प्रमाणपद्धतिः
(२२) प्रमाणपद्धतिः
ननु त्रिविधं प्रमाणमिति वक्तव्यम् । ल्युटोऽधिकरणेऽप्यनुशासनात् । सत्यम् । तथाऽपि प्रमाणशब्दस्याधिकरणे प्रयोगाभावात्तदसङ्ग्रहः । तथाऽपि प्रमाणशब्दो भावसाधनः करणसाधनश्चेत्यनेकार्थः । तत्र किमनुगतलक्षणकथनेनेति । उच्यते । नायमक्षादिशब्दवदत्यन्तभिन्नार्थः । किन्तु धात्वर्थानुगमस्तूभयत्र सम इत्येकार्थत्वमाश्रित्यानुगतलक्षणोक्तिरित्यदोषः ।
जयतीर्थविजय
।। ल्युटोऽधिकरण इति । करणाधिकरणयोश्चेति सूत्रेण ल्युटोऽधिकरणेऽपि विधानादित्यर्थः । अर्धाङ्गीकारेण परिहरति ।। सत्यमिति ।। तथापीति । ल्युटोऽधिकरणेऽनुशासने सत्त्वेऽपीत्यर्थः । अनेनाङ्गीकारांश उक्तः । अनङ्गीकृतांशमाह ।। प्रमाणशब्दस्येति । अत्रार्थे ज्ञानं प्रमाणमितिवदत्रार्थे देवदत्तः प्रमाणमिति प्रमाणशब्दस्याधिकरणे प्रयोगाभावादित्यर्थः । अत्रार्थे विप्राः प्रमाणमिति प्रयोगस्तु तज्ज्ञानविषय इति प्रतिपादितमधस्तात् ।। किमनुगतेति । लक्ष्यस्यानुगतत्वे ह्यनुगतं लक्षणं वक्तव्यमिति भावः । लक्ष्यवाचकशब्दस्य नानार्थत्वं नानुगतलक्षणाकथने प्रयोजकम् । तथा सति नैयायिकमतेऽपि साधनाश्रयानुगतलक्षणाऽकथनप्रसङ्गात् । किन्त्वत्यन्तसहप्रतीतिरहितार्थकत्वमिति मनसि निधाय तत्प्रकृते नास्तीत्याह ।। नायमिति ।। अत्यन्तभिन्नेति । अत्यन्तसहप्रतीतिरहितार्थको न भवतीत्यर्थः । प्रमीयते येन तत्प्रमाणमिति करणव्युत्पत्त्या प्रमितिरूपधात्वर्थः प्रमितिकरणत्वघटकोपाधितया प्रतीयते । प्रमितिः प्रमाणमिति भावव्युत्पत्त्या तु प्राधान्येनेतीषत्प्रकारभेदोऽस्ति तथाऽपि सहप्रतीत्यभावलक्षणभेदो नास्तीत्यन्तशब्दं प्रयुञ्जानस्य भावः। लक्ष्यवाचकशब्दस्यैकधात्वर्थघटितप्रवृत्तिनिमित्तकत्वमेवानुगतलक्षणोक्तौ प्रयोजकमिति मनसि निधाय तत्प्रकृतेऽस्तीति समाधत्ते ।। धात्वर्थेति । माङ्मान इति धात्वर्थानुस्यूतिरित्यर्थः ।। उभयत्रेति । प्रमितिः प्रमाणमिति भावे प्रमीयते येन तत्प्रमाणमिति करणे चेत्यर्थः । इत्येकार्थत्वमाश्रित्येति वदता नेदं घटकलशशब्दयोरिव मुख्यत एकार्थत्वम् । किन्त्वमुख्यमेव । तथाऽपि प्रकृते तदेवैकार्थत्वमिति ग्राह्यं गत्यन्तराभावात् । साधनाश्रयौ सङ्गृह्णद्भिर्नैयायिकैर्ज्ञानतत्करणे सङ्गृह्णद्भिर्भाट्टैश्चैवमेवैकार्थत्वं वाच्यम् । फलकरणादिसाधनस्यैकधर्मस्य तत्र घटकलशशब्दप्रवृत्तिनिमित्तस्येव दुर्वचत्वादिति सूचितम् ।
भावदीपः
द्विविधं प्रमाणमिति प्रागुक्तविभागमाक्षिपति ।। नन्विति । केवलप्रमाणमनुप्रमाणमधिकरणमिति वक्तव्यमित्यर्थः । कुत इत्यत आह ।। ल्युट इति । ल्युट् च भावे करणाधिकरणयोश्चेति भावकरणयोरिवाधिकरणेऽप्यनुशासनादित्यर्थः । अधिकरणं ह्याधारोऽधिकरणमिति सूत्रोक्तदिशा क्रिययोः कर्तृकर्मणोराधारक्रियां प्रति य आश्रयस्तदुच्यते । न प्रमारूपक्रियाश्रयम् । तादृशाधिकरणे च प्रमाणपदस्य क्वाप्यप्रयोगान्न प्रमाणशब्देनाधिकरणार्थो ग्राह्य इत्याह ।। प्रमाणशब्दस्येति । यद्वा क्रियाश्रयोऽधिकरणमिति भावेन शङ्कायामभ्युपगमवादेनाह ।। प्रमाणशब्दस्येति । विप्राः प्रमाणमित्यादिस्तु तद्वाक्यस्य तज्ज्ञानस्य वा प्रामाण्याभिप्रायेणौपचारिकः प्रयोगः । न चैवमधिकरणे ल्युङ्नुशासनवैयर्थ्यमिति शङ्क्यम् । धात्वन्तरेऽवकाशसम्भवादिति भावः ।। तथाऽपीति । द्वैविध्येनैव विभागोपपत्तावपीत्यर्थः ।। भावसाधन इति । भावो नाम धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयत इत्युक्त्या केवलो धात्वर्थः । स एव साधनं यस्य शब्दस्य प्रत्ययोत्पत्तौ यस्य स भावसाधनः । एवं करणसाधन इत्यपि बोध्यम् ।। धात्वर्थेति । माङ् मान इति धातोरर्थस्य मितेर्यथार्थज्ञाने तत्साधने च मितिरियमिति साधनमिदमितीव केवलानुप्रमाणयोरनुगतिरस्तीत्येतावन्मात्रेणैकार्थत्वं प्रमाणपदस्याश्रित्यानुगतलक्षणोक्तिः । यदाऽनुप्रमाणे मितिसाधनमित्येवं मितिघटितत्वेन विना क्रियासाधनं छिदासाधनं गतिसाधनमित्यादिरूपेण निरूपणं स्यात् तदा प्रमाणपदस्य केवले मितत्वेन निरूपणमनुप्रमाणे च माङ्धात्वर्थासंस्पर्शेनैव निरूपणमस्तीत्यन्तभिन्नार्थत्वात् । भावकरणयोरनुगतिर्न कर्तव्या स्यात् । न चैवमस्तीति भावः । सर्वतः प्राबल्यात्प्रत्यक्षस्य पूर्वं निर्देशः । तदुपजीविनोऽनुमानस्य पश्चान्निर्देशः । अवशिष्टस्यागमस्यान्ते निर्देशः । क्वचिदनुमानस्यागममूलत्वेऽपि प्रायेण प्रत्यक्षोपजीवित्वादन्ततः प्रत्यक्षमूलत्वाच्च प्रत्यक्षानन्तरमनुमानस्य निर्देशोयुक्त इति ज्ञेयम् ।
श्रीविजयीन्द्रतीर्थ
करण इवाधिकरणेऽपि करणाधिकरणयोश्चेति ल्युटोऽनुशासनविशेषात्कुतस्तस्यापरिग्रह इत्यत आह ।। नन्विति ।। प्रयोगाभावादिति । किमत्र प्रमाणमिति प्रश्ने घटोऽयमिति धीरिति वा चक्षुरादीनि वेति फलकरणयोरस्ति प्रमाणपदप्रयोगः । न चैवमधिकरणे । न च देवदत्तोऽत्र प्रमाणमिति प्रयोगदर्शनात्कथमेवमिति वाच्यम् । तत्तदर्थविषयकप्रमाप्रयोजकत्वमादाय तथा प्रयोगात् । ननु तदर्थविषयकप्रमाश्रयत्वमादाय किमत्र प्रमाणमिति प्रश्नस्य प्रष्टुः संशयनिवर्तकप्रमाविषयत्वेन व्यधिकरणप्रमोपदर्शनान्निवर्त्यत्वाभावादिति भावः । प्रमितत्वतत्साधनत्वाभ्यामेव प्रमाणपदप्रयोगोपपत्तेः किमुक्तप्रवृत्तिनिमित्तेनेत्यत आह ।। तथाऽपीति ।। धात्वर्थानुगम इति । नियमेन प्रमापदजन्यप्रतीतिविषययथावस्थितार्थविषयकत्वेन प्रमाप्रमासाधनोभयसाधारणेनोभयत्र प्रमाणपदप्रयोगोपपत्तौ ज्ञानत्वसाधनत्वप्रवेशेनोभयत्र प्रवृत्तिनिमित्तकत्वकल्पनागौरवात् । अक्षशब्दादौ तु नैवं किञ्चिदुभयसाधारणमवश्यं तत्पदजप्रतीतिविषयोऽस्तीत्यर्थः ।
श्रीवेदेशभिक्षु
भावकरणयोरिवाधिकरणेऽपि करणाधिकरणयोश्चेति ल्युटोऽनुशासनविशेषाद्विविधमिति विभागोऽनुपपन्न इत्याशङ्कते ।। नन्विति ।। प्रयोगाभावादिति । नन्वस्त्यधिकरणेऽपि विप्राः प्रमाणमिति प्रयोगः । मैवम् । विप्राणां प्रमायां स्वातन्त्र्येण कर्तॄणामधिकरणत्वाभावात् । न हि क्रियाधारोऽधिकरणम् । किं नाम कर्तृकरणयोः क्रियाश्रययोः । धारणक्रियां प्रति यदाधारस्तदधिकरणं तस्मात्तदीयस्य विज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते । अतो नायमधिकरणे प्रयोग इति भावः ।। भावसाधन इति । भावं साधयतीति भावसाधनः । भावव्युत्पन्न इति यावत् । एवमग्रेऽपि द्रष्टव्यम् ।। किमनुगतेनेति । न ह्यक्षादिशब्दार्था यावन्तस्तावदनुगतत्वं लक्षणं परीक्षकैरुच्यत इति भावः । ननु भावकरणरूपार्थभेदात्कथं प्रमाणशब्दो न भिन्नार्थ इत्यत उक्तमत्यन्तेति । सर्वत्रानुगतैकधात्वर्थशून्यविजातीयार्थ इत्यर्थः । अयं भावः । सत्यमनेकार्थशब्दवाच्यानां नैकलक्षणमुच्यत इति । प्रमाणशब्दस्तु नात्यन्तमनेकार्थः । तद्वाच्ययोर्भावकरणयोरनेकत्वेऽपि तदुभयत्रैकमाङ्धात्वर्थानुगमेनैकत्वस्यापि सम्भवेनैकार्थत्वात् । न ह्यक्षादिशब्दवाच्येषु वेदने करणेन्द्रियादिष्वर्थेष्वेकधात्वर्थानुगमोऽस्ति । येन तेऽप्येकार्थाः स्युः । तथा चात्रानुगतार्थलक्षणोक्तिर्युक्तेति । अन्ये तु नियमेन प्रमाणपदजन्यप्रतीतिविषययथावस्थितार्थ विषयकत्वेन प्रमातत्साधनोभयसाधारणेनोभयत्र प्रमाणपदप्रयोगोपपत्तौ ज्ञानत्वसाधनत्वप्रवेशेनोभयप्रवृत्तिनिमित्तकत्वकल्पनायां गौरवात् । अक्षादिशब्देनैव किञ्चिदुभयसाधारणं तत्पदजन्यप्रतीतिविषयोऽस्तीत्यर्थ इत्याहुः । अत्र धात्वर्थानुगमस्त्वित्यादिग्रन्थस्वारस्यं कथमिति चिन्त्यम् ।
अभिनवामृतम्
ल्युटोऽधिकरणेऽप्यनुशासनादिति । करणाधिकरणयोश्चेति सूत्रेणानुशासनादित्यर्थः ।। अधिकरण इति । कर्तृकरणयोराश्रये पृथिव्यादौ प्रयोगाभावादित्यर्थः ।। भावसाधन इति । भावः साधनं निष्पत्तौ कारणं यस्य स भावसाधनः । भाववाचिप्रत्ययान्ततया निष्पन्न इति यावत् । एवं करणसाधन इत्यत्रापि ज्ञातव्यम् ।। अनेकार्थ इति । केवले व्युत्पादनीयः प्रमाशब्दोऽन्यो भावसाधनत्वात् । अनुप्रमाणे व्युत्पादनीयोऽन्यः करणसाधनत्वात् । एवं चानुगतशब्दाभावाल्लक्ष्यैक्य विवक्षया तद्य्वुत्पत्तिसिद्धये लक्षणयोः कथनमनुपपन्नमिति भावः ।
आदर्शः
।। तथाऽपीति । एकया वृत्त्या यावदर्थबोधकमेकं पदं तावत्स्वेकजातीयत्वमपेक्षितम् । अन्यथा विप्रकृष्टार्थानामनुपस्थित्या तेषु शक्तिग्रहासम्भवात् । सामान्यतः प्रमेयत्वादिनोपस्थितावपि तत्र प्रवृत्तिनिमित्तो यो धर्मस्तद्रूपेणोपस्थितेरेवापेक्षितत्वात् । अन्यथाऽतिप्रसङ्गात् । एकजातीयत्वे तु सर्वेषां तत्सादृश्यप्रत्यासत्त्योपस्थितिः सम्भवतीति तादृशसादृश्याभिव्यञ्जकश्च धर्मो निर्वाच्यः । तादृशश्च धर्म उक्तलक्षणरूप इति लक्षणाभिधानसार्थक्यं सम्भवति । प्रकृते चैकशक्त्या ज्ञानतत् कारणोभयबोधकत्वाभावेनोभयसाधारणलक्षणमप्रयोजकमित्याशयः ।। नायमिति ।। अत्यन्तभिन्नार्थ इति । एकरूपघटितधर्मावच्छिन्नाबोधक इत्यर्थः । तत्र द्यूतत्वेन्द्रियत्वादिरूपप्रवृत्तिमिमित्तयोरेकरूपावच्छिन्नाघटितत्वाद्भिन्नार्थत्वमिति भावः । प्रमाणपदस्य तु याथार्थ्यरूपधात्वर्थघटितधर्मावच्छिन्नबोधकत्वमेवेत्यर्थः ।। धात्वर्थानुगम इति । याथार्थ्यरूपयाथार्थ्यानुगमादित्यर्थः ।। एकार्थत्वमाश्रित्येति । तस्यैव प्रवृत्तिनिमित्तत्वाङ्गीकारेणेत्यर्थः । अयमाशयः । प्रमाणपदस्यास्ति ज्ञाने तत्करणे च प्रयोगः । तत्र च प्रवृत्तिनिमित्तमेक एव धर्मः । तदनुसारेणैव लोकैर्व्यवह्रियमाणत्वात् । न च प्रमायां यथार्थज्ञानत्वाभिप्रायेण तत्करणेषु तत्करणत्वबोधतात्पर्येण प्रयोगः । न तूक्तबोधतात्पर्येणेति वाच्यम् । जलाधिरूपार्थे वाक्यानुमानतद्दर्शनरूपप्रमाणसम्प्लवे सत्यत्रार्थे वाक्यानुमानं चाक्षुषं च प्रमाणमित्येकदा प्रमाणपदप्रयोगात् । सकृदुच्चरितः शब्दः सकृदेवार्थं गमयतीति न्यायेनैकया वृत्त्या प्रतीतार्थस्य समभिव्याहृतपदार्थेष्वन्वयस्यासति बाधके न्याय्यत्वेन ज्ञानतत्करणत्वोभयसाधारणरूपावच्छिन्नबोधकत्वस्यावश्यकत्वात् । किमत्र प्रमाणमित्याकाराया जिज्ञासाया ज्ञानस्य तत्करणस्य वा कथने निवृत्तेर्जायमानत्वेन जिज्ञासाबोधकवाक्यघटकप्रमाणपदस्योभयसाधारणरूपावच्छिन्नबोधकत्वस्यावश्यकत्वात् । यदि च याथार्थ्यानुसन्धानाभावेऽपि प्रमायास्तत्करणस्य वा प्रमाणपदबोध्यत्वं तर्हि याथार्थ्यस्यापि तत्पदप्रवृत्तिनिमित्तत्वाङ्गीकारे गौरवादिरूपं बाधकं स्यात् । न च तदस्ति । याथार्थ्यानुसन्धानं विना प्रमाणपदबोध्यत्वस्यैवासम्भवात् । लाघवात्तस्यैव स्वरसतस्तत्पदप्रयोगे निमित्तत्वमङ्गीकर्तव्यम् । अनुशासनबलात्क्वचित्तदर्थकत्वमप्यस्त्विति याथार्थ्यस्यैव धात्वर्थत्वं तथोपपादितमधस्तात् ।
वाक्यार्थमञ्जरी
।। ल्युटोऽधिकरण इति । प्रपूर्वकान्माङ्माने इति धातोर्ल्युट् भावे करणाधिकरणयोश्चेति सूत्राभ्यां भावकरणाधिकरणेषु ल्युट्प्रत्यये सति प्रमा ल्युडिति स्थिते लशक्वतद्धित इति लस्य हलन्त्यमिति टस्य चेत्संज्ञायां तस्य लोप इति लोपे प्रमा यु इति जाते युवोरनाकाविति युकारस्यानादेशे प्रमानेति जाते रषाभ्यां नो णः समानपद इति णत्वे प्रमाणेति शब्दनिष्पत्तिरिति भावः ।। तथाऽपीति । अनुशासनेऽपीत्यर्थः ।। प्रयोगाभावादिति । किमत्र प्रमाणमिति प्रश्ने घटोऽयमिति प्रतीतिश्चक्षुर्वेति भावकरणयोरिवाधिकरणे प्रयोगाभावात् । कृत्तद्धितसमासानां च प्रयोगाधीनत्वात् प्रमाणशब्दस्यापि कृदन्तत्वादिति भावः । ननु यावत्सुखविशेषेषु सामान्यशब्दार्थानुगमस्तावत्सामान्य शब्देन सङ्ग्रहाय तत्प्रवृत्तिनिमित्ततयाऽनुगतलक्षणमुच्यते । यथा केवलशब्दार्थानुगतवतामीशज्ञानादीनां सङ्ग्रहाय यथार्थज्ञानमिति लक्षणोक्तिः । यत्र सामान्यशब्दार्थानुगमस्तत्रानुगतलक्षणकथनम् । यथाऽक्ष शब्दार्थानुगतिशून्येन्द्रिय एव नाकरणादिसङ्ग्रहायानुगतलक्षणानुक्तिः । प्रमाणशब्दार्थश्च केवलानुप्रमाणयोरनुगत एव केवले प्रमितिः प्रमाणमिति भावव्युत्पत्त्या धात्वर्थभूतज्ञानरूपक्रियावाचकत्वात् । अनुप्रमाणे च प्रमीयतेऽनेनेति करणव्युत्पत्त्या धात्वर्थक्रियावाचकत्वात् । अतो यथार्थं प्रमाणमित्यनुगतलक्षणकथनमयुक्तमिति शङ्कते ।। तथाऽपीति । विभागन्यूनताभावेऽपीत्यर्थः । भावो धात्वर्थक्रिया ।। धात्वर्थानुगम इति । माङ्धात्वर्थो ज्ञानं तस्य यथार्थज्ञानरूपकेवले यथार्थज्ञानसाधनरूपानुप्रमाणे चानुगतिरस्ति । उभयत्रापि ज्ञानपदप्रवेशादिति भावः ।
श्रीविट्टलभट्ट
ल्युटोऽधिकरणेऽप्यनुशासनादिति । प्रमितितत्करणयोरिव इत्यधिकरणेऽपि करणाधिकरणयोश्चेत्यनेन ल्युडन्तप्रमाणशब्दस्य विधानादित्यर्थः । ल्युडन्तप्रमाणशब्दस्य कर्तर्यनुशासनाभावात्तस्यासङ्ग्रहेऽपि भावे करणाधिकरणयोश्चेति भावकरणाधिकरणेषु विधानात् । त्रयाणामपि लक्ष्यत्वेन सङ्ग्राह्यतया त्रिविधं प्रमाणमिति वक्तव्यमिति भावः ।। सत्यमिति । ल्युटोऽधिकरणेप्यनुशासनमस्तीत्येवमित्यर्थः । तर्हि त्रिविधं प्रमाणमित्यत आह ।। तथाऽपीति । ल्युडन्तप्रमाणशब्दस्याधिकरणेऽनुशासनेऽपीत्यर्थः । तदसङ्ग्रहस्तस्याधिकरणस्य लक्ष्यत्वेनास्वीकार इत्यर्थः । यावल्लोकवेदयोः प्रमाणमिति व्यवहितत्वादेव लक्ष्यं भवति नान्यत् । तथा च प्रमितिवत्करणयोरनुभव एवात्र मानं सम्भवदेव हि भगवति वस्तूपगमे नः शरणम् । अत्रार्थेऽनुमानं प्रमाणमत्रार्थे शब्दः प्रमाणमिति प्रमितितत्करणयोः प्रमाणशब्दयोगवत्प्रमित्यधिकरणेऽत्रेदं प्रमाणमिति प्रमाधिकरणेऽपि प्रमाणशब्दप्रयोगः । मैवम् । प्रमाकर्तॄणां तदधिकरणत्वाभावात् । न हि क्रियाधारोऽधिकरणं किं नाम कर्तॄणां कर्मणोः क्रियाश्रययोर्धारणक्रियां प्रति य आधारस्तत्कारकमधिकरणम् । अतस्तदीयज्ञानस्य तद्वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यन्त इत्येवाभ्युपेयम् । अन्यथा प्रमाणभूततदीयज्ञानयोरन्यतरस्य ज्ञाने प्रमातरि प्रमाणमिति व्यवहारापातादिति ।। तथाऽपीति । अस्तु नानाधिकरणस्यासङ्ग्रहस्तथाऽपि प्रमाणमिति शब्दो भावं साधयतीति भावः । करणसाधनः करणप्रतिपादक इति हेतोरनेकार्थः । अनेकप्रवृत्तिनिमित्ताविशिष्टार्थप्रतिपादक इत्यर्थः । तत्र भिन्नप्रवृत्तिनिमित्तक प्रमाणशब्दार्थयोर्भावकरणयोरनुगतलक्षणकथनेन साधारणोक्तौ किं प्रयोजनं न किमपीत्यर्थः । अनुगतव्यवहाराभावादनुगत लक्षणकथनं व्यर्थमिति भावः ।। नायमिति । अयं प्रमाणशब्दोऽजगवादिशब्दवदत्यन्तभिन्नार्थः । एकानर्थत्वमधिकरणतानर्थत्वं ग्राह्यमित्यर्थः ।। किन्तु धात्वर्थानुगम इति । माङ्मान इति धातुव्याख्यानाद्धात्वर्थभूतमानस्यानुगमः सम्बन्धस्तूभयत्र भावकरणयोः प्रमातत्करणयोः समान इत्येकार्थतामेकप्रवृत्तिनिमित्तविशिष्टार्थतामाश्रित्यानुगतलक्षणोक्तेरिति हेतोरदोषः । अनुगतलक्षणस्य वैय्यर्थ्यरूपदोषो नास्तीत्यर्थः ।