प्रमाणपद्धतिः

योगिज्ञानप्रभेदाः

(१८) प्रमाणपद्धतिः

योगप्रभावलब्धातिशयं योगिज्ञानम् । तत्त्रिविधम् । ऋजुयोगिज्ञानं तात्त्विकयोगिज्ञानमतात्त्विकयोगिज्ञानं चेति । ऋजवो नाम ब्रह्मत्वयोग्या जीवाः । ईश्वरादन्यत्रालोचने सर्वविषयं तज्ज्ञानम् । ईश्वरे त्वसार्वत्रिकमेव । तद्दिविधम् । स्वरूपं मनोवृत्तिरूपं चेति । तत्र स्वरूपमनादिनित्यम् । योगप्रभावादामुक्तेर्व्यक्त्यतिशयोपेतम् । मुक्तावेकप्रकारम् । वृत्तिज्ञानं तु प्रवाहतोऽनादि । योगानुगृहीतप्रत्यक्षादिजन्यम् । मुक्तौ तु नास्त्येव । द्वयमपि नियमेन यथार्थम् । ईश्वरे त्वन्यजीवेभ्योऽधिकविषयम् । तदतिरिक्तास्तत्त्वाभिमानिनो देवास्तात्त्विकाः । अनादित्वे सतीश्वरादन्यत्रालोचनेऽप्यसर्वविषयं तज्ज्ञानम् । तदपि स्वरूपं बाह्यं चेति द्विविधम् । तस्यानादित्वं पूर्ववत् । स्वरूपं यथार्थमेव । बाह्यं कदाचिदयथार्थमपि । तद्य्वतिरिक्ता देवादयो योगिनोऽतात्त्विकाः । सादित्वे सतीश्वरादन्यत्राल्पाज्ञानयुक्तं तज्ज्ञानम् । तदपि पूर्ववद्द्विविधम् । तत्र स्वरूपस्य सादित्वं व्यक्त्यपेक्षया । अन्यस्य प्रवाहतोत्पत्त्यपेक्षया । याथार्थ्यानियमादि पूर्ववत् ।

जयतीर्थविजय

।। योगप्रभावेति । योगो नाम मनसः प्रणिधानं तत्सामर्थ्यलब्धोऽतिशय उत्पत्तिर्व्यक्तिर्वा यस्य तदिति यथासम्भवं द्रष्टव्यम् । ऋजुयोगिज्ञानलक्षणमाह ।। ईश्वरादिति । ज्ञानमृजुयोगिज्ञानमित्युक्तेऽयोगिज्ञानेऽतिव्याप्तिः । अतः सर्वविषयमिति । तावत्येवोक्तेऽनालोचनदशापन्नऋजुज्ञानेऽतिव्याप्तिर्लक्ष्मीज्ञानेऽतिव्याप्तिश्च । अत आलोचन इति । आलोचने सत्यपि ऋजुयोगिज्ञानस्येशे सर्वविषयत्वाभावादसम्भववारणायेश्वरादन्यत्रेत्युक्तम् । ऋजूनां स्वरूपज्ञाने योगिज्ञानसामान्यलक्षणमुपपादयति ।। योगप्रभावादिति । आमुक्तेरिति पदद्वयम् । आङ्मर्यादाऽभिविध्योरित्यव्ययीभावस्य वैकल्पिकत्वादत्र चाङो मर्यादार्थकत्वात् । व्यक्तिर्नामाधिकविषयत्वम् । तदीयवृत्तिज्ञाने योगिज्ञानसामान्यलक्षणमुपपादयति ।। योगानुगृहीतेति । ननु मुक्तौ ऋजुज्ञानस्यैकप्रकारत्वेन योगप्रभावलब्धातिशयत्वाभावादव्याप्तिरिति चेन्न । योगप्रभावलब्धातिशययोग्यज्ञानत्वस्य विवक्षितत्वात् । योग्यतायाश्च मुक्तावपि सत्त्वेन नाव्याप्तिः । यदा कदाचित्फलदानमात्रेणैव योग्यतायाः साफल्यान्न नैष्फल्यशङ्काऽपि । तात्त्विकयोगिज्ञानलक्षणमाह ।। अनादित्वे सतीति । अत्र ज्ञानमित्येवोक्ते ईश्वरज्ञानेऽतिव्याप्तिः । अतोऽसर्वविषयमिति । असर्वविषयं ज्ञानमित्येवोक्ते लक्ष्मीज्ञानेऽतिव्याप्तिः । तज्ज्ञानस्येशादन्यत्राप्यनालोचनदशयामसर्वविषयत्वात् । अत उक्तमनादित्वे सतीति । अतात्त्विकयोगिज्ञानस्य सादित्वस्य वक्ष्यमाणत्वान्नातिव्याप्तिः ।। तस्यानादित्वं पूर्ववदिति । ऋजुयोगिज्ञानवत्स्वरूपज्ञानमनादिनित्यम् । वृत्तिज्ञानं तु प्रवाहतोऽनादीत्यर्थः ।। तद्व्यतिरिक्ता इति । तात्त्विकरुद्रादिव्यतिरिक्ता इत्यर्थः ।। सादित्वे सतीति । ज्ञानत्वमतात्त्विकयोगिज्ञानलक्षणमित्युक्ते ईशज्ञानेऽतिव्याप्तिः । अतोऽज्ञानयुक्तमिति । तावत्येवोक्तेऽयोगिज्ञानेऽतिव्याप्तिः । अतोऽल्पेति । तस्येशादन्यत्राज्ञानप्रचुरत्वान्न तत्रातिव्याप्तिः । तावत्येवोक्ते ईश्वरविषये लक्ष्यभूतज्ञानस्याज्ञानप्रचुरत्वादसम्भवः । अत ईश्वरादन्यत्रेति । तावत्येवाक्ते तात्त्विकयोगिज्ञानेऽतिव्याप्तिः । अतः सादित्वे सतीति ।। तदपीति । तात्त्विकयोगिज्ञानवदतात्त्विकयोगिज्ञानमपि स्वरूपबाह्यभेदेन द्विविधमित्यर्थः । नन्वतात्त्विकयोगिनामपि स्वरूपस्यानादित्वात्तदात्मकस्य स्वरूपज्ञानस्याप्यनादित्वेन कथं सादित्वे सतीत्यादिलक्षणमित्यत आह ।। तत्रेति । स्वरूपबाह्यज्ञानयोर्मध्य इत्यर्थः ।। व्यक्त्यपेक्षयेति । अनादिकालमारभ्य शक्त्यात्मना सत्त्वेऽपि योगप्रभावादिना मध्य एव सम्यक् सम्पादितव्यक्त्यपेक्षयेत्यर्थः । तथा च स्वरूपज्ञानस्य सादित्वाभावेऽपि व्यक्तिविशिष्टस्य तदस्तीति न तात्त्विकयोगिस्वरूपज्ञाने तल्लक्षणाव्याप्तिरिति भावः । अतात्त्विकयोगिनां मनोवृत्तिरूपज्ञान सादित्वमुपपादयति ।। अन्यस्येति ।। प्रवाहतेति ।। अतात्त्विकयोगिनां मनोवृत्तिपरम्परायाः सर्वथा पूर्वमविद्यमानाया एव योगप्रभावादिना मध्ये एवोत्पादादिति भावः ।। याथार्थ्यनियमादि पूर्ववदिति । स्वरूपं यथार्थमेव । बाह्यं कदाचिदयथार्थमपीति पूर्ववदिति भावः । अत्र वादिराजतीर्था आशङ्क्य समादधते । तथा हि । ननु तात्त्विकयोगिनामपि मनोवृत्तिरूपं ज्ञानमुत्पन्नविनष्टमेवेति तत्रानादित्वाभावादव्याप्तिः । मनोवृत्तेरप्यनादित्वाङ्गीकारेऽतात्त्विकयोगिनां मनोवृत्तावतिव्याप्तिः । अतात्त्विकयोगिनामपि स्वरूपभूतं ज्ञानं स्वरूपस्यानादित्वदनाद्येवेति तत्राप्यतिव्याप्तिः । स्वरूपज्ञानस्याप्यनादित्वाभावे तात्त्विकयोगिनां स्वरूपज्ञानेऽव्याप्तिरिति चेत् । सत्यम् । तथाऽपि विवक्षाभेदेन परिहारसम्भवान्न दोषः । तथा हि । उत्पन्नविनष्टत्वेन स्वरूपानादित्वरहितस्यपि तात्त्विकयोगिनां मनोवृत्तिरूपज्ञानस्य प्रवाहतोऽनादित्वाङ्गीकारान्नाव्याप्तिः । प्रवाहपदेनात्र प्रवाह इव प्रवाह इति गौण्या वृत्त्या प्रवाहसदृशी स्वयोग्ययावत्पदार्थविषयकज्ञानपरम्परैवोच्यते । न यत्किञ्चिज्ज्ञानपरम्परा । एवं चातात्त्विकयोगिनां मनोऽनादितोऽपि किञ्चित्किञ्चिज्जानात्येवेति तज्ज्ञानप्रवाहस्यानादित्वं स्यादिति शङ्का निरस्ता । ततश्चानादित्वं नामेदम्पूर्वताभावः । अनादिकालमारभ्य वर्तमानत्वमिति यावत् । न त्वतात्त्विकयोगिनामिव सर्वथा पूर्वमविद्यमानाया योगप्रभावादिना मध्य एवोत्पत्तिः । इयांस्तु विशेषः । ऋजुयोगिनां ज्ञानपरम्परा प्रलयेऽप्यविच्छिन्ना गङ्गाप्रवाहसदृशश्च । तात्त्विकयोगिनां तु प्रलये विच्छिन्नाऽपि पूर्वपूर्वसृष्टावनादिकालमारभ्य वर्तत एवेति जगत्प्रवाहवदनादिभूता । अतोऽस्या मध्ये मध्ये विच्छिन्ननदीप्रवाहवत्प्रवाहानादित्वं द्रष्टव्यम् । एवं सत्येतत्सृष्टिकालीनपरम्परैव पूर्वसृष्टौ नास्तीति चेत् । माऽस्तु । का नो हानिः । न हि वयं स्वरूपानादित्वं वदामः । प्रवाहानादित्वं तु पुरतः पुरतो गतप्रवाहसदृशप्रवाहादिना पूर्वं विद्यमानत्वे सत्येवालम् । एवं चेदृशप्रवाहतोऽनादित्वस्यात्रापि सम्भवान्नाव्याप्तिः । अत एवातात्त्विकयोगिनां ज्ञानपरम्परायां नातिव्याप्तिः। सर्वथा पूर्वमविद्यमानायां मध्य एवोत्पन्नायां तस्यामीदृशानादित्वस्याप्यभावात् । स्वरूपज्ञाने तु तात्त्विकयोगिनां स्वरूपज्ञानव्यक्तेरप्यनादिकालादारभ्य वर्तमानत्वेनेदम्पूर्वताभावादनादित्वम् । अतात्त्विकयोगिनां स्वरूपज्ञानं त्वनादिकालमारभ्य शक्त्यात्माना व्यक्तिमदपि योगप्रभावादिना मध्य एव सम्यक् सम्पादितव्यक्तिमत् । न तु तद्य्वक्तिरपि तात्त्विकयोगिनामिवानादिकालमारभ्य व्यक्त्यात्मनैव वर्तमाना । दहनरूपतया विद्यमानाया एव दाहकत्वशक्तेः कालादृष्टकाष्ठादिसमवधाने सति फलोपहितत्वाख्यव्यक्तिरूपावस्थाविशेषवत्साक्षिस्वरूपयाऽनादिकालमारभ्य शक्तिरूपेण विद्यमानायाः स्वयोग्यसकलपदार्थविषयीकरणयोग्यस्वरूपसद्य्वक्तेर्भगवत्प्रसादादिसहकारिसमवधाने सति फलोपहितत्वाख्यव्यक्तिरूपावस्थाविशेषो मध्य एव भवति । एवं च विवक्षितानादित्वस्यातात्त्विकयोगिस्वरूपज्ञानेऽप्यभावान्न तत्रातिव्याप्तिः । तात्त्विकयोगिस्वरूपज्ञाने विवक्षितानादित्वसद्भावान्नाव्याप्तिश्च । अत एव तत्र स्वरूपस्य सादित्वं व्यक्त्यपेक्षया । अन्यस्य तु प्रवाहोत्पत्त्यपेक्षयेत्याहुः । अनादितो नित्यं च व्यक्तः । प्रत्यक्षैकस्वभावोऽपि ऋजुयोगिनां साक्ष्यपरोक्षज्ञानात्प्रागीषत्काचावृत्तं चक्षुरिवाविद्यावरणवशादस्पष्टमेव स्वानन्दादिकमीक्षते । न स्पष्टमनुभवति बाह्यं दुःखं चानुभवति । अपरोक्षज्ञानदशायामपि छायास्थवर्णरेखादिवदीश्वरेच्छोपोद्बलिता द्दग्धपटोपमा विद्यासंस्कारादीषत् स्पष्टमेवानुभवति । न तु मुक्तिसमानयोगक्षेमतया । दुःखस्पृष्टत्वाद्बाह्यं दुःखं चानुभवति । मुक्तौ तु छायायां यावद्रेखोपरेखाविशिष्टतया प्राग्दृष्टवर्णानामेवातपे स्पष्टं विशेषेणानुभववदविद्यालेशस्याप्यभावादीश्वरपरमानुग्रहाच्च स्पष्टमनुभवति । मुक्तेरात्यन्तिकदुःखनिवृत्तिरूपत्वाद्दुःखं न कदाऽप्यनुभवति । अतो न मुक्तेर्वैय्यर्थ्यम् । तात्त्विकयोगिनां तु साक्षी मुक्तेः प्रागनादिकालमारभ्य कदाचित् कदाचिद्य्वक्तमनुभवन्नपि तस्यानादित्वं पूर्ववदिति वदताऽनित्यत्वनियमाभावस्यापि सूचितत्वेनेषदविद्यापिधानवशान्मध्ये मध्ये नानुभवति च । बाह्यं दुःखं तु ऋजुभ्योऽधिकमनुभवति । मुक्तौ तु सदा सुस्पष्टं चानुभवति । अतो नानादित्वप्रसङ्गो न वा मुक्तेर्वैय्यर्थ्यम् । एतदेवाभिप्रेत्योक्तमामुक्तेर्व्यक्त्यतिशयोपेतमिति व्यक्तौ स्पष्टतारूपातिशयोपेतमित्यर्थः ।

अतात्त्विकयोगिप्रभृतीनां तु व्यक्तेः सादित्वादत एव यावद्य्वक्तीनामपि युगपद्भाव्यत्वनियमाभावाच्चापरोक्षज्ञानदशायामपि सुप्ताविव नानवच्छिन्नस्वरूपानन्दानुभवनियमः । मध्ये मध्ये विच्छेदसम्भवाच्च न सदा तदनुभवनियमः । दुःखं तु तात्त्विकयोगिभ्योऽप्यधिकमनुभवति । किन्तु मुक्तावेव सर्वदा सकलतदनुभवः । दुःखस्य त्वननुभव एवेति सुतरां मुक्तेरवैय्यर्थ्यम् । लिङ्गभङ्गादविद्याकामकर्मादिदोषोच्छेदादपि सर्वेषां मुक्तेरवैय्यर्थ्यमिति द्रष्टव्यम् । तस्मादुक्तं युक्तमिति ।

रा.— ।। योगेति । समाधिपरिपाको योगः । समाधिपरिपाकवन्तो योगिन इति तत्त्वनिर्णयटीकोक्तेः । तत्सामर्थ्यलब्धोत्कर्षमित्यर्थः । ऋजुयोगीति कर्मधारयः । एवमग्रेऽपि ।। तात्त्विकेति । महदहङ्कारादितत्त्वानामभिमानिनस्तात्त्विकाः । ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग्गणा इति भारततात्पर्यनिर्णयोक्तेराह ।। ऋजवो नामेति । असम्भवनिरासायेश्वरादन्यत्रेति । लक्ष्मीज्ञानेऽनतिव्याप्तये आलोचन इति । तज्ज्ञानं ऋजुयोगिज्ञानम् । असार्वत्रिकमेवेत्येवकारेणालोचनेऽपीति वा विवादाभावं वा सूचयति ।। मनोवृत्तीति । मनःपरिणामरूपम् ।। आ मुक्तेरिति । आकडारादित्यादाविव भिन्नं पदम् । व्यक्त्यतिशयो नामाधिकाधिकभगवद्गुणकर्मादिविषयकत्वम् । एकप्रकारं वृद्धिक्षयापेतम् ।। प्रत्यक्षादीति । अनुमानागमावादिपदार्थः ।। नास्त्येवेति । मनस एवाभावादिति भावः ।। द्वयमपीति । ऋजुयोगिनां ज्ञानद्वयमित्यर्थः ।। तदतिरिक्ता इति । लक्ष्मीऋजुयोगिव्यतिरिक्ताः । तेषामपि तत्त्वाभिमानित्वात्तद्य्वतिरिक्ता इत्युक्तिः । असुरव्यावृत्तये देवा इति । तज्ज्ञानं लक्षयति ।। अनादित्व इति । तज्ज्ञानं तात्त्विकयोगिज्ञानम् । ऋजुज्ञानव्यावृत्तये ईशादन्यत्रेति । अयोगिज्ञानव्यावृत्तयेऽनादित्वे सतीति ।। बाह्यं चेति । मनोवृत्तिरूपं चेत्यर्थः ।। पूर्ववदिति । ऋजुयोगिज्ञानवत्स्वरूपज्ञानं स्वरूपतोऽनादि । वृत्तिज्ञानं तु प्रवाहत इति ज्ञेयमित्यर्थः । तद्य्वतिरिक्ता ऋजुतात्त्विकव्यतिरिक्ता देवष्यार्दय इत्यर्थः । ऋजुतात्त्विकव्यावृत्तये एतद्विशेषणम् । अयोगिव्यावृत्तये योगिन इति विशेषणम् ।। अल्पाज्ञानयुक्तमिति । तज्ज्ञानमिति शेषः । ज्ञानं यावद्विषयीकरोति ततो न्यून विषयकज्ञानयुक्तमित्यर्थः । ऋजुतात्त्विकज्ञानव्यावृत्तये सत्यन्तम् । अयोगिज्ञानव्यावृत्तयेऽल्पाज्ञानयुक्तमिति । असम्भवनिवृत्तये ईशादन्यत्रेति ।। पूर्ववदिति । स्वरूपं बाह्यं चेति द्विविधमित्यर्थः । स्वरूपज्ञाने सादित्वं घटयति ।। तत्रेति । तयोर्मध्य इत्यर्थः । व्यक्तिरर्थविषयीकरणं तस्यानादितः सर्वजीवसाधारण्येन स्वयोग्यात्ममनस्तद्धर्मादिविषयीकरणसत्त्वेऽप्ययोग्यविषये योगप्रभावाधीना व्यक्तिः कदाचिदस्तीति भावः । अन्यस्य बाह्यस्य । एतेन ऋजुतात्त्विकवृत्तिज्ञानवैलक्षण्यं दर्शितम् ।। पूर्ववदिति । स्वरूपज्ञानं यथार्थमेव वृत्तिज्ञानं तु कदाचिदयथार्थमपीति ध्येयमित्यर्थः । आदिपदेनायथार्थग्रहः ।

श्रीविजयीन्द्रतीर्थ

योगिज्ञानं लक्षयति ।। योगेति । अतिबहुविषयकत्वलक्षणः ।। ऋजुज्ञानमिति । ब्रह्मत्वभवनयोग्यज्ञानमित्यर्थः ।। तात्त्विकेति । ब्रह्मत्वयोग्यतात्त्विकमित्यर्थः ।। अतात्त्विकेति । तत्त्वाभिमानियोगिज्ञानमित्यर्थः । इतरयोगिज्ञानापेक्षया ऋजुयोगिज्ञाने प्रकर्षमाह ।। ईश्वरादन्यत्रेति । गुणगुणिनोरभेदादाह ।। ईश्वरे त्विति ।। तदिति । ऋजुज्ञानमित्यर्थः ।। स्वरूपमिति । स्वाभिन्नमित्यर्थः ।। योगेति । योगप्रभावान्मुक्तिपर्यन्तं व्यक्त्यतिशयोऽहरहरधिकाधिकविषयत्वं तदुपेतमित्यर्थः ।। एकप्रकारमिति । न्यूनाधिकविषयत्वरहित इत्यर्थः ।। प्रवाहतोऽनादीति । सजातीयध्वंसव्याप्यप्रागभावप्रतियोगित्यर्थः ।। योगेति । इदमपि योगप्रभावादामुक्तेः प्रवाहतोऽतिशयोपेतमित्यवधेयम् ।। तत्प्रत्यक्षादिजन्यमिति । न च प्रमाणान्तरजन्यमपि तस्य ज्ञानमस्ति । योगाख्यसन्निकर्षस्य सर्वदा सत्त्वेन प्रत्यक्षस्यैवोत्पत्तेः समाने विषये प्रत्यक्षसामग्य्रा बलवत्त्वात् । न च सिषाधयिषया तथेति वाच्यम् । व्यवहारादेः प्रत्यक्षत एवोत्पन्नत्वेन सिद्धिविशेषेच्छायां मानाभावात् । तदिच्छाया न्यायनियन्त्रितत्वादिति वाच्यम् । तदज्ञानस्य परोक्षत्वापरोक्षत्वादिना प्रमाणसिद्धतया तज्ज्ञानमात्रे योगस्य सहकारित्वमिति भावः ।। मुक्ताविति । अदृष्टाद्यभावादिति भावः । तात्त्विकज्ञानं लक्षयितुमादौ तात्त्विकाल्लक्षयति ।। तद्य्वतिरिक्ता इति । ब्रह्मणोऽपि तत्त्वाभिमानित्वादेतदुक्तम् । अतात्त्विकज्ञानं व्यवच्छेत्तुमाह ।। अनादित्वे सतीति । यद्यपि व्यक्त्या प्रवाहेन वोभयरूपमप्यतात्त्विकज्ञानमप्यनादि । तथाऽपि योगानुग्रहांशेऽनादित्वं द्रष्टव्यम् । एतस्यानादियोगित्वादतात्त्विकस्य सादियोगित्वादिति भावः ।। पूर्ववदिति । स्वरूपस्य व्यक्त्या मनोवृत्तिरूपस्य बाह्यस्य प्रवाहेनेत्यर्थः । पूर्वोक्तयोगिद्वयातिरिक्तायोगिनोऽतात्त्विकाः । के त इत्यपेक्षायामुक्तं देवादय इति । आदिपदाद्गन्धर्वादिपरिग्रहः ।। ईश्वरादिति । ईश्वरे त्वज्ञानप्रचुरमेवेत्यर्थः ।। द्विविधमिति । स्वरूपं बाह्यं चेत्यर्थः ।। सादित्वमिति । सैव स्वरूपव्यक्तिः। कदाचिद्योगानुग्रहवती कदाचिन्नेत्यर्थः ।। अन्यस्येति । बाह्यप्रवाहे किञ्चिद्योगाननुग्रहोत्पन्नं किञ्चित्तदनुग्रहोत्पन्नमित्यर्थः ।। याथार्थ्येति । स्वरूपं यथार्थमेव । बाह्यं कदाचिदयथार्थमपीत्यर्थः ।

श्रीवेदेशभिक्षु

योगिज्ञानसामान्यलक्षणमाह ।। योगेति । अतिशयो बहुविषयत्वलक्षणः । अत्रैतादृशातिशययोग्यत्वमेव लक्षणं विवक्षितमतः कदाचिदबहुविषयकतदीयज्ञाने नाव्याप्तिरिति ध्येयम् । तद्विभज्योद्दिशति ।। तत्त्रिविधमित्यादिना । के ते ऋजव इत्यत आह ।। ऋजव इति । ब्रह्मत्वयोग्या ब्रह्मपदयोग्याः । तेन ब्रह्माण्या अपि सङ्ग्रहः । बाह्यं कदाचिदयथार्थमपीति वक्ष्यमाणत्वेन तात्त्विकेष्वन्तर्भावायोगात् । तज्ज्ञानं लक्षयति ।। ईश्वरादिति । असम्भवनिरासायेशादन्यत्रेत्युक्तम् । अनालोचन इतीशलक्ष्मीज्ञाननिरासः । सर्वग्रहणमस्मदादिज्ञानव्युदासार्थम् । सर्वविषयं सर्वविषयत्वयोग्यत्वमित्यर्थः । तेनानालोचनादशायां तज्ज्ञाने नाव्याप्तिः । तस्याप्यालोचनलक्षणसहकारिसम्भवेन सर्वविषयकत्वसम्भवेन तत्र तद्योग्यतायाः सत्त्वात् । एतेन मुक्त्यवस्थापन्नर्जुज्ञानेऽनालोचनेऽपि सर्वविषयेऽव्याप्तिरिति निरस्तम् । तस्यापि पूर्वमनालोचने सर्वविषयकत्वेन तत्रापि तद्योग्यताया अक्षतेः । नन्वीश्वरादन्यत्रेवेश्वरेऽपि यद्यलोचने सर्वविषयं तर्हि व्यर्थमीश्वरादन्यत्र ग्रहणमित्यत आह ।। ईश्वरे त्विति । अस्यानादिनित्यत्वे विशेषं वक्तुं तद्विभागमाह ।। तद् द्विविधमिति । यत् स्वरूपज्ञानमनादिनित्यं न तर्हि तद्योगिनां योगजं हि योगिज्ञानमित्यत आह ।। योगेति । मुक्तावपि व्यक्त्यतिशयोपेतत्वे परिमितं न स्यादित्यत आह ।। आ मुक्तेरिति । आङ् मर्यादायाम् । अभिवृद्धनदीपूरवत्पुनर्ह्रासो भवति किं नेत्यत आह ।। मुक्ताविति । प्रवाहत इत्युक्त्या स्वरूपोत्पत्तिरनुज्ञायते । तत्केनेत्यत आह ।। योगेति । आदिपदेनानुमानागमपरिग्रहः । अनेनैतदपि निरस्तम् । यत्केनचिदुक्तमृजूनां ज्ञानं प्रात्यक्षिकमेव न परोक्षमिति । आदिपदेनानुमानागमजन्यत्वस्य स्पष्टं प्रतीयमानत्वेनाकरविरुद्धत्वात् । स्वरूपज्ञानवदिदमपि प्रवाहतः किं नेत्यत आह ।। मुक्तौ त्विति । तात्त्विकादिज्ञानवदिदमृजुयोगिज्ञानं किं कदाचिदयथार्थमपि भवति नेत्याह ।। ईश्वरेऽपीति । तात्त्विकज्ञानं लक्षयितुं तावत्तेषां लक्षणमाह ।। तद्य्वतिरिक्ता इति । ऋजुव्यावृत्त्यर्थमेतत् । असुरव्यावृत्त्यर्थं देवा इति । अतात्त्विकव्यावृत्त्यर्थं तत्त्वाभिमानिन इति । तज्ज्ञानं लक्षयति ।। अनादित्वे सतीति । अनादित्वेनातात्त्विकयोगिज्ञाननिरासः ।। ईश्वरादन्यत्रेति । ईश्वरविषये आलोचनेऽप्यसर्वविषयलक्ष्मीज्ञानादिनिरासः । ऋजुज्ञाननिरासायालोचनेऽपीति ।। पूर्ववदिति । स्वरूपस्य व्यक्त्यपेक्षया मनोवृत्तिरूपस्य प्रवाहेनेत्यर्थः । ऋजुतात्त्विकव्यतिरिक्ता योगिनोऽतात्त्विका इत्येव लक्षणम् । के ते इत्यत उक्तं देवादय इति । आदिपदेन ऋषिगन्धर्वादिग्रहणम् । तज्ज्ञानं लक्षयति ।। सादित्वे सतीति ।

तात्त्विकज्ञानव्यावृत्त्यर्थं सत्यन्तम् । ईशादन्यत्रेत्यसम्भवनिरासार्थमल्पज्ञानयुक्तमित्ययोगिज्ञाननिरासः ।। व्यक्त्यपेक्षयेति । अनादितोऽनभिव्यक्तमेव स्वरूपं वैदिकेश्वरादिविषये कदाचिदभिव्यज्यत इत्यर्थः ।। प्रवाहतोत्पत्तीति । वैदिकेश्वरादिविषये वृत्तिप्रवाहोऽनादिकालेऽनुत्पन्नःकदाचिदुत्पद्यत इत्यर्थः । एवं च ऋजुतात्त्विकस्वरूपज्ञानेऽपि व्यक्तेः साम्याद्वृत्तिज्ञानसादित्वस्य चात्रेव तत्रापि विद्यमानत्वेन कथं तात्त्विकातात्त्विकयोगिज्ञानयोरनादित्वसादित्वकथनमिति चोद्यानवकाशः । वैदिकेश्वरविषये तात्त्विकस्वरूपव्यक्तिवृत्तिप्रवाहयोरिदम्प्रथमताभावेनादित्वमतात्त्विकस्वरूपज्ञानव्यक्तिवृत्तिप्रवाहयोरिदम्प्रथमतया कादाचित्कत्वादेवोत्पन्नत्वस्य विवक्षितत्वात् । केचित्तु । योगानुग्रहांशेऽनादित्वसादित्वे विवक्षिते । तथा च सात्त्विकस्वरूपज्ञानवृत्तिप्रवाहयोरनादित एव योगप्रभावलब्धातिशयत्वमतात्त्विकस्वरूपज्ञानवृत्ति प्रवाहयोर्योगप्रभावलब्धातिशयत्वं तु कदाचिज्जायतेऽत इदं वैलक्षण्यं युक्तमित्याहुः ।

अभिनवामृतम्

योगिनां ज्ञानमात्रं योगिज्ञानमिति न मन्तव्यम् । अपि तु योगप्रभावलब्धातिशयमेव योगिज्ञानमिति भावेनोक्तं योगप्रभावेति । योगप्रभावलब्धातिशयवत्त्वं योगिज्ञानतुल्यमिति भावः । ऋजुयोगिज्ञानलक्षणमाह ।। ईश्वरादन्यत्रेति । आलोचनलक्षणसहकारिसम्पत्तावीश्वरादन्यत्र घटादौ सर्वविषयं पलपरिमाणादिसर्वधर्मविषयमृजुयोगिज्ञानमित्यर्थः । अस्य लक्षणस्य जगद्विषयज्ञानान्येव लिलक्षयिषितानि न त्वीश्वरज्ञानानि । अतो न तत्राव्याप्तिदोष इति बोध्यम् । नाप्यालोचनासहकृतेनैव । सर्वविषये घटादिज्ञानेऽव्याप्तिस्तस्य योगप्रभावलब्धातिशयत्वादयोगिनो ज्ञानत्वेनालक्ष्यत्वात् । नाप्यालोचनसहकृतस्यापि घटादिज्ञानस्य पटादिविषयकत्वाभावादसम्भवः । घटादिगतसर्वधर्मविषयकत्वस्यैव लक्षणार्थत्वेन पटादिसर्वविषयकत्वस्यालक्षणार्थत्वात् । नापीशलक्ष्मीज्ञानयोरतिव्याप्तिः । तयोः स्वतः सर्वविषयकत्वेन सहकारिबललब्धसर्वविषयकत्वाभावात् । नापि मुक्तज्ञानेष्वव्याप्तिः । तज्ज्ञानस्यापि प्रागनुष्ठितप्रभावलब्धातिशयत्वात् । नन्वीश्वरादन्यत्रेति व्यर्थम् । तज्ज्ञानस्य घटादाविवेश्वरेऽपि सार्वत्रिकत्वात् । न हि यावदीश्वरधर्मज्ञानाभावेन तत्प्रतियोगिको घटादिनिष्ठो भेदो ज्ञातुं शक्यत इत्यत आह ।। ईश्वरे त्विति । ईश्वरज्ञानवत्सार्वत्रिकमेव तज्ज्ञानं तथाऽप्यन्यज्ञानेभ्यो विशिष्यत इत्यर्थः । सामान्यतः प्रतियोगिज्ञानसद्भावेन भेदज्ञानं नानुपपन्नमिति भावः । अयं च न्यायो घटादिधर्मिकजगत्प्रतियोगिकभेदबोधेऽपि द्रष्टव्यः । ब्रह्माणीविज्ञानं चतुर्मुखविज्ञानवद्द्रष्टव्यम् ।। वृत्तिज्ञानं प्रवाहतोऽनादीति । योगस्यनादित्वाद्योगप्रभावलब्धातिशयस्य ज्ञानस्येदम्प्रथमत्वाभाव एवानादित्वं बोध्यम् । एतेन सुप्त्यभावप्रसङ्गोऽपि निरस्तो बोध्यः ।। नियमेनेति । यद्यत्सरूपं बाह्यं वा ऋजुयोगिज्ञानं तत्सर्वमपि यथार्थमित्यर्थः ।। अनादित्वे सतीति । इदमपि लक्षणमनीश्वरविषयज्ञानलिलक्षयिषया प्रवृत्तमिति नेश्वरविषयज्ञानाव्याप्तिरिति बोध्यम् । अतात्त्विकयोगिज्ञानव्यावृत्त्यर्थमनादित्वे सतीति विशेषणम् । तात्त्विकानां ज्ञानेषु लक्ष्यं विवेक्तुं यथार्थायथार्थराश्यात्मकं ज्ञानं विभजति ।। तदपीति । एतेन प्रमाणे विभागकथनावसरेऽयथार्थज्ञाननिरूपणमयुक्तमिति परास्तम् । बाह्यं कदाचिदिति । किञ्चिद्बाह्यज्ञानमयथार्थं भवतीत्यर्थः । एतेनैकमेव ज्ञानं कदचिद्यथार्थं कदाचिदयथार्थमित्यापन्नम् । तच्चायुक्तमिति परास्तम् । अतात्त्विकानामीश्वरविषयकज्ञानलक्षणमह ।। सादित्वे सतीति । सादित्वे सत्यन्यत्रासर्वविषयत्वमित्यर्थः । एतेनाल्पाज्ञानयुक्तत्वस्य तात्त्विकज्ञानेऽभावेन सादित्वे सतीति विशेषणं व्यर्थमिति परास्तम् । यद्यपि तात्त्विकातात्त्विकज्ञानयोः सर्वविषयत्वे तारतम्यमस्ति तद्विवक्षायां सादित्वे सतीति विशेषणं व्यर्थम् । तथाऽपि तद्विवक्षाया अकारणात्सार्थकं विशेषणम् ।। अन्यस्य प्रवाहतोत्पत्त्यपेक्षयेति । योगप्रभावलब्धातिशयविशेषविशिष्टप्रवाहोत्पत्त्यपेक्षयेत्यर्थः ।

वाक्यार्थमञ्जरी

।। योगप्रभावेति । ध्यानपरिपाकसामर्थ्येत्यर्थः ।। ब्रह्मत्वयोग्या इति । योग्यतायाः स्वरूपत्वादिदानीन्तनचतुर्मुखे इदमस्तीति ज्ञेयम् ।। ईश्वरादन्यत्रालोचन इति । नन्वत्रालोचनपदं न्यायकल्पलतोक्तरीत्या लक्ष्मीज्ञानेऽतिव्यप्तिवारकमिति वाच्यम् । न चैतत्सम्भवति । अनालोचने सर्वविषये लक्ष्मीज्ञानस्यालोचने सर्वविषयत्वस्य कैमुत्यसिद्धत्वात् । सम्मतं चैतद्ग्रन्थकर्तुः । लक्ष्मीज्ञानलक्षणेऽनालोचनेऽपीत्यपिशब्दप्रयोगात् । स चालोचनविषयत्वं समुच्चिनोति । अन्यथा तद्वैय्यर्थ्यात् । न चात्रालोचनाधीनसर्वविषयत्वं विवक्षितम् । लक्ष्मीज्ञानस्य च सर्वविषयकत्वं स्वभाव एव न त्वालोचनाधीनमतो नातिव्याप्तिरिति वाच्यम् । तर्हि लक्ष्मीज्ञाने आलोचने सर्वविषयत्वस्य मृषात्वापत्त्याऽपिशब्दवैय्यर्थ्यानिस्तारात् । न चालोचनसमानकालीनत्वमात्रसमुच्चायकः स इति वाच्यम् । आलोचनस्य सर्वविषयकत्वानुपयोगे तत्समानकालीनतासमुच्चयवैय्यर्थ्यात् । न चालोचन एव सर्वविषयकत्वं विवक्षितं लक्ष्मीज्ञानं त्वनालोचनेऽपि सर्वविषयमिति न तत्रातिव्याप्तिरिति वाच्यम् । मुक्तऋजुज्ञानेऽव्याप्तेः । तस्य रमाज्ञानवदनालोचनेऽपि सर्वविषयत्वात् । अतः कथमेतदिति चेन्न । रमाया आलोचनाभावात् । अज्ञस्यैव ह्यालोचनम् । तपसा चीयते ब्रह्मेत्यादौ । तप आलोचन इति धातोः । अतःकथं रमाया आलोचनाभाव इति चेन्न । तत्तपसो ज्ञानरूपत्वेनालोचनात्मकत्वाभावात् । अत एव तपसा चीयत इत्ययेन प्राप्ताज्ञानशङ्का यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप इत्युत्तरवाक्येन निराकृता । यस्य तपो ज्ञानमयं ज्ञानात्मकं न त्वालोचनात्मकम् । कुतः । यः सर्वज्ञ इति । नन्वेवमप्यपिशब्दवैय्यर्थ्यं न परिहृतम् । किञ्च लक्ष्मीज्ञानलक्षणस्य मुक्तऋजुज्ञानेऽतिव्याप्तिः । तत्र सर्वविषयकत्वस्य तत्स्वभाववत्त्वेनालोचनानपेक्षणात् । ऋजुज्ञानलक्षणस्य च तत्राव्याप्तिः । नन्वत्रालोचने सर्वविषयत्वं नामालोचने सर्वविषयत्वात्यन्ताभावाधिकरणत्वम् । मुक्तऋजुज्ञाने तु नैतदस्ति । तत्र संसारदशायामालोचने सर्वविषयकस्येदानीन्तनध्वंसाधिकरणत्वेन तदत्यन्ताभावाधिकरणत्वाभावात् । अतो न तत्रातिव्याप्तिः । ऋजुज्ञाने चालोचने सर्वविषयत्वात्यन्ताभावानधिकरणत्वं विवक्षितम् । तच्चोक्तरीत्या मुक्तऋजुज्ञानेऽप्यस्तीति नाव्याप्तिरिति चेन्न । तथात्वे लक्ष्मीज्ञानलक्षणस्यालोचनेऽप्यसर्वविषयकेऽस्मदादिज्ञानेऽतिव्याप्तेः । ज्ञानलक्षणस्य चालोचनाभावदशायामेवोत्पन्ननष्टे ऋजुवृत्तिज्ञानेऽव्याप्तेः । न हि तस्य कदाऽप्यालोचने सर्वविषयत्वमस्ति येन तदत्यन्ताभावानधिकरणत्वं स्यात् । तस्माल्लक्ष्मीऋजुज्ञानलक्षणयोर्मुक्तऋजुज्ञानेऽतिव्याप्त्यव्याप्त्योरपरिहार एवेति चेत् । अत्रोच्यते । अनालोचनेऽपीत्यपिशब्दोऽभिव्याप्तौ । ततश्च रमाज्ञानस्य सर्वविषयत्वं प्रत्यनालोचनस्य व्यापकत्वमुक्तं भवति । तेनालोचनसर्वविषयकत्वयोरव्यभिचरितसम्बन्ध उक्तो भवति । न च मुक्तऋजुज्ञाने एतदस्ति । संसारदशायां व्यभिचारात् । ऋजुज्ञाने चालोचने सर्वविषयत्वजातीयत्वं विवक्षितम् । तच्च मुक्तऋजुज्ञानेऽनालोचनदशोत्पन्नवृत्तिज्ञाने चास्तीति नाव्याप्तिः । सम्मतं चैतत्परेषामपि वनस्थदण्डादेर्घटकारणत्वोपपादनायानन्यथासिद्धनियतपूर्ववृत्तिजातीयत्वमिति वदतां साजात्यं च ऋजुज्ञानत्वादिसदृशजात्याश्रयत्वेनेति सङ्क्षेपः ।। प्रवाहतोऽनादीति । इदं प्रथमताशून्यप्रवाहप्रविष्टमित्यर्थः ।

श्रीविट्टलभट्ट

योगिज्ञानलक्षणमाह ।। योगप्रभावेति । समाधिपरिपाकवन्तो योगिन इति विष्णुतत्त्वनिर्णयटीकोक्तेः । योगः समाधिपरिपाकस्तस्य प्रभावः सामर्थ्यं तेन लब्धः प्राप्तोऽतिशयोऽयोगिज्ञानाधिकविषयीकरण उत्कर्षो यस्य तद्योगिज्ञानमित्यर्थः । योगिप्रत्यक्षेऽतिव्याप्तिपरिहाराय ज्ञानमित्युक्तम् । ईश्वरलक्ष्मीज्ञानयोरतिव्याप्तिनिरासाय योगप्रभावलब्धेत्युक्तम् । अयोगिज्ञानेऽतिव्याप्तिवारणाय लब्धातिशयविशषेणम् । योगप्रभावलब्धं ज्ञानमित्येवोक्ते योगिनां स्वरूपज्ञानेऽव्याप्तिः । योगरहितानामपि स्वरूपज्ञानसत्त्वेन तत्प्राप्तेः । योगप्रभावानधीनत्वात् । तद्वारणायातिशयग्रहणं कृतम् । प्रमाणलक्षणटीकायां तत्र योगिनां देशकालवस्तुस्वभावव्यवहितार्थमपि विषयीकरोतीत्यनेन द्विविधेन्द्रियात्मकयोगिप्रत्यक्षस्यायोगिज्ञानादधिकविषयीकारित्वस्योक्तत्वात्समानविषये तज्ज्ञानेऽप्ययोगिज्ञानादधिकविषयीकरणलक्षणातिशयस्य योगाधीनत्वात् । तद्ग्रहणेन तत्राव्याप्तिर्निरस्ता । योगिज्ञानविभागमाह ।। तत्त्रिविधमिति । अयमपि विभागो महावैलक्षण्यद्योतनार्थः । तिस्रो विधाः प्राधान्येनोद्दिशति । ऋजूनामिति । ऋजुज्ञानमन्तरेण तज्ज्ञानस्य ज्ञातुमशक्यत्वात् ऋजुलक्षणमाह ।। ऋजवो नामेति । ब्रह्मयोग्या विरिञ्चत्वयोग्या इत्यर्थः । अस्मदादिव्यावृत्त्यर्थं ब्रह्मत्वेति विशेषणम् । वाय्वादावव्याप्तिवारणाय योग्या इति विशेषणम् । योग्यताया जीवस्वरूपत्वाद्ब्रह्मत्वं प्राप्तानामपि योग्यतासद्भावात् न चतुर्मुखेष्वव्याप्तिः । चतुर्मुखः परमात्माभिन्न एवेति मतं कुमतमिति ज्ञापनाय स्वरूपकथनपरं जीवपदम् । ऋजुज्ञानलक्षणमाह ।। ईश्वरादन्यत्रेति । ऋजुप्रत्यक्षेऽतिव्याप्तिवारणाय ज्ञानपदमध्याहार्यम् । मनःप्रणिधानपूर्वकमनुसन्धानमालोचनम् । तस्मिन्सति सर्वविषयमालोचनाधीनसर्वविषयत्वोपेतं ज्ञानमृजुज्ञानमित्यर्थः । असम्भवपरिहारार्थमीशादन्यत्रेत्युक्तम् । ईशलक्ष्मीज्ञानयोरतिव्याप्तिवारणायालोचन इत्युक्तम् । सर्वज्ञानमस्मदादिव्यवच्छेदाय । ननु ऋजुज्ञानमनालोचने सर्वविषयं न वा । नाद्यः । लक्ष्मीज्ञानलक्षणस्य तत्रातिव्याप्तिप्रसङ्गात् । तात्त्विकज्ञानलक्षणे आलोचनेऽपीति विशेषणवैय्यर्थ्याच्च । प्रमाणलक्षणटीकायां सादित्वग्रहणमृजुतात्त्विकज्ञानव्यावृत्त्यर्थमित्युक्त्ययोगाच्च । तद्विशेषणरहितस्यातात्त्विकयोगिज्ञानलक्षणस्य ऋजुज्ञानेऽभावात् । नेतरः । ज्ञानलक्षणस्य तत्रातिव्याप्तिप्रसङ्गात् । न च सर्वविषयत्वयोग्यतैवात्राभिप्रेता न फलोपधानमिति वाच्यम् । योग्यताया आलोचनाधीनत्वेन सम्भवापातादिति चेन्न । द्वितीयपक्षाभ्युपगमात् । न च तत्पक्षोक्तदोषः । आलोचनाधीनं यत्सर्वविषयीकरणं तत् सामर्थ्योपेतं ज्ञानमृजुज्ञानमिति विवक्षितत्वात् । तथाऽऽलोचनरूपसहकार्यभावे योगमात्रसहकृतप्रत्यक्षजन्यस्यायोगिज्ञानादधिकविषयीकारिणो ऋजुज्ञानस्य सर्वविषयीकरणरूपफलोपधानाभावेऽपि तत्सामर्थ्यमस्त्येवेति नाव्याप्तिरिति ज्ञातव्यम् । आलोचनरूपे सहकारिणि सति ऋजुज्ञानस्येश्वरादन्यत्र सर्वविषयं चेत् सहकारिविशेषे सति ऋजुज्ञानस्य साकल्येनेश्वरविषयीकारित्वमपि किमस्तीति जिज्ञासायामाह ।। ईश्वरेत्वसार्वत्रिकमेवेति । ईश्वरे तु सर्वविषये चासार्वत्रिकमेवासर्वविषयकमेव न तु केनचिद्विशेषेण सर्वविषयीकारीत्यर्थः । ऋजुज्ञानं ईशलक्ष्मीज्ञानवत् स्वरूपात्मकमेवेति प्रतीति वारणाय तद्विभागमाह ।। द्विविधमिति । प्राधान्यक्रमेण द्विधे उद्दिशति ।। स्वरूपं मनोवृत्तिरूपं चेति । प्रमातृभिन्नमन्तःकरणपरिणामरूपं चेत्यर्थः । तदुभयस्वरूपं कीदृशमिति जिज्ञासायामाद्यस्वरूपं तावदाह ।। तत्र स्वरूपमित्यादिना । तत्र तयोर्मध्ये स्वरूपं स्वरूपज्ञानमनादि नित्यमुत्पत्तिविनाशरहितमित्यर्थः । स्वरूपज्ञानं यद्यनादि न तर्हि तद्योगज्ञानं योगजं हि योगिज्ञानमित्यत आह ।।   ज्ञानेनावरणभूताविद्यानिवृत्तात्मस्वरूपभूतसुखस्य व्यक्तत्वादिति गीताभाष्यकटीकायां ज्ञानेनाविद्यानिवृत्तायामशेषानिष्टनिवृत्तिर्भवति । स्वरूपसुखं च बहुतरमिति व्यज्यते न तु सर्वमित्यादि गीताभाष्यकटीकायां च । सुप्तौ भक्तिं विना सुखाद्यभिव्यक्तिदर्शनादिति तत्त्वप्रकाशिकायां च । अव्यक्तत्वात्संसारे न भासते व्यक्तत्वान्मुक्तौ भासत इति चेन्न । अव्यक्तिर्हि प्रतिभासाभावो व्यक्तिः प्रतिभास इति सुधायाम् । आवृताः सन्तो व्यज्यन्ते ज्ञानस्य स्वरूपत्वेनानादित्वेऽप्यविद्यया विषयविषयिभावः प्रतिबध्यत इति च सुधायाम् । स्वरूपज्ञानेन प्रतिभासरूपविषयीकरणे व्यक्तिशब्दायोगादर्थविषयीकरणं व्यक्तिः । तथा च योगसामर्थ्यादयोगिज्ञानादधिकार्थविषयीकरणरूपव्यक्त्युपेतमित्यर्थः । साक्षियोग्यार्थे साक्षिणैव स्वरूपज्ञानस्य व्यक्तिसद्भावाद्योगसम्पत्तिवैकल्यं स्यादिति शङ्कावारणायातिशयग्रहणं कृतम् । योगप्रभावेन व्यक्त्यतिशयलक्षणवृद्धिसद्भावाद्योगिज्ञानत्वं युक्तमिति भावः । योगप्रभावेनायोगिज्ञानापेक्षयाऽपूर्वार्थविषयीकरणरूपो व्यक्त्यतिशयो जायमानो निरवधिक एवेति न मन्तव्य इत्याह ।। आ मुक्तेरिति । आङ्मर्यादायां वर्तते । मुक्तिपर्यन्तमेवेत्यर्थः । क्रमेण जायमानाया अधिकयोगसम्पत्तेर्मुक्तिपर्यन्तत्वात्तत्प्रयुक्तव्यक्त्यतिशयोऽपि तथेति भावः । नन्वेतद्वचनं क्रमेण वर्धमानमिति प्रमाणलक्षणोक्तवचनं च लक्षणवाक्यविरुद्धम् । सकृदेवालोचनेन सर्वविषयीकारिणो ऋजुज्ञानस्य योगप्रभावेनाधिकार्थविषयीकरणात्मकव्यक्त्यतिशयापरनामकवृद्धेरसम्भवादिति चेन्न । आलोचनेनेश्वरादन्यत्राशेषविषयस्यापि ऋजुज्ञानस्वरूपस्य क्रमेण वर्धमानयोगप्रभावादीश्वरेऽपि विषये व्यक्त्यतिशयरूपवृद्धेः सम्भवाद्वाक्यद्वयस्य परमात्मनि विषयेऽपि लक्षणवाक्यविरोधाभावात् । ईश्वरातिरिक्ताविषये आलोचनाभावदशायं योगप्रभावक्रमेणैव साक्ष्ययोग्यार्थविषयीकारिणो ऋजुस्वरूपज्ञानस्य कादाचित्कालोचनरूपसहकारिविशेषसम्पत्त्या सकलजगद्गोचरत्वेऽपि तदाऽपि योगाधिक्यात्प्राचीनाल्पयोगप्रयुक्तव्यक्त्यपेक्षयाऽधिकाभिव्यक्तेः सम्भवाद्वाक्यद्वयस्येश्वरातिरिक्तविषये लक्षणवाक्यविरोधाभावादिति । नन्वत्राप्यस्तु मुक्तिपर्यन्तवृद्धिः । तथाऽप्यतिवृद्धनदीपूरत्ववत्पुनः किं ह्रासो भवति नेत्याह ।। मुक्तावेकप्रकारमिति । एकप्रकारमेकविधं वृद्धिह्रासलक्षणप्रकारद्वयोपेतं न भवतीति यावत् । यद्यपि ऋजुस्वरूपज्ञानं संसारदशायामिति मुक्तिदशायामपीश्वरादन्यत्रालोचने सर्वविषयं तदभावे न सर्वविषयमिति नैकविधम् । तथाऽपि योगप्रभावयुक्तव्यक्त्यतिशयरूपवृद्ध्यपेक्षयैकविधत्वप्रतिपादनपरमेतद्वचनमिति न दोषः । यद्वा ऋजुस्वरूपज्ञानस्य मुक्तावेकविधत्वं परमात्मविषय एव नान्यत्र । अत एवानुव्याख्याने ‘‘ब्रह्मा तु सर्वगं पश्येद् गुणानप्यन्यतोऽधिक’’मित्यनेन सर्वगमन्यतः सरस्वत्यादेरधिकं गुणान्पश्येदिति ब्रह्मणो योग्यदर्शनमभिधाय न तु सर्वेषु कालेषु तथा पश्यत्यामुक्ति इत्युत्तरार्धेन संसारे ब्रह्मणोरभेदेन विशेषं चोक्त्वा मुक्तस्तु सर्वदा पश्येत्सर्वगत्वेन चापि त्विति तदुत्तरार्धेन मुक्तो ब्रह्मा तु सर्वगत्वेन चशब्दात्सरस्वत्यादिदृष्टाधिकगुणत्वेन सर्वदा पश्येदिति मुक्तिदशायां भगवद्विषये चतुर्मुखज्ञानस्यैकविधत्वमुक्तम् । यद्यपि

न रमावद्विशेषाणां दर्शनं शक्नुयात्क्वचित् ।

स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि ।

पश्यत्यञ्ज इति तदुत्तरवाक्ये क्वचित्संसारे मुक्तावपि रमावद्विशेषाणां दर्शनं न शक्नुयादितीश्वरे विषये रमाज्ञानापेक्षया चतुर्मुखज्ञानस्य सर्वदा न्यूनतामभिधाय स्वात्मानं भगवतोऽन्यत्संसारे मुक्तौ चाखिलैरपि विशेषैरञ्चः पश्यतीति जगद्धीति तज्ज्ञानस्यैकविधत्वमुक्तम् । तथाऽप्यस्य वचनस्यालोचने सत्येव सदा पश्यतीत्येवार्थो वर्णनीय इत्यविरोधः । अन्यथाऽन्यत्रालोचने सर्वविषयमिति प्रमाणलक्षणवचनविरोधात् । ऋजुज्ञानेऽतिव्याप्तिवारणायालोचनेत्यपि ग्राह्यम् । तस्यालोचनेऽन्यत्र सर्वविषयत्वं वक्ष्यतीति प्रमाणलक्षणटीकावचनविरोधापाताच्च । ईश्वरादन्यत्रालोचने सर्वविषयमृजुज्ञान मित्येतद्ग्रन्थवचनविरोधाप्रसङ्गाच्च । ऋजुज्ञानस्येश्वरादन्यत्रानालोचनेऽपि मुक्तौ सर्वविषयत्वाङ्गीकारे लक्ष्मीज्ञानलक्षणस्य तत्रातिव्याप्तिप्रसङ्गाच्च । मुक्तानां स्वरूपानन्दांशे कादाचित्कविशेषस्य भाष्यटीकाकारैरुक्तत्वान्मुक्तऋजुज्ञानस्यप्यानन्दांशेकादाचित्कविशेषानङ्गीकारे तदुक्तिविरोधापाताच्च । तदुक्तं श्रीमद्भाष्ये ।

अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् ।

कदाचित्कविशेषस्तु नैव तेषां विरुद्ध्यत इति ।

प्रवाहतस्तु वृद्धिर्वा ह्रासो नैवास्ति कुत्रचित् ।

नाप्रियं किञ्चिदपि तु मुक्तानां विद्यते क्वचित् ।

कुत एव तु दुःखं स्यात्सुखमेव सदोदितम् ।

भोगानां तु विशेषे तु वैचित्र्यं लक्ष्यते क्वचिदिति ।

तदुक्तं च तत्त्वप्रकाशिकायाम् । यदि भोगो न वृद्धिहेतुस्तर्हि व्यर्थोऽसौ किमिति तैः क्रियत इत्यत्र लीयतेति परिहारे स्थिते विशेषं चाह ।। अवृद्धीति । इतरे च स्मृत्यन्तरेण विवृणोति प्रवाहत इतीति । तदुक्तं च गीताभाष्यटीकायाम् । ननु मुक्तः किमर्थं विषयामिच्छेत् । न तावत्सुखार्थं ज्ञानेनावरणभूता विद्यानिवृत्तावात्मस्वरूपसुखस्य व्यक्तत्वात्पृथक्सुखस्यानङ्गीकारात् । नापि दुःखनिवृत्यर्थमविद्यानिवृत्त्यैव तत्सिद्धेरिति । मैवम् । नाविद्यैवात्मस्वरूपस्यावरणं किन्त्वीश्वरेच्छाऽपि । तथा च वक्ष्यति । तथा च ज्ञानेनाविद्यायां निवृत्तायामशेषानिष्टनिवृत्तिर्भवति । स्वरूपसुखं च बहुतरमभिव्यज्यते । न च सर्वज्ञानोत्तरमनुष्ठितं न निवृत्तकर्मणां प्रसङ्गः । परमेश्वरो मुक्तौ विषयानुत्पाद्य तद्भोगज्ञानानभिव्यङ्ग्यमपि स्वरूपसुखं व्यक्तीकरोतीति । ननु तथाऽपि ऋजुज्ञानस्वरूपस्य कथमीश्वरादन्यत्रालोचने सर्वविषयीकारित्वम् । ईश्वरादन्यस्य स्वरूपानन्दस्य तद्विशेषस्य च तैर्विषयीकर्तुमशक्यत्वात् । तदावरणभूताविद्याया ईश्वरेच्छायाश्च सत्त्वात् । न हि सति प्रतिबन्धके तत्र तस्य स्फुरणं सम्भवति । अन्यथा मुक्तियोग्यजीवजातस्यापि स्वरूपज्ञाने स्वरूपानन्दस्य सर्वदा स्फुरणप्रसङ्गादिति चेन्न । आलोचनस्योत्तेजकतया तदा प्रतिबन्धकत्वाभावात् । सत्यपि स्वरूपेण प्रतिबन्धके ऋजुगणस्य स्वरूपज्ञाने स्वरूपानन्दस्य स्फुरणसम्भवात् । अन्यथा मुक्तियोग्यानां सर्वेषामपि सुप्तौ प्रज्ञात्मपरिष्वङ्गेन स्वरूपानन्दस्यास्फुरणप्रसङ्गात् । तदावरणभूताविद्यायाः सत्त्वात् । न चैवं सति भगवत्साक्षात्कारस्य बुहतरानन्दस्फुरणफलकत्वज्ञानोत्तरकर्मणश्च ज्ञानानभिव्यङ्ग्यानन्दस्फुरणफलकत्वं च न स्यात् । ऋजुगणस्यालोचनेनैवाशेषानन्दस्य सत्यपि प्रतिबन्धके स्फुरणसम्भवादिति वाच्यम् । मुक्तियोग्यजीवजातस्य सुप्तावशेषदुःखनिवृत्तिविशिष्टायाः स्वरूपसुखाविर्भावरूपमुक्तेः सत्त्वेऽपि सुप्त्यपगमे तस्याभावादनिवृत्त्या तादृशफलस्य ज्ञानैकसाध्यतया तस्य ज्ञानफलत्ववद् ऋजुगणस्यालोचनदशायमशेषस्वरूपानन्दस्य स्फुरणेऽप्यनालोचने तस्याभावादनिवृत्त्यबहुतरस्वरूपसुखस्फुरणस्य ज्ञानैकसाध्यतया तस्य तत्फलत्वोपपत्तेः । अनालोचनेऽप्येकभोगेन ज्ञानानभिव्यङ्ग्यसुखस्फुरणस्य ज्ञानोत्तरमनुष्ठितेन कर्मणा विनाऽयोगात्तस्य तत्फलत्वोपपत्तेेश्चेति । वृत्तिज्ञानं कीदृशमिति जिज्ञासायामाह ।। वृत्तिज्ञानं त्विति । वृत्तिरूपज्ञानं तु प्रवाहतः प्रवाहापेक्षया स्वसमानजातीयपरम्परापेक्षयाऽनीदीत्यर्थः । ननु ऋजुवृत्तेः प्रवाहापेक्षयाऽनादित्वं चेत्तर्हि सर्वाऽपि तद्वृत्तिः स्वपूर्वकाले स्वसमानजातीयवृत्तिपरम्परावतीति वाच्यम् । तत्र साजात्यं किं वृत्तित्वेनोतापरोक्षवृत्तित्वेनाहोस्विद्योगप्रवाहवृत्तित्वेन । नाद्यः । अतात्त्विकयोगयोग्यवृत्त्योरपि प्रवाहतोऽनादितापाताच्च । तद्वृत्त्योरपि स्वपूर्वकाले वृत्तित्वेन स्वसमानजातीयपरम्परावत्त्वात् । सुप्तिप्रलययोस्तद्वृत्तिपरम्परा नास्तीति चेत् । किं तावता तत्पूर्वं तद्वृत्तिपरम्परासद्भात्वात् । न च सर्वस्यापि लक्ष्यस्य स्वाव्यवहितपूर्वकाले स्वजातीयवृत्तिमती प्रलयादौ तद्वृत्तेरभावादिति वाच्यम् । तात्त्विकयोगिवृत्तेरपि प्रवाहतोऽनादित्वाभावापातात् । तद्वृत्तेः प्रलयेऽभावात् । न चेष्टापत्तिः । तस्यानादित्वं पूर्ववदित्यनेन तात्त्विकयोगिज्ञानस्यापि प्रवाहतोऽनादित्वस्य वक्ष्यमाणत्वात् । न च तत्तत एव वाक्यात्तात्त्विकानां प्रलये स्वरूपातिरिक्तज्ञानमस्त्विति वाच्यम् । सुधायाम्

एवं प्रलयकालेऽपि प्रतिभातपरावरः ।

मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणाद्

इत्यनुव्याख्यानव्याख्यानावसरे मुख्यवायुर्नित्यसम इत्यनेन भूतप्रकरणेऽपि न भूतविषयमिदं सूत्रं तत्राधिकाशङ्काभावात् । अत एव नावान्तराभिमानिविषयम् । किं नाम तत्परमाभिमानिविषयमिति सूचयति । स्वरूपातिरिक्तस्य प्रतिभाज्ञानस्याप्यनुपप्लवादाकाशदेवतातो विशेषो युक्त इति भाव इत्युक्त्या तात्त्विकानां प्रलये स्वरूपातिरिक्तज्ञानाभ्युपगमासम्भवात् । न द्वितीयः । ऋजुपरोक्षवृत्तेः प्रवाहतोऽनादित्वाभावापातात् । न चेष्टापत्तिरिति सम्भवति । वृत्तिज्ञानं तु प्रवाहतोऽनादित्वाभावापातादित्याह ।। योगानुगृहीतप्रत्यक्षादिजन्यमिति । वृत्तिज्ञानमित्यनुवर्तते । एवमुत्तरवाक्येऽनुसन्धेयम् । वृत्तिरूपज्ञानत्वावच्छिन्नयोगोपकृतप्रत्यक्षादिना प्रमाणेन जन्यमित्यर्थः । अनुमानागमयोरादिशब्देन ग्रहणं कृतम् । नियामकाभावेन योगस्य सकलप्रमाणसहकारित्वमेव न चक्षुरादिसहकारितेत्यापातात् । तथा च सर्वस्यानिवृत्तेर्योगजत्वाद्योगजवृत्तित्वेन स्वजातीयप्रवाहापेक्षया ऋजुवृत्तिज्ञानस्य प्रवाहतोऽनादित्वं युक्तमिति हृदयम् । यद्वा योगस्य कादाचित्कत्वादृजूनां योगसम्पत्तेः । पूर्वं तद्वृत्तेर्योगानुगृहीतप्रत्यक्षादिप्रमाणजन्यत्वात्कथं च तद्वृत्तेर्योगज्ञानत्वम् । योगिज्ञानसामान्यलक्षणस्य तत्राभावादित्याह ।। योगानुगृहीतप्रत्यक्षादिजन्यमिति । योगस्यापि प्रवाहतोऽनादित्वाद्वृत्तिज्ञानत्वावच्छिन्नं योगजमिति नोक्तशङ्काऽवकाश इति भावः । योगाधीनस्वरूपज्ञानव्यक्तेर्मुक्तावनिवृत्तिवत्तदधीनवृत्तेरप्यमुक्तावनिवृत्तिरेवेति न मन्तव्यमित्याह ।। मुक्तौ नास्त्येवेति । वाय्वादिवृत्तेः प्रलयेऽप्यलोपेऽपि संसारे वृत्तिनाशाद्वृत्तिर्नास्ति । मुक्तौ तु वृत्तिजातीयमात्रविलोपाद्वृत्तिर्नास्त्येवेत्युक्तम् । स्वरूपज्ञानवृत्तिज्ञानयोरनादित्वसादित्वसादित्वाविनाशित्वविशेषवद्यथार्थं वा यथार्थत्वविशेषोऽस्तीति प्रतीतिवारणायाह ।। द्वयमपीति । स्वरूपज्ञानं बाह्यज्ञानं च यथार्थमेवेत्यर्थः । ऋजुज्ञानस्येश्वरादन्यत्र सर्वविषयत्वेन तत्रेतरज्ञानवैलक्षण्येऽपीश्वरे त्वसार्वत्रिकमित्यनेनोक्तस्य सर्वविषयत्वस्येतरज्ञानसाधारण्यादीश्वरे विषये ऋजुज्ञानस्येतरज्ञानाविशेष एवेति न मन्तव्यमित्याह ।। ईश्वरे त्वन्यजीवेभ्योऽधिकविषयमिति । जीवपदेन तज्ज्ञानमुपलक्ष्यते । नात्र जीवपदं जीवेशयोर्भिदा चैवेत्यत्रेवास्वतन्त्रचेतनपरम् । लक्ष्मीज्ञानतोऽप्यधिक्यप्रसङ्गात् । किन्तु ब्रह्माणि जीवाः सर्वेऽपि परब्रह्मणि मुक्तिगाः । जीवा एव तु दुःखिन इत्यत्रेव दुःखस्पृष्टचेतनपरमेव । एवमृजुव्यतिरिक्तदुःखस्पृष्टचेतनज्ञानेभ्योऽधिकविषयमित्यर्थः । तात्त्विकज्ञानं लक्षयितुं तात्त्विकपदस्य विवक्षितमर्थमाह ।। तदतिरिक्ता इति । ऋजुलक्ष्मीव्यतिरिक्तेऽतिरिक्ता इत्यर्थः । तत्त्वाभिमान्यसुरव्यावृत्त्यर्थं दैवपदम् । लक्ष्मीऋजुव्यावृत्त्यर्थं तद्य्वतिरिक्तम् इत्युक्तम् । अतात्त्विकयोगिप्रविष्टदेवव्यावृत्त्यर्थं तत्त्वाभिमानिन इति विशेषणमपास्तम् । तत्त्वाभिमानिपदेनैवेश्वरनिरासः ।। अनादित्वे सतीति । अतात्त्विकयोग्ययोगिज्ञानव्यावृत्त्यर्थमिदं विशेषणम् । अनादित्वे सत्यालोचनेऽपीशविषये सर्वविषयं लक्ष्मीज्ञानं भवतीति तद्य्वावृत्त्यर्थमीश्वरादन्यत्रेति विशेषणम् । ऋजुज्ञानव्यवच्छेदायालोचनेऽपीत्युक्तम् । यद्यपि शब्दमन्तरेणापि ऋजुज्ञानव्यावृत्तिः सम्भवति तथाऽपि ऋजुज्ञानमालोचने सर्वविषयमिदमालोचनेऽप्यसर्वविषयमिति स्पष्टम् । तद्वैलक्षण्यज्ञापनमुखेन तद्य्ववच्छेदार्थं तदुपादानमिति तात्त्विकज्ञानस्यानादित्वे सतीति वृत्तिरूपज्ञानं नास्तीति प्रतीतिः स्यात् तां वारयितुं तद्द्वैविध्यमाह ।। तदपीति । तात्त्विकज्ञानमपि स्वरूपज्ञानं बाह्यज्ञानं चेति प्रकारद्वयोपेतमित्यर्थः । ननु तर्हि वृत्तिरूपे ज्ञाने लक्षणाभावादव्याप्तिरित्यत आह ।। तस्मादनादित्वं पूर्ववदिति । तस्य द्विविधस्य तात्त्विकज्ञानस्य पूर्ववदृजुज्ञानवत्स्वरूपतः प्रवाहतश्चानादीत्यर्थः । प्रवाहतोऽप्यनादित्वं लक्षणे विवक्षितमिति न बाह्यज्ञानेऽव्याप्तिरिति भावः । ननूभयविधानादित्वस्याप्यत्र विवक्षितत्वेऽसम्भवः । स्वरूपतः प्रवाहतश्चानादित्वस्य क्वाप्यभावात् । लक्षणद्वयाभिप्राये तु

परस्पराव्याप्तिः । न च स्वरूपप्रवाहयोरन्यतरापेक्षयाऽनादित्वमत्राभिमतमिति नोक्तदोष इति वाच्यम् । अतात्त्विकयोग्ययोगिज्ञानयोरतिव्याप्त्यापातात् । योगवृत्तिप्रवाहापेक्षयाऽनादित्वं तद्वृत्तौ नास्तीति चेन्न । तथाऽप्युक्तदोषानिस्तारात् । स्वरूपापेक्षयाऽनादित्वस्य तत्स्वरूपज्ञाने सत्त्वेन तत्र लक्षणसद्भावात् । व्यक्त्यपेक्षयैवानादित्वं स्वरूपज्ञाने विवक्षितम् । न स्वरूपापेक्षयेति चेत् । तथाऽप्यतात्त्विकयोग्यतायोगिस्वरूपज्ञानयोरतिव्याप्त्यनिस्तारात् । तत्स्वरूपज्ञानयोरात्मस्वरूपाव्याकृताकाशादौ साक्षिविषयेऽनादित एव व्यक्तिसद्भावेन तत्र लक्षणस्य सत्त्वात् । योगप्रभावयुक्तव्याप्त्यपेक्षयैवानादित्वमत्र स्वरूपज्ञानं विवक्षितम् । सा तु स्वरूपमात्रप्रयुक्तेति नोक्तादोष इति चेन्न । प्रमाणलक्षण टीकायामीशादन्यत्रेतीशविषयेऽनादित्वे सत्यालोचनेऽपि हृसितमिति लक्ष्म्यादिज्ञाननिरास इत्यनेनेशादन्यत्रेति विशेषणाल्लक्ष्मीज्ञानव्यावृत्तिकथनायोगात् । विवक्षितानादित्वस्य लक्ष्मीज्ञानेऽसत्त्वेनेशादन्यत्रेति विशेषणरहितस्य लक्षणस्य तत्राभावादिति चेन्न । साक्ष्ययोग्यार्थविषये व्यक्त्यपेक्षयाऽनादित्वं स्वरूपज्ञाने विवक्षितमित्यङ्गीकारात् । तथा च साक्षियोग्यार्थव्यक्तियोग्यार्थव्यक्तियोगप्रभावज वृत्तिप्रवाहयोरन्यतरापेक्षयाऽनादित्वे सत्यालोचनेऽप्यसर्वविषयज्ञानं तात्त्विकयोगिज्ञानमित्युक्तं भवति । अयोगिनां योगस्यैवाभावादतात्त्विकयोगिनां योगस्य सादित्वाद्विवक्षितं लक्षणं तात्त्विकयोगिज्ञानयोर्नास्तीति नातिव्याप्तिः । प्रमाणलक्षणटीकायां तत्र योगिनां देशकालवस्तुस्वभावव्यवहितार्थमपि गोचरतीत्यनेन वाक्येन द्विविधेन्द्रियात्मकस्य योगिप्रत्यक्षस्य स्वायोग्यार्थविषयीकारित्वकथनाद्योगानुगृहीतसाक्ष्यतीव्यङ्ग्यस्य तात्त्विकानां स्वरूपज्ञानस्यापि साक्षिसमानविषयकत्वेन साक्ष्ययोग्यार्थेषु विषयीकरणरूपवद्य्वक्तिसिद्धेस्तस्यानादित्वं पूर्ववदित्यनेन तात्त्विकयोगिवृत्तिप्रवाहापेक्षयाऽनादित्वसिद्धेश्च । अत एव ऋजुगणतात्त्विकानामप्यनादियोगित्वासिध्द्याऽनादिसिद्धयोगप्रयोगिनामुभयविधज्ञानेऽस्तीति नाव्याप्तिरिति न कोऽपि दोष इति । अनादित्ववद्याथार्थ्यनियमोऽपि पूर्ववदेवेति न मन्तव्यमित्याह ।। स्वरूपं यथार्थमेव बाह्यं कदाचिदयथार्थमपीति । अयथार्थ ज्ञानमल्पमेवेति ज्ञापनाय कदाचिदित्युक्तम् । एतच्च सरस्वतीव्यतिरिक्ततात्त्विकबाह्यज्ञानपरम् । अन्यथा सरस्वत्या अपि मिथ्याज्ञानित्वप्रसङ्गात् । न चेष्टापत्तिरपि सम्भवति ।

ब्रह्मा निरभिमानित्वाच्छरीर्यशरीरवान् ।

नित्यानन्दोपयोग्यन्यकामस्योक्तितः सदा ।

बहिरर्थविनिर्मुक्तस्तथाऽपि तदनुधारणात् ।

अमूढो मूढ इतिवदुच्यते च सरस्वती ।

रुद्राद्यास्तन्वभीमानाद्बहिरर्थयुजस्तथा ।

सर्वेषां ब्रह्मपदवीयोग्यानां पूर्वमेव तु ।

अभावात्स्वपरो ह्यस्य मोक्षो ज्ञानस्य भण्यते ।

ब्रह्मात्वंशरूपेषु भारत्या ज्ञानवर्जनम् ।

ब्रह्मगायत्रीभावे तु नांशावतरणं क्वचित् ।

शतजन्मसु पूर्वं तु ज्ञानोदय उदीर्यते ।

आपरोक्ष्येण अंशावतरणेष्वपीति

भागवततात्पर्यपर्यालोचनेन ब्रह्मण इव सरस्वत्या अपि शुद्धभागवतधर्मतद्धर्मवत्त्वमुक्तवाऽन्ये भागवतत्वेऽपि छिन्नधर्मा न धर्माः पृथक् पृथगित्यदिना मिथ्याज्ञानराहित्यसिद्धेः । तात्पर्यनिर्णये निजप्रतिभयाजानन् सर्वास्त्राणि ततोधिकमित्यादिना वाक्यसन्दर्भेण भीमस्य मिथ्याज्ञानराहित्यादिरूपशुद्धभागवतधर्मवत्तामभिधाय ‘‘अन्वेनमेव’’ तद्धर्मे कृष्णा सा संस्थिता सदेत्यादिना द्रौपद्या अपि शुद्धभागवतधर्मवत्त्वमुक्त्वाऽन्ये भागवतत्वेऽपि छिन्नधर्माः पृथक् पृथगित्यादिना जन्मजन्मान्तरे ज्ञानादेव जानन्ति यत्सदेत्यन्तेनान्येषां मिथ्याज्ञानित्वादिरूपं छिन्नधर्ममभिधाय

तस्मादेको वायुरेव धर्मो भागवते स्थितः ।

लक्ष्मीः सरस्वती चेति परशुक्लत्रयं स्मृतम्

इत्यनेन लक्ष्मीवाय्वेरिव सरस्वत्या अपि मिथ्याज्ञानराहित्यरूपशुद्धत्वोक्तेश्च । न च परमात्मविषये मिथ्याज्ञानरहितायास्तस्यास्तदन्यत्र मिथ्याज्ञानं सम्भावनामर्हति । अतात्त्विकज्ञानं पक्षयितुमतात्त्विकयोगिलक्षणं तावदाह ।। तद्य्वतिरिक्ता इति । ऋजुतात्त्विकव्यतिरिक्ता इत्यर्थः । आदिपदेन ऋष्यादेर्ग्रहणं कृतम् । ऋजुतात्त्विकव्यावृत्त्यर्थं तद्य्वतिरिक्ता इति विशेषणम् । अयोगिव्यावृत्त्यर्थमीश्वरलक्ष्मीव्यावृत्त्यर्थं च योगिन इति विशेषणम् । देवादय इति स्वरूपकथनपरम् । लक्षणमाह ।। सादित्वे सतीति । अल्पाज्ञानयुक्तं स्वापेक्षया न्यूनविषयाज्ञानेन सहितं ज्ञानमित्यर्थः । न त्वयोगिज्ञानापेक्षयाऽल्पज्ञानमित्यर्थः । ईशादन्यत्रेति विशेषणवैय्यर्थ्यात् । सादित्वे सतीति विशेषणेनैव ऋजुतात्त्विकज्ञानव्यवच्छेदः । अल्पपदं योगिज्ञानव्यावृत्त्यर्थम् । असम्भवपरिहारार्थमीशादन्यत्रेति विशेषणम् । अतात्त्विकज्ञानस्य सादित्वेऽनादिस्वरूपज्ञानं नास्त्येवेत्यन्यथाप्रतीतिः स्यात्तां वारयितुमाह ।। तदपीति । अतात्विकयोगिज्ञानमपि पूर्ववदृजुतात्विकज्ञानवद्दिविधम् । स्वरूपज्ञानं बाह्यज्ञानं चेति प्रकारद्वयोपेतमित्यर्थः । ननु तर्हि लक्षणं स्वरूपज्ञानेऽव्याप्तमित्यत आह ।। तत्रेति । तयोर्मध्ये स्वरूपज्ञानस्य शक्त्यपेक्षया सादित्वमित्यर्थः । यद्यपि तत्स्वरूपज्ञानस्य साक्षियोग्ये आत्मादौ विषये साक्ष्यधीना व्यक्तिरनादित एवास्ति । तथाऽपि साक्ष्ययोग्यार्थेषु योगप्रभावाधीना व्यक्तिः कादाचित्कीति व्यक्त्यपेक्षया सादित्वमस्त्येव । तदेव तु लक्षणे विवक्षितमिति नातिव्याप्तिरिति बोध्यम् । ननु तर्हि वृत्तिज्ञानेऽव्याप्तिः । परोत्पत्त्यपेक्षयाऽऽदित्वं ब्रह्मज्ञाने विवक्षितमिति वाच्यम् । ऋजुतात्त्विकवृत्त्योरतिव्याप्त्यापातादित्यत आह ।। अन्यस्येति । स्वरूपज्ञानातिरिक्तस्य बाह्यज्ञानस्येत्यर्थः । सादित्वमित्यनुवर्तते । यद्यप्यत्र तात्त्विकयोगिवृत्तेः स्वपूर्वकाले वृत्तित्वेन स्वजातीयपरम्परासद्भावान्न प्रवाहोत्पत्त्यपेक्षया सादित्वमस्ति । तथाऽपि योगप्रभावजवृत्तिप्रवाहोत्पत्त्यपेक्षया सादित्वमस्त्येव । तदेव तु लक्षणे विवक्षितमिति ऋजुतात्त्विकवृत्त्योर्नाव्याप्तिरिति बोध्यम् । ननु ऋजुतात्त्विकवृत्त्योरिवतात्त्विकानां योगः प्रवाहतोऽनादिरुत सादिः । नाद्यः । ऋजुतात्त्विकयोगिज्ञानस्यैव तात्त्विकयोगिज्ञानस्याप्यनादियोगप्रभावाधीनव्यक्तिप्रवाहयोरनादित्वापत्त्या योगाधीनव्यक्तिप्रवाहान्यतरापेक्षया सादित्वगर्भस्यातात्त्विकयोगिज्ञानलक्षणस्य तत्राभावादसम्भवापातात् । व्यक्ति

प्रवाहयोरन्यतरापेक्षयाऽनादित्वगर्भस्य तात्त्विकयोगिज्ञानलक्षणस्यातात्त्विकयोगिज्ञानेऽतिव्याप्त्यापातात् । तत्र स्वरूस्य सादित्वं व्यक्त्यपेक्षयाऽन्यस्य तु प्रवाहोत्पत्त्यपेक्षयेत्युक्त्ययोगाच्च । ऋजुतात्त्विकयोगस्येवातात्त्विकयोगस्यापि प्रवाहतोऽनादित्वेनानादिसिद्धयोगप्रवाहलब्धातिशयस्यातात्त्विकयोगिनां ज्ञानस्यापि व्यक्तिप्रवाहयोरन्यतरापेक्षयाऽनादित्वस्यैवाभ्युपेयत्वात् । अविशेषात् । न द्वितीयः । योगसम्पत्तेः पूर्वमतात्त्विकयोगिज्ञाने योगिज्ञानसामान्यलक्षणस्याव्याप्त्यापातादिति चेन्न । अतात्त्विकयोगिनां योगः सादिरित्यभ्युपगमात् । न च तत्पक्षोक्तदोषप्राप्तिः । तद्य्वतिरिक्ता देवादयो योगिनो तात्त्विका इत्यनेन योगविशिष्टानामेवातात्त्विकत्वकथनादृजुतात्त्विकव्यतिरिक्ता ये योगविशिष्टास्तेषामेव तात्त्विकशब्दार्थतया तज्ज्ञानस्यैव लक्ष्यत्वात्तज्ज्ञाने योगिज्ञानलक्षणातात्त्विकयोगिज्ञानलक्षणयोः सत्त्वात् । ब्रह्मत्वरहितऋजुगणस्य ब्रह्मपदवाच्यत्ववद्योगरहितानामतात्त्विकत्वयोग्यजीवानामतात्त्विकशब्दवाच्यतया तज्ज्ञानस्य लक्ष्यत्त्वात्तत्रोक्तलक्षणद्वयासत्त्वस्यादोषत्वाच्च । ननु भवेदेवं यद्यतात्त्विकानां योगः सादिरित्येतद्ग्रन्थकाराभ्युपेतं स्यात्तदेवासिद्धमिति चेन्न । योगप्रभावलब्धातिशयं योगिज्ञानं योगप्रभावादामुक्तेर्व्यक्त्यतिशयोपेतम् । वृत्तिज्ञानं प्रवाहतोऽनादित्वे सतीशादन्यत्रालोचनेऽप्यसर्वविषयं तात्त्विकज्ञानम् । तस्माद्ह्रासादितं पूर्ववत् । सादित्वे सतीशादन्यत्राल्पज्ञानमुक्तम् । तज्ज्ञानं तत्र स्वरूपस्य सादित्वं व्यक्त्यपेक्षयाऽन्यत्र तु प्रवाहतोत्पत्यपेक्षयेत्यस्य वाक्यजातस्य योगिज्ञानप्रकरणत्वात् । अनेन ऋजुतात्त्विकयोर्योगजं ज्ञानं प्रवाहतोऽनादिरतात्त्विकानां योगजं ज्ञानं प्रवाहतः सादीति कथनादृजुतात्त्विकयोः प्रवाहतोऽनादिरिति तात्त्विकानां योगप्रवाहः सादीत्यर्थस्य सिद्धेः । योगप्रवाहानादिसादित्वव्यतिरेकेण योगजवृत्त्योः स्वप्रवाहतोऽनादित्वयोरसम्भवात् । ऋजुतात्त्विकज्ञानव्यक्त्यनादित्वात्तात्त्विकस्वरूपज्ञानव्यक्तिसादित्वयोस्तद्योगप्रवाहात्सादित्वव्यतिरेकेणासम्भवाच्च । नन्वस्त्वतात्त्विकानां योगः प्रवाहतः सादिस्तथाऽपि योगप्रवाहाधीनव्यक्तिप्रवाहयोरन्यतरापेक्षया सादित्वं चेल्लक्षणे विवक्षितम् तर्हीशादन्यत्राल्पज्ञानयुक्तमिति विशेषणवैय्यर्थ्यापत्तिः । अयोगिनो योगाभावेन तद्वृत्तेर्योगजवृत्तिप्रवाहयोरन्यतरापेक्षया सादित्वस्याभावात्तेनैव विशेषणेनायोगिज्ञानव्यवच्छेदसिद्धेरिति चेन्न । तथाऽप्यतात्त्विकयोग्ययोगिस्वरूपज्ञानेऽतिव्याप्त्यनिस्तारात् । तत्स्वरूपज्ञाने स्वसम्बन्धियोगप्रभावाधीनव्यक्त्यपेक्षया सादित्वस्य सत्त्वात् । योगप्रभावेन जायमाना व्यक्तिर्योगाभावकाले नास्तीति चेत् । किं तावता यदाकदाचित् स्वसम्बन्धिनी योगाधीना या व्यक्तिस्तदपेक्षया सादित्वस्य तत्रानपायात् । तादृशत्वस्यैव लक्षणे विवक्षितत्वात् । अन्यथा मुक्तिज्ञानकाले योगेन जायमानव्यक्त्यभावेन तदा तत्स्वरूपज्ञाने सादित्वाभावापातात् तस्मात्तात्त्विकयोग्ययोगिस्वरूपज्ञाने यदाकदाचित्स्वसम्बन्धिनी योगप्रभावाधीना या व्यक्तिस्तदपेक्षया सादित्वस्य सत्त्वात् स्वकीयव्यक्तिप्रवाहयोरन्यतरापेक्षया सादित्वे सतीशादन्यत्राज्ञानयुक्तत्वस्य सत्त्वात्तद्य्ववच्छेदायाल्पपरमिति । अतात्त्विकज्ञानस्य तात्त्विकज्ञानतः सादित्वविशेषवद्याथार्थ्यनैय्यत्यादिविशेषोऽप्यस्तीत्यन्यथाप्रतीतिः स्यात्तद्वारणायाह ।। याथार्थ्यनियमादि पूर्ववदिति । वृत्तिज्ञाने याथार्थ्यनियम आदिशब्दार्थः । पूर्ववत्तात्त्विकज्ञानवदित्यर्थः ।