प्रमाणपद्धतिः

प्राकृतेन्द्रियाः

(२५) प्रमाणपद्धतिः

प्राकृतं षड्विधम् । घ्राणरसनचक्षुस्त्वक् श्रोत्रमनोभेदात् । तत्र गन्धस्तद्विशेषाश्च घ्राणस्य विषयाः । रसस्तद्विशेषाश्च रसनस्य । महान्ति रूपवन्ति द्रव्याणि केचिद्गुणाः कर्माणि जातयश्च चक्षुस्त्वचोः । वायुस्पर्शोऽपि त्वचो विषयः । शब्दः श्रोत्रस्य । एतेषां पञ्चानां मनोऽनधिष्ठितत्वं काचकामलादयश्च दोषाः । मनसस्तु बाह्येन्द्रियाधिष्ठानेनैते सर्वे विषयाः । स्वातन्त्र्येण स्मरणसाधनं मनः । तस्य दोषा रागादयः ।

जयतीर्थविजय

।। गन्धस्तद्विशेषा इति । गन्धविशेषाः सुरभिपूतिगन्धादयः । रसविशेषा मधुरादयः । महान्तीति । गुरुत्वादिव्यावृत्त्यर्थं केचिदित्युक्तम् । मनसो विषयानाह ।। मनसस्त्विति । ननु मनसो बहिरस्वतन्त्रत्वात्कथं बाह्येन्द्रियविषयविषयकत्वमित्यत आह ।। बाह्येन्द्रियाधिष्ठानेनेति । अत्र प्रकरणे गन्धादयो घ्राणादीनां विषया इत्याद्युक्त्या घ्राणादीनां पञ्चानां यथाक्रमं गन्धरसरूपस्पर्शशब्दविषयकेन्द्रियत्वादीनि पञ्चलक्षणानीत्युक्तप्रायम् । तथा बाह्येन्द्रियाधिष्ठानेन सर्वबाह्येन्द्रियविषयविषयकेन्द्रियत्वं मनसो लक्षणमित्युक्तप्रायमिति ज्ञातव्यम् । षट्स्वपि लक्षणेष्विन्द्रियपदं तत्तदिन्द्रियजन्यज्ञानव्यावृत्त्यर्थं मनोलक्षणे बाह्येन्द्रियाधिष्ठानेनेति पदं मनसो बाह्येन्द्रियानधिष्ठानदशायां बाह्येन्द्रियार्थविषयकत्वाभावेनासम्भवनिरासाय । बाह्यपदद्वयं तु साक्ष्यधिष्ठानेन मनसः साक्षिविषयकालादिविषयत्वाभावेनासम्भवनिरासाय । ननु मनसो बाह्येन्द्रियार्थगन्धादिमात्रविषयकत्वे विषयभेदाभावात्कथं ग्रहणाद्यपेक्षयेन्द्रियान्तरत्वम् । किञ्चेन्द्रियाणां स्वविषयगन्धादिज्ञानमेव फलम् । मनसोऽपि बाह्येन्द्रियगोचरगन्धादिमात्रविषयकत्वे तज्ज्ञानरूपफलस्य चक्षुरादिनैवोत्पत्तेरसाधारण फलाभावात्कथमनुप्रमाणत्वम् । अन्यथाऽर्थापत्त्यादेरपि पृथक् प्रमाणत्वापत्तिरित्याशङ्क्य विषयभेदाभावेऽपि फलभेदसत्त्वादनुप्रमाणत्वादिकं युज्यत इत्याशयेनाह ।। स्वातन्त्र्येणेति । इन्द्रियान्तरानाधिष्ठानेनेत्यर्थः । तदुक्तं प्रमाणलक्षणटीकायाम् । द्विविधं हि ज्ञानं मनो जनयति । तत्तदिन्द्रियाधिष्ठातृत्वेन तत्तदिन्द्रियार्थविषयं स्वातन्त्र्येण स्मरणं चेतीति । एतेनैतन्निरस्तं यत्प्रलपितं नवीनैर्मायावादिभिः । तथा हि । मनो न प्रमाणम् । प्रमाणसहकारित्वादालोकवत् । अन्यथाऽलोकस्यापि प्रमाणत्वं स्यात् । असाधारणविषयाभावाच्च । असाधारणविषयाभावस्य मनसस्त्विति वाक्येन स्वयमेवोक्तेः । अपि चान्तःकरणवृत्तिरूपप्रमाश्रयत्वेनानीश्वरात्मवदप्रामाण्यं मनसः । तदयं निर्गलितोऽर्थः

प्रमाणसहकारित्वाद्विषयस्याप्यभावतः ।

न प्रमाणं मनोऽस्माकं प्रमादेराश्रयत्वतः ।। इति ।

नापीन्द्रियं मनः । असाधारणविषयाभावात् । प्रमाणाभावाच्च । न च मनःषष्ठानीति गीतावाक्यमेवेन्द्रियत्वे प्रमाणम् । शत्रुघ्नचतुर्थादाशरथय इत्यत्र दशरथपुत्रातिरिक्तस्य दाशरथिगतचतुष्ट्वसङ्ख्यापूरकत्वानुपपत्तिवदनिन्द्रियस्य मनस इन्द्रियगतषट्त्वसङ्ख्यापूरकत्वानुपपत्तेरिति वाच्यम् । वेदानध्यापयामास महाभारतपञ्चमानिति भारतवाक्येऽवेदस्यापि भारतस्य वेदगतपञ्चत्वसङ्ख्यापूरकत्व दर्शनेन यजमानपञ्चमा इडां भक्षयन्तीत्यत्रानृत्विजोऽपि यजमानस्य ऋत्विग्गतपञ्चत्वसङ्ख्यापूरकत्वदर्शनेन च सजातीयस्यैव सजातीयगतसङ्ख्यापूरकत्वनियमाभावात् । ‘‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मन’’ इति श्रुतौ मनस इन्द्रियेभ्यः पृथगुपदेशाच्च । असाधारणविषयाभावेन च तत्प्रमितिरूपफलाभावाच्चेति । तत्तुच्छम् । न तावत्प्रमाणसहकारित्वादप्रामाण्यं मनसः संशयोत्तरपुरुषप्रत्यक्षसाधनचक्षुस्सहकारिणोऽपि पुरुषत्वव्याप्यकरादिमत्त्वरूपलिङ्गदर्शनस्य प्रमाणत्वदर्शनेन व्यभिचारात् । अथ प्रमाणसहकारित्वादित्यनेन प्रमाणसहकारिमात्रत्वादिति विवक्षितम् । करादिमत्त्व रूपलिङ्गदर्शनस्याप्यप्रामाण्यं स्यात् । संशयोत्तरपुरुषप्रत्यक्षस्थले चक्षुस्सहकारित्वेऽपि पुरुषानुमित्सया पुरुषानुमितिस्थले स्वतन्त्रत्वेन प्रमाणसहकारिमात्रत्वं नेति चेत् । हन्तैवं तर्हि मनसोऽपि रूपादि प्रत्यक्षे चक्षुस्सहकारित्वेऽपि स्मरणे जनयितव्ये स्वतन्त्रत्वेन प्रमाणसहकारिमात्रत्वाभावात् । तदेतदाह । स्वातन्त्र्येण स्मरणसाधनं मन इति । न तु स्वातन्त्र्येणानुभवसाधनमिति भावः । न च सर्वप्रमाणसहकारित्वं हेतुतया विवक्षितमिति न करादिमत्त्वरूपलिङ्गदर्शने व्यभिचार इति वाच्यम् । पक्षव्याप्तिशब्दस्वरूपादिग्राहकतयाऽनुमानादि सहकारिणि प्रत्यक्षे व्यभिचारापत्तेः । नाप्यसाधारणविषयाभावेनाप्रमाण्यं मनसः । असाधारणविषयाभावेऽप्यसाधारण फलभेदमात्रेण प्रमाणत्वोपपत्तेरप्रयोजकत्वात् । नापि प्रमाश्रयत्वात्प्रामाण्याभावः । प्रमाश्रयत्वेन रूपेणाप्रामाण्यापादने इष्टापत्तेः । रूपान्तरेणापि प्रमाणत्वं न स्यात्प्रमाश्रयत्वादिति चेन्न । अप्रयोजकत्वात् । नन्वेवं प्रमातुरपि रूपान्तरेण प्रमाणत्वं स्यादिति चेदिष्टापत्तेः । तस्य साक्षित्वेन रूपेण प्रमाणत्वोररीकरणात् । यथोक्तमर्वाक् । तद् द्विविधं प्रमातृस्वरूपं प्राकृतं चेति । तत्र स्वरूपेन्द्रियं साक्षीत्युच्यत इति । एवं सति दुष्टेन्द्रियादेरपि रूपान्तरेण प्रमाणत्वं स्यादिति चेत् । स्यात् । यदि तत्र रूपान्तरेण प्रमाणत्वव्यवहारं पश्याम इति ।

तस्मात्पुंस्त्वलिङ्गकरादीव प्रमाणसहकार्यपि ।

मन आनन्दतीर्थीयमते मानं फलात्स्मृतेः ।

नापि मनस इन्द्रियत्वे प्रमाणाभावः । मनः षष्ठानीन्द्रियाणीत्यस्यैव प्रमाणत्वात् । न चानिन्द्रियत्वेऽपि तदुपपद्यत इत्युक्तमिति वाच्यम् । इन्द्रियाणां मनश्चास्मीति पूर्ववाक्यविरोधात् । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा इति पूर्वग्रन्थविरोधाच्च ।

यतिर्ययातिः संयातिरायतिर्नीयतिः कृतिः ।

षडिमे नहुषस्यासन्निन्द्रियाणीव देहिन ।।

इति नवमस्कन्धोक्तदृष्टान्तास्वारस्यप्रसङ्गाच्च । कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियमित्यमरकोशपाठाच्च । न चासाधारणविषयाभावान्नेन्द्रियत्वमिति वाच्यम् । विषयभेदस्यापि फलभेदद्वारैवेन्द्रियभेदप्रयोजकत्वात् । तस्य च प्रकृतेऽपि सत्त्वात् । तथा हि । स्मरणं न बाह्येन्द्रियं जन्यम् । असत्यपि बाह्येन्द्रियव्यापारे जायमानत्वात् । स्वप्नवत् । स्मरणमिन्द्रियजन्यं बाह्यज्ञानकरणाजन्यत्वे सति जन्यज्ञानत्वादित्यनुमानाभ्यां तत्सिद्धेः । अन्यथा चक्षुरादेरपीन्द्रियत्वं न स्यात् । यदि च फलभेदः पुराणादाविन्द्रियव्यवहारश्च चक्षुरादेरिन्द्रियत्वे मानं तदा मनस्यपि तुल्यमिति । पृथगुपदेशस्तु मनसः सर्वेन्द्रियसहकारित्वरूपवैशेष्यमादाय कुरुपाण्डवन्यायेन वा मनोभिमानिदेवतापरत्वेन वोपपद्यत इति दिक् । एवं च

फलभेदात्पुराणादाविन्द्रियव्यवहारतः ।

मन इन्द्रियमस्माकं राद्धान्ते नयनादिवत् ।

नन्वनुभवविषयपूर्वावस्थानिवृत्तेरप्रामाण्यस्य चासाधारणमनोविषयत्वात्कुतस्तदनुक्तिरिति चेन्न । पूर्वावस्थानिवृत्तेः प्रत्यभिज्ञाविषयत्वेनासाधारण्याभावात् । अप्रामाण्यस्यापि साक्षिवेद्यत्वेन तदभावाच्च । उक्तं सुधायाम् । साक्ष्यपवादसद्भावेऽप्रामाण्यमपि गृण्हातीति । या तु विष्णुतत्त्वनिर्णयटीकायामनुमेयमेवाप्रामाण्यमित्युक्तिः सा साक्षिणोऽप्रामाण्यग्रहणे शक्तिर्विसंवादायत्तेत्यभिप्रेत्य । अत एव तत्रैव न पुनर्ज्ञानग्राहकमात्रग्राह्यमित्युक्तम् । यद्यपीदं मनस इन्द्रियान्तरत्वं प्राकृतेन्द्रिया विभागावसर एव साधनीयम् । विभागस्य न्यूनाधिकसङ्ख्याव्यवच्छेदार्थत्वम् । तथाऽपीन्द्रियान्तर साधकत्वस्य स्वातन्त्र्येणेत्यादेरत्रैव ग्रन्थकृतोक्तेरत्रैवास्माभिस्तत्साधितमिति धीमद्भिरवधातव्यम् ।

भावदीपः

पृथिव्यादिकार्यत्वात्तत्क्रमेणैव निर्दिशति ।। घ्राणेति । तद्विशेषाः सौरभ्यादयो माधुर्यादय इत्यर्थः ।। केचिद्गुणा इति । महद्रूपवद्द्रव्यनिष्ठा रूपरसादयः । कर्माण्युत्क्षेपणादीनि । घटत्वद्रव्यत्वादिजातयश्च । जातिपदेन सर्वघटादिनिष्ठान्योन्यसदृशघटत्वादयो धर्मा ग्राह्याः ।। काचकामलादय इति । आदिपदेन पित्ताङ्गुल्यवष्टम्भादिग्रहः ।। एत इति । गन्धादयः सर्वे विषया इत्यर्थः । नन्वेवं यथार्थज्ञानसाधनेन्द्रियसहकारितापत्त्याऽऽलोकादेरिव स्वतो यथार्थज्ञानसाधनत्वाभावात्कथमनुप्रमाणान्तर्गतप्रत्यक्षान्तर्भाव इत्यत आह ।। स्वातन्त्र्येणेति । चक्षुरादेरिवान्यनिरपेक्षेणेत्यर्थः । एतेन प्रमाणत्रयविषया अप्यस्य साक्षाद्विषया इति सूचितम् । रागादयो रागद्वेषलोभादयः ।

श्रीविजयीन्द्रतीर्थ

रूपवन्तीति । त्वचा महत्त्वसमानाधिकरणोद्भूतरूपवद्द्रव्यग्रहणे रूपवत्त्वमुपलक्षणम् । स्वव्यवस्थापकगुणपुरस्कारेणैव बहिरिन्द्रियस्य द्रव्ये प्रवृत्तिरिति । अनेन महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वस्य बहिरिन्द्रियजन्यद्रव्यसाक्षात्कारप्रयोजकत्वाभिधानेन वायुरप्रत्यक्ष इति सूचितम् । अत एवाग्रे विच्छेद्य वक्ष्यति ।। वायुस्पर्शोऽपि त्वचो विषय इति । रूपवत्त्वसमुच्चयार्थोऽपिशब्दः । शब्द इति शब्दविशेषश्चेत्यपि द्रष्टव्यम् ।। मनोऽनधिष्ठितत्वमिति । भावरूपस्वेतरकारणाभाव इत्यर्थः ।। काचकामलादयश्चेति । इन्द्रियनिष्ठज्ञानानुकूलशक्तिविघटका इत्यर्थः ।। स्वातन्त्र्येणेति । बहिरिन्द्रियनैरपेक्ष्येणेत्यर्थः ।। दोषा इति । यथा स्मृतिप्रयोजकशक्तिविघटका इत्यर्थः ।

श्रीवेदेशभिक्षु

ननु ‘‘श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवत’’ इति स्मृत्येन्द्रियषाड्विध्याभिधानादुक्तं द्वैविध्यमनुपपन्नमित्यत आह ।। प्राकृतं षड्विधमिति । तथा च यत् षड्विधं प्रसिद्धं तत्प्राकृतमित्यविरोध इति भावः । प्राकृत इत्यत्र प्रकृतिशब्देनाहङ्कारः पञ्चभूतानि चोच्यन्ते ।

सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः ।

तेषां भूतैरुपचयः सृष्टिकाले विधीयत इत्युक्तेः ।

न च श्रोत्रमनसोः सदा स्पर्शरहितद्रव्यत्वेन नित्ययोः कथं प्राकृतेति वाच्यम् । असिद्धेः । तमस्यनैकान्त्याच्च । तद्विशेषाः सौरभ्यादयोः रसविशेषा मधुरादयः ।। रूपवन्तीति । उद्भूतरूपवन्तीत्यर्थः । गुरुत्वव्यावृत्यर्थमाह ।। केचिदिति । ननु वायुस्पर्शस्य महत्त्वसमानाधिकरणो द्भूतरूपवद्द्रव्यन्निष्ठत्वाभावात्कथं त्वगिन्द्रियग्राह्यतेत्यत आह ।। वायुस्पर्शोऽपीति । पूर्वं केचिद्गुणा इति प्रायिकत्वादित्युक्तम् । वस्तुतस्तु गुणप्रत्यक्षत्वे महत्त्वसमानाधिकरणोद्भूतरूपवद्द्रव्यनिष्ठत्वं न प्रयोजकं गौरवात् । किन्तु महत्त्वसमानाधिकरणोद्भूतविशेषगुणवत्त्वमेव लाघवादिति भावः । अत्र महान्ति रूपवन्ति द्रव्याणीत्यनेन बहिरिन्द्रियद्रव्यसाक्षात्कारे महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वस्य प्रयोजकत्वकथनेन वायोरतादृशत्वादप्रत्यक्षत्वमिति सूचयति । एतदुपपादनं चास्मत्कृतकाठकभाष्यटीकायां स्पष्टं द्रष्टव्यम् ।। शब्द इति । तद्विशेषश्चेत्यपि द्रष्टव्यम् । विषय इति सम्बधः । एवं बाह्येन्द्रियं सपरिकरं निरूप्येदानीं तद्दोषमाह ।। एतेषामिति । मनसस्त्वेतद्य्वतिरिक्तत्वमेवेति सूचनायतेषामित्युक्तम् । काचो दृग्दोषः । काचाःशिक्यमृद्भेददृग्रुज इत्यभिधानात् । इदानीं मनोविषयमाह ।। मनसस्त्विति । ननु मनसोऽसाधारण फलाभावान्नानुप्रमाणरूपेन्द्रियप्रभेदत्वमित्यत आह ।। स्वातन्त्र्येणेति । बहिरिन्द्रियनैरपेक्ष्येणेत्यर्थः । एवं चासाधारणस्मृतिरूपयथार्थज्ञानस्य फलस्य सत्त्वादनुप्रमाणविशेषेन्द्रियरूपता मनस उपपद्यत इति भावः । एवं सतीदं मनोलक्षणमिति मत्वा तत्र स्वातन्त्र्येणेति पदकृत्यं चिन्त्यमिति वदन्तो भ्रान्ता इति द्रष्टव्यम् ।

आदर्शः

।। वायुस्पर्शोऽपीति । पूर्वोक्तविषयसमुच्चायकोऽपि शब्दः । ननु वायुर्वातीति प्रत्यक्षात् स्पर्शमात्रस्य प्रत्यक्षत्वोक्तिरयुक्तेति चेन्न । तस्य प्रत्यक्षत्वे विप्रतिपत्तेः । तृणादिनिष्ठविजातीयक्रियादर्शने सत्यपि वायुर्वातीति प्रतीतिदर्शनात् । व्याप्तिविषयकसंस्कारस्यातिदृढत्वादविलम्बेन तादृशप्रतीत्युपपत्तेः । न च तर्हि घटादीनामपि त्वग्विषयत्वं न स्यात्स्पर्शोत्तरमाकारविशेषादिना घटाद्यनुमितिरिति वक्तुं शक्यत्वादिति वाच्यम् । जात्यन्धस्यापि हस्तादिना परामर्शे तद्गतवैजात्यस्य प्रतीतेः । आकारविशेषादिना घटाद्यनुमितेस्तत्रासम्भवात् । तत्राकारविशेषवैजात्ययोर्व्याप्ति ग्रहोपायाभावेन व्याप्तिग्रहोपायाभावात् । आकारविशेषातिरिक्तघटादेरभावाच्च । अवयवसन्निवेशविशेष एवाकार इति चेत् । तर्ह्यवयवस्यापि ज्ञेयत्वापातात् । अवयवस्य त्वग्ज्ञेयत्वे किमपराद्धं घटेन । किञ्च घटत्वादि व्यङ्ग्यं विजातीयं सादृश्यं त्वचि प्रत्यक्षविषय इति वक्तव्यम् । अन्यथा सादृश्यप्रतीत्युपायाभावेन तदप्रतीतिप्रसङ्गात् । गुणादीनामाश्रयानुमापकत्वेऽप्याकारविशेषसादृश्याद्यनुमापकत्वस्यादृष्टत्वेन घटादिस्पर्शादेरनुमापकत्वासम्भवात् । आकारविशेषादेश्चाश्रयप्रत्यक्षाविनाभूतत्वात् घटादीनामपि प्रत्यक्षविषयत्वम् । न चात्र वायुत्वाकारविशेषो वा त्वचा गृह्यते । न च वायुः प्रत्यक्षः प्रत्यक्ष स्पर्शाश्रयत्वादित्यनुमानेन प्रत्यक्षविषयत्वम् सिद्ध्यतीति वाच्यम् । जलादिगततेजोभागादौ व्यभिचारात् । अनुद्भूतरूपानधिकरणत्वं हेतुविशेषणमिति चेत् । तथाऽप्यप्रयोजकत्वात् । त्रिवृत्कृते वायौ पार्थिवभागादेरपि सत्त्वेन रूपानधिकरणत्वस्यासिद्धत्वाच्च बहिर्द्रव्यप्रत्यक्षे उद्भूतरूपस्य प्रयोजकत्वेन वायौ तदभावाच्च । न च चाक्षुषं प्रत्येव प्रयोजकं स्पार्शनं प्रति स्पर्श एव प्रयोजक इति चेन्न । मानाभावेन स्पर्शस्य प्रयोजकत्वासिद्धेः । चन्द्रिकायां सत्यामपि स्पर्शे त्वाचप्रत्यक्षानुदयात् । न च रूपस्य प्रयोजकत्वे मानाभावः । प्रयोजक इत्यस्य व्यापक इत्यर्थकत्वेन बहिर्द्रव्यप्रत्यक्षव्यापकत्वस्य व्यभिचारादर्शनेन सिद्धत्वात् । वायावेव व्यभिचार इति चेत् । अत्र प्रत्यक्षविषयत्वस्यैव सन्दिग्धत्वादालोकप्रत्यक्षे तमः प्रत्यक्षे च स्पर्शस्य व्यभिचारित्वात् । ननु तथाऽपि वायोरप्रत्यक्षत्वे किं मानमिति चेत् । त्वङ् न वायुग्राहिका तदाकाराग्राहकत्वात् । विपक्षे गौरवस्यैव बाधकत्वात् । एवं वायुर्न स्वमात्राग्राहकग्राह्यस्तेजोभिन्नभूतत्वाद्गगनादिवत् । एवं वायुर्न बहिरिन्द्रियप्रत्यक्षविषयश्चाक्षुषाविषयत्वात् । वायुस्पर्शो न स्वाश्रयग्राहिप्रत्यक्षविषयोऽचाक्षुष वृत्तिविषयत्वाच्छब्दवदित्यनुमानान्यप्यूह्यानि । न चैवं सति वायुसंयोगस्य प्रत्यक्षत्वं न स्यात् । प्रत्यक्षाप्रत्यक्षधर्मस्याप्रत्यक्षत्वादिति वाच्यम् । प्रत्यक्षविषयस्य संयोगस्य वायुधर्मत्वात् । वायुप्रतियोगिकत्वेऽपि स्तम्भेऽपि पिशाचभेद प्रत्यक्षवदुपपत्तेः । प्रतियोगिप्रत्यक्षस्य हेतुत्वे मानाभावात् । किञ्च शीतकाले बहिष्ठस्य मन्दमारुते आगतेऽपि स्पर्शगतवैजात्यस्याग्रहे वायुर्वातीति प्रत्ययाभावोऽनुभवसिद्ध इति वायुरप्रत्यक्ष एव । तप्तजलगतस्पर्शाग्रहेऽपि जलप्रत्यक्षस्य दृष्टत्वेन स्वगतस्पर्शं विना द्रव्यस्य त्वग्विषयत्वं नाङ्गीक्रियते । रूपं विना तदाश्रयप्रत्यक्षाभाववदिति चन्द्रिकागतशीतस्पर्शेन प्रत्यक्षान्न वायुगतस्पर्शप्रत्यक्षमिति न वायुप्रत्यक्षमित्यपि वक्तुमशक्यम् ।

त्वक् चर्मगोलके सर्वदेहगेहमुपागताः ।

कुष्टभङ्गुरपामाद्यास्त्वग्दोषाः परिकीर्तिताः ।

अव्यक्तादिस्पर्शदोषशून्याः शीतोष्णपूर्वकाः ।

स्पर्शास्तद्विषयाः प्रोक्ता वायुतेजोऽम्बुभूमयः ।

पदार्थाः केचन गुणा न त्वगिन्द्रियगोचरा

इति प्रकाशसंहितायामुक्तत्वाच्च । तस्माद्द्वायुरप्रत्यक्ष एवेति स्पर्शस्यैव त्वग्विषयत्वमुक्तम् । अत्रार्थेऽचेतनः स्पर्शगम्य इति काठकोदाहृता स्मृतिरपि बोध्या । उद्भूतरूपवन्तीत्यस्य प्रत्यक्षयोग्याकारवन्तीत्यर्थ उद्भूतपदस्य प्रत्यक्षयोग्यार्थकत्वाद्रूपपदस्याकारार्थकत्वं च नामरूपे व्याकरोदित्यादौ प्रसिद्धम् । बहिर्द्रव्यप्रत्यक्षप्रयोजकस्य प्रत्यक्षयोग्याकारवत्त्वस्य वायावभावान्न प्रत्यक्ष इत्यर्थ इत्याहुः । न च तदाकारग्राहकत्वे हेतोर्व्यभिचारः । गुणादीनामाकाराभावेन तदाकाराग्राहकत्वेऽपि गुणादिग्राहकत्वात् । आश्रयीभूतद्रव्याकारस्यैव तदाकारत्वे वायुस्पर्शस्यापि प्रत्यक्षानुपपत्तिर्व्यभिचारो वा स्यादिति वाच्यम् । यो यद्द्रव्याकाराग्राहकः स तद्द्रव्याग्राहक इति व्याप्तेर्विवक्षितत्वेन दोषाभावात् । केचित्तु । स्पर्शपदमपि त्वगिन्द्रियपरम् । तथा च स्पर्शगम्य इति काठकभाष्यस्य त्वगिन्द्रियजन्यप्रत्यक्षविषय इत्यर्थः । वायुः स्पर्शोऽपीति सविसर्ग एव पाठः पररीतिमवलम्ब्य वा तथोक्तिः । प्रकाशसंहितायामपि वायुरित्यस्य तद्विषया इत्यन्वयो वायुः प्रत्यक्ष एवेति वदन्ति ।

वाक्यार्थमञ्जरी

नन्वेवं स्वरूपेन्द्रियस्यापि षड्विधत्वे पञ्चेन्द्रियमनोभेदात्प्राकृतं षडि्वधं स्मृतमित्यनुव्याख्याने च कथं प्राकृतस्यैव षड्विधत्वोक्तिः । तथा ननु प्राकृतशुद्धभेदादिन्द्रियं द्विविधमित्यसत् । ‘‘श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायमिति’’ पञ्चेन्द्रियमनोभेदेनेन्द्रियषाड्विध्यस्मरणविरोधादिस्यत आह ।। पञ्चेति । यत्पञ्चेन्द्रियमनोभेदादिन्द्रियं षड्विधं स्मृतं तत्प्राकृतं न तु सर्वम् । अतो न विरोध इति । सुधा च कथं युज्यत इति चेत् । उच्यते । स्वरूपेन्द्रियस्य षड्विधत्वेऽपि तद्विभागानुक्तिरन्योन्यभेदशङ्कानिरासाय । अन्यथा प्राकृतचक्षुरादीनामिव स्वरूपाणामपि भेदशङ्का स्यात् । सुधाऽपि सामान्यतोऽपीन्द्रियस्य षड्विधत्वमेव न तु स्वरूपेन्द्रियं नामास्तीत्याशङ्क्य तन्निरासपरा न तु स्वरूपेन्द्रियषाड्विध्यनिरासपरा । तत्र सर्वमित्यस्य सामान्यमित्यर्थः । अन्यथेशरमामुक्तानां चक्षुरादिराहित्यापत्तेरिति । परमाणुव्यावृत्त्यर्थमुक्तम् ।। महान्तीति । महत्परिमाणे विशेषवन्तीत्यर्थः । अन्यथा महत्त्वं च परमाणावणावपीति परमाणावपि महत्त्वाङ्गीकारात्तेन तन्निवृत्तिर्न स्यात् । अव्याकृताकाशनिवृत्त्यर्थ रूपवन्तीति । उद्भूतरूपवन्तीत्यर्थः । तेन भूताकाशादिव्यावृत्तिः । न च तर्ह्येतादृशानां पिशाचादीनामपि प्रत्यक्षत्वं स्यादिति वाच्यम् । अन्तर्धानशक्त्याऽतीन्द्रियत्वोपपत्तेः । अत एवोक्तं प्राक् । विद्यमान एव पिशाचोऽन्तर्धानशक्त्या नोपलभ्यत इति ।। मनोऽनधिष्ठितत्वमिति । मनसाऽनधिष्ठितत्वमनाश्रितत्वं मनःसंयोगशून्यत्वमिति यावत् । कामलं चक्षुर्दोषः ।। बाह्येन्द्रियाधिष्ठानेनेति । बाह्येन्द्रियावलम्बनेनेत्यर्थः ।। रागादय इति । विषयान्तरेच्छादय इत्यर्थः ।

श्रीविट्टलभट्ट

स्वरूपेन्द्रियवत्प्राकृतेन्द्रियमेकमेवेति न मन्तव्यमिति ज्ञापयितुं तद्विभागमाह ।। प्राकृतं षड्विधमिति । तेषां विषयाः क इति जिज्ञासायामाह ।। तत्रेति । घ्राणादिषु षट्स्विन्द्रियेषु घ्राणेन्द्रियस्य गन्धस्तद्विशेषा गन्धविशेषाः सुरभिसुरभितरादयो विशेषा इत्यर्थः । तद्विशेषा रसविशेषा इत्यर्थः । मधुरमधुरतरादयो रसनेन्द्रियविषया इत्यर्थः ।। महन्तीति । उत्कृष्टपरिमाणवन्तीत्यर्थः । न तु न्यायमत इव परिमाणत्वावान्तरजातिविशेषवत्परिमाणवन्तीत्यर्थः । सुधायां समयचरणे परिमाणावान्तरजातेरप्रकृतत्वात् । वर्णादिव्यावृत्त्यर्थं रूपवन्तीत्युक्तम् । भूतसूक्ष्मभागव्यावृत्त्यर्थं महान्तीति विशेषणम् । न तु तत्रापि महत्त्वमस्त्येव । सुधायाम् परिमाणावपि महत्त्वस्य प्रतिपादितत्वादिति चेत् । सत्यम् । तथाऽपि तेन तद्य्वावृत्तिर्युक्ता । अणुत्वविशेषरूपापकर्षरहितस्य महत्त्वविशेषस्य चक्षुरादिविषयतायां तत्र त्वभ्युपगमात् । अणुत्वविशेषापरनामकापकर्षो व्यवस्थित इति चेन्न । वस्त्वपेक्षया व्यवस्थाभावेऽपि पुरुषापेक्षया व्यवस्थोपपत्तेः । पटुतरालोचनेनापि पुरुषेण यदणुत्वं चक्षुषा नोपलभ्यते । तदणुत्वमपकर्ष इत्यङ्गीकारात् । अत एव सुधायां नासौ व्यवस्थितोऽस्तीति चेत् । सत्यम् । अत एव पुरुषापेक्षयेत्युक्तम् । अणुत्वाविशेषादस्याणुत्वस्याणुत्वस्यानुपलब्धिरेवायुक्तेति चेत् । तर्हि परपक्षेप्यणुत्वस्य द्य्वणुकादिमात्रगतत्वेऽपि घटपरिमाणत्वाविशेषादपकृष्टपरिमाणवत्त्वाच्चानुपलब्धिरयुक्तेति फलानुसारेण व्यवस्थाकल्पनं भूतत्रयसमानमित्यलम् । ननु महतो रूपवतश्चपिशाचस्य घटादेरिव चक्षुरादिनोपलब्धिः स्यादिति चेत् न तस्यान्तर्धानशक्त्या स्वेच्छयैवानुपलब्धिसम्भवात् । अत एव किं विद्यमान एव पिशाचोऽन्तर्धानशक्त्या नोपलभ्यत इत्युक्तं प्राक् । यद्वोद्भूतरूपत्वेन विशेषणीयत्वान्नोक्तदोषः । अत एव सुधायां तर्हि गगनादेरपि कदाचित्प्रत्यक्षत्वं स्यादिति चेन्न । उद्भूतरूपाभावादित्युक्तम् । तद्गुणास्तेषां महतां रूपवतां रूपादयो गुणा इत्यर्थः । गुरुत्वादिव्यावृत्त्यर्थं किञ्चिदित्युक्तम् । कर्माणि जातयश्च तेषां तेषां कर्माणि जातयश्चेत्यर्थः । चक्षुस्त्वचोरुभयोरन्यतरस्योभयोश्च विषय इत्यर्थः । ननु नीरूपस्य वायोः स्पर्शस्त्वचो विषय इति कथम् । तद्गुणायुक्तेरित्यत आह ।। वायुस्पर्शोऽपीति । महतो रूपवतश्च द्रव्यस्पर्शवद्वायुस्पर्शोऽपीत्यपेरर्थः । अपिशब्दो वायुसमुच्चयार्थ इति केचित् ।। शब्दः श्रोत्रस्येति । अस्य विषय इत्यनुवृत्तेनान्वयः । निर्विषयत्वमिन्द्रियविशेषणमित्युक्तम् । कस्तद्दोष इति जिज्ञासायां बाह्येन्द्रियदोषमाह । एतेषां पञ्चानामिति । मनोऽधिष्ठितत्वं विषयान्तरासञ्चारिमनोयुक्तत्वरूप समनस्कत्वराहित्यमित्यर्थः । काचकामले नेत्ररोगविशेषौ । अङ्गुल्यवष्टम्भादिरादिशब्दार्थः । मनसो विषयानाह ।। मनसस्त्विति । एते गन्धादयः सर्वे बाह्येन्द्रियाणां विषया इत्यर्थः । गन्धादीनामान्तरिन्द्रियविषयत्वे बाह्येन्द्रियव्यापारमन्तरेण मनसा स्वाप्नसाक्षात्कारोदयो बाह्यगन्धसाक्षात्कारोऽपि स्यादिति चोद्यपरिहारायोक्तम् ।। बाह्येन्द्रियाधिष्ठानेनेति । बाह्येन्द्रियावलम्बनेनैव बाह्येन्द्रियसहायेनैवेति यावत् । मनसो बहिःस्वातन्त्र्येण बाह्यगन्धादिसाक्षात्कारसाधनत्वाभावेऽपि बाह्येन्द्रियावष्टम्भेन तत्साधनत्वाद्गन्धादयः पारतन्त्र्येण मनसो विषया भवन्ति । स्वाप्नपदार्थास्त्वान्तरा एवेति मनसः स्वातन्त्र्यमेवेति बोध्यम् । ननु मनसो बाह्येन्द्रियावष्टम्भेनैव बाह्यगन्धादिगोचरत्वे बाह्येन्द्रियसहकृतेन मनसा गन्धादिस्मरणरूपसाक्षात्कारोदयो न स्यात् । मनसो बहिरस्वातन्त्र्यादित्यत आह ।। स्वातन्त्र्येण स्मरणसाधनं मन इति । बाह्येन्द्रियासहकृतत्वेनैव स्मरणरूपसाक्षात्कारस्य साधनं मन इत्यर्थः । बाह्यपदार्थानुभवरूपसाक्षात्कार एव मनसः पारतन्त्र्यं न तु बाह्यगन्धादिस्मरणरूपसाक्षात्कार इति हृदयम् । स्वातन्त्र्येण स्मरणसाधनत्वोक्तिस्तु सुधायां ज्ञानविषय एव करणानां विषय इत्युक्तत्वात् । स्वातन्त्र्येण स्मरणो विषयो गन्धादिस्वातन्त्र्येण तत्साधनस्य मनसो विषयो भवतीत्युपपादयितुमन्तरिन्द्रियस्य मनसो दोषानाह ।। तस्य दोषा इति । आदिपदेन संस्कारादेर्ग्रहणम् ।