) प्रमाणपद्धतिः
अनुप्रमाणभेदाः प्रत्यक्षलक्षणम्
(२३) प्रमाणपद्धतिः
त्रिविधमनुप्रमाणम् । प्रत्यक्षमनुमानमागमश्चेति । तत्र निर्दोषार्थेन्द्रिय सन्निकर्षः प्रत्यक्षम् । अर्थशब्देनेन्द्रियविषया गृह्यन्ते । तेषां दोषाः । अतिदूरत्वमतिसामीप्यं सौक्ष्म्यं व्यवधानं समानद्रव्याभिघातोऽनभिव्यक्तत्वं सादृश्यं चेत्यादयः । तेषु सत्सु क्वचिज्ज्ञानमेव न जायते । क्वचिद्विपरीतज्ञानमुत्पद्यते ।
जयतीर्थविजय
।। निर्दोषेति । निर्दोषे च ते अर्थेन्द्रिये च तयोः सन्निकर्षः प्रत्यक्षमित्यर्थः । नन्वर्थशब्दस्य पूर्वोक्तरीत्या ज्ञेयपरत्वेऽतीन्द्रियवाय्वादिना चक्षुस्सन्निकर्षस्यापि लक्ष्यत्वापत्तौ तत्र यथार्थ्यज्ञानसाधनत्वरूपानुप्रमाणलक्षणाभावादव्याप्तिः स्यादित्यत आह ।। अर्थशब्देनेति । के तेषां दोषा इत्यत आह ।। तेषामिति । सौक्ष्म्यमणुपरिमाणवत्त्वमित्यर्थः । नन्वतीन्द्रियत्वं सौक्ष्म्यम् । इन्द्रियविषया गृह्यन्त इत्यनेन विरोधापत्तेः । ननु कथमतिदूरस्थत्वादीनामर्थदोषत्वमित्याशङ्क्य दोषलक्षणसद्भावादिति वक्तुं दोषलक्षणं तेषु दर्शयति ।। तेषु सत्स्वित्यादिना । इन्द्रियग्रहणयोग्यविषयक सम्यग्ज्ञानप्रतिबन्धकत्वमिन्द्रियार्थदोषलक्षणम् । तच्च ज्ञानमात्रप्रतिबन्धकत्वाद्वा तदप्रतिबन्धकत्वेऽपि संशयविपर्ययजनकत्वाद्वा सम्भवतीति भावः ।
भावदीपः
तत्र तेषु मध्ये ।। निर्दोषेति । अर्थाश्चेन्द्रियाणि चार्थेन्द्रियाणि । निर्दोषाणामर्थानां निर्दोषाणामिन्द्रियाणां च सन्निकर्षः । समुदायाशयमेकवचनम् । स प्रत्यक्षमुच्यत इत्यर्थः । पदानां कृत्यानि स्वयमेव वक्ष्यति । अर्थपदस्यानेकार्थत्वादत्राभिमतमर्थमाह ।। अर्थशब्देनेति । अन्यथाऽऽकाशादिना चक्षुरादेः सन्निकर्षेऽतिव्याप्त्यापत्तेरिति भावः ।। समानद्रव्याभिघात इति । क्षीरनीरादाविव सदृशद्रव्यान्तरमेलनमित्यर्थः । अनभिव्यक्तत्वमन्धकाराद्यावृतत्वम् । सादृश्यं द्रव्यान्तरेण सादृश्यमित्यर्थः । आदिपदेनालातभ्रमणप्रबलद्रव्याभिभवादिग्रहः । कथमेषां दोषतेत्यत आह ।। तेषु सत्स्विति । एतेषामन्यतमे सतीत्यर्थः ।
श्रीविजयीन्द्रतीर्थ
प्रमोत्पत्तिनियतत्वमनुप्रमाणसामान्यलक्षणमभिप्रेत्याह ।। निर्दोषेति । निर्दोषेत्युपलक्षणम् । स्वेतरसकलभावभूतकारण सहकृतेत्यपि द्रष्टव्यम् । न चैवं स्वेतरसकलकारणसहितमिन्द्रियमपि स्यात् ।। इष्टत्वादिति ।। व्यवधानमिति । व्यवधायकमित्यर्थः ।। समानाभिघात इति । बलवत्सजातीयसम्बन्ध इत्यर्थः । अनभिव्यक्तं स्वस्वाभिव्यक्त्यसाधारणरहितमित्यर्थः । आदिपदादसाधारणपित्तादितद्दोषपरिग्रहः ।
श्रीवेदेशभिक्षु
अनुप्रमाणविभागमाह ।। त्रिविधमिति । न्यूनाधिकसङ्ख्यान्यतमान्तर्भावाभावज्ञापनार्थोऽयं विभागः । करणत्रैविध्यकथनेन तत्फलरूपकेवलप्रमाणत्रैविध्यमप्यनुमतमिति द्रष्टव्यम् । प्रायेणासन्नाव्यवहितवर्तमानकतिपयार्थग्राहकं प्रत्यक्षमनासन्नातीतानागतव्यवहितार्थगोचरमनुमानं स्वातन्त्र्येणाशेषार्थविषय आगम इत्यर्थग्रहणक्रमेणोद्दिशति ।। प्रत्यक्षमिति । अर्थं प्रति स्थितमक्षं प्रत्यक्षम् । प्रमाणान्तरानुसारेणैवार्थ प्रमापकमनुमानं सम्यगतीन्द्रियार्थावगमक आगम इति संज्ञानिरुक्त्यैव लक्षणसिद्धौ प्रत्यक्षे तस्यैवार्थस्य स्पष्टीकरणार्थमनुमानादौ ृङ्गिग्राहकतया तज्ज्ञानार्थं पुनर्लक्षणारम्भः । तत्र प्रत्यक्षलक्षणमाह ।। निर्दोषेति । निर्दोषत्वमर्थेन्द्रिययोर्विशेषणम् । तत्कृत्यं चाग्रे स्वयमेव विभावयिष्यति । चक्षुराकाशसन्निकर्षेऽतिव्याप्तेराह ।। अर्थशब्देनेति । अतिदूरत्वं मेर्वादौ । अतिसामीप्यं चक्षुःपक्ष्मादौ । सौक्ष्म्यं किञ्जिद्दूरस्थकेशादौ । व्यवहितत्वं कुड्यादिव्यवहितघटे । समानाभिघातो बलवत्सजातीयसम्बन्धः क्षीरनीरादौ । अनभिव्यक्तत्व स्वाभिव्यञ्जकराहित्यमन्धकारस्थघटादौ । रजतादिना चाकचक्यादिसादृश्यं शुक्त्यादौ च दोषत्वेन प्रसिद्धमिति द्रष्टव्यम् । आदिपदेन प्रतिबद्धत्वं गृह्यते । मणिमन्त्रादिदशायां त्वक्स्पृष्टेऽपि वह्नावौष्ण्यानुपलम्भात् । नन्वेतेषां दोषत्वं न ज्ञानाजनकत्वं सादृश्यादौ विपरीतज्ञानजनकेऽव्याप्त्यापत्तेः । नापि विपरीतज्ञानजनकत्वं ज्ञानाजनकेऽतिदूरत्वादावव्याप्त्यापत्तेरित्यत आह ।। तेष्विति । तथा च प्रमाप्रतिबन्धकत्वमेव दोषत्वम् । तत्प्रतिबन्धकत्वं च द्वेधा तदजनकत्वेन तद्विपरीतकार्यजनकत्वेनेत्युक्तं भवति ।
अभिनवामृतम्
अर्थशब्दस्य ज्ञेयवाचित्वादाकाशेन्द्रियसन्निकर्षेऽति व्याप्तिरित्यत आह ।। अर्थशब्देनेति ।। समानाभिघात इति । नक्षत्राणां सूर्यतेजोऽभिघातः समानाभिघात इत्यर्थः ।। सादृश्यं चेत्यादय इति । किमुदाहरणम् । शुक्तिगतं चाकचक्यं भ्रमहेतुत्वात् । ननु नेदमुदाहरणं युक्तम् । शुक्तिरियमिति ज्ञानं हेतुसन्निकर्षेऽव्याप्तिप्रसङ्गात् । रजतसादृश्यरूपदोषस्य शुक्तौ सदातनत्वेन निर्दोषार्थेन्द्रिय सन्निकर्षत्वाभावादिति चेत् । न ब्रूमो वयं सादृश्यं व्यवधानमिव स्वतन्त्रदोष इति येनोक्तदोषः स्यात् । किं नाम सम्यक् सन्निकर्षाभावेनाधिष्ठानयाथात्म्यज्ञानाभावे आरोपोपयोगिस्मृतिहेतुत्वाद्दोष इति । एवं च शुक्तिरिति ज्ञानहेतुसन्निकर्षे निर्दोषार्थेन्द्रियसन्निकर्षत्वस्य भावान्नाव्याप्तिः । अतिदूरत्वादयः केषाञ्चिदर्थदोषा अपि गृध्रादीनामदोषा इति बोध्यम् ।
श्रीविट्टलभट्ट
अनुप्रमाणविभागमाह ।। त्रिविधमिति । न्यूनाधिकसङ्ख्यासङ्ख्येयाभावान्तर्भावज्ञापनार्थोऽयं विभागः । तिस्रो विधा उद्दिशति ।। प्रत्यक्षमिति । प्रायेणासन्नाव्यवहितवर्तमानकतिपयार्थग्राहकं प्रत्यक्षम् । पारतन्त्र्येणानासन्नातीतानागतव्यवहितार्थ गोचरमनुमानम् । स्वातन्त्र्येणाशेषार्थविषय आगम इत्यर्थग्रहणक्रमेणोद्देशक्रम इति बोध्यम् । उद्देशानुसारेण प्रत्यक्षलक्षणमाह ।। तत्रेति ।। प्रत्यक्षानुमानागमेषु निर्दोषयोरर्थेन्द्रिययोः सन्निकर्षः सम्बन्धः प्रत्यक्षमित्यर्थः। अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वित्यभिधानादर्थशब्दस्याभिधेयादिवाचित्वभ्रमवारणायार्थमाह ।। अर्थशब्देनेति । अन्यथा चक्षुरीश्वरसन्निकर्षेऽतिव्याप्तिः स्यादिति बोध्यम् । अर्थेन्द्रिययोर्निदोषत्वमुक्तं के तत्रार्थदोषा इति जिज्ञासायामाह ।। तेषां दोषा इति । तेषां विषयाणां दोषा विषयनिष्ठाः प्रमाप्रतिबन्धका इत्यर्थः । अतिदूरत्वं चक्षुरादिकरणापेक्षया ज्ञानापेक्षया वाऽतिसमीपस्थमित्यर्थः । सौक्ष्म्यं महत्त्वे सति न्यूनपरिमाणवत्त्वमित्यर्थः । व्यवधानं चक्षुरादिकरणापेक्षया वा कुड्यादिव्यवहितत्वमित्यर्थः । समानाभिघातः सदृशवस्तुसम्बन्धः । अनभिव्यक्तत्वमन्धकाराद्यावृतत्वमित्यर्थः। सादृश्यं गुणादिवद्धर्मविशेषः । आदिपदेनात्र भ्रमादिकं गृह्यते । तेषां दोषत्वमुपपादयति ।। तेषु हि सत्स्विति । अतिदूरस्थत्वादिषु सत्सु क्वचित्कस्मिंश्चिद्विषये ज्ञानमेव न जायते । एवकारेण तत्प्रमा नोत्पद्या इति ज्ञापयति । क्वचिच्च कस्मिंश्चिद्विषये विपरीतज्ञानं मिथ्याज्ञानमुत्पद्यत इत्यर्थः ।