प्रतिदृष्टान्तसमः

(५६) प्रमाणपद्धतिः

।। २० ।। (२) (१२) प्रतिदृष्टान्तसमः । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसम इत्येके । तदसत् । साधर्म्यसमादावपि तद्भावात् । यथा शब्दोऽनित्य ऐन्द्रियकत्वादित्युक्ते वदति । यदि घटदृष्टान्तेनैन्द्रियकत्वादनित्यस्तर्हि सामान्यदृष्टान्तेन नित्यः किं न स्यादिति । व्यभिचारचोदनाभिप्रायेण प्रवृत्तेर्न साधर्म्यसमादिसाङ्कर्यमिति चेन्न । अस्य सदुत्तरत्वात् । तस्माद्धेतुनिरपेक्षेण प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधयोरन्यतरोद्भावनं प्रतिदृष्टान्तसम इत्युदयनः । यथा यदि महानसदृष्टान्ते नाग्निमानिष्यते तर्हि ह्रददृष्टान्तेनानग्निकोऽस्त्वित्यादि । अत्र न्यूनत्वं वाच्यम् । हेतोरनङ्गत्वाभिमाने तु स्वन्यायविरोध इति ।

जयतीर्थविजय

।। प्रतिदृष्टान्तेनेति । विरोधदृष्टान्तेनेत्यर्थः । साधर्म्यसमादीत्यादिशब्देन प्रकरणसमस्य ग्रहणम् ।। अस्येति । व्यभिचारचोदनस्येत्यर्थः ।। तस्मादिति । प्राचीनलक्षणस्य दुष्टत्वादित्यर्थः । साधर्म्यसमव्यावर्त्यमाह ।। हेतुनिरपेक्षेणेति ।। अनग्निकोऽस्त्विति । अनग्निक एवास्त्वित्यर्थः । आदिशब्दादनग्निकोऽप्यस्त्वित्यर्थः ।। तस्मादिति । प्राचीनलक्षणस्य दुष्टत्वादित्यर्थः । साधर्म्यसमव्यावर्त्यमाह ।। हेतुनिरपेक्षेणेति ।। अनग्निकोऽस्त्विति । अनग्निक एवास्त्वित्यर्थः । आदिशब्दादनग्निकोऽप्यस्त्वित्यर्थः । तथा च वादिहेतुर्बाधितसाध्यकः सत्प्रतिपक्षितो वेति भावः । स्वव्याहतिं वक्तुमुत्तरकथाप्रकारमाह ।। अत्रेति ।। न्यूनत्वमिति । अवश्योपादेयस्य हेतोरनुपादानादिति भावः ।। स्वन्यायविरोध इति । प्रतिदृष्टान्तो बाधकः प्रतिरोधको वा न भवति गर्दभवदिति हेत्वनङ्गतावादिनं प्रति दृष्टान्तमात्रस्य वक्तुं शक्यत्वादिति भावः ।

भावदीपः

।। प्रतिदृष्टान्तेनेति । वाद्युक्तसाध्यरहितदृष्टान्तेन प्रत्यवस्थानं वादिसाधनदूषणाभिधानमित्यर्थः । साधर्म्यसमादावित्यादिपदेन वैधर्म्यसमग्रहः । उदाहरणमुखेन साधर्म्यसमान्तर्गतिं व्यनक्ति ।। यथाशब्द इत्यादिना ।। वदतीति । जातिवादीति शेषः । शङ्कते ।। व्यभिचारेति । साधर्म्यसमादौ तु प्रतिपक्षाभिप्रायेण प्रवृत्तेर्न तेन साङ्कर्यमिति भावः । मात्रपदव्यावर्त्य हेतुनिरपेक्षेणेति । अनग्निकोऽस्त्वित्यादीत्यादिपदेनानग्निक एवेति बाधचोदनग्रहः । उत्तरोक्तिप्रकारमाह ।। अत्रेति । युक्ताङ्गहीनत्वरूपं न्यूनत्वमित्यर्थः ।। स्वन्यायेति । त्वदुक्तं धूमवत्त्वमसाधकम् । सत्प्रतिपक्षत्वाद्बाधितत्वात्सम्मतवदिति जातिवाद्युक्तप्रतिषेधानुमानेऽपि यदि वह्न्यौष्ण्यानुमानरूपबाधितसत्प्रतिपक्षदृष्टान्तेनासाधकं धूमवत्त्वं तर्हि सद्धेतुदृष्टान्तेन साधकं वाऽसाधकमेव वाऽस्त्वित्यपि सुवचत्वात्स्वन्यायविरोध इत्यर्थः ।

श्रीविजयीन्द्रतीर्थ

।। साधर्म्येति । हेत्वपेक्षप्रतिदृष्टान्तेन प्रत्यवस्थान एतत् ।। अत्र न्यूनमिति । तथा चायुक्ताङ्गहानिहेतोरनुक्तेरित्यर्थः ।। भागासिद्धिरिति । कालविशेषावच्छिन्न एव वृत्तेरिति भावः ।। अत्रेति । तथा चायुक्ताङ्गाधिकत्वं प्राक्कालीनवृत्तेरनुपयुक्ताया एवाभ्युपगमादिति भावः ।

श्रीवेदेशभिक्षु

।। प्रतिदृष्टान्तेनेति । हेत्वपेक्षेणेति शेषः । तेन वक्ष्यमाणसाधर्म्यसमातिव्याप्तिर्घटित इति ध्येयम् । नन्वत्र प्रतिरोधचोदनाभिप्रायो भवत्साधर्म्यसमं साकर्ङ्यम् । न चैवं किन्तु व्यभिचारचोदनैवाभिप्रेताऽतो न तत्साङ्कर्यमित्याशङ्कते ।। अत्रेति ।। न्यूनत्वमिति । ततश्च युक्ताङ्गहानिरिति भावः ।

अभिनवामृतम्

।। अस्य सदुत्तरत्वादिति । व्यभिचारचोदनस्य सदुत्तरत्वेन जात्युत्तरत्वाभावात्तद्विशेषणं प्रतिदृष्टान्तस्य समत्वकल्पनमयुक्तमित्यर्थः ।। तस्मादिति । साधर्म्यसमादावतिव्याप्तिवारणाय हेतुनिरपेक्षेणेति । हेतुनिरपेक्षया बाधाद्युद्भावने पाक्षिकजयबुद्धिरुत्थानबीजम् । बाधप्रतिरोधावारोप्यौ । यथा यदि महानसदृष्टान्तेनेति यदि वादिनेष्यत इत्यन्तेन परोक्तानुवादः । तर्हीत्यादिनाऽनग्निकोऽस्त्वित्यन्तेन पर्वतोऽग्निमान्न भवति । ह्रदवदिति प्रयोगप्रकारः सूचितः । एतेन ह्रददृष्टान्तेनानग्निकोऽस्त्वित्येतावतैवोदाहरणप्रदर्शनस्य जातित्वादितरांशवैय्यर्थ्यमिति परास्तम् । अत्र न्यूनत्वमिति पराभिमतस्य हेतोरनगङ्गत्वस्याद्याप्यसिद्धत्वान्न्यूनमेव प्रथमं वाच्यं न जातित्वमित्यर्थः ।। हेतोरनङ्गत्वाभिधान इति । प्रतिवादिनाऽप्यन्नमिष्टसाधनमन्नत्वादिति स्वानुमानहेतुनिरपेक्षेण प्रतिदृष्टान्तेन बाधप्रतिरोधौ वारयितुं हेतोरनङ्गत्वस्याङ्गीकृतत्वात् प्रतिबन्दीविरोध इत्यर्थः ।

वाक्यार्थमञ्जरी

।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या बाधादिकमुद्भाव्य धूमो न साधको बाधितत्वादग्न्यनुष्णत्वसाधकपदार्थत्ववदिति वादिसाधनस्यासाधकत्वं साधनीयम् । तत्राप्येवं वक्तुं शक्यते । तथा हि । यदि पदार्थत्वदृष्टान्तेन धूमो न साधकः स्यात्तर्हि कृतकत्वदृष्टान्तेन साधकोऽपि किं न स्यात् । न चात्र हेतुत्वाभाव इति वाच्यम् । तस्य त्वयैवानङ्गीकारादिति । तथा च दृष्टान्त एव साधको न हेतुरिति तद्वाक्यन्यायेन धूमो न साधक इत्यादि तद्वाक्यस्य विरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।

श्रीविट्टलभट्ट

।। प्रतिदृष्टान्तेति । वाद्युक्तसाध्यरहितो हि प्रतिदृष्टान्तस्तेन प्रत्यवस्थानं वादि साधनदूषणमित्यर्थः ।। साधर्म्यसमादावपीति । साधर्म्यसमादावपि प्रतिदृष्टान्तेन प्रतिपक्षोद्भावने साधर्म्यसमादिपदोक्तवैधर्म्यसमे तद्भावस्तस्य प्रतिदृष्टान्तेन प्रत्यवस्थानरूपत्वस्य सत्त्वादित्यर्थः । प्रतिदृष्टान्तेन प्रत्यवस्थानमित्यनेन प्रतिदृष्टान्ते व्यभिचारोद्भावनेन प्रत्यवस्थानं विवक्षितम् । अतो न साधर्म्यसमादावतिव्याप्तिरित्यभिप्रेत्य शङ्कते ।। किं न स्यादितीति । न साधर्म्यसमादिसाङ्कर्यमिति साधर्म्यवैधर्म्यसमयोः सत्प्रतिपक्षचोदनरूपत्वान्न तदभेद इति बोध्यम् ।। तस्मादिति । प्रतिदृष्टान्तमात्रेणेत्यादिवाक्यमेव लक्षणोक्तिः । मात्रपदव्यावर्त्यज्ञापनाय हेतुनिरपेक्षेणेत्युक्तम् । सत्प्रतिपक्षोद्भावनरूपे साधर्म्यसमादावतिव्याप्तिवारणार्थं मात्रपदम् । परस्पराव्याप्तिपरिहारायान्यतरपदोपादानम् । प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधोद्भावनप्रकारं दर्शयति ।। यथेति ।। अनग्निकोऽस्त्वित्यादीति । अनग्निक एवास्त्वित्यादिपदार्थः । प्रतिदृष्टान्तस्य दृष्टान्तसमबलत्वाभिमानेनानग्निकोऽस्त्वित्युद्भावनं प्रतिरोधोद्भावनं प्रतिदृष्टान्तस्य दृष्टान्तप्राबल्याभिमानेनानग्निकोऽस्त्वित्युद्भावनं बाधोद्भावनमिति विवेकोऽत्रानुसन्धेयः ।। अत्रेति । हेतुनिरपेक्षेण प्रतिदृष्टान्तेन बाधाद्युद्भावने न्यूनत्वमुत्तरं वाच्यमित्यर्थः । हेतोरनुक्ते न्यूनत्वमिति भावः ।। हेतोरिति । लिङ्गस्य साधनानङ्गत्वाभिमाने स्वन्यायविरोधो भवतीत्यर्थः । वादिसाधनं स्वसाध्यसाधकं न बाधितत्वात्सत्प्रतिपक्षत्वाद्वा सम्मतवदिति जातिवादिनो विवक्षितम् । अस्य प्रतिषेधहेतोरपि प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधयोरन्यतरोद्भावनसम्भवात्प्रतिदृष्टान्तसमः स्वन्यायविरोधेऽन्तर्भवतीति ज्ञेयम् ।