प्रमाणपद्धतिः
पदलक्षणम्, वाक्यलक्षणम्
(२) प्रमाणपद्धतिः
विभक्त्यन्ता वर्णाः पदम् । आकाङ्क्षासन्निधियोग्यतावतां पदानां समूहो वाक्यम् । आकाङ्क्षा जिज्ञासा । सा चेतनधर्मः । तद्विषयत्वादर्थाः साक्षाङ्क्षाः । तत्प्रतिपादकत्वात्पदान्यपि । सन्निधिविलम्बेनोच्चरितत्वं पदधर्म एव । प्रतीतान्वयस्य प्रमाणविरोधाभावो योग्यता पदार्थधर्मः । तद्वाचकत्वात्पदान्यपि योग्यतावन्तीत्युच्यन्ते । तत्र पदत्वेन निरभिधेयत्वस्य, आकाङ्क्षासन्निधिभ्यामन्वयाभावस्य, योग्यतया विपरीतबोधकत्वस्य च निरासे सत्यशेषदोषनिरासार्थं निर्दोषग्रहणम् ।
जयतीर्थविजय
अत एव तदुक्तं वाक्यं निरूपयितुं तद्घटकपदलक्षणमाह ।। विभक्त्यन्ता इति । पदानामाकाङ्क्षावत्त्वमुपपादयितुमुपक्रमते ।। आकाङ्क्षेत्यादिना पदान्यपीत्यन्तेन । नन्वाकाङ्क्षायाश्चेतनधर्मत्वेन कथं पदानां साकाङ्क्षत्वमित्याशङ्क्य पदार्थद्वारेति मनसि निधायार्थानां प्रथमं साकाङ्क्षत्वं सम्पादयति ।। तद्विषयत्वादिति । आनयेति प्रयोजकवृद्धेनाभिहिते किं गां घटं वेति तथा गामित्यभिहिते किमानयेत्युच्यत उत पश्येति प्रयोज्यवृद्धस्यानयनगवादिविषयाकाङ्क्षोदयादाकाङ्क्षाविषयत्वेन गवादिपदार्थाः साकाङ्क्षा इत्यर्थः । न ह्याकाङ्क्षाधारत्वेनैव साकाङ्क्षत्वमिति नियम इति भावः । नन्वस्त्वेवं पदार्थानां साकाङ्क्षत्वं पदानां साकाङ्क्षत्वे किं मानमित्यत आह ।। तत्प्रतिपादकत्वादिति । पदान्यपीत्यनन्तरं साकाङ्क्षाणीति शेषः । सन्निधिवत्त्वं च पदानां साक्षादेव । न त्वाकाङ्क्षावदर्थद्वारेति वक्तुं सन्निधिं निरूपयति ।। सन्निधिरिति ।। पदधर्म एवेति । न त्वाकाङ्क्षावदर्थद्वारा पदधर्म इत्यर्थः । प्रतीतेति । तात्पर्यविषयेत्यर्थः । मृदब्रवीदित्यादिवेदवाक्ये मृत्तिकाकर्तृकवचनक्रियान्वयस्य प्रमाणविरुद्धत्वेनायोग्यत्वापत्त्या तत्र वाक्यलक्षणस्याव्याप्तिवारणाय प्रतीतेति पदम् । मृच्छब्दस्य मृदभिमानिदेवतापरत्वेन तस्याश्च वचनकर्तृत्वात्प्रमाणविरोधाभावेन नाव्याप्तिति भावः । यत्तु प्रमाणलक्षणटीकायामन्योन्यान्वययोग्यतावदर्थाभिधायकत्वं योग्यत्वमित्युक्तं तत्र निश्चिताप्रामाण्यकादग्निना सिञ्चतीत्यादिवाक्याद्य्वावृत्तयोग्यतानिरूपणपरम् । न तु जलेन सिञ्चतीत्याद्यनाप्तवाक्याद्य्वावृत्तयोग्यता निरूपणपरम् । तद्य्वावृत्तेर्निदोषत्वविशेषणेनैव सिद्धेः । अतो न तद्विरोध इति परिहृतं तर्कताण्डवे । नन्वत्र निर्दोषपदेनैव सकलवाक्याभासव्यावृत्तेर्वाक्यग्रहणं किमर्थम् । न च प्रत्यक्षादिनिरासार्थं तद्ग्रहणमिति वाच्यम् । तस्य पदेनाप्युपपत्त्या वाक्यग्रहणवैय्यर्थ्यात् । न च वाक्यपदस्य शब्द एव तात्पर्यमिति वाच्यम् । पूर्वलक्षणाभेदप्रसङ्गात् । ननु शिष्याणां पदवाक्यादिस्वरूपज्ञापनमैव तत्प्रयोजनमिति चेत् । न हीदं लक्षणगतपदस्य प्रयोजनम् । अतिव्याप्तिनिरासस्यैव तत्प्रयोजनकत्वादित्याशङ्क्य गोबलीवर्दन्यायेन निर्दोषपदस्य सङ्कुचितपरत्वमङ्गीकृत्य वाक्यपदप्रयोजनमाह ।। तत्रेति । निर्दोषत्वे सत्याकाङ्क्षायोग्यतासन्निधिमत्पदानि चागम इति लक्षणशरीरं मनसि निधायाह ।। पदत्वेनेत्यादिना ।। अशेषदोषनिरासार्थमिति । अबोधकत्वविपरीतबोधकत्वातिरिक्तज्ञातज्ञापकत्वादि सकलदोषवद्वाक्याभासनिरासार्थमित्यर्थः । तर्कताण्डवे तु अत्र वाक्यग्रहणं शिष्याणां पदवाक्यादिस्वरूपज्ञापनार्थम् । अत एव प्रमाणलक्षणटीकायां मूलस्थं शब्दपदं वाक्यपरमित्युक्तमिति वाक्यपदस्वारस्यमात्रमुक्तम् ।
भावदीपः
वाक्यस्वरूपं विवक्षुस्तदुपयुक्तमाह ।। विभक्त्यन्ता इति । वर्णा इति बहुवचनमतन्त्रम् । तेन अ इति ब्रह्म कश्छन्दसां योगमित्यादावः क इत्यादेः पदत्वसिद्धिः । विभक्त्यन्ता इति व्यधिकरणबहुव्रीहिः । विभक्तिर्नाम सुप्तिङौ । विभक्तिश्च सुप्तिङौ विभक्तिसंज्ञौ भवत इति वैयाकरणोक्तेः । सुप्तिङन्तं पदमिति पाणिन्युक्तेः । तदनुरोधाद्विभक्त्यन्ता इत्युक्तम् । विभक्त्यन्तत्वस्य वर्णाव्यभिचारेऽपि वर्णा इत्युक्तिः स्पष्टार्थं वा । स्फोटनिरासाय वेति ज्ञेयम् । केचित्तु देवदत्त इत्यादावन्तिमवर्णस्य विभक्त्यन्ततया पूर्वेषां तदभावाद्विभक्त्यन्तवर्णोपेतं पदमित्यर्थलाभाय वर्णां इत्युक्तिरित्याहुः । विभक्त्यन्तं पदमिति बहुवचनमतन्त्रम् । तेन गामानयेत्यादेरपि वाक्यत्वसिद्धिः । यत्पदार्थज्ञाने सति पदान्तरार्थविषयिणी जिज्ञासा भवति तद्वाचकयोः पदयोस्तादृशजिज्ञासाविषयार्थ विषयकत्वं साकाङ्क्षत्वमित्याह ।। जिज्ञासेत्यादिना ।। पदान्यपीति । साकाङ्क्षाणीति योज्यम् । वाक्यशरीरप्रविष्टविशेषणानां कृत्यान्याह ।। तत्रेति । वाक्यलक्षण इत्यर्थः ।। पदत्वेनेति । पदानामिति विशेषणोक्त्येत्यर्थः । सुप्तिङ्रूपविभक्त्यन्तत्वस्य ङ््याप्प्रातिपदिकादिति प्रातिपदिकाधीनत्वात् । प्रातिपदिकसंज्ञायाश्चार्थवदधातुरप्रत्ययः प्रातिपदिकमित्यर्थवत एव विधानात्तेन तन्निरास इति भावः ।। अशेषेति । ज्ञातज्ञापकत्वादिप्रागुक्ताशेषदोषेत्यर्थः ।
श्रीविजयीन्द्रतीर्थ
अत एव वाक्यपदार्थमाह ।। आकाङ्क्षेति । कथं तर्ह्यर्थपदयोः साकाङ्क्षत्वमित्यत आह । तद्विषयत्वादिति । तत्तद्रूपावच्छिन्नपदप्रयोज्यजिज्ञासाविषयत्वयोग्यज्ञानविषयान्वयप्रतियोगित्वाभिमतत्वं पदार्थे आकाङ्क्षा । पूर्वोक्तजिज्ञासाविषययोग्यज्ञानजनकावच्छेदकरूपवत्त्वं पदस्येत्यर्थः । गामानयेत्यत्र कारकपदत्वावच्छिन्नगोपदप्रयोज्या जिज्ञासा क्रियान्वयज्ञानेच्छा तद्विषयत्वयोग्यक्रियान्वयज्ञानं तद्विषयः क्रियान्वयः । तत्प्रतियोगित्वाभिमतत्वं क्रियाकारकयोराकाङ्क्षा । तादृशज्ञानजनकतावच्छेदकरूपं क्रियापदत्वादिकं पदस्याकाङ्क्षेति स्फुटम् ।। सन्निधिरिति । निष्फलान्वयबोधविरोधिव्यवधानाभाववद्वक्तृव्यापारविषयत्वमित्यर्थः । व्यापारश्चाभिप्रायोऽप्युच्चारणं वा तद्विषयत्वं वा तत्र तत्रास्त्येव । एवं च गिरिर्भुक्तमग्निमान्देवदत्तेनेत्यादौ व्यवधानेऽप्यन्वयबोधविरोधिव्यवधानाभावः । ज्योतिष्टोमप्रकरणगतद्वादशहीनस्येत्यादेर्द्वादशोपसक्तत्वप्रतिपादद्वादशाहविधिना सहासत्तिरस्त्येव व्यवधानेऽपि यस्य निष्फलत्वाभावात् । तेनैव क्रमेण पाठस्य दृष्टार्थतया निष्फलत्वाभावादिति द्रष्टव्यम् ।। प्रतीतान्वयस्येति । प्रमाणबाधितएकान्वयप्रतियोगिन्यपरान्वयप्रतियोगिसंसर्ग एव योग्यतेत्यर्थः । एवं च निर्दोषपदं निरभिधेयत्वाद्य्वतिरिक्ताभावपरमित्याह ।। तत्र पदत्वेनेति ।
श्रीवेदेशभिक्षु
पदघटितत्वेन वाक्यं लक्षयितुं तावत्पदलक्षणमाह ।। विभक्तीति । जातौ चेदं बहुवचनम् । अतो न वर्णद्वयात्मकपदेऽव्याप्तिरिति ध्येयम् । जबगडदेत्यादिवर्णसमूहेऽतिव्याप्तिवारणाय विभक्त्यन्ता इति । विभक्त्यन्ते पर्वतोऽग्निमानित्यादि वाक्येऽतिव्याप्तिवारणाय वर्णा इति । तत्र च वर्णानां पदत्वेन प्रवेशेऽपि न वर्णत्वेन प्रवेशोऽतस्तेन तद्य्वावृत्तिरिति ध्येयम् । आकाङ्क्षापदार्थमाह ।। आकाङ्क्षेति । कथं तर्ह्यर्थे पदे च साकाङ्क्षत्वमित्यत आह ।। तद्विषयत्वादित्यादिना । तद्विषयत्वात्तद्विषयीभूतज्ञानविषयत्वादित्यर्थः । एवं चार्थानां परस्परज्ञानजन्यजिज्ञासाविषयज्ञानविषयत्वेनैव साकाङ्क्षत्वमित्युक्तं भवति ।। तत्प्रतिपादकत्वादिति । स्वप्रयोज्यजिज्ञासाविषयज्ञानजनकत्वादित्यर्थः । यत्पदप्रयोज्यजिज्ञासाविषयत्वयोग्यज्ञानजनकतावच्छेदकत्वरूपवत्त्वं यस्य तेन सह तस्य तद्रूपमेवाकाङ्क्षेति यावत् । भवति हि घटमानयेत्यत्र घटमिति प्रकारकपदप्रयोज्या या जिज्ञासा । तस्या विषयत्वयोग्यं यत्क्रियाज्ञानं तज्जनकं यदानयेति क्रियापदं तन्निष्ठजनकतावच्छेदकं क्रियापदत्वं तत्राकाङ्क्षा । एवं कारकपदेऽपि कारकपदत्वमेवाकाङ्क्षेति द्रष्टव्यम् । इयं च जिज्ञासायोग्यताऽजिज्ञासितेऽप्यस्तीति नातिव्याप्तिः । न च तथाऽपि जिज्ञासायोग्यज्ञानजनकत्वं फलोपधानरूपमेवास्तु किं तदवच्छेदकरूपवत्त्वलक्षणयोग्यताविवक्षयेति वाच्यम् । तथात्वेऽन्वयबोधात्प्रागाकाङ्क्षाभावप्रसङ्गात् ।। पदान्यपीति । साकाङ्क्षाणीत्युपचर्यन्त इत्यर्थः । एवमर्थाः साकाङ्क्षा इत्यत्रापि द्रष्टव्यम् । तद्विषयत्वात्तत्प्रतिपादकत्वादिति च शक्यसम्बन्धप्रदर्शनपरमित्यवधेयम् ।। अविलम्बेनेति । अव्यवधानेनेत्यर्थः । इदं व्यवधानत उच्चारितेषु गामानयेत्यादिपदेष्वतिव्याप्तिवारणाय । नन्विदमनुपपन्नम् । मौनिश्लोके तत्कृतलिप्यनुमिते उच्चारणाभावेनाव्यापकत्वात् । न चैवमव्यवहितपदलिपिरेवासत्तिरेवास्त्विति वाच्यम् । लिपेरप्युच्चारणस्थले भावेनासार्वत्रिकत्वात् । किञ्चैवं सत्याप्तेन व्यवहिततयोच्चारिते कुलकादौ योजनयाऽन्वयबोधो न स्यात् । अथवा व्यवहितत्वेन पदतात्पर्यमासत्तिरिति विवक्षितमिति चेन्न । शुकबालादिवाक्येऽव्याप्तैः । गिरिर्भुक्तमग्निमानयेत्यनासन्नोदाहरणेऽतिव्याप्तेश्च । तत्राप्यव्यवहिततात्पर्यकत्वसम्भवात् । तस्मात्किमेतदिति चेदुच्यते । उच्चरितपदेन पदोपस्थित्यनुकूलवक्तृव्यापारमात्रं विवक्षितम् । अव्यवधानपदेन च निष्फलान्वयबोधविरोधि व्यवधानाभावोऽभिप्रेतः । एवं च वक्तृव्यापारत्वं लिप्युच्चारणेऽपि साधारणमिति न मौनिश्लोकादावतिव्याप्तिः । आप्तोक्तकुलकादौ व्यवहिततयोच्चारणेऽप्यव्यवहिततात्पर्यरूपस्य मौनिश्लोके लिपिरूपस्य शुकादिवाक्ये चोच्चारणरूपस्य वक्तृव्यापारस्य सत्त्वात् । नाप्यसन्नोदाहरणेऽतिव्याप्तिः । तत्र व्यवधानस्य निष्फलत्वात् । कुलकादौ च छन्दःसंरक्षणायालङ्काररसविशेषोदयाय च तत्र व्यवधानस्य वक्त्रा क्रियमाणत्वात् । गिरिर्भुक्तमित्यादौ च तादृशफलदर्शनात् । नापि प्रहरादिव्यवधानेनोच्चारिते गामानयेत्यादिपदसमूहेऽतिव्याप्तिः । तत्र प्रकृतान्वयबोधविरोधिभिः स्वस्वफलैरन्यैर्व्यवधानात् । एवं च निष्फलान्वयबोधविरोध्यव्यवहितवक्तृव्यापारविषयत्वमेव सन्निधिशब्दार्थ इति न कोऽपि दोष इति । ननूक्तेऽर्थे आकाङ्क्षासत्तिलक्षणे प्रमाणलक्षणटीकोदाहृतेऽनाकाङ्क्षितेऽसन्निहिते च विरक्तं प्रति वाणिज्योपदेशे चोलेषु वर्तमानं तृषितं प्रति सन्ति सुरसरिति शीतलानि जलानीत्युपदेशे च क्रमेणातिव्याप्तिरिति चेन्न । अत्र तयोरप्युक्तलक्षणलक्ष्यत्वस्याभिप्रेतत्वात् । न चैवं विरोधः । उक्तोदाहरणयोरागमलक्षणव्यावृत्तत्वस्योभयत्राप्यभिप्रेतत्वात् ।
इयांस्तु विशेषः । तत्रोक्तोदाहरणद्वये वाक्यस्वरूपान्तर्गताऽऽकाङ्क्षासत्त्योः क्रमेणाभावेन वाक्यतया वाक्यपदेन तद्य्वावृत्तिः सम्पादिता । श्रोतुराकाङ्क्षाभिधायकत्वे सति पूर्वपदसञ्जाताकाङ्क्षापूर्वकत्वमाकाङ्क्षा सन्निहितार्थाभिधायकत्वे सत्यविलम्बेनोच्चारितत्वं च सन्निहितत्वमित्याकाङ्क्षासत्तिलक्षणयोरुक्तत्वात् । अत्र पुनस्तदुदहारणद्वये वाक्यत्वप्रसिद्ध्यविरोधेन वाक्यतामङ्गीकृत्य निर्दोषत्वविशेषणेनैव तद्य्वावृत्तिः कृतेति । अत एव वक्ष्यति । आकाङ्क्षासन्निधिभ्यामन्वयाभावस्येत्यन्वयाभावस्यैव व्यावर्त्यत्वं न तूक्तोदाहरणद्वयस्य । नन्वेवमबोधकत्वविपरीतबोधकत्वानन्वितत्वदोषाणां वाक्यपदार्थासत्त्याकाङ्क्षादिनैव परिहारे निर्दोषत्वविशेषणं व्यर्थमित्याशङ्क्य परिहति ।। तत्रेति ।। पदत्वेनेति । विभक्त्यन्तस्य निरभिधेयकत्वासम्भवादिति भावः । पद्यतेऽनेनेति व्युत्पत्त्या पदशब्देन साभिधेयत्वस्यैव प्राप्तेरिति वा ।। अशेषदोषेति । तद्य्वतिरिक्तज्ञातज्ञापकत्वाद्यशेषदोष इत्यर्थः ।
आदर्शः
।। आकाङ्क्षा चेतनधर्म इति ।। तत्प्रतिपादकत्वात्पदान्यपीति । तथा च तत्पदजन्याकाङ्क्षानिवर्तकत्वतदनिवर्त्याकाङ्क्षोत्थापकत्वान्यतरत्वमाकाङ्क्षेत्यर्थः । ननु नेदमाकाङ्क्षारूपम् । तथा सति नियमेनाकाङ्क्षोत्पत्त्यभावेन यत्राकाङ्क्षा नोत्पन्ना तत्र वाक्यस्य निराकाङ्क्षत्वापातात् । न चाकाङ्क्षानुदयेऽपि तत्स्वरूपयोग्यत्वमक्षतमेवेति चेन्न । इच्छाविशेषत्वावच्छिन्नं प्रति पदविशेषत्वेन तज्ज्ञानत्वेन वा कारणताया अक्लृप्तत्वेन स्वरूपयोग्यत्वासम्भवात् । न च तत्पदजन्यार्थोपस्थिताविच्छोत्पत्तेरानुभविकत्वेनोपस्थितिद्वारा पदस्य तज्ज्ञानस्य वा कारणत्वमिति वाच्यम् । उपस्थित्या तस्यान्यथासिद्धत्वात् । अन्यथा कुलालपित्रादेरपि घटकारणत्वापत्तेः । पर्यायवाचकैः पदैरेकस्यैवार्थस्योपस्थित्याऽऽकाङ्क्षायाश्चोदयेन पदस्य तज्ज्ञानस्य वा कारणताङ्गीकारे पदान्तरजन्योपस्थितिसाध्यजिज्ञासायां व्यभिचाराच्च । अव्यवहितत्वनिवेशेन व्यभिचारपरिहारगौरवम् । यत्र कार्यकारणभावः प्रामाणिकस्तत्रैव व्यभिचारपरिहारोपायस्त्वयम् । न च प्रयोजकत्वमास्तामिति वाच्यम् । तत्रापि प्रमाणाभावात् । न च सामान्यधर्मावच्छिन्नज्ञानस्य तद्विशेषजिज्ञासां प्रति हेतुत्वं पदात्सामान्यस्योपस्थितौ विशेषजिज्ञासाया उदयात्सामान्यधर्मावच्छिन्नोपस्थितिजनकानां बहूनामपि पदानां तादृशजिज्ञासाप्रयोजकत्वमङ्गीक्रियत इति वाच्यम् । बहूनामपि प्रयोजकत्वाङ्गीकारेणाकाङ्क्षोपपादने गौरवात् ।
किञ्चाकाङ्क्षा तु स्वरूपतोऽशाब्दबोधहेतुः । सत्यामप्याकाङ्क्षायां तदज्ञाने शाब्दबोधादृष्टेः । असत्यामाकाङ्क्षायां तज्ज्ञानाच्छाब्दबोधोदयात् । किन्तु तज्ज्ञानत्वेन कारणता वाच्या । तथा चोक्ताकाङ्क्षाया अनुपस्थितावपि शक्तिज्ञानवतां समभिव्याहारज्ञानमात्रेण शाब्दबोधस्यानुभवसिद्धत्वेनोक्ताकाङ्क्षाज्ञानस्य हेतुत्वं न सम्भवत्येव । न हि सर्वत्रेच्छाद्युत्पत्तिस्तज्ज्ञानं वा प्रामाणिकम् । तस्यैव समभिव्याहारस्याकाङ्क्षात्वात् । तथा च तत्पदोत्तरतत्पदत्वमेवाकाङ्क्षा न जिज्ञासेति चेत् । मैवम् । शाब्दबोधे वाक्यघटकानां पदानां पूर्वत्वोत्तरत्वादिज्ञानस्योपयोगाभावेन तद्घटितवाक्यरूपसमभिव्याहारज्ञानस्य कारणत्वासम्भवात् । एकानुपूर्व्या ज्ञानस्य कारणत्वाङ्गीकारे तद्वाक्यघटकयावत्पदघटिततद्विजातीयानुपूर्वीज्ञानादपि तादृशबोधस्यैवोत्पत्त्या व्यभिचारात् । अव्यवहितत्वनिवेशेन व्यभिचारपरिहारे तु गौरवम् । न च पर्यायवाचकपदान्तरसमुदायादपि तादृशबोधोत्पत्त्या व्यभिचारेण तादृशोत्पत्तौ तत्तत्पदज्ञानस्यापि कारणत्वाभावप्रसङ्गेन तत्तत्पदज्ञानव्यवहितोत्तरत्वनिवेशस्य भवन्मतेऽप्यावश्यकतया न गौरवमिति वाच्यम् । एकजातीयपदघटितनानानुपूर्वीज्ञानस्य पृथक्करणत्वाकल्पनेन तत्तदानुपूर्व्यवहितत्वनिवेशस्यानावश्यकत्वात् । तत्स्थले तत्तत्पदानां ज्ञानं परस्परान्वयज्ञानसहितं तावत्पदघटितनानानुपूर्वीज्ञानस्थलेऽनुगतमेवेति नाव्यवहितोत्तरत्वनिवेशः । पदज्ञानस्य कारणतायास्तवाप्यावश्यकत्वेन तत्पदाव्यवहितोत्तरत्वनिवेशस्त्वत्पक्षेऽप्यावश्यक एव । न च भवदुक्तजिज्ञासोदयाभावेनोक्ताकाङ्क्षाया असार्वत्रिकत्वमिति वाच्यम् । तादृशजिज्ञासातन्निवृत्त्यन्यतरस्वरूपयोग्योपस्थितिजनकतावच्छेदकरूपावच्छिन्नत्वस्याकाङ्क्षारूपत्वात् । गवादिपदेन च सामान्यतोऽन्वयोपस्थितेर्जायमानत्वात् । सामान्यधर्मावच्छिन्नज्ञानस्य विशेषजिज्ञासास्वरूपयोग्यत्वस्य सर्वसम्मतत्वात् । तादृशं च विभक्तित्वनामत्वादिवैजात्यमेव तत्स्वरूपयोग्यतावच्छेदकरूपत्वस्यैवाकाङ्क्षापदार्थत्वात् । न च विभक्तित्वादिकं न जातिः । सत्त्वादिना वर्णव्याप्यजातिना साङ्कर्यात् । नाप्यखण्डोपाधिः । व्याकरणान्तरकारेणान्यथासङ्केतस्य कर्तुं शक्यत्वात् । कल्पान्तरे राम इत्यानुपूर्व्या राज्ञ इत्यादाविव षष्ठीविभक्त्यन्तत्वसङ्केत्तस्यापि कर्तुं शक्यत्वेन ङस इत्यानुपूर्व्याः षष्ठीत्वपञ्चमीत्वादीनां कर्तृसङ्केतानुसारेण सत्त्वेनाव्यवस्थितत्वेनाखण्डोपाधित्वानुपपत्तेः। तथा च सङ्केतत्वमेवेति वाच्यम् । तथा च पाणिन्यादिज्ञानशून्यानां शाब्दानुपपत्तिरिति वाच्यम् । वेदापौरुषेयत्ववादिनामस्माकं विभक्तित्वादीनामनाद्यनन्तकाले एकजातीयत्वेन जातित्वे बाधकाभावात् । साङ्कर्यस्य जातिबाधकत्वे मानाभावात् । अत एव मालात्वादिकं प्रत्यक्षबलाज्जातिरेवाखण्डोपाधित्वं वाऽस्तु तावताऽपि बाधकाभावात् । पाणिन्यादयस्तु गुरुमुखाद्व्याकरणादिकं ज्ञात्वैव कृतवन्तः । येनाक्षरसमाम्नायमधिगम्य महेश्वरात्कृत्स्नं व्याकरणं प्रोक्तमित्युक्तेः । न च व्याकरणस्याप्यनादित्वप्रसङ्गः । इष्टापत्तेः । सर्वसमयानामपि प्रवाहतोऽनादित्वस्याङ्गीकृतत्वात् । आनुपूर्व्या अनादित्वाभावेन वेदाद्वैलक्षण्यस्योपपत्तेः ।
यद्वा पदानां परस्परान्वितस्वार्थबोधकस्वरूपयोग्यत्वमेवाकाङ्क्षा । तादृशपदानामेवाकाङ्क्षाजनकत्वतन्निवर्तकत्वं सम्भवतीति परस्परं तत्स्वरूपयोग्यत्वं सम्भवति । तज्ज्ञानमेव शाब्दजनकम् । तच्चेदं पदमेतत्पदार्थान्वितस्वार्थबोधकमित्याकारम् । तथा च पदार्थयोरन्वयस्य तत्प्रतियोगिकपदार्थान्तरप्रतियोगिकान्वयत्वेन ज्ञातत्वेऽपि स्वरूपतोऽज्ञातत्वान्न शाब्दबोधवैय्यर्थ्यापत्तिः । अत एव सामान्यतोऽन्विताभिधानशक्तिमन्त्यपि पदानि पदान्तरसन्निधानादुक्ताकाङ्क्षाज्ञानरूपसहकारिसामर्थ्याद्विशेषतोऽन्वयमपि बोधयन्ति । परन्त्वन्वयनिष्ठा विषयताऽन्वयत्वरूपसामान्यधर्मावच्छिन्ना पदशक्तिप्रयोज्या । अन्वयांशेऽन्वयतावच्छेदकविशेषसंयोगित्वादिविषयताऽऽकाङ्क्षा ज्ञानप्रयोज्या । न च पदानामेव विशेषान्वयाभिधाने आहितशक्तिमत्त्वोक्तिविरोधः । आकाङ्क्षाज्ञानस्य पदैर्जायमाने बोधे सहकारित्वेन पदेष्वेव तादृशशक्तेराधानात् । करणनिष्ठशक्ति विशेषसम्पादकत्वस्यैव सहकारिरूपत्वात् । आलोकादौ तथा दृष्टत्वात् । अत्र विशेषस्तूत्तरत्र शक्तिविचारे वक्ष्यामः । व्युप्तन्नस्य क्रियात्वकारकत्वादिज्ञानेऽप्युक्ताकाङ्क्षाज्ञानादिभावेन शाब्दबोधः । अन्यथेदं क्रियापदं द्वितीयादिविभक्तिमत्पदमिति ज्ञानमात्रवतोऽपि शाब्दबोधापत्तेः । न चेष्टापत्तिः । अनुभवविरोधात् । विपरीतव्युत्पन्नस्य क्रियाकारकत्वाद्यज्ञानेऽप्यन्वयज्ञानमात्रेण शाब्दबोधोदयात् । न हि प्रमायां तस्यापि पदस्य स्वसमानविभक्तिकसमभिव्याहृतानामन्तरे भेदसम्बन्धेनान्वय इति ज्ञानवतः शाब्दबोधो न जायत इति वक्तुं युक्तम् । अतस्तदर्थान्वितस्वार्थबोधकमिदं पदमित्याकाङ्क्षाज्ञानस्यैव हेतुता । न चैतादृशाकाङ्क्षाज्ञानवतः पुरुषस्याभ्रान्तत्वापत्तिः । नामार्थयोरप्युक्ताकाङ्क्षाज्ञानसाहित्येन भेदसम्बन्धेन बोधकत्वशक्तेः सत्त्वादिति वाच्यम् । स्वाभाविकशक्तिमत्त्वज्ञानस्यैवाकाङ्क्षारूपत्वेन विपरीतव्युत्पत्तिरूपदोषबलात्तादृशबोधजनकत्वरूपशक्तिमत्त्वेऽपि तादृशशक्तेराहितत्वेनास्वाभाविकत्वेन स्वाभाविकशक्तिमत्त्वरूपाकाङ्क्षाज्ञानस्य भ्रमत्वात् । न च तच्छक्तेरस्वाभाविकत्वमित्यत्र किं मानमिति वाच्यम् । अनाद्यनन्तकालेषु पुरुषेष्वभेदावगाहिबोधजनकत्वेन तादृशशक्तेः स्वाभाविकत्वे सिद्धे क्वचिदेव काले एकद्वित्रादिपुरुषेषु तादृशबोधजनकत्वस्य वेत्रबीजादौ कदलीकाण्डजननशक्तेरिवास्वाभाविकत्वस्यैवोचितत्वात् । न च नामार्थयोरनादिकालेऽभेदावगाहि बोधजनकत्वमुत्तरत्रापि तथेत्यत्र किं नियामकमिति वाच्यम् । वेदापौरुषेयत्वस्यैव नियामकत्वात् । न च स्वाभाविकशक्तिमत्त्वस्यैवाकाङ्क्षारूपत्वं कुत इति वाच्यम् । विपरीतव्युत्पत्तिमतोऽन्यथाऽपि बोधं जनयति । ज्ञानवतोऽपि तादृशबोधानुदयेन सामान्यतस्तादृशबोधानुकूल शक्तिमत्त्वस्काङ्क्षारूपत्वासम्भवात् । न चैवं लक्षणया बोधजनकत्वशक्तेरप्याहितत्वेन तदवगाहिज्ञानस्याकाङ्क्षाज्ञानरूपत्वाभावे तत्राकाङ्क्षाज्ञानासम्भवेन बोधो न स्यादिति वाच्यम् । लक्षणया पदार्थविषयबोधजननानुकूलशक्तेराधानसत्त्वेऽप्यन्वयबोधस्य लक्षणया कदाऽप्यजननेनान्वयबोधशक्तौ लक्षणाप्रयोज्यत्वासम्भवेन समभिव्याहृतपदार्थसंसर्गनिष्ठसांसर्गिक विषयताकबोधजननानुकूलस्वाविकशक्तिमत्त्वरूपाकाङ्क्षाज्ञानसम्भवेन दोषाभावात् । अत एवापभ्रष्टभाषायां व्यवहारानुसारेण तथैव व्युत्पत्तिरिति ।
नन्वपभ्रष्टभाषायां प्रथमात्वादिविभक्तित्वादिज्ञानशून्यानां शाब्दबोधोदयान्न क्रियात्वकर्मत्वादिज्ञानं शाब्दधीहेतुः । अन्यत्र बोधो क्लृप्तसामग्रीबलादेव संस्कृतेऽपि बोधाङ्गीकारस्योचितत्वादिति चेन्न । परस्परान्वितस्वार्थबोधकत्वज्ञानादेव शाब्दाङ्गीकारपक्षे दोषाभावस्य स्फुटत्वात् । क्रियात्वादिज्ञानस्य कारणतामतेऽप्यानुपूर्व्या भिन्नत्वेऽपि तत्र तदीयसङ्केतादिना क्रियात्वकारकत्वादिवैजात्यानां तत्र सत्त्वात् । तादृशवैजात्यस्य स्वरूपतो ज्ञानमेव वैजात्यप्रयोजकं न तु षष्ठ्यादिपदवाच्यत्वज्ञानमिति दोषाभावात् । सङ्केतयितृज्ञानाभावेऽपि क्रियात्वादिज्ञानमात्रेणैव शाब्दोत्पत्तेः सम्भवात् ।। सन्निधिरिति ।। उच्चरितमिति । उपलक्षणमेतत् । लिखितत्वादिकमपि ग्राह्यम् । तज्ज्ञानाधिकरणकालवृत्तिज्ञानोत्पत्तिप्रयोजकवक्तृव्यापारविषयत्वमित्यर्थः । तथा च मौनिश्लोकादावपि सम्भवति । न च व्यवहितपदानामपि योजनयाऽन्वयबोधस्यानुभवसिद्धत्वात्कथं सन्निधेः शाब्दहेतुत्वम् । यदि च तात्पर्यरूपवक्तृव्यापारमादाय सन्निधिरानीयते तदा गिरिर्भुक्तमग्निमान्देवदत्तेनेत्यादिवाक्यानामपि सन्निधिसत्त्वापत्तिः । तथा चासत्तिरहितवाक्यस्यैव दुर्मिलत्वापत्तिरिति वाच्यम् । प्रहरे प्रहरे उच्चरितस्य गामानयेत्यादिवाक्यस्यैव सुमिलत्वात् । गिरिर्भुक्तमित्यादिवाक्ये यदि तात्पर्यज्ञापकं किञ्चिदस्ति तदा सन्निधिमत्त्वे इष्टापत्तिः । तदभावे ज्ञायमानव्यापारत्वस्यैव सन्निधित्वेन तदभावात् । अत एवोच्चारणस्याज्ञानेऽविलम्बेनोच्चारितेऽति सन्निधिर्नाङ्गी क्रियते । वस्तुतस्तु पदयोः सन्निधिरेकक्षणवृत्तित्वज्ञानमेव तत्प्रयोजकत्वाद्य्वापारोऽपि सन्निधिरित्युच्यते । केचित्तु स्वसमानाधिकरणज्ञानादिदोषाननुमापकं यत्पदयोर्व्यवधानं तदप्रयोजकवक्तृव्यापारविषयत्वं सन्निधिः । इत्थं च गिरिर्भुक्तमित्यादौ यदि किञ्चित्प्रयोजनोद्देशेन व्यवधानं तदा सन्निधिरस्त्येव । यदि न प्रयोजनोद्देशस्तदा तद्य्ववधानप्रयोजकव्यापारस्य वक्तृव्यापारदोषानुमापकत्वान्न सन्निधिरिति वदन्ति । न चाध्याहारस्थले वाक्यत्वानुपपत्तिः । अध्याहृतपदसन्निधेरभावादिति वाच्यम् । तत्राप्यध्याहारज्ञापकस्य कर्तृव्यापारस्य सत्त्वात् । तदभावे न्यूनत्वेन वाक्याभासत्वात् ।
ननु सन्निधेर्वाक्याङ्गत्वं कस्मादङ्गीकर्तव्यम् । सत्यपि व्यवधाने सन्निधेरुक्तरीत्या सम्पादयिष्यमाणत्वात् । न च सन्निध्यभावेऽसन्निहितपदज्ञानासम्भवेन शाब्दानुपपत्तिरिति वाच्यम् । असन्निहितपदस्याप्याकाङ्क्षानुसारेण स्मरणसम्भवादिति चेन्न । उपादेयत्वघटितप्रामाण्यस्य सन्निध्यभावेऽनुपपत्तेः । विना प्रयोजनं तत्पदोच्चारणाद्यभावे तत्पदस्य वाऽन्यस्य वाऽध्याहारस्तन्त्रादिकं वेत्यत्र नियामकाभावेन तात्पर्यानिश्चयेन बोधानुपपत्तेः । कथञ्चितात्पर्यज्ञानसम्भवेऽपि पदबोधनार्थे वाक्ये स्फुटप्रतीतिविरोधिव्यवधानस्य प्रयोजनानुसन्धानादिप्रयोजकाप्रयोज्यस्य कर्तुर्मौर्ख्यादिमात्रप्रयोज्यत्वे सिद्धे तन्मूलकत्वसन्देहेन वाक्यप्रामाण्यसन्देहाच्छुकादि वाक्यवदनुपादेयत्वाच्च । चोलदेशस्थितस्य पिपासोः सुरसरिति शीतलानि जलानि सन्तीत्यादिवाक्यव्यावर्तनाय सन्निहितार्थाभिधायकत्वमपि विशेषणं देयम् । अन्यत्रोक्तत्वात् । अथवा शाब्दबोधोपयोगिसन्निधिरत्राभिहितः । तदुपयोगित्वं च प्रदर्शितमेव । तत्रोपादेयत्वप्रयोजकसन्निधिरभिहित इत्यास्तां विस्तरः ।। प्रतीतावन्वयप्रमाणविरोधोऽयोग्यतेति । अत्रेदं बोध्यम् । योग्यताज्ञानं न शाब्दबोधधीहेतुः । मानाभावात् । न च बाधकालेऽपि शाब्दबोधापत्तिः । सत्त्वावगाहिबोधानङ्गीकारादिति वाच्यम् । अयोग्यताज्ञानस्य प्रतिबन्धकत्वादेव शाब्दबोधानुदयात् । न च योग्यताज्ञानस्य कारणत्वम् । अयोग्यताज्ञानस्य प्रतिबन्धकत्वं वेत्यत्र विनिगमनाविरह इति वाच्यम् । प्रत्यक्षादिस्थले तद्वत्ताबुद्धिं प्रति तदभावात्तन्निर्णयस्य प्रतिबन्धकतायाः क्लृप्तत्वात् । सत्यपि योग्यताज्ञाने लौकिकसन्निकर्षादिना बाधबुद्ध्युत्पत्तौ तृतीयक्षणे शाब्दबोधापत्तेः । समूहालम्बनात्मिकाया योग्यताज्ञानादिघटितायाः शाब्दसामग्रयाः सत्त्वात् । एवमपूर्वार्थविषयकस्य संशयात्मकस्यापि ज्ञानस्य पूर्वमसत्त्वात्किन्तु सन्निधिरिव वाक्यांशभूतेति ।। अशेषदोषनिरासार्थमिति । ज्ञातज्ञापकत्वासाध्यकथनादि दोषनिरासार्थमित्यर्थः ।
श्रीविट्टलभट्ट
निर्दोषं वाक्यमिति द्वितीयलक्षणे वाक्यस्वरूपजिज्ञासायामुपोद्घातसङ्गत्या पदस्वरूपमाह । विभक्त्यन्ता वर्णा इति । वाक्यलक्षणमाह ।। आकाङ्क्षासन्निधियोग्यतावतामिति । गौरश्वः पुरुषो हस्तीत्यादिनिराकाङ्क्षपदसमूहव्यवच्छेदायाद्यं विशेषणम् । व्यवधानेनोच्चारितस्य देवदत्त गामानयेत्यादिपदसमूहस्य व्यवच्छेदाय द्वितीयं विशेषणम् । अग्निना सिञ्चेदित्यादिपदजातव्यावृत्त्यर्थं तृतीयं विशेषणम् । केयमाकाङ्क्षेति । जिज्ञासायामाह ।। आकाङ्क्षेति । पूर्वपदसञ्जातार्थपदार्थान्तरजिज्ञासाऽऽकाङ्क्षेत्यर्थः । इयमाकाङ्क्षा साक्षात्पदगतेति निरासायाह ।। चेतनधर्म इति । चेतनस्य श्रोतुर्धर्म इत्यर्थः । कथं तर्हि पदानां साकाङ्क्षत्वमित्यत आह ।। तद्विषयत्वादिति । पूर्वपदसञ्जातश्रोतृविषयत्वादर्थाः पदार्था आकाङ्क्षासम्बन्धिन इत्यर्थः । तत्प्रतिपादकत्वात्पूर्वपदसञ्जातश्रोतृजिज्ञासाविषयपदार्थबोधकत्वादित्यर्थः । पदान्यपि साकाङ्क्षाणीत्येतल्लिङ्गव्यत्ययेनात्रानुवर्तते । पदानि पूर्वपदसञ्जातजिज्ञासारूपाकाङ्क्षाविषयार्थ बोधकत्वरूपपरम्परासम्बन्धेन साकाङ्क्षाणि भवन्तीति भावः। यद्वा केयमाकाङ्क्षेति जिज्ञासायां साकाङ्क्षार्थप्रतिपादकत्वमाकाङ्क्षेति वक्तुमर्थसम्बन्ध्याकाङ्क्षास्वरूपं तावदाह ।। आकाङ्क्षेति । पूर्वपदसञ्जाता जिज्ञासाऽऽकाङ्क्षपदगताऽऽकाङ्क्षशरीरप्रविष्टाऽऽकाङ्क्षेत्यर्थः । इत्येवमाकाङ्क्षोऽर्थधर्म इति मन्दानां प्रतीतिपरिहारायाह ।। चेतनधर्म इति । अर्थ पूर्ववत् । तर्हि कथमियमर्थसम्बन्धिनीति जिज्ञासायामाह ।। तद्विषयत्वादिति । विषयविषयिभावलक्षणसम्बन्धेनेयमाकाङ्क्षाऽर्थसम्बन्धिनीति भावः । इदानीं पदगताकाङ्क्षामाह ।। तत्प्रतिपादकत्वादिति । श्रोतृजिज्ञासितार्थप्रतिपादकत्वात् पदान्याकाङ्क्षावन्तीत्यर्थः । पदार्थाः साकाङ्क्षास्तथा पदान्यपि साकाङ्क्षाणीत्यपेरर्थः । पूर्वपदसञ्जातश्रोतृजिज्ञासाविषयार्थबोधकत्वं पदगताकाङ्क्षेति भावः । प्रमाणलक्षणटीकायां तु पूर्वपदसञ्जाताकाङ्क्षापूर्वकत्वमाकाङ्क्षावत्त्वमित्युक्तम् । तत्र पूर्वपदं प्रथमोपस्थितपदं तेन स्वजन्यज्ञानद्वारा सञ्जाताकाङ्क्षा पूर्वपदोपस्थितिजन्यपदार्थान्तरजिज्ञासैव । जिज्ञासापूर्तिश्च जिज्ञासितार्थाभिधानेन भवतीति तत्पूर्वकं पदानां तद्विषयार्थप्रतिपादकत्वमेव । अतस्तेनापि पूर्वपदसञ्जातश्रोतृजिज्ञासाविषयार्थप्रतिपादकत्वमेवोक्तमिति न विरोधशङ्कावकाशः । यद्यपि प्रमाणलक्षणटीकायां श्रोतुराकाङ्क्षितार्थाभिधायित्वपूर्वपदसञ्जाताकाङ्क्षापूर्वकत्वं चाकाङ्क्षावत्त्वम् । तेन विरक्तं प्रति वाणिज्योपदेशस्य निराकाङ्क्षत्वमशक्यत्वं चाभ्युपेयम् । तथाऽप्यावश्यकनिर्दोषत्वविशेषणादेव तद्य्ववच्छेदासम्भवात्पूर्वपदसञ्जातश्रोतृ जिज्ञासाविषयार्थप्रतिपादकत्वमात्रेण पदेषु साकाङ्क्षत्वव्यवहाराच्च । विरक्तं प्रति वाणिज्योपदेशस्य वाक्यत्वमभ्युपेत्य पद्धतावन्वयाबोधोपयुक्ताकाङ्क्षामात्रमुक्तम् । प्रमाणलक्षणटीकायां तु शब्दस्य परार्थत्वात्पराभिलषितज्ञानविषयस्यैव पदार्थशब्दबोध्यतया परापेक्षितत्वस्यैव वाक्यार्थत्वाद्वाक्यार्थ भूतान्वयबोधकत्वस्य गौरश्वः पुरुषो हस्तीति पदजाते विरक्तं प्रति वाणिज्योपदेशरूपपदजाते च समा गौरश्वः पुरुषो हस्तीति पदजातवद्विरक्तं प्रति वाणिज्योपदेशरूपपदजातमपि निराकाङ्क्षं वाक्यं चेत्यभिप्रेत्य तद्य्वावृत्त्यर्थं श्रोतुराकाङ्क्षितार्थाभिधायकत्वमप्याकाङ्क्षाशरीरे प्रवेशितं तथाविधाकाङ्क्षारहितत्वाद्विरक्तं प्रति वाणिज्योपदेशरूपं पदजातमपि न वाक्यमित्युक्तम् । तथा च विवक्षाभेदेन ग्रन्थद्वयप्रवृत्तेर्विरोधशङ्काऽनवकाश इति । सन्निधिलक्षणमाह ।। सन्निधिरविलम्बेनोच्चरितत्वमिति । पदानामव्यवधानेनोच्चारविषयत्वं सन्निधिरित्यर्थः ।
ननूच्चारणविषयत्वं पत्रलिखितमौनिश्लोकादावङ्गुल्यादिचेष्टाविशेषित ज्ञापितपदसमूहरूपे वाक्ये च नास्तीति तत्र सान्निध्याभावप्रसङ्ग इति चेन्न । उच्चारितत्वमित्यस्य पदोपस्थित्यनुकूलव्यापारविषयत्वोपलक्षणत्वात् । पदोपस्थित्यनुकूलो व्यापारः क्वचिदुच्चारणात्मा क्वचिल्लिपिरूपः क्वचिच्चेष्टाविशेषरूप इति सर्वत्र पदोपस्थित्यनुकूलव्यापारविषयत्वमस्तीति नातिव्याप्तिः । लाक्षणिकपदप्रयोगस्तु प्रायेणोच्चारणं पदोपस्थित्यनुकूलो व्यापार इति ज्ञापनाय । यद्यपि प्रमाणलक्षणटीकायां सन्निहितार्थाभिधायकत्वमविलम्बेनोच्चारितत्वम् । तेन चोलेषु तृषितं प्रति सन्ति सुरसरिति शीतलानि जलानीत्युपदेशस्य विलम्बेनोच्चारितपदानां च वाक्यत्वनिरास इत्युक्तत्वात् । पद्धत्युक्ताविलम्बोच्चारितत्वरूपसन्निधियुक्तत्वमपि चोलेषु तृषितं प्रति सन्ति सुरसरितीत्यादिपदजातं सन्निधिरहितमवाक्यं चेत्यभ्युपेयम् । तथाऽप्यावश्यकनिर्दोषत्वविशेषणादेव तद्य्ववच्छेदसम्भवात् । पद्धत्युक्ताविलम्बेनोच्चारितत्वमात्रेणापि पदेषु सन्निहितत्वव्यवहाराच्च । चोलेषु तृषितं प्रति सुरसरितीत्यादिपदजातं वाक्यमित्यभ्युपेत्य पद्धतावन्वयबोधोपयुक्तासत्त्यपरपर्याय सन्निधिमात्रमुक्तम् । प्रमाणलक्षणटीकायां विलम्बेनोच्चारितपदजातेऽसन्निहितार्थाभिधायकपदजातपरापेक्षितप्रतीतिविषयान्वयाबोधकत्वसाम्यादसन्निहितार्थबोधकं चोलेषु तृषितं प्रति सन्ति सुरसरितीत्यादिपदजातं सन्निधिरहितमवाक्यं चेत्यभ्युपगम्य तद्य्वावृत्त्यर्थं सन्निधिलक्षणे सन्निहितार्थाभिधायकत्वं प्रवेशितम् । तावता न कश्चिद्विरोधः ।। विवक्षाभेदेन ग्रन्थद्वयप्रवृत्तेरिति । सन्निधिरर्थधर्मोऽप्यस्तीति हेतोः शब्दसाम्यादयमपि सन्निधिरर्थधर्म इति मन्दप्रतीतिवारणायाह ।। पदधर्म एवेति । योग्यतालक्षणमाह ।। प्रतीतान्वयस्येति । पदसमूहरूपशब्दप्रतीतपदार्थानामन्वयस्येत्यर्थः । सन्निधिवदियं योग्यता पदधर्म इति प्रतीति निरासायाह ।। पदार्थधर्म इति । प्रमाणविरुद्धान्वयप्रतियोग्यतापदार्थगतानां योग्यतेत्याशयः । कथं तर्हि पदानि योग्यतावन्तीत्यत आह ।। यद्वाचकत्वादिति । प्रमाणविरुद्धान्वयप्रतियोगिबोधकत्वादित्यर्थः । परम्परासम्बन्धेन योग्यतासम्बन्धित्वात्पदानि योग्यतावन्तीत्यर्थः । यद्वा पदानां योग्यता नाम केति जिज्ञासायां योग्यतावदर्थप्रतिपादकत्वं योग्यतेत्यभिप्रेत्य योग्यताशरीरप्रविष्टार्थधर्मभूतयोग्यतां तावदाह ।। प्रतीतान्वयस्येति । अर्थधर्मो योग्यतेत्यन्वयः । पदगतयोग्यतामाह ।। तद्वाचकत्वात्पदान्यपीति । प्रमाणाविरुद्धान्वयप्रतियोग्यभिधायकत्वं पदगतयोग्यतेति भावः । प्रमाणलक्षटीकायां त्वन्योन्यान्वययोग्यतावदर्थभिधायकत्वं योग्यत्वमित्युक्तम् । अन्योन्यान्वयोऽन्योन्यनिरूपितान्वय इति यावत् । तस्य योग्यता प्रमाणाविरोध इति भावः । तदर्थप्रतिपादकत्वं पदानां योग्यत्वं योग्यतेत्यर्थः । तथाऽत्रापि प्रमाणविरुद्धान्वयप्रतियोग्यार्थाभिधायकत्वं योग्यतेत्युक्तत्वान्न विरोधशङ्कावकाश इति । आगमलक्षणवाक्ये पदकृत्यमाह ।। तत्रेति । द्वितीयागमलक्षणवाक्य इत्यर्थः ।। पदत्वेनेति । पदस्य वाचकत्वात्पदत्वेन निरभिधेयत्वस्य निरास इति भावः ।। योग्यतयेति । योग्यतायाः सदर्थबोधकत्वनियतत्वात् । योग्यतया विपरीतबोधकत्वनिरास इति भावः ।