अनुत्पत्तिसमः

(५७) प्रमाणपद्धतिः

।। २० ।। (२) (१३) ।। अनुत्पत्तिसमः । पक्षादीनां प्रागुत्पत्तेर्हेतुवृत्त्य भावेनासिद्ध्युद्भावनमनुत्पत्तिसमः । यथा पर्वतस्योत्पत्तेः प्राक् तत्र धूमवत्त्वं न वृत्तमिति भागासिद्धमित्यादि । अत्रानुत्पन्नस्य पर्वतत्वाभावेनापक्षत्वात्तत्र वृत्त्यभावो न दोषायेति वाच्यम् । न चेदेवं तदा स्वन्यायविरोध इति ।

जयतीर्थविजय

।। पक्षादीनामिति । असिद्ध्युद्भावनमाश्रयासिद्धिभागासिद्ध्योरुद्भावनमित्यर्थः । तदेवाह वरदराजः ।

अनुत्पन्ने साधनाङ्गे हेतुवृत्तेरभावतः ।

भागासिद्धिप्रसङ्गः स्यादनुत्पत्तिसमो मत ।। इति ।

भागासिद्धमित्यादीत्यादिशब्देनाश्रयासिद्धस्य ग्रहणम् । स्वव्याहतिं वक्तुमुत्तरकथामाह ।। अत्रेत्यादिना ।। स्वन्यायविरोध इति । जात्युत्तरेऽप्येवं वक्तुं शक्यत्वात्स्वव्याहत इति भावः ।

भावदीपः

।। पक्षादीनामिति । लिङ्गसाध्यदृष्टान्ता आदिपदार्थाः । भागासिद्धमित्यादीत्यादिपदेन हेतूत्पत्तेः प्राक् पक्षवृत्तित्वाभावेन पक्षधर्मतासिद्धिर्दृष्टान्तोत्पत्तेः पूर्वं तत्र हेत्वादेरभावेन साधनवैकल्यादीति गृह्यते ।। स्वन्यायेति । वादिसाधनं धूमवत्त्वमसाधकम् । भागासिद्धत्वात् । ह्रदपर्वतौ वह्निमन्तौ धूमवत्त्वादिति भागासिद्धहेतुवदिति जातिवाद्युक्तप्रतिषेधेऽपि धूमवत्त्वरूपपक्षोत्पत्तेः प्राग् भागासिद्धत्वहेतोरभावात्त्वदुक्तोऽपि हेतुर्भागासिद्ध इति सुवचत्वात्स्वन्यायविरोधान्तर्भावोऽस्येत्यर्थः ।

श्रीवेदेशभिक्षु

।। पक्षादीनामिति । एतच्च सदुत्तरेऽसिद्ध्युद्भावनेऽतिव्याप्तिवारणाय ।। तत्र वृत्त्यभाव इति । तथा च विषयवृत्तित्वं हेतुवृत्तेरुत्पन्न एव हि पक्षो विषयो न त्वनुत्पन्नोऽपीति भावः । अनुत्पन्नस्यानङ्गत्वादयुक्ताङ्गादिकत्वं वा ।

अभिनवामृतम्

।। पक्षादीनामिति । साधनाङ्गानां पक्षहेतुदृष्टान्तानामुत्पत्तेः प्राक् हेतुवृत्त्यभावेन भागासिद्धिस्वरूपासिद्धिव्याप्यत्वासिद्धीनामुद्भावनमनुत्पत्तिसम इत्यर्थः । अनुत्पन्नस्य पक्षादित्वमनङ्गीकृत्यासिद्धिचोदनं पाक्षिकजयहेतुबुद्धिरुत्थानबीजम् । असिद्धिरारोप्या ।। स्वन्याय विरोध इति । परेणापि स्वानुमानेऽसिद्धतापरिहारायानुत्पन्नस्यापक्षत्वाङ्गीकारात्तत्प्रतिबन्धीविरोध इत्यर्थः ।

वाक्यार्थमञ्जरी

।। स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या भागासिद्धिमभिधाय धूमो न साधको भागासिद्धत्वादिति वादिसाधनस्यासाधुत्वं साधनीयम् । तत्राप्येवं वक्तुं शक्यम् । तथा हि । धूमोत्पत्तेः प्राक् भागासिद्धत्वं न वृत्तमिति भागासिद्धम् । न चानुत्पन्नस्य धूमत्वेनापक्षत्वात्तत्र हेतुवृत्त्यभावो न दोष इति वाच्यम् । तद्दोषस्य त्वयैवोक्तत्वादिति । तथाचानुत्पन्नपक्षावृत्तित्वेन भागासिद्धत्वमिति तद्वाक्यन्यायेन धूमो न साधक इत्यादि तद्वाक्यविरोधात्स्वन्यायविरोधान्तर्भाव इति भावः ।

श्रीविट्टलभट्ट

।। पक्षादीनामिति । आदिपदेन लिङ्गसाध्यदृष्टान्ता गृह्यन्ते । प्रागुत्पत्तेरुत्पत्तेः प्राक् हेतुवृत्त्यभावेन पक्षदृष्टान्तयोः सत्त्वाभावेनासिद्ध्युद्भावनं पक्षदृष्टान्तयोर्हेत्वभावोद्भावनमित्यर्थः ।। तत्र धूमवत्त्वं न वृत्तमितीति । पर्वतधूमवत्त्वं न स्थितमित्यर्थः ।। इत्यादीति । धूमस्योत्पत्तेः प्राक् पर्वतेऽसत्त्वेन भागासिद्धिरित्यादिकमादिशब्दार्थः ।। अत्रेति । एवं भागासिद्ध्युद्भावनमित्यर्थः । अस्येति वाच्यमित्युत्तरेणान्वयः । इति वाच्यमित्युत्तरेणान्वय इति वाच्यमित्युत्तरं वक्तव्यमित्यर्थः ।। न चेदमिति । चेच्छब्दो यच्छब्दार्थः । यद्युक्तरीत्या तत्र हेतोरसत्त्वं न दोषस्तर्हि स्वन्यायविरोधो भवतीत्यर्थः । नेदं वादिना साधनं स्वसाध्यसाधकं भागासिद्धत्वात्सम्मतवदिति जातिवादिनो विवक्षितम् । अस्य जातिवादिहेतोरप्युक्तन्यायेन दूषणसम्भवादुत्पत्तिसमः स्वन्यायविरोधो भवतीति ज्ञातव्यम् ।