प्रमाणपद्धतिः
(१०) प्रमाणपद्धतिः
सादृश्यज्ञानसाधनमुपमानम् । तत्र तेनायं सदृशः सदृशाविमावित्यादि वा ज्ञानं प्रत्यक्षजम् । गोगवयौ सदृशाविति वाक्यजं त्वागम एव । गृह्यमाणे स्मर्यमाणसादृश्यं दृष्ट्वा स्मर्यमाणे यद् गृह्यमाणसादृश्यं प्रत्येति तदनुमानमेव । नन्वनुभूयमानगतत्वेन प्रतीयमानं सादृश्यं करणम् । स्मर्यमाणगतं प्रमेयम् । तत्कथमनयोर्व्यधिकरणयोर्लिङ्गलिङ्गिभाव इति चेन्न स गौरेतद्गवय सदृशः । अस्य गवयस्य तद्गोसदृशत्वात् । यो यत्सदृशः स तत्सदृशः । यथा यमो यमान्तरेणेति व्याप्तिसम्भवेन व्यधिकरणस्यादोषत्वात् । एतद्गवयगतसादृश्यप्रतियोगित्वस्य वा लिङ्गत्वेन सामानाधिकरण्याच्चेति ।
जयतीर्थविजय
विप्रतिपत्त्या विरोधस्फूर्त्या सादृश्यज्ञानसाधनमुपमानाख्यं प्रमाणान्तरमङ्गीकर्तव्यमिति वदतां जरन्नैयायिकानां मतमाह ।। सादृश्येति । एतन्मते उपमीयते येन तदुपमानमित्युपमानशब्दः करणसाधनो ज्ञातव्यः । तस्य प्रत्यक्षानुमायोरन्तर्भावमाह ।। तत्रेत्यादिना । वाक्यजमित्येतदनन्तरं सादृश्यज्ञानमिति शेषः । गृह्यमाणपदार्थस्य सादृश्यज्ञानात्स्मर्यमाणपदार्थगतसादृश्यज्ञानमुपमानमिति मीमांसकाभिमतोपमानस्यान्तर्भावमाह ।। गृह्यमाणेति । कश्चिन्नागरिको वनं गतश्चक्षुषा गृह्यमाणे गवये स्मर्यमाणस्य गोस्सादृश्यं दृष्ट्वा स्मर्यमाणे गवि गृह्यमाणगवयप्रतियोगिकसादृश्यं प्रत्येति जानाति । एवं च गृह्यमाणपदार्थगतसादृश्यज्ञानात्स्मर्यमाणपदार्थगतसादृश्यानुमितौ गृह्यमाणपदार्थगतसादृश्यमेव लिङ्गं वाच्यम् । अन्यस्य लिङ्गस्य तदाऽपरामर्शादिति दृढीकृत्य तत्रानुपपत्तिं मीमांसकः शङ्कते ।। नन्विति । करणं करणीभूतज्ञानविषय इत्यर्थः । व्याप्त्यभावस्थल एव हेतुसाध्ययोर्वैय्यधिकरण्यं दोषः । अत्र च व्याप्तिसत्त्वान्न दोष इति वक्ष्यन्वैय्यधिकरण्येनानुमानं प्रयुज्य दर्शयति ।। स गौरित्यादिना ।। व्याप्तिसम्भवेनेति । हेतोः साध्यं विनाऽनुपपत्तिलक्षणव्याप्तिसम्भवेनेत्यर्थः । हेतोरसाध्येन विनाऽनुपपत्तिरेव व्याप्तिः । न तु सामानाधिकरण्यम् । तदभावेऽप्यधोदेशे नदीपूरलक्षणलिङ्गेनोर्ध्वदेशे वृष्टिलक्षणसाध्यप्रमित्युदयादिति भावः । वैभवात्पूर्वसाध्ये हेत्वन्तरं प्रयुज्य तस्य सामानाधिकरण्यमस्तीत्याह ।। एतदिति । स गौरेतद्गवयसदृशः । एतद्गवयगतसादृश्यप्रतियोगित्वात् । यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः । यथा यमो यमान्तरेणेत्यनुमानमत्र च द्रष्टव्यम् ।
भावदीपः
मीमांसकाभिमतोपमानं लक्षणोक्तिपूर्वमन्तर्भावयति ।। सादृश्यज्ञानेति । तत्त्रिविधं भवति । तेनायं सदृश इति वा सदृशावेताविति वा चक्षुरुन्मीलनानन्तरं जायमानं ज्ञानम् । इमौ सदृशावित्युपदेशानन्तरं जायमानज्ञानसाधनं वा । स्मर्यमाणगतसादृश्यज्ञानसाधनभूतं गृह्यमाणपिण्डगतसादृश्यज्ञानं वेति । तत्त्रयमपि क्रमादन्तर्भावयति ।। तत्रेति । सादृश्यज्ञानसाधत्वेनाभिमतेषु मध्य इत्यर्थः । ज्ञानशब्दः प्रमापरः ।। आगम एवेति । अन्तर्भवतीति योज्यम् ।। गृह्यमाण इति । पट्टणे गामनुभूय वनं गतस्य गवयदर्शने सति गृह्यमाणगवये स्मर्यमाणपट्टणस्थगोसादृश्यं दृष्ट्वा स्मर्यमाणगोपिण्डे यद्गृह्यमाणं गवयसादृश्यं प्रत्येति । गृहे स्थिता गौर्गृह्यमाणगवयसादृश्ये तस्य तत्सदृशत्वादिति प्रत्येतीत्यर्थः । तत्र गवयनिष्ठसादृश्यज्ञानंमुपमात्वेन परसम्मतमनुमानमेवेत्यर्थः । प्रमेयं प्रमातव्यमित्यर्थः । तुष्यतु दुर्जन इति भावेनाह ।। एतद्गवयगतेति ।
श्रीविजयीन्द्रतीर्थ
।। व्यधिकरणत्वस्येति । तेन विना तदनुपपत्तेरेव लिङ्गत्वप्रयोजकत्वादिति भावः ।
श्रीवेदेशभिक्षु
शाब्दोपमानस्य यथायोग्यमुक्तान्तर्भावं वक्तुं तावल्लक्षणमाह ।। सादृश्येति । अस्यान्तर्भावमाह ।। तत्रेत्यादिना । गृह्यमाणे गवयादौ स्मर्यमाणं गवादिकं द्रष्टव्यम् ।। व्याप्तिसम्भवेनेति । उक्तरीत्या व्याप्तिप्रविष्टसम्बन्धानां बहुविधत्वेन सामानाधिकरण्यस्यैव व्याप्तिघटकत्वाभावादिति भावः । अभ्युपेत्याह ।। एतदिति ।
अभिनवामृतम्
।। सादृश्यज्ञानसाधनमिति । सादृश्यज्ञानसाधनस्य प्रत्यक्षादिजन्यत्वासम्भवात्किञ्चिदतिरिक्तकारणमभ्युपेयम् । तदेवोपमानमिति भावः ।
श्रीविट्टलभट्ट
उपमानस्य प्रत्यक्षानुमानागमेष्वन्तर्भावं वक्तुमुपोद्घातसङ्गत्या तल्लक्षणमाह ।। सादृश्यज्ञानसाधनमिति । तस्यान्तर्भावमाह ।। तत्रेति । सादृश्यप्रमारूपफलेष्वित्यर्थः । तेनायं सदृश इति वेमौ सदृशाविति वा ज्ञानं यथार्थसादृश्यज्ञानं प्रत्यक्षरूपप्रमाणजन्यमित्यर्थः । एतादृशसादृश्यप्रमायाः प्रत्यक्षफलत्वेन तत्करणमुपमानं प्रत्यक्षमेवेति भावः ।। तेनायं सदृशः सदृशाविमाविति । वाक्यजनितज्ञानमित्यनुवर्तते । ब्राह्मणोऽस्य मुखमासीदित्यादिवदागमजन्यत्वादागम एवेत्यर्थः । वाक्यरूपसादृश्यप्रमासाधनमागम एव वाक्यरूपत्वादागमस्येति भावः ।। गृह्यमाणे स्मर्यमाणसादृश्यं दृष्ट्वेति । प्रत्यक्षेण ज्ञायमाने गवये स्मर्यमाणगोसादृश्यदर्शनानन्तरं स्मर्यमाणे नगरस्थे गवि यद्यस्माद्गवयगतत्वेन प्रतीयमानात्स्मर्यमाणगोसादृश्यादिति यावत् । गृह्यमाणस्य गवयस्य सादृश्यं जानाति तत् । तद् गृह्यमाणगवयत्वेन ज्ञायमानं स्मर्यमाणगोसादृश्यं लिङ्गमित्येतदयुक्तमिति शङ्कते ।। नन्विति । तत्तद्गृह्यमाणस्मर्यमाणगतं सादृश्यमित्यनुवर्तते । तत्तस्मात्कारणभूतस्य गोसादृश्यस्य गवयसादृश्यस्य गोनिष्ठत्वात् । व्यधिकरणयोर्भिन्नाश्रययोरनयोः करणप्रमेयरूपसादृश्ययोः कथं लिङ्गलिङ्गिभावोऽनुमापकानुमेयभाव इत्यर्थः । अनुमेयव्याप्तिकरणस्य व्याप्तिपक्षधर्मताविरहान्नानुमापकत्वमिति भावः । परिहरति ।। नेति । इति व्याप्तिसम्भवेनानेन प्रकारेण भूतसादृश्यस्याविनाभावरूपव्याप्तिसम्भवेनेत्यर्थः । उपलक्षणमेतत् । समुचितदेशवृत्तित्वेनेत्यपि द्रष्टव्यम् । व्यधिकरणत्वस्य साध्यव्यापकत्वस्यादोषत्वाद्धेतुदोषत्वाभावादित्यर्थः । तुष्यतु दुर्जन इति न्यायेन वैय्यधिकरण्यस्य हेतुदोषत्वमभ्युपेत्य समानाधिकरणं लिङ्गमाह ।। एतद्गवयेति ।