प्रमाणपद्धतिः

(४३) प्रमाणपद्धतिः

।। १९ ।। पर्यनुयोज्योपेक्षणम् । अवश्योद्भाव्यतया प्राप्तनिग्रहस्थानानुद्भावनं पर्यनुयोज्योपेक्षणम् । इदमप्यनुक्तान्तर्गतम् ।

जयतीर्थविजय

।। अवश्येति । तदुक्तं वरदराजेन । अवश्योद्भाव्यमापन्नकालं निग्रहमागतम् । अनुद्भावयतः पर्यनुयोज्योपेक्षणं भवेदिति ।

भावदीपः

।। अनुद्भावनमिति । अल्पत्वादिबुद्ध्येति भावः ।

श्रीविजयीन्द्रतीर्थ

।। अवश्येति । वादे न्यूनादेरुनुद्भाव्यस्य प्राप्तस्यानुद्भावनेऽतिप्रसङ्गपरिहारायेदमिति । निग्रहस्थानस्यावश्यवक्तव्यत्वं लक्षणान्तर्भावमिति भावः ।

श्रीवेदेशभिक्षु

।। अवश्योद्भाव्येति । पर्यनुयोज्योपेक्षणव्यतिरिक्तनिग्रहप्राप्तौ तदनुद्भावनमेव निग्रहहेतुर्न तु पर्यनुयोज्योपेक्षणानुद्भावनमपि साम्यापादकत्वादिति परैरङ्गीकृतत्वेन पर्यनुयोज्योपेक्षणानुद्भावनस्योद्भावनयोग्यताभावेन तदनुद्भावनेऽतिव्याप्तिनिरासायोद्भाव्येत्युक्तम् । तथाऽप्यनेकदोषसम्पाते यदाधिक्यभयेनैकमेवोद्भाव्यते तदा तदितरानुद्भावनेऽतिव्याप्तिनिरासायावश्येति । तत्र चोद्भावितेतरेषामुद्भावनयोग्यतारूपोद्भाव्यत्वे सत्त्वेऽप्यन्यतमोद्भावनेनैव परपराजयस्य जातत्वान्न तावताऽवश्योद्भाव्यत्वमिति भावः । वादे न्यूनादेरुद्भाव्यतया प्राप्तस्यानुद्भावनेऽतिप्रसङ्गपरिहारायेदमित्यप्याहुः। एवमपि खटितिसंवरणेन तिरोहितोद्भावनावसराणामपशब्दादीनामनुद्भावनेऽतिव्याप्तिपरिहाराय प्राप्तेति प्राप्तकालेत्यर्थः । न च तदुद्भावनायोग्यतैव नेति वाच्यम् । तत्र खटिति संवरणेनोद्भावनावसरस्यापगमनोद्भावनविषयतावच्छेदकनिरर्थकत्वादिरूपयोग्यतानुगमात् । एवं चोक्तस्थले उद्भाव्यत्वसत्त्वेन तन्नियतप्राप्तेरवश्यम्भावेऽपि प्राप्तकालत्वाभावान्नातिव्याप्तेरिति ध्येयम् ।

अभिनवामृतम्

।। अवश्योद्भाव्यतयेति । अप्राप्तिनिग्रहस्थानानुद्भावनेऽतिप्रसङ्गवारणायोद्भाव्यतया प्राप्तेति विशेषणम् । निग्रहस्थानप्राप्तावाधिक्यभिया यत्रैकमुद्भाव्यमन्यं नोद्भाव्यमिति तत्रातिप्रसङ्गवारणायावश्येति ।

आदर्शः

।। इदमनुक्तावन्तर्गतमिति । परचित्तवृत्त्युपेक्षणमनुक्त्यैव ज्ञेयमिति प्रथमोपस्थितत्वात्सैवोद्भावनीयेत्यर्थः ।

श्रीविट्टलभट्ट

।। अवश्योद्भाव्यतयेति । अवश्यवक्तव्यतया प्राप्तनिग्रहस्थानानामवचनमित्यर्थः ।। इदमपीति । इदं पर्यनुयोज्योपेक्षणम् । अवश्यवक्तव्यानुक्तिरूपाऽनुक्तावन्तर्भूतमित्यर्थः ।