थप्रतिपादकवाक्यप्रयोगस्यैवान्यथानुवादरूपत्वेन दूषणोक्त्यादेरपि तादृशत्वेन तस्य निग्रहाप्रयोजकत्वात् । अनुवादार्थं प्रवृत्तपुरुषकर्तृकत्वस्यापि हेतुविशेषत्वेन दूषणोक्त्यादेर्वारणेऽप्यसङ्गतेरेव प्रथममुपस्थितेः सैव निग्रहस्थानमनुवादार्थप्रवृत्तेरनुमेयत्वात् । तद्वाक्यार्थमजिज्ञासितत्वस्य मध्यस्थादीनामध्यक्ष सिद्धत्वादिति ।

वाक्यार्थमञ्जरी

।। यत्तदिति । वाद्युक्तस्य यत्तच्छब्दाभ्यामेवानुवाद इत्यर्थः ।। दूष्यैकदेश इति । दूष्यमध्ये एकदेश इत्यर्थः । केवलमनुवादं विना । अन्यथा वाद्युक्त्यपेक्षया ।

श्रीविट्टलभट्ट

।। वादिनोक्तस्येति । अप्रत्युच्चारणमनूद्य प्रत्युत्तरानुक्तिरित्यर्थः । अविज्ञातार्थव्यवच्छेदाय प्राश्निकैर्विज्ञातार्थस्येति विशेषणम् । वादिना परिषदा वाऽनूद्य दत्तस्येत्येतदुच्चारणयोग्यस्य तस्योपपादकम् । वादिप्राश्निकयोरन्यतरेणाननूदितत्वेनोच्चारणयोग्यस्य वादिनोक्तस्य यत्प्रत्युच्चारणं तद्य्ववच्छेदायोच्चारणयोग्येति विशेषणम् । स्वज्ञानमनाविष्कृतमित्येतदज्ञानव्यावृत्त्यर्थमुक्तम् । विक्षेपव्यावृत्त्यर्थं कथायामविच्छिन्दतेति विशेषणमुपात्तम् । अननुभाषणस्य सर्वस्यैकत्रान्तर्भावाभावादनेकेष्वन्तर्भाव उक्तः । तद्विभागमाह ।। तत्पञ्चविधमिति । यत्तदित्याद्यनुवादो यत्तदितिरूपोऽनुवाद इत्यर्थः । शब्दो नित्य इत्यादिनाऽनुवाद आदिपदव्यावृत्त्यर्थम् । दूष्यैकदेशानुवादो दूष्यैकदेशमात्रस्यानुवाद इत्यर्थः । केवलं दूषणोक्तिर्दूष्यानुवादमन्तरेण दूषणाभिधानमित्यर्थः ।। तत्राद्यत्रयमिति । तत्र पञ्चसु प्रकारेषु यत्तदित्यनुवादः । केवलं दूषणोक्तिरित्याद्यत्र यमवश्यवक्तव्यावचनरूपानुक्तिरित्यर्थवाद्युक्तस्य दूषणार्थं प्रतिवादिनाद्यनुक्तानुवादस्यैव कार्यतया प्रकारान्तरेणानुवादस्य प्रकृतोपयोगाभावादसङ्गतत्वमिति बोध्यम् ।। पञ्चममनुक्तिरिति । तूष्णींभावो वक्तव्यस्यावचनरूपानुक्तिरित्यर्थः ।