अनुपलब्धिसमः

(६५) प्रमाणपद्धतिः

।। २० ।। (२) (२१) ।। अनुपलब्धिसमः ।। उपलब्ध्यादिविषयिधर्माणां स्वात्मनि वृत्त्यवृत्त्या तत्त्वव्याघातापादनमनुपलब्धिसमः । यथोपलब्धिः स्वात्मनि वर्तते चेदुपलब्धत्वाद् घटादिवदनुपलब्धिः । न वर्तते चेत्तथाऽपि तद्वदेवेत्यादि । अत्र विषयापेक्षयोपलब्धित्वस्य स्वात्मनि वृत्त्यवृत्तिभ्यां न निवृत्तिरिति वक्तव्यम् । तदनङ्गीकारे स्वन्यायविरोधः स्वक्रियाविरोधो वेति ।

जयतीर्थविजय

।। उपलब्धीति । अत्र विषयः साध्यधर्मः । लिङ्गजन्यानुमितिविषयत्वात् । सोऽस्यास्तीति विषयी पक्षस्तद्धर्माणामित्यर्थः ।। तत्त्वेति । उपलब्धित्वेत्यर्थः । तत्त्वव्याघातापादनमात्रस्य प्रकारान्तरेण सदुत्तरेणापि सम्भवात्तद्य्वावृत्तये स्वात्मनीत्यादि । एतदप्युक्तं वरदराजेन ।

स्वस्मिन्विषयिधर्माणां तत्तद्रूपप्रकल्पनात् ।

विपर्ययप्रसङ्गः स्याज्जातिश्चानुपलब्धित ।। इति ।

यथेति । यथेत्यनन्तरमिदं वस्त्वस्ति । उपलब्धत्वादिति वादिना हेतौ प्रयुक्त इति शेषः । अनुपलब्धिरुपलब्धिर्न स्यादित्यर्थः । तद्वदेव घटादिवदेवेत्यर्थः । तथा चोपलब्धत्वादिति हेतुरसिद्ध इति भावः । स्वव्याहतिं दर्शयितुमुत्तरकथाप्रवृत्तिप्रकारमाह ।। अत्रेत्यादिना ।

भावदीपः

।। उपलब्ध्यादीति । इच्छाकृत्यादिरादिपदार्थः । विषयिधर्माणामर्थविषयधर्माणामित्यर्थः । वृत्त्यवृत्त्यनिमित्तेनोपलब्धित्वादिव्याघातापादनमित्यर्थः । स्वात्मनि स्वात्मविषयेऽनुपलब्धिरुपलब्धिर्न भवतीत्यर्थः ।। तथाऽपीति । स्वविषये न वर्तते इति पक्षेऽपि । तद्वदेव घटवदेव । घटो यथा स्वविषये स्वयं न वर्तत इति कृत्वोपलब्धिर्न भवति तथोपलब्धिरपि स्वस्मिन्स्वयं न वर्तत इत्यनुपलब्धिः स्यादित्यर्थः । इत्यादीत्यादिपदेनेच्छादावप्येवं ध्येयमिति गृह्यते ।। तदनङ्गीकार इति । विषयापेक्षयोपलब्धित्वादेः कदाऽप्यनपाय इत्यस्यानङ्गीकार इत्यर्थः ।। स्वान्यायेति । उपलब्धित्वादिति वाद्युक्तं साधनं न साधकमसिद्धत्वात्सम्मतवदिति । जातिवाद्युक्तप्रतिषेधेऽप्यसिद्धिः स्वात्मनि वर्तते न वा । आद्येऽसिद्धत्वमेव नासिद्धत्वम् । न वर्तत इति चेदसिद्धवदेव नासिद्धत्वमिति । उभयथाऽप्युपलब्धित्वस्यासिद्धिविषयत्वरूपासिद्धत्वं नेति वक्तुं सुवचत्वात्स्वन्यायविरोधः । तथोपलब्धिं निराकुर्वन्नुपलब्ध्यर्थं वाक्यं प्रयुङ्क्त इति स्वक्रियाविरोधो वेत्यर्थः ।

श्रीविजयीन्द्रतीर्थ

स्वयं लक्षणमाह ।। उपलब्ध्यादीति ।। तत्त्वेति । उपलब्धित्वादीत्यर्थः ।। स्वात्मनीति ।

श्रीवेदेशभिक्षु

।। विषयिधर्माणामिति । विषयनिरूप्यधर्माणामित्यर्थः ।। तत्त्वेति । उपलब्धित्वादित्यर्थः ।। स्वात्मनीति । उपलब्ध्यादावित्यर्थः । स्वात्मनीति विषयसप्तमी ।। न वर्तत इति । स्वविषये उपलब्धिरूपेण वर्तमानघटादिवदुपलब्धिर्न स्यादस्वविषयकत्वादित्यर्थः । इत्यादीत्यनेनानुपलब्ध्यादिविषयिधर्मान्तरपुरस्कारेणाप्येतज्जातिप्रवृत्तिं गृह्णाति । तत्प्रकारश्च प्रमाणलक्षणटीकादौ द्रष्टव्यः । अत्रेति । स्वात्मनि वृत्त्यवृत्तिभ्यामुक्तरीत्या चापेक्षयोपलब्धित्वनिवृत्तावपि न विषयापेक्षयोपलब्धितानिवृत्तिः । विषये तस्य वृत्त्या तत्त्वोपपत्तेः । तथा च स्वात्मवृत्तेरयुक्तताया अप्येवाङ्गीकृतत्वेनायुक्ताङ्गाधिकत्वमिति भावः ।। तदनङ्गीकार इति । विषयापेक्षयाऽप्युपलब्धित्वस्यानङ्गीकार इत्यर्थः । इदमत्राकूतम् । जातिवादिप्रमेयमप्युपलब्धित्वादस्तीत्यङ्गीकर्तव्यम् । तथा च तत्राप्युपलब्धेः स्वात्मनि वृत्त्यवृत्तिभ्यामभाव एव चासिद्धिरिति स्वन्यायविरोधः ।

अभिनवामृतम्

।। उपलब्ध्यादिविषयिधर्माणामिति । उपलब्धीच्छादिसविषयधर्माणां स्वात्मविषयकत्वाभ्यां तत्त्वव्याघातः स्यादिति साधनमुपलब्धिसम इत्यर्थः ।। न वर्तते चेदिति । यथा स्वात्मन्यनुपलब्धिर्घटादिर्न क्वाप्युपलब्धिरेवमुपलब्धिरपि स्वविषयेऽनुपलब्धिविषयत्वान्न क्वाप्युपलब्धिः स्यात् । न हि यः स्वात्मानं विषयीकर्तुं न शक्नोति सः परात्मानं विषयीकर्तुं शक्नोतीति भावः । एवं विकल्प्य दूषणाभिधाने पाक्षिकजयबुद्धिरुत्थानबीजम् । इदमस्त्युपलब्धित्वादिति वादिहेतोरसिद्धिरारोप्या ।। अत्र विषयापेक्षयेति । यः स्वात्मनि यद्रूपो न भवतीति सोऽन्यत्रापि तद्रूपो न भवति । पराग्रहस्याद्यापि ज्ञातुमशक्यत्वादुपलब्धेः स्वात्मनि वृत्त्यवृत्तिभ्यां न तत्त्वनिवृत्तिरित्येवोत्तरं वाच्यम् । न जातित्वमित्यर्थः ।। तदङ्गीकार इति । जातिवादिना स्वोपलब्धेः स्वात्मनि वृत्त्यभावेऽप्यन्यत्रोपलब्धित्वाङ्गीकारात्तत्प्रतिबन्दीविरोधो वोत्पद्यमानघटादिविषयकत्वासिद्धये घटादिशब्दोच्चारणरूपस्वक्रियाविरोधो वा वाच्य इत्यर्थः ।

आदर्शः

।। अत्रेति । अत्रैवमापादनीयमुपलब्धेरुपलब्धिविषयत्वे उपलब्धित्वं न स्यात् । यत्रोपलब्धिविषयत्वं तत्रोपलब्धिभेदो यथा घटे उपलब्धिमात्रस्य पक्षत्वान्न व्यभिचारः । तथा च यत्रोपलब्धेर्यत्र हेतुत्वादिकमभिप्रेतं तत्रासिद्ध्यादिकम् । यत्र च नोपलब्धिस्तत्राज्ञानासिद्ध्यादिकमिति । अथवोपलब्धित्वे मानाभावादनुपलब्धित्वम् । तथा चेदमस्त्युपलब्धित्वादित्यादावुपलब्धित्वहेतोरसिद्धिरिति । अत्र नायं हेतुः साधकोऽसिद्धत्वादिति दूषणानुमानेऽपि हेतुभूतासिद्धावसिद्धमस्ति न वा । यद्यसिद्धमस्ति तर्ह्यसिद्धभिन्नः स्यात् । यस्त्वसिद्धत्वाश्रयः सोऽसिद्धत्वभिन्नो यथा घट इति व्याप्तेः । अन्यथाऽऽत्माश्रयप्रसङ्गात् । असिद्धिसामान्यस्य पक्षत्वान्न व्यभिचारः । तथा चासिद्धत्वमसिद्धं यदि नास्ति तर्हि धूमादिवदसिद्धं न स्यात्पूर्ववदेव व्याप्तिः । तथा च धूमादिवदसिद्धत्वम् असिद्धमिति वक्तुं शक्यत्वात्स्वन्यायविरोध उपलब्ध्यभावमङ्गीकरोति । एतत्प्रमेयोपलब्धये शब्दप्रयोगं च करोति । अतः शब्दप्रयोगरूपस्वक्रियाविरोध इत्यर्थः । अनुपलब्धिस्थले तु मानलक्षणटीकोक्तरीत्या ज्ञेयम् । तथा हि । अनुपलब्धिः स्वात्मनि वर्तते न वा । तेन रूपेणास्तीति चेत्प्रमेयवदसती स्यात् । नास्ति चेद्घटादिवन्नानुपलब्धिः स्यात् । यत्र यत्रानुपलब्ध्यभावस्तत्रानुपलब्धिभेद इति व्याप्तिरभिमता । अत्रोभयत्रापि सदसत्त्वान्यतरपक्षस्योपलब्ध्यनुपलब्धिभेदाभावे बाधकाभावेन व्याप्तिग्राहकप्रमाणाभावान्नोक्तव्याप्तिर्युक्तेति वक्तव्यम् । प्रमाणविरोधाभावादेर्व्याप्तिनिश्चयानङ्गत्वे प्रकृतेऽप्यसिद्धिस्तत्त्वेन स्वात्मन्यस्ति न वा । आद्ये शशविषाणादिवदसती स्यात् । द्वितीये धूमादिवन्नासिद्धिः स्यात् । तथा चासिद्ध्यभावादसिद्धत्वमसिद्धमिति वक्तुं शक्तिमत्त्वात्स्वन्यायविरोधः । अत्र क्वचिद्विषयिधर्मिभिन्ने तदुपलब्धिरुत्थानबीजं तस्योक्तिभेदसामानाधिकरण्यदर्शनरूपत्वेन व्याप्तिनिश्चायकत्वाभिमानेन जातिप्रवृत्तेः । व्यभिचारनिर्णयाभावस्य प्रमाणविरोधाभावस्य व्याप्तिनिश्चयाङ्गत्वानङ्गीकाराद्युक्ताङ्गहीनत्वम् । अधिकं तट्टीकायामनुसन्धेयम् ।

श्रीविट्टलभट्ट

।। उपलब्ध्यादिविषयिधर्माणामिति । अनुपलब्धीच्छादिरादिशब्दार्थः । विषयिधर्माणां स्वविषयधर्माणामित्यर्थः । स्वात्मनि वृत्त्यवृत्त्योः स्वस्मिन्नसत्त्वासत्त्वयोस्तत्र पक्षो यो व्याघातापादनं स्वरूपव्याहतिप्रसञ्जनमित्यर्थः । लक्ष्यं लक्षणनिर्दिष्टं दर्शयति ।। उपलब्धत्वादिति । उपलब्धत्वादिदमस्तीत्युक्तमिति योज्यम् । स्वात्मनि विषयसप्तमीयं वर्तते । उपलब्धिरूपेणास्ति चेदित्यर्थः । तर्हीति शेषः । उपलब्धिर्घटवत्स्वस्मिन्नप्युपलब्धिरूपा चेत् घटवदुपलब्धिर्न स्यादिति शङ्कितुर्हृदयम् ।। न वर्तते चेदिति । उपलब्धिरुपलब्धिरूपेण स्वस्मिन्नस्तीत्यङ्गीकारश्च । तथाऽपि तस्मिन्पक्षेऽपि तद्वदेव घटवदेव स्यादित्यर्थः । स्वस्मिन्ननुपलब्धिरूपेणावर्तमानस्य घटस्योपलब्धित्वाभाववत्तादृश्युपलब्धिरपि तद्वदुपलब्धिर्न स्यादिति हृदयम् ।। इत्यादीति । अनुपलब्धेर्नास्ति घट इत्युक्तेऽनुपलब्धिः स्वस्मिन्ननुलपब्धिरूपा न वा । आद्ये घटवदनुपलब्धितया नानुपलब्धिः स्यात् । द्वितीयेऽपि घटवन्नानुपलब्धिः स्यादित्यादिरादिशब्दार्थः ।। अत्रेति । एवं स्वरूपहान्यापादन इत्युत्तरं वक्तव्यमिति सम्बन्धः । विषयापेक्षयोपलब्धित्वस्यार्थप्रकाशकत्वस्येत्यर्थः ।। तदनङ्गीकार इति । तस्या उपलब्धेः स्वात्मनि सत्त्वासत्त्वाभ्यां स्वविषयापेक्षयाऽर्थप्रकाशत्वरूपोपलब्धित्वस्य निवृत्तिरित्यस्यार्थस्यानभ्युपगमे स्वन्यायविरोधस्वक्रियाविरोधौ भवत इत्यर्थः । अत्र वादिसाधनमुपलब्धित्वं न स्वसाध्यसाधकमसिद्धत्वात्सम्मतवदिति परस्य विवक्षितम् । अत्राप्यसिद्धत्वादित्युक्तेऽसिद्धिरुपलब्धित्व इव स्वस्मिन्नसिद्धिरूपा न वेति विकल्प्याद्ये उपलब्धिवसिद्धत्वान्नासिद्धिः स्यात् । द्वितीयेऽपि तद्वदेव नासिद्धिः स्यादिति दूषणसम्भवादस्य स्वन्यायविरोधत्वमुपलब्धिं निराकुर्वन्नुपलब्धिसम्पादनाय वाक्यं प्रयुङ्क्त इति स्वक्रियाविरोधं चेत्यस्योभयत्रान्तर्भाव इति बोध्यम् ।।