प्रमाणपद्धतिः

(७३) प्रमाणपद्धतिः

साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । निषिद्धत्वं च साध्यमधर्मसाधनत्वं व्याप्नोति । यत्राधर्मसाधनत्वं तत्र निषिद्धत्वमिति नियमात् । न व्याप्नोति च साधनत्वाभिप्रेतं हिंसात्वम् । पक्षे हिंसात्वसद्भावेऽपि निषिद्धत्वस्याभावात् । अयं तु विप्रतिपत्तेः प्रागव्याप्त्युन्नायकः । वैधहिंसायाः साधनाव्यापकत्वान्निवर्तमानं निषिद्धत्वं साध्यव्यापकत्वान्निवर्तयद्धिंसात्वस्य साध्याभावसम्बन्धमापादयतीति । विप्रतिपत्त्युत्तरकालस्तु प्रतिपक्षोन्नायको भवति । साधनाव्यापकत्वात्पक्षाद्य्वावर्तमान उपाधिः साध्यव्यापकत्वात्तद्य्वावर्तयति । ततश्चोपाध्य भावः साध्याभावसाधने हेतुर्भवति । वैधहिंसाऽधर्मसाधनं न भवति । अनिषिद्धत्वात् । भोजनवदिति । तथा च सोपाधिकस्याव्याप्तौ प्रतिज्ञायाः समबलविरोधे चान्तर्भावः ।

जयतीर्थविजय

।। न व्याप्नोतीति । निषिद्धत्वमिति प्रथमान्तमनुवर्तते । हिंसात्वमिति द्वितीया ।। पक्ष इति । वैधहिंसायामित्यर्थः । ननु सोपाधिकसाध्यसम्बन्धस्य कथं व्याप्तिविरह इत्याशङ्कां परिहर्तुमुपाधेरनुमानदूषकत्वप्रकारमाह ।। अयमिति । उपाधिरित्यर्थः । विप्रतिपत्तेः पक्षे साध्यसंशयात् । इदं च क्वाचित्काभिप्रायेण । अस्मन्मते सन्देहस्यानुमित्यङ्गत्वानङ्गीकारात् । वस्तुतस्त्वनुमानप्रवृत्तेः प्राग्व्याप्तिग्रहवेलायामिति तात्पर्यम् । उक्तं च तर्कताण्डवे । उपाधिश्चानुमानप्रवृत्तेः प्राग्व्याप्तिग्रहवेलायामव्याप्तेरेवोन्नायको भवतीति । अव्याप्तेरुन्नायको व्याप्तिविरहानुमापक इत्यर्थः । अव्याप्त्युन्नयनप्रकारमाह ।। वैधेति । वैधहिंसाया निवर्तमानमिति सम्बन्धः ।। विप्रतिपत्तीति । अनुमानप्रवृत्तिप्राक्काल इत्यर्थः । प्रतिपक्षोन्नयनप्रकारमाह ।। साधनेति ।। पक्षाद्य्वावर्तमान इति । इदमपि क्वाचित् काभिप्रायेण । क्वचिदुपाधेः पक्षेऽपि वृत्तेरिति ध्येयम् । हेतुर्भवतीत्युक्तं हेतुभवनप्रकारमाह ।। वैधेति ।

भावदीपः

कथं तस्योपाधित्वमित्यत उपाधिलक्षणोक्तिपूर्वं निषिद्धत्वे तल्लक्षणं दर्शयति ।। साध्यव्यापकत्वे सतीति । व्याप्तेः कर्म व्याप्यं व्याप्तेः कर्तृ व्यापकमिति प्रागुक्तेराह ।। निषिद्धत्वं चेति । सोपाधिको दशाविशेष एव व्याप्यत्वासिद्धो न सर्वदेति भावेनाह ।। अयं त्विति । उपाधिरित्यर्थः ।। विप्रतिपत्तेः प्रागिति । पक्षे साध्यवत्त्वतदभावकोटिकविवादात्पूर्वमनुमानप्रयोगात्प्रागित्यर्थः । व्याप्तिग्रहवेलायामिति यावत् । तदानीमुपस्थितो व्याप्त्यभावोन्नायकोऽनुमापक इत्यर्थः । कथमित्यतो व्यनक्ति ।। वैधहिंसाया इति । पञ्चमीयम् । यागीयहिंसात इत्यर्थः । व्यावर्तमानत्वहेतुः साधनाव्यापकत्वादिति । एवमग्रेऽपि ।। विप्रतिपत्त्युत्तरकालस्त्विति । बहुव्रीहिरनुमानप्रयोगोत्तरकाले उपस्थित उपाधिरित्यर्थः । प्रतिपक्षानुमापकत्वं व्यनक्ति ।। साधनेति । तत्साध्यं व्यावर्तयतीत्यर्थः ।। ततश्चेति । स्वव्यावृत्त्या साध्यव्यावर्तनाद्धेतोरुपाध्यभावः साध्याभावे हेतुर्भवतीत्यर्थः । कथमित्यतः प्रयोगं व्यनक्ति ।। वैधेति ।। तथा चेति । दशाभेदेन दोषद्वयोन्नायकत्वे सतीत्यर्थः ।। अव्याप्ताविति । साध्यतदभावरूपोभयसम्बन्धलक्षणाव्याप्तावित्यर्थः ।

श्रीविजयीन्द्रतीर्थ

।। अयं तु विप्रतिपत्तेरिति । पक्षेऽधर्मसाधनत्वानिश्चयेन साध्यसम्बन्धाभावो हेतौ निश्चित इति भावः ।। तथा च सोपाधिकस्येति । उपाधेः प्रतिपक्षोन्नायकत्वे समबलविरोधेऽन्तर्भाव इत्यर्थः ।

श्रीवेदेशभिक्षु

।। विप्रतिपत्तेः प्रागिति । पक्षादिप्रविभागात्प्राग्व्याप्तिग्रहणवेलायामुपस्थित इत्यर्थः ।

आदर्शः

।। साध्यव्यापकत्वे सतीति । अत्र साध्यव्यापकत्वं चतुर्विधम् । शुद्धसाध्यव्यापकत्वं पक्षधर्मावच्छिन्नसाध्यव्यापकत्वं साधनावच्छिन्नसाध्यव्यापकत्वमुदासीनधर्मावच्छिन्नसाध्यव्यापकत्वं चेति । तत्राद्यस्योदाहरणं दर्शितमेव । वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र पक्षधर्मावच्छिन्नसाध्यव्यापकत्वमुद्भूतरूपत्वस्य पक्षधर्मश्च मानसावेद्यद्रव्यत्वम् । आत्मनि रूपादौ व्यभिचारेण तद्विशिष्टसाध्यस्य व्यापकं भवति । उद्भूतरूपं यत्र यत्र मानसवेद्यत्वे सति प्रत्यक्षविषयत्वं तत्रोद्भूतरूपत्वमिति व्याप्तेः सत्त्वात् । आत्मनि रूपादौ च विशिष्टसाध्याभावाद्वायोश्च पक्षत्वात्तत्र व्यभिचारचोदनासम्भवात् । अस्य दोषत्वं च तादृशधर्मविशिष्टे साधनाव्यापकताभङ्गे सति सम्भवति नान्यथा । उपाधेर्विशिष्टसाध्यं प्रति व्यापकत्वेनोपाध्यभावः स्वाधिकारे विशिष्टसाध्याभावमेव साधयेन्न तु शुद्धसाध्याभावम् । व्यापकाभावस्य स्वप्रतियोगितावच्छेदकावच्छिन्नव्याप्यतावच्छेदकावच्छिन्नाभावसाधकत्वात् । प्रकृतोपाधेः शुद्धसाध्यतावच्छिन्नं प्रत्यव्यापकत्वात् । तथा च साधनवत्युपाध्यभावेन विशिष्टाभावसिद्धावपि विशेषणीभूतपक्षधर्माभावसिद्ध्याऽपि विशिष्टाभावसिद्ध्युपपत्त्या साधनवति साध्याभावासिद्ध्या व्यभिचाराभावाद्यनुन्नायकत्वाद्दोषत्वासम्भवात् । यथा पर्वतो वह्निमान्धूमादित्यादावपि पक्षधर्मपर्वतत्वादिविशिष्टवह्निव्यापकत्वं पाषाणमयत्वादेर्वर्तते महानसादौ साधनाव्यापकत्वं च । तथाऽपि महानसादौ पर्वतीयत्वविशिष्टवन्ह्यभावस्योपाध्यभावेन सिद्धावपि शुद्धवन्ह्यभावासिद्ध्या न व्यभिचाराद्यनुन्नायकत्वमिति न दोषः । तादृशधर्मवति साधनव्यापकताभङ्गे तु साधनवति विशिष्टाभावेऽपि सः साध्याभावमादायैव पर्यवस्यति । न विशेषणाभावमादाय । विशेषणीभूतधर्मस्य प्रमितत्वेन तदभावस्य बाधितत्वेन बाधितार्थमादाय पर्यवसानायोगात् साधनावच्छिन्नसाध्यव्यापको यथा ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वमुपाधिः प्रागभावे व्यभिचारात् किन्तु जन्यत्वरूपसाधनविशिष्ठ एव । तत्र शुद्धसाधनाव्यापकत्वमेवेति तत्रोक्तशङ्काया अप्रसरात् । तत्रैव मेयत्वहेतावत्यन्ताभावे पक्षे जन्यत्वमुदासीनो धर्मः पक्षावृत्तित्वादसाधनत्वाच्च । अत्र तु पूर्वोक्तयुक्तया जन्यत्वसाधनाव्यापकत्वं बोध्यम् ।। तथा च सोपाधिकस्येति । यथा व्याप्त्यादीनामुद्भावनीयता बाधादीनां विरोधत्वेनोद्भावनीयता तथोपपादितमधस्तात् । अत्रेदं बोध्यम् । अनुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकविशिष्टत्वं न दोषपदार्थः । असाधारण्यादीनां दोषपदार्थत्वाभावप्रसङ्गात् । पक्षधर्मताज्ञानविशिष्टयद्रूपावच्छिन्नविषयता व्यापिकाऽनुमितिप्रतिबन्धकतेत्येवं क्रमेण निवेशे ह्रदो वह्निमान् जलादित्यादौ वह्न्यभाववज्जलवद्हृदावतिव्याप्तेः । न च तेषामनित्यदोषत्वमङ्गीक्रियत एवेति नातिव्याप्तिरिति वाच्यम् । विचारासहत्वात् । तथा हि । किमिदमनित्यदोषत्वम् । कालविशेषे दुष्ट इति व्यवहारजनकत्वं वा दोषपदबोध्यत्वसत्त्वेऽपि नश्यमानत्वं वा । तदुभयमपि न सम्भवति । तथा हि । सर्वस्यापि दोषत्वेनाभिमतस्य ज्ञानकाल एव दुष्ट इति व्यवहारजनकत्वाद्विभागानुपपत्तेः । न च स्वावच्छिन्नविषयकानाहार्याप्रामाण्यग्रहानास्कन्दितनिश्चयसत्त्वेऽपि कदाचिद्य्ववहाराजनकत्वमेवानित्यत्वमिति चेत् । बाधादिदोषज्ञानेऽपि प्रयोजनाद्यनुसन्धानाभावादिना व्यवहारानुत्पत्तिसम्भवेन बाधस्याप्यनित्यत्वापत्तेः । न च तत्स्वरूपयोग्यत्वम् । तच्च प्रतिबन्धकतावच्छेदकतात्पर्याप्तिमद्धर्मवज्ज्ञानविषयत्वम् । यादृशविशिष्टज्ञानविषयकज्ञानविशिष्टस्वज्ञानस्य प्रतिबन्धकत्वं तादृशविशिष्टज्ञानासमानकालीनस्वज्ञानस्यापि प्रतिबन्धकत्वं तत्त्वं वा निर्दोषत्वम् । तथा च बाधादेः कदाचिद्य्ववहाराजनकत्वेऽपि नित्यत्वमक्षतमिति चेत् । असाधारण्यस्यापि प्रतिबन्धकतावच्छेदकतात्पर्याप्तिमद्धर्मवज्ज्ञानविषयत्वेन नित्यत्वापातात् । न चासाधारण्यज्ञानमात्रस्य न तादृशपर्याप्तिमद्धर्मवत्त्वमिति चेत् । तर्हि तज्ज्ञानस्य प्रतिबन्धकत्वानुपपत्तेः । न च ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकताश्रयज्ञानविषयत्वमेव नित्यत्वमिति चेत् । तथाऽपि बाधादेरपि तदनुपपत्तेः । तथा हि । बाधादिज्ञानस्याप्यप्रामाण्यग्रहकालेऽप्रतिबन्धकत्वेनाप्रामाण्यज्ञानाभाववैशिष्ट्यस्य प्रतिबन्धकतावच्छेदककोटौ निवेशेऽप्रामाण्यज्ञानानां नानाविधत्वेन केषाञ्चिदनुगमायोग्यानामनुगमासम्भवेनैकाभावनिवेशासम्भवेन तत्तज्ज्ञानाभावकूटनिवेशेऽतिगौरवेण प्रामाण्यनिश्चयस्यैव विषयतासामानाधिकरण्यकालिकैतत्त्रितय सम्बन्धेन निवेशे लाघवेन तथैव प्रतिबन्धकताया वाच्यत्वेन बाधज्ञानादिनिष्ठप्रतिबन्धकताया अपि ज्ञानवैशिष्ट्यावच्छिन्नत्वात् । न च प्रामाण्यनिश्चयस्य सर्वत्रासम्भवः । यत्र प्रामाण्यस्य न भानं तत्र ज्ञानप्रत्यक्षे सति ज्ञानत्वरूपसाधारणधर्मज्ञानसत्त्वेन तत्संशयस्यावर्जनीयत्वेन तदनास्कन्दितत्वासम्भवेन भवत्पक्षेऽपि प्रतिबन्धकत्वासम्भवात् । न च ज्ञानत्वरूपसाधारणधर्मज्ञानेऽपि प्रामाण्याप्रामाण्यकोट्यनुपस्थित्या न संशय इति वाच्यम् । कोट्युपस्थितिं प्रत्यपि साधारणधर्मज्ञानस्यैव कारणत्वेन तत्सत्त्वे तदभावे बीजाभावात् । न च येन साधारणधर्मत्वेन न ज्ञातं ज्ञानत्वं तस्य ज्ञानत्वज्ञानेऽपि साधारणधर्मत्वेन ज्ञानाभावान्न कोट्युपस्थितिरिति वाच्यम् । तादृशपुरुषस्यैवाभावात् । सर्वस्यापि पुरुषस्य किञ्चिद्विषये भ्रमसम्भवेन तत्राप्रामाण्यस्याप्यनुभूतत्वप्रसङ्गात् । एवं प्रामाण्यस्यापि प्रमायां ज्ञानत्वसामानाधिकरण्यस्याप्यनुभूतत्वात् । तदभावे निश्चयाधीनप्रवृत्त्यनुपपत्तेः। बालस्यापि स्तनपानादाविष्टसाधनताज्ञाने प्रामाण्यस्यानुभूतत्वेन तत्सामानाधिकरण्यस्यापि ज्ञानत्वे ज्ञानात् । न च ज्ञानज्ञानेऽपि तत्र साधारणत्वज्ञानेऽपि यत्र दोषविशेषेणोद्बोधकाभावेन वा न साधारणधर्मत्वस्मृतिर्न तु कोट्युपस्थितिरिति वाच्यम् । प्रामाण्याप्रामाण्यान्यतरभानं विना ज्ञानज्ञानसिद्ध्युत्तरकालीनत्वादस्याः कल्पनायास्तस्या एवासिद्धेः । न च सुषुप्त्यवहितपूर्वक्षणवृत्तिज्ञानस्याप्रत्यक्षत्वेन तत्र प्रामाण्याप्रामाण्योभयभानमपि न सम्भवतीति तत्र प्रामाण्यनिश्चयविशिष्टत्वं न सम्भवतीति तज्ज्ञाने प्रतिबन्धकत्वाभावप्रसङ्ग इति वाच्यम् । इष्टापत्तेः । तदुत्तरत्र ज्ञानानुत्पत्तेर्विजातीयात्ममनःसंयोगाभावादेवोपपत्तेः । तज्ज्ञानस्य प्रतिबन्धकत्वकल्पने बीजाभावात् । न च सर्वत्र ज्ञाने प्रामाण्यज्ञानस्य संशयात्मकस्य निश्चयात्मकस्य वाऽङ्गीकारे मानाभावः । ज्ञानप्रत्यक्षसामग्य्रा एव प्रामाण्यज्ञानसामग्रीत्वेन तस्याः सत्त्वेन तस्य संशयात्मकस्य निश्चयात्मकस्य वाऽऽवश्यकत्वात् । न च तत्रैव मानाभावः । प्रामाण्यस्य विषयतारूपत्वेन विषयतादिभानं विना ज्ञानभानस्यानुभवविरुद्धत्वेन विषयताभाने ज्ञानभानसामग्य्रा अपेक्षितत्वेन प्रयोजकत्वेन क्लृप्तत्वेन तदभिन्नप्रामाण्यभानेऽपि प्रयोजकताकल्पनस्योचितत्वात् । तदन्यस्य प्रयोजकताकल्पने मानाभावात् । अप्रामाण्यग्रहानास्कन्दिततत्वस्य प्रतिबन्धकतावच्छेदककोटौ निवेशेऽप्रामाण्यज्ञानेऽप्यप्रामाण्यनिश्चयानास्कन्दितत्वनिवेशस्यावश्यकत्वेनानन्त्येन तावदभावानां प्रतियोगिज्ञानासम्भवेन तद्घटितप्रतिबन्धकतावच्छेदकधर्मवैशिष्ट्यस्य दुर्ज्ञेयत्वापातेन ज्ञानविशेषे प्रतिबन्धकत्वज्ञानाभावप्रसङ्गात् । न चेष्टापत्तिः । अनुभवविरोधात् । प्रतिबन्धकतायाः प्रतिबध्यज्ञानानुत्पत्तिमात्रानुमेयत्वे संसारकारणीभूतविपरीतज्ञानानुत्पादाय शास्त्रकारणां प्रवृत्त्ययोगः । शास्त्रजन्यज्ञाने प्रतिबन्धकत्वनिश्चयायोगात् । मन्मते तु शास्त्रोक्तयुक्त्यादिसंवादेन शास्त्रजन्यज्ञाने प्रामाण्यनिश्चयसम्भवेन प्रतिबन्धकत्वनिश्चयसम्भवेन निश्चयाधीनप्रवृत्तिसम्भवः । एतेन यादृशज्ञानविशिष्टस्य स्वज्ञानस्यानुमितिप्रतिबन्धकत्वं तादृशज्ञानाभावकालेऽपि प्रतिबन्धकज्ञानविषयत्वं नित्यदोषत्वमित्यपि परास्तम् । अप्राण्यनिश्चयाभावकाले बाधग्रहस्याप्रतिबन्धकत्वेन नित्यत्वानुपपत्तेः । न द्वितीयः । वह्न्यभाववद्ध्रदरूपबाधादेरपि नाशप्रतियोगित्वात् । अस्तु वा नित्यानित्यत्वव्यवस्था येन केनापि प्रकारेण । तथाऽपि ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकताश्रयज्ञानविषयासाधारण्यस्य दोषत्वाङ्गीकारे किमपराद्धम् । हेतुमत्पक्षेण यथाश्रुतलक्षणस्यासाधारण्येऽप्यभावात् । परिष्कारे तु हेतुमत्पक्षसाधारणं यथा भवति तथा परिष्कर्तुं शक्यत एव । तथा हि यत्किञ्चिद्विशिष्टविषयकनिश्चयविशिष्टयद्रूपावच्छिन्नविषयताशालिनिश्चयत्वव्यापिका प्रकृतानुमितिप्रतिबन्धकता तद्रूपावच्छिन्नत्वं बाधादौ यस्य कस्यचिद्विशिष्टस्य ग्रहणेऽपि लक्षणसमन्वयो भवति । शुद्धबाधविषयताया एव व्यापकत्वात् । प्रतिबन्धकताया असाधारण्ये तु हेतुमत्पक्षरूपविशिष्टविषयकज्ञानविशिष्टसाधारण्यविषयतायाः प्रतिबन्धकतानतिरिक्तवृत्तित्वाल्लक्षणसमन्वयः । यादृशविशिष्टग्रहणे स्वविषयताया अनतिरिक्तवृत्तित्वमुपपादयितुं शक्यते । तस्यैव यत्किञ्चिद्विशिष्टपदेन धर्तव्यत्वात् । सद्धेतुस्थले पाषाणमयत्वविशिष्टपर्वतादौ यत्किञ्चिद्विशिष्टपदेन ध्रियमाणविशिष्टस्याप्रसिद्ध्यैवातिव्याप्त्यभावात् । द्वितीयज्ञानस्य नियमेन भ्रमत्वात् । न च धूमादिहेतुकस्थले वन्ह्यभाववज्जलवति जलवद्हृदे चातिव्याप्तिरिति वाच्यम् । तयोरपि लक्ष्यत्वाङ्गीकारस्यैवोचितत्वात् । एवं च विशिष्टद्वयाघटितत्वनिवेशोऽप्यनर्थकः । विशिष्टान्तराघटितत्वनिवेशेनैवातिव्याप्तिवारणात् । विशिष्टान्तराघटितत्वं च यादृशप्रतिबन्धकतामादाय लक्षणसमन्वयः क्रियते तत्प्रतिबन्धकतानिरूपितप्रतिबद्ध्यतावच्छेदकावच्छिन्नप्रतिबद्ध्यतानिरूपितप्रतिबन्धकता यत्किञ्चिद्रूपावच्छिन्नविषयताशालिनिश्चयविशिष्टस्वावच्छिन्नाविषयप्रतीति विषयतावच्छेदकयद्रूपावच्छिन्नविषयताकनिश्चयत्वव्यापिका तत्तद्रूपावच्छिन्नाविषयकप्रतीति विषयतावच्छेदकावच्छिन्नत्वमेवेति । एवं च स्वसङ्केतमात्रमूलकत्वेनानादरणीयमेव तत्प्रक्रियादिकमिति ।

किञ्च दोषनिरूपणं न व्यसनितया क्रियते किन्तु प्रामाण्यनिश्चयाय । ज्ञानकरणेषु दुष्टत्वज्ञाने सति निर्दुष्टकरणजन्यत्वेन ज्ञानप्रामाण्यमनुमातव्यम् । अप्रामाण्यज्ञानं वा निवर्तते । निर्दुष्टत्वज्ञानं च दोषज्ञानाधीनमिति । तथा च लोके यद्रूपावच्छिन्नाभावज्ञानात्तज्जन्यज्ञाने प्रामाण्यं निश्चित्य प्रवर्तते । यद्रूपावच्छिन्नज्ञानादप्रामाण्यं निश्चित्य निवर्तते दुष्ट इति दोष इति च व्यवहरति तद्रूपावच्छिन्नमेव दोषपदार्थत्वेन निरूपणीयं परीक्षकैर्न तु स्वसङ्केतमात्रज्ञानाय । व्यर्थत्वात् । लोकास्तु जन्यज्ञानस्य प्रतिबन्धकसत्त्वमात्रेण न दुष्ट इति व्यवहरन्ति । तथा सति मणिसत्ताकाले वह्निर्दुष्ट इति व्यवहारापत्तेः । धूमादिजन्यवह्न्याद्यनुमितेरसिद्ध्यादिरूपप्रतिबन्धकसत्त्वाद्धूमो दुष्ट इति व्यवहारापत्तेश्च । न च स्वरसतो लोकास्तथा व्यवहरन्ति किन्तु स निर्दुष्ट एव किन्तु प्रतिबन्धसद्भावान्न कार्यनिष्पत्तिरिति वदन्ति । एवं सद्धेतुस्थले बाधभ्रमेण भवदुक्तज्ञानद्वयादिना वाऽनुत्पत्तावपि न प्रेक्षावन्तो हेतोर्दुष्टत्वान्नानुमितिरिति वदन्ति किन्तु तत्पुरुषीयभ्रमादिवशात्तत्कालेऽनुमित्यनुत्पन्नावपि हेतुर्निर्दुष्ट एव वदन्ति । प्रकृते हेतौ प्रमात्मकानुमितिजननस्वरूपयोग्यत्वाभावज्ञाने सति दुष्ट इति व्यवहरन्ति । योग्यता च स्वाभाविकी शक्तिर्वाच्या व्याप्तिपक्षधर्मतादिमत्त्वं वा नाबाधितत्वासत्प्रतिपक्षितत्वयोर्योग्यताशरीरे निवेशः । व्याप्तिपक्षधर्मतादिमति हेतौ बाधितत्वासत्प्रतिपक्षितत्वयोः सर्वथाऽसम्भवात् । व्याप्तिपक्षधर्माभ्यामेव तयोरपि सिद्धेः । तथा सति तादृशयोग्यताभावस्य वा तत्प्रमापकत्वस्य वा दोषलक्षणत्वं वक्तुं युक्तमिति नोक्तलक्षणस्य दोषपदार्थत्वं वा युक्तम् । बाधादेर्हेतुदोषत्वं च प्रागुपदर्शितं दोषपदार्थश्चोक्त एवेति ।

श्रीविट्टलभट्ट

।। साध्यव्यापकत्वे सतीति । धूमानुमाने महानसत्वादेरुपाधिनिरासायेदं विशेषणम् । तत्रैवाभिधेयत्वादेरुपाधिव्यवच्छेदाय द्वितीयं विशेषणम् ।। अयं तु विप्रतिपत्तेः प्रागिति । अयमुपाधिः साध्यतदभावकोटिकविप्रतिपत्तेः प्रागव्याप्तेर्व्याप्त्यभावस्योन्नायकोऽनुमापक इत्यर्थः । हिशब्द उक्तार्थस्यान्योन्यप्रसिद्धतां सूचयति । कथमव्याप्त्यनुमापक इति जिज्ञासायां हिंसात्वं न साध्यव्याप्तं साध्यव्यापकाव्याप्यत्वादित्यनुमानमभिप्रेत्याह ।। वैधहिंसाया इति । वैधहिंसायाः सकाशान्निवर्तमानमित्यन्वयः । तत्र हेतुः ।। साधनाव्यापकत्वादिति । तन्निवर्तयद्वैधहिंसायाः साध्यं नियोजयदित्यर्थः । अत्र हेतुः ।। साध्यव्यापकत्वादिति । आपादयति प्रतिपादयतीत्यर्थः । व्यापकनिवृत्तेर्व्याप्यनिवृत्तौ तन्त्रत्वादिति भावः । ननु विप्रतिपत्तेः प्रागपि सत्प्रतिपक्षोन्नायक एवास्तूपाधिरिति चेन्न । विप्रतिपत्तेः प्राक् पक्षपरिग्रहाभावात् । प्रतिपक्षावसराभावेन तदुपनायकत्वादिति ।। विप्रतिपत्युत्तरकालस्त्विति । विप्रतिपत्त्युत्तरकाले तु पक्षपरिग्रहेण प्रतिपक्षावकाशात्तदनुमापकत्वं युक्तमिति भावः । प्रतिपक्षोन्नायकत्वमुपपादयति ।। साधनाव्यापकत्वादिति । यद्यप्युपाधिः पक्षाद्य्वावर्तमानः पक्षेऽवर्तमान इत्यत्र न साधनाव्यापकत्वं हेतुः पक्षादन्यत्रोपाधेः साधनाव्यापकत्वे तेन पक्षे उपाध्यसिद्धेः । तथाऽप्यन्यत्र साध्यव्यतिरेकस्य विप्रतिपत्तौ तत्र स्फुटव्यभिचारेणोपाधिविचारानवकाशात् । विप्रतिपत्तौ तु तस्यापि पक्षत्वेन तत्रोपाधेः साधनाव्यापकत्वेन पक्ष एवासिद्धिरुपपन्नेति तद्य्वावर्तयति । तत्साध्यं वियोजयतीत्यर्थः । उपाधेः प्रतिपक्षोन्नायकत्वे साध्याभावे लिङ्गं वाच्यम् । तत्किमिति जिज्ञासायामाह ।। ततश्चेति । तस्मादेवोपाधेः साध्यव्यापकत्वादेवेत्यर्थः । व्यापकाभावस्य व्याप्याभावनियतत्वात्तस्य हेतुत्वं युक्तमिति बोध्यम् । प्रतिपक्षप्रयोगप्रकारमाह ।। वैधहिंसेति । ननु विप्रतिपत्त्युत्तरकालेऽप्यव्याप्त्युन्नायक एवास्तु । उपाधेरेकेन रूपेण दूषकतासम्भवे वैरूप्यकल्पनायोगादिति चेन्न । पक्षे साध्याभावसाधकोपाधिव्यतिरेकोऽस्तीति ज्ञानमन्तरेणाव्याप्तिज्ञानासम्भवात् । प्रथमोपस्थितप्रतिपक्षोन्नायकतयैवोपाधेर्दूषकतासिद्धेरव्याप्त्युन्नायकत्वकल्पनाभावेन वैरूप्यस्य सत्यत्वादिति । अस्त्वेवं तथाऽपि सोपाधिके व्याप्यत्वासिद्धेः क्वान्तर्भाव इति जिज्ञासायामाह ।। तथा चेति ।