प्रमाणपद्धतिः
(७८) प्रमाणपद्धतिः
।। २२ ।। स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः । यथा विमतं मिथ्या दृश्यत्वादिति । सत्यत्वेऽप्यस्य वक्तुं शक्यत्वात् । अयं त्वसम्भवीति केचिदाहुः । तदसत् । सत्प्रतिपक्षवदभिमानतः सम्भवात् । अयमपि प्रतिज्ञायाः समबलविरोध एवेति । पक्षाभासहेत्वाभासान्तर्भूतत्वान्न पृथग्वाच्या इत्याहुः । तदसत् । प्रतिज्ञामात्रेणैव स्फुरणात् । साधने स्वक्रियाविरोधस्वन्यायविरोधयोर्हेत्वाभासानन्तर्भावाच्च । स्वक्रियाविरोधो यथा । अहं मूक इति । स्वन्यायविरोधो यथा । प्रमेयं प्रमाणानपेक्षमिति ।
जयतीर्थविजय
।। स्वपरेति । वादिप्रतिवादीत्यर्थः ।। त्रिरूप इति । पक्षवृत्तित्वसपक्षवृत्तित्वविपक्षव्यावृत्तिमानित्यर्थः । नन्वेकस्यैव दृश्यत्वस्य कथं स्वपरपक्षसिद्ध्योर्हेतुत्वम् । विरोधादित्यत आह ।। सत्यत्वेऽपीति । सत्यत्वसाधनदशायां यः सपक्षस्तस्य मिथ्यात्वसाधनदशायां विपक्षत्वावश्यम्भावेन मिथ्यात्ववादिपक्षे दृश्यत्वहेतुर्न सम्भवति । एवं सत्यत्ववादिपक्ष इत्यसम्भवतीति भावः ।। अभिमानत इति । वास्तवत्रिरूपत्वाभावेन तत्तद्वादिनस्त्रिरूपाभिमानमात्रेणैकस्य त्रिरूपत्वं भविष्यतीति भावः । अभिमानतस्त्रिरूपत्वानङ्गीकारे प्रतिबन्द्यभिप्रायेण त्रिरूपत्वदृष्टान्तमाह ।। सत्प्रतिपक्षवदिति । आहुरित्यतः प्राक् नैयायिका इति शेषः । पक्षे आ भासन्त इति पक्षाभासाः । बाधादय इत्यर्थः ।। हेत्वाभासेति । बाधितसाध्यके पक्षे विद्यमानस्य हेतोर्व्यभिचारावश्यम्भावादिति भावः ।। प्रतिज्ञामात्रेणैवेति । यो यदनन्तरं ज्ञातः सन्ननुमितिप्रतिबन्धकः स तस्य दोषः । अन्यथा प्रतिज्ञाहान्यादिकमपि हेतुहान्यादिकं स्यादिति भावः । किञ्च यत्र साध्यस्य प्रबलप्रमाणविरोधस्थले हेतूपन्यासस्तत्रैव पक्षाभासानां हेत्वाभासत्वमस्त्वित्याक्षेपः । यत्र हेतूपन्यास एव नास्ति तत्रेयं शङ्का नावतरतीत्याह ।। साधन इति । नायं साधनशब्दः साधयतीति व्युत्पत्त्या कार्यकर्तृसाधनः । किन्तु कृतकत्वेन घटानित्यत्वसाधने सिद्धसाधनतेत्यादाविव भावसाधनः । सर्वं वाक्यं सावधारणमिति न्यायेन केवलप्रतिज्ञानिर्देशस्थल इत्यर्थः ।। स्वक्रियाविरोधस्वन्यायविरोधयोरिति । तयोरपि पक्षे आ भासन्त इति व्युत्पत्त्या पूर्ववाक्ये प्रस्ततत्वादिति भावः ।। हेत्वाभासानन्तर्भावादिति । हेत्वाभासत्वशङ्कानवकाशादिति भावः । अस्मदुक्तमेवार्थं हृदि निधाय अहं मूकः पुरुषत्वान्मूकान्तरवदिति सहेतुकस्वक्रियाविरोधस्योदाहर्तुं शक्यत्वेऽपि हेतुप्रयोगं विनैव स्वक्रियाविरोधस्वन्यायविरोधावुदाहृत्य दर्शयति ।। स्वक्रियेत्यादिना । प्राञ्चः साधन इत्यादिवाक्यं प्रकारान्तरेणावतार्य व्याचक्षते । तथा हि । वादिनिषेधात्मकप्रतिवाद्युत्तरगतस्वक्रियाविरोधादेर्हेत्वाभासनन्तर्भावेऽपि जात्यन्तर्भावान्न तदर्थं पक्षाभासाः पृथग्वाच्या इत्यत उक्तं साधन इति । प्रतिषेधे स्वन्यायविरोधादेर्जातित्वस्यान्यत्रान्तर्भावात्पार्थक्यमावश्यकमिति । अन्ये प्राञ्चस्तु तदेव वाक्यमन्यथाऽवतार्य व्याचक्षते । तथा हि । ननूक्तविरोधयोस्तर्करूपानुमाने दोषत्वाभावात्प्रत्युतानुकूलत्वदर्शनादनन्तर्भावो न दोषायेत्युक्तं साधन इति । यद्वा दूषणान्तरमाह ।। साधन इति । स्थापनानुमान इत्यर्थः । अत्र स्वक्रियाविरोधस्वन्यायविरोधयोरनन्तर्भावाच्चेत्यन्वय इति । या तु टीकाकारीयाऽदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् । ज्ञायते साक्षिणैवाद्धा मानबाधेन तद्भवेदित्यनुव्याख्यानवाक्यस्य प्रत्यक्षबाधेनानुमानस्य व्यभिचारो भवतीति व्याख्या सा व्याप्तिग्राहिका । प्रतिज्ञाभावात् । अनुमितिदशायां तु बाधो विषयापसरणेन प्रतिज्ञादोष एव । अन्यथा प्रमाणविरुद्धार्थप्रतिज्ञाविरोधः । प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्यमव्याप्तिरिति बाधप्रतिरोधयोरसिद्ध्यादिना सहहेतुदोषत्वात् । वर्तमानहेतोरविषयवृत्तित्वं नाम दोषोऽस्तीत्यभिप्रेत्यैव । न तु बाधादिदोषविषय इत्यभिप्रेत्यैवेति न तद्विरोधोऽस्येति ।। प्रमेयमिति । प्रमाणासापेक्षप्रतीतिकमित्यर्थः ।
भावदीपः
।। स्वपरेति । स्वपक्षसिद्धौ परपक्षसिद्धौ च पक्षधर्मत्वसपक्षे सत्त्वविपक्षव्यावृत्तत्वाख्यत्रिरूप इत्यर्थः ।। दृश्यत्वादितीति । स्तुहिरित्यनुषङ्गः ।। अस्येति । दृश्यत्वहेतोरित्यर्थः । अयं तु पक्षद्वये त्रिरूपो हेतुस्त्वसम्भवी । मिथ्यात्वप्रयोगे यौ सपक्षविपक्षौ शुक्तिरूप्यब्रह्मस्वरूपौ तौ सत्यत्वप्रयोगे विपक्षसपक्षावित्यस्य योगादिति । एवं रूपहेत्वाभासो नास्त्येवेत्याहुरित्यर्थः ।। सत्प्रतिपक्षवदिति । परस्परप्रतिरुद्धहेत्वोः साध्यतदभावव्याप्यत्वरूपं समबलत्वं यथाऽऽभिमानिकं तथाऽऽभिमानिकसपक्षत्वादेः सम्भवादिति भावः ।। अयमपीति ।। प्रकरणसमोऽपीत्यर्थः । इतिशब्दो हेतुदोषोक्तिसमाप्तौ । परोक्तहेत्वाभासान् लक्षणोदाहरणपूर्वकं स्पष्टीकुर्वता तेषु केषाञ्चित्प्रमाणविरोधः स्ववचनविरोध इति प्रतिज्ञाविरोधो द्विविध इत्यादिना प्रागुक्तेषु प्रबलप्रमाणसमबलविरोधसिद्धार्थत्वरूपार्थदोषेष्वपसिद्धान्तस्ववचनस्वक्रियास्वन्यायविरोधरूपवचनविरोधेष्वन्तर्भावः। केषाञ्चिद्धेतुदोषेष्वन्तर्भाव उक्तः । तत्र प्रतिज्ञादोषेऽन्तर्भावविषये विप्रतिपत्तिमुद्भाव्य निरस्यति ।। पक्षाभासा इति । प्रमाणबाधितत्वादिरूपाः पक्षाभासा इत्यर्थः ।। इत्याहुरिति । अत एव न्यायसूत्रे हेत्वाभासाश्चेत्येवोक्तिरिति भावः । विस्तरस्तु तर्कताण्डवे ध्येयः । प्रमाणबाधादीनां कथञ्चिद्धेत्वाभासान्तर्भावसम्भावनायामपि हेत्वादौ स्ववचनविरोधोऽसिद्ध्यादिनैव सङ्गृहीत इति प्रागुक्तदिशा तस्य हेत्वाभासान्तर्भावेऽपि स्ववचनविरोधप्रभेदस्वक्रियाविरोधादेर्नार्थदोषरूपहेत्वाभासान्तर्भावो युक्त इत्याह । साधन इति । साधनानुमान इत्यर्थः । जातिप्रस्तावोक्तरीत्या प्रतिषेधानुमाने स्वक्रियाविरोधादेर्हेतुदोषत्वसम्भवात् । तद्य्ववच्छेदाय साधन इत्युक्तम् । स्ववचनविरोधस्य प्रतिज्ञाविरोधरूपनिग्रहस्थानोदाहरणेन स्पष्टीकृतत्वं मत्वा स्वक्रियाविरोधादेः प्रातिस्विकोदाहरणेन स्पष्टयति ।। स्वक्रियेति । प्रमेयं प्रमाणानपेक्षमिति वादिनोक्ते सति प्रमेयं प्रमाणानपेक्षमिति प्रमेयं यथा प्रमाणानपेक्षम् । अन्यथा तत्प्रतिज्ञावैय्यर्थ्यात्तन्न्यायेन त्वत्पक्षीकृतं प्रमेयं प्रमाणानपेक्षमिति सुवचत्वात्स्वन्यायविरोध इत्यर्थः ।
श्रीविजयीन्द्रतीर्थ
।। असम्भवीति । साध्याभावनिरूपितव्याप्तेरेकत्र विरोधेनासत्त्वादित्यर्थः । ननु पक्षाभासस्यानुमितिप्रतिबन्धकत्वं वदता तस्य हेत्वाभासत्वमवश्यमभ्युपेयम् । अनुमितेर्हेत्वाभासमात्रप्रतिबद्धत्वनियमादित्यत आह ।। साधने स्वक्रियेति । तथा च तयोरेव नियमभङ्ग इति भावः ।
श्रीवेदेशभिक्षु
।। असम्भवीति । एकस्य हेतोः साध्ये तदभावे च त्रिरूपत्वं न सम्भवतीति विरोधादिति तेषां भावः । दूषणान्तरमाह ।। साधन इतीति । तथा च स्वक्रियाविरोधादिसङ्ग्रहायैव पक्षाभासः पृथग्वक्तव्य इति भावः । ननु वादिप्रतिषेधात्मके प्रतिवाद्युत्तरगतस्वक्रियाविरोधादेर्हेत्वाभासानन्तर्भावेऽपि जात्यन्तर्भावसम्भवान्न तदर्थं पक्षाभासः पृथग्वाच्य इत्यत उक्तं साधन इति । प्रतिषेधे स्वन्यायविरोधादेर्जातित्वेऽपि स्थापनायां प्राप्तस्य तस्यान्यत्रानन्तर्भावात्पार्थक्यमावश्यकमिति भावः । केचित्तु । ननु पक्षाभासस्यानुमितिप्रतिबन्धकत्वं वदता तस्य हेत्वाभासत्वस्यावश्यमभ्युपेयम् । अनुमितेर्हेत्वाभासमात्रप्रतिबन्धकत्वनियमादित्यत आह ।। साधन इति । पक्षाभासो हेत्वाभासो भवितुमर्हति । अनुमिति प्रतिबन्धकत्वात्साध्याभासवदिति साधन इत्यर्थः । तथा च तयोरेव नियमभङ्ग इति भाव इत्याहुः ।
अभिनवामृतम्
।। प्रमेयं प्रमाणानपेक्षमिति । वादिना स्वाभिमते वन्ह्यादिसिद्धये प्रमाणाभिधानात् तत्प्रतिबन्द्या विप्रतिपन्नप्रमेयस्यापि प्रमाणसापेक्षतापत्त्या प्रमेयं प्रमाणानपेक्षमिति वचनस्य तत्प्रतिबन्दीविरोध इत्यर्थः ।
आदर्शः
।। साधन इति । विप्रतिपत्त्युत्तरमेव स्वपक्षसाधनाय प्रवृत्तवादिवाक्य इत्यर्थः । इदं च हेत्वाभासत्वाभावेऽपि तथा वक्तुर्जात्याख्यनिग्रहस्थानेन पराजयः सम्भवतीति न प्रतिज्ञाभासस्य पृथक्त्वमावश्यकमिति शङ्कानिरासाय दूषणासमर्थोत्तरस्यैव जातिरूपत्वेन प्राथमिकवाक्यस्योत्तरत्वाभावेन हेत्वाभासत्वाभावेन प्रतिज्ञासत्त्वमेवोद्भावनीयमिति भावः । ननु कथं न हेत्वाभासत्वाभावो हेतोर्बाधितत्वसम्भवादिति वाच्यम् । बाधस्य साक्षादनुमितिप्रतिबन्धकत्वेऽपि हेतुनिष्ठत्वाभावेन हेतुदोषत्वाभावादित्याशयात् । स्वक्रियास्वन्यायविरोधस्यैव प्राथमिकत्वेन तदुद्भावनस्यैवोचितत्वाच्च । मूकत्वमुच्चारणानुकूलशक्त्यभावः । स च न प्रत्यक्षः । शक्तेरतीन्द्रियत्वात् । किन्तु वचनेनानुमेयः । वचनं च प्रत्यक्षसिद्धमिति वचनरूपक्रियाद्वारा प्रत्यक्षविरोध उपपादनीय इति वचनरूपस्वक्रियाविरोध एव वाच्य इति । एवं स्वन्यायविरोधस्थलेऽपि बोध्यम् ।
श्रीविट्टलभट्ट
।। स्वपक्षपरपक्षसिद्धावपीति । स्वपक्षपरपक्षसाधनेऽपि त्रिरूपः पक्षधर्मत्वादिरूपत्रयोपेतमित्यर्थः ।। अयमसम्भवीति । अयं प्रकरणसमो हेतुः । असम्भवी पक्षद्वये रूपत्रयोपेतत्वायोगादयुक्त इत्यर्थः ।। सत्प्रतिपक्षवदिति । सत्प्रतिपक्षस्थले साध्याभावाव्यापकयोराभिमानिक सत्त्ववत्प्रकरणसमेऽप्यभिमानतस्त्रिरूपोपेतत्वादित्यर्थः । ननु तर्हि क्वान्तर्भूत इति जिज्ञासायामाह ।। अयमपीति । सत्प्रतिपक्षः प्रकरणसमश्चेत्यर्थः । ननु हेतुदोषाणां कालात्ययापदिष्टसत्प्रतिपक्षप्रकरणसमानां कथं प्रतिज्ञादोषान्तर्भाव इति चेन्न । हेतूपस्थितेः प्राक् प्रतिज्ञायामेव तेषां स्फुरणात्प्रतिज्ञादोषस्यैवोचितत्वात् । यो हि यन्निष्ठतया ज्ञातानुमितिप्रतिबन्धकः स तस्यैव दोषः । प्रतिज्ञाहेतुहान्यादित्वप्रसङ्गात् । नित्यो वर्ण इति तार्किकप्रयुक्तप्रतिज्ञाश्रितोऽपसिद्धान्तः । माता वन्ध्या मूकोऽहमिति प्रतिज्ञाश्रितौ स्ववचनविरोधस्वक्रियाविरोधौ च । हेत्वाभासावनन्तर्भावाच्च । तस्माद्बाधादेः प्रतिज्ञामात्र एव स्फुरणात्सत्प्रतिज्ञातार्थविरुद्धार्थग्राहित्वाच्च प्रतिज्ञादोषत्वमेवेत्यनुसन्धेयम् । पक्षाभासाः पक्षदोषा हेतुदोषान्तर्गतत्वात् हेतुदोषेभ्यः पृथङ् न वक्तव्या इत्याहुरित्यर्थः ।। प्रतिज्ञामात्रेणैवेति । प्रमाणविरोधादेर्लिङ्गोक्तिरहितप्रतिज्ञायां स्फुरणादित्यर्थः । दूषणान्तरमाह ।। साधने इति । अपीति शेषः । लिङ्गवचनेऽपीत्यर्थः । स्वक्रियाविरोधस्वन्यायविरोधयोरित्येतत्स्ववचनविरोधस्याप्युपलक्षणम् । हेतावपि प्रतीयमानस्वक्रियाविरोधादीनां हेतुदोषान्तर्भावस्तदा प्रतिज्ञायामेव प्रतीयमानानां स्वक्रियाविरोधादीनां तत्रान्तर्भाव इति किमु वक्तव्यमिति भावः । तस्मात्प्रतिज्ञायाः परिभासमानस्वक्रियाविरोधस्वन्यायविरोधप्रमाणविरोधव्यर्थविशेषणासिद्धार्थत्वादीनां प्रतिज्ञादोषत्वमेव न हेतुदोषत्वम् । अन्यथा तेषां प्रतीयमानाव्याप्त्यसिद्धिविरुद्धत्वादीनां पक्षदोषान्तर्भाव इत्यापातादिति युक्तमेव पक्षदोषाणां पृथग्वाच्यत्वमिति ।