प्रमाणपद्धतिः
अनुप्रमाणलक्षणम्
(२१) प्रमाणपद्धतिः
यथार्थज्ञानसाधनमनुप्रमाणम् । यथार्थमित्येवोक्ते केवलेऽतिव्याप्तिः । ज्ञानमित्येवोक्ते तत्र संशयादौ च । प्रत्यक्षेऽव्याप्तिश्च । साधनमित्येवोक्ते कुठारादावतिव्याप्तिः । यथार्थज्ञानमित्युक्ते केवलेऽतिव्याप्तिः । प्रत्यक्षेऽव्याप्तिश्च । यथार्थसाधनमित्युक्ते प्रत्यक्षसाधनेऽतिव्याप्तिः । ज्ञानसाधनमित्युक्ते संशयादिसाधनेऽतिव्याप्तिः । यथार्थज्ञानकारणमित्युक्ते प्रमात्रादावतिव्याप्तिरिति सर्वं सार्थकम् । यज्जातीयानन्तरं नियमेन कार्योत्पत्तिस्तदत्र साधनं विवक्षितम् । अतो न यादृच्छिकसंवादिष्वतिव्याप्तिः ।
भावदीपः
क्रमप्राप्तमनुप्रमाणं लक्षयति ।। यथार्थेति । यथावस्थितज्ञेयविषयीकारिज्ञानसाधनमित्यर्थः । पदानां कृत्यानि स्वयमेवाह ।। यथार्थमित्यदिना सर्वं सार्थकमित्यन्तेन । तत्र केवलसंशयादौ विपर्यये चेत्यर्थः । अतिव्याप्तिरित्यनुषङ्गः ।। प्रत्यक्षसाधन इति । यथावस्थितज्ञेयविषयीकारि चक्षुरादीन्द्रियं भवतीति तत्साधने तज्जनकेऽतिव्याप्तिरित्यर्थः । प्रमात्रादीत्यादिपदेन प्रमेयग्रहः । तात्पर्यं प्राग्वत् । तावता कुतः प्रमात्रादिव्यावृत्तिरित्यतः साधनपदस्यातिशयितकारणत्वार्थत्वादिति भावेनाह ।। यज्जातीयेति । यद्वा यादृच्छिकसंवादादिषु प्रत्यक्षादिषु यथार्थज्ञानसाधनत्वमस्तीति विशिष्टलक्षणस्याप्यतिव्याप्तिमाङ्क्याह ।। यज्जातीयेति । तादृशं च विषयसन्निकृष्टनिर्दोषकरणजातीयमेव । न यादृच्छिक संवादादिजातीयमिति भावः ।
श्रीविजयीन्द्रतीर्थ
केवलप्रमाणलक्षणानन्तरमनुप्रमाणलक्षणमाह ।। यथार्थज्ञानसाधनमिति । अत्र प्रत्येकपदार्थस्य लक्षणभवनाक्षमत्वं क्रमेण दर्शयति ।। यथार्थमित्यादिना ।। तत्रेति । केवलभ्रमे वेत्यर्थः । लिङ्गज्ञानादेः करणत्वमभिप्रेत्याह ।। प्रत्यक्ष इति । साक्षात्कारिज्ञानसाधने चक्षुरादौ ज्ञानत्वाभावादित्यर्थः । द्वौ द्वावधिकृत्य दोषमाह ।। यथार्थज्ञानमिति । प्रत्यक्षसाधन इति चक्षुरादिकरण इत्यर्थः । ननु करणसाधनशब्दयोः पर्यायत्वात्कथं तेनात्मातिव्याप्तिवारणमित्यत आह । यज्जातीयानन्तरमिति । साधनशब्दस्य सामान्यार्थत्वेऽपि प्रकृते साधनविशेषपरत्वान्नोक्तदोष इत्यर्थः । अनेन व्यापारविशिष्टस्य कारणत्वमभिप्रैति । निर्व्यापारस्य नियमाभावादिति । यद्यपि सति प्रतिबन्धके तस्यापि न नियमः । तथाऽपि तदभावे सतीत्यपि विशेषणं द्रष्टव्यमिति । यद्य्वापारस्यैव करणत्वमित्यग्रे स्फुटम् । प्रयोजनान्तरमपि समुच्चिनोति ।। अत इति ।
श्रीवेदेशभिक्षु
अनुप्रमाणलक्षणप्रविष्टपदार्थानां प्रत्येकलक्षणत्वानुपपत्तिं क्रमेण दर्शयति ।। यथार्थमित्यादिना । द्वयोर्द्वयोर्लक्षणत्वेऽनुपपत्तिमाह ।। यथार्थज्ञानमिति ।। प्रत्यक्षसाधन इति । चक्षुराद्यवयवरूप इत्यर्थः । अतिशयितं कारणसाधनमिह विवक्षितम् । तत्र किमतिशयितत्वविवक्षेत्यत आह ।। यथार्थज्ञानकारणमिति ।। यज्जातीयानन्तरमिति । नन्वेवमपि ज्ञातज्ञापकवाक्यादिष्वतिव्याप्तिः । तेषामपि नियमेन यथार्थज्ञानसाधनत्वात् । आगमबहिर्भावस्य वक्ष्यमाणत्वेनालक्ष्यत्वाच्चेति चेत् । उच्यते । यादृच्छिकसंवादिलिङ्गविभ्रमातिव्याप्त्यभिप्रायेणैवं विवक्षा कृता । वस्तुतस्तु यथार्थपदमहिम्ना निर्दोषमिति साधनविशेषणमिह लक्ष्यते । तथा च निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवार्थो विवक्षितः । एवं च न यादृच्छिकसंवादिलिङ्गविभ्रमादिषु न वा ज्ञातज्ञापकवाक्यादिष्वतिव्याप्तिः । तेषां लिङ्गविभ्रमत्वज्ञातज्ञापकत्वादिदोषयुक्तत्वात् । अत एव सुधायामनेनैवास्वारस्येन यद्वेत्यादिनाऽयमपि पक्ष उक्तः । प्रमाणसामान्यलक्षणेऽपि निर्दोषत्वविशेषणस्य विवक्षितत्वान्न तस्याप्यत्रातिव्याप्तिरिति भावः ।
अभिनवामृतम्
यथार्थज्ञानसाधनमिति । यद्यप्यत्र यथार्थभूतं साधनत्वमखण्डमेकमेव लक्षणं तन्निरूपणाय ज्ञानपदं तद्विशेषणं यथार्थपदम् । ततश्च यथोक्तविशेषणविशेष्यभावे न वैय्यर्थ्यशङ्काऽस्ति । तथाऽपि किमर्थं यथार्थज्ञानसाधनत्वं लक्षणमभिधीयते यथार्थत्वं वा । ज्ञानत्वं वा । साधनत्वं वा । यथार्थज्ञानत्वं वा । ज्ञानसाधनत्वं वा यथार्थज्ञानकारणत्वं वा लक्षणं किं न स्यादिति मन्यमानस्य शङ्कामपाकरोति ।। यथार्थमित्येवोक्त इत्यादिना ।। केवलेऽतिव्याप्तिरिति । यद्यपि यथार्थशब्दस्य साक्षाज्ज्ञेयविषयीकारिसाधनत्वेन ज्ञेयविषयीकारित्वमित्यर्थत्वेन केवलेऽतिव्याप्तिः । तथाऽपि यथाज्ञानसाधनत्वं गुरुत्वादित्युक्त्या यथार्थमेव लक्षणं मन्यमानेनैवं विवक्षा कर्तुं शक्यते । प्रतिपत्तिगौरवात्परित्यक्तस्वीकारप्रसङ्गाच्च । किन्तु ज्ञेयविषयीकारित्वमेव यथार्थशब्दवाच्यमिति भावेन केवलेऽतिव्याप्तिरुक्तेति ध्येयम् । प्रत्यक्षेऽव्याप्तिश्चेति । ननु यद्यस्य ज्ञानं तत्तस्यानुप्रमाणमिति वक्तव्यम् । अन्यथाऽतिप्रसङ्गात् । एवं च सत्यसम्भव एवोक्तः । लिङ्गज्ञानादेर्लिङ्गादौ ज्ञानत्वेऽपि लिङ्ग्यादाविव ज्ञानत्वादिति चेत् । सत्यम् । असम्भव एवास्य लक्षणस्य वक्तव्यः । तथाऽपि परेण ज्ञानमित्येवोक्तम् । न तु यत्तच्छब्दौ निवेशितौ । न च युक्तमेव पूर्वपक्षी ब्रवीतीति नियमोऽस्ति । येन तच्छब्दप्रवेशाभिप्रायं कल्पयाम इति भावेनाव्याप्तिरुक्ता ।। सर्वं सार्थकमिति । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्विति वचनादर्थशब्दो निवृत्तिवचनः । ततश्च सर्वपरोक्तलक्षणमसार्थकम् । सनिवृत्तकं हेयमित्यर्थः । एतेन प्रागेकैकस्य लक्षणस्यातिव्याप्त्यादिदूषणमेवोक्तम् । न तु कस्यापि किञ्चित्प्रयोजनमुक्तमिति सर्वं सार्थकमित्ययुक्तमिति परास्तम् ।। यज्जातीयानन्तरमिति । अत्र स्वाभाविकमेव साधनत्वं विवक्षितम् । यादृच्छिकसंवादिनस्तु न प्रमाजनकत्वं स्वभावः । किन्त्वप्रयोजनकत्वमेव । प्रमाजनकत्वं तु दैववशाद्विषयसत्ताप्रयुक्तमिति न तत्रातिव्याप्तिरिति भावः । एतेनायमेतत्संयोग्येतत्वादित्येक व्यक्तिकेऽनुमाने जातीयाभावेन लक्षणाभावादव्याप्तिरिति परास्तम् । एतेनैव गन्धवत्त्वव्याप्यपृथिवीत्ववानयमिति परामर्शे प्रायः प्रमाजनकत्वेऽपि गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वादिति प्रयोगवेलायां प्रमाजनकत्वाभावान्नियमाभावेनाव्याप्यत्वादयुक्तमिति परास्तम् । यज्जातीयानन्तरं नियमेन कार्योत्पत्तिरित्यनेन स्वाभाविकजनकत्वव्याप्यदर्शनेन स्वाभाविकस्यैव ज्ञापितत्वात् । पृथिवीत्वपरामर्शस्य प्रयोक्तृदोषेण भ्रमजनकत्वेऽपि प्रमाजनकत्वस्वभावानपायात् ।
आदर्शः
।। प्रत्यक्ष इति । इन्द्रिय इत्यर्थः ।। प्रत्यक्षसाधन इति । इन्द्रियसाधन इत्यर्थः ।। यज्जातीयानन्तरमिति । ननु चक्षुरादावव्याप्तिः । चक्षुर्जातीयानन्तरं नियमेन प्रमाऽनुत्पत्तेः । सत्यपि सन्निकर्षादिविशिष्टे चक्षुष्यालोकाद्यभावकाले प्रमाया अनुत्पत्तेर्येन चक्षुषा भ्रममात्रस्योत्पत्तिस्तस्य नाशस्तादृशचक्षुषा कदाऽपि प्रमाया अनुत्पत्तेश्च । प्रमोत्पादकसकलसामग्रीकाले यज्जातीयानन्तरं नियमेन प्रमोत्पत्तिस्तत्त्वमित्युक्तौ त्वात्मनोऽपि करणत्वापत्तिः । तत्रेष्टापत्तावपि यादृच्छिक संवादिष्वतिव्याप्तितादवस्थ्यम् । प्रमोत्पादकसामग्रीकाले तद्वाक्यजातीयकाले तद्वाक्यकाले नियमेन प्रमाया उत्पत्तेरिति चेन्न । अकुण्ठितशक्तिमद्यज्जातीयानन्तरं नियमेन कार्योत्पत्तिः । तत्त्वं करणत्वमित्यर्थत्वस्य विवक्षितत्वात् । अत एव घटादिकं प्रति दण्डादिकं न कारणम् । चक्रादिकारणान्तराभावकालेऽकुण्ठितशक्तिमद्दण्डादिसत्त्वेऽपि घटानुत्पत्तेः । किन्तु मृदादिनिष्ठ चक्रभ्राम्यादिजन्य क्रियाविशेष एव । यथा छिदाया विजातीयदारुसंयोगः । एवं प्रकृते स्वविषयीभूतनिर्दुष्टार्थसन्निकृष्टेन्द्रियकाले प्रमोत्पद्यत एव । आलोकाद्यभावे तु तमसा चक्षुर्गतशक्तिः कुण्ठीभवति । आलोकेनैव तमोनाशे चक्षुःशक्तेः कुण्ठीभावापगमेन प्रत्यक्षमुत्पद्यत इत्यङ्गीक्रियते न त्वालोकस्य चाक्षुषत्वावच्छिन्नं प्रति कारणत्वम् । तदभावेऽप्यञ्जनादिना तमस्यपि प्रत्यक्षोदयेन व्यभिचारात् । घूकादीनां तमस्येव चाक्षुषोदयेन व्यभिचाराच्च । मनुष्यचाक्षुषत्वावच्छिन्नं प्रति कारणत्वाङ्गीकारेण व्यभिचारपरिहारश्च निष्प्रमाणकः । चक्षुष्येवोच्चावचशक्तेरनुभवसिद्धत्वाच्च । अत एवालोकस्य सहकारित्वमेव कारणगतशक्तावकुण्ठीभावसम्पादकत्वस्यैव सहकारित्वपदार्थत्वात् । चत्वारिंशद्वर्षानन्तरं सूर्यकान्तादेः सहकारित्वमेव । अन्यथा चत्वारिंशद्वर्षोत्तरं पुरुषविशेषचाक्षुषत्वावच्छिन्नं सूर्यकान्तादेरपि कारणत्वं कल्पनीयं स्यात् । न शक्तेस्तत्कुण्ठीभावतदभावादीनां कल्पने गौरवमिति वाच्यम् । अदृष्टकल्पन एव गौरवात् । दृष्टानुसारेण कल्पने तदभावात् । चक्षुषि शक्तेस्तारतम्यस्यानुभवसिद्धत्वात् । एवं कस्यचित्पुरुषस्य गतिसामर्थ्यसत्त्वेऽपि प्रबलेन गृहीते सति गत्यभावोऽनुभवसिद्धः । न च तदानीं तत्पुरुषे शक्तेर्नाशः । गृहीतस्यैव पुरुषशक्तेरनुभूयमानत्वात् । अत एवासौ प्रतिवदति मम गतिरस्ति न नष्टा किन्तु तच्छक्त्या प्रतिरुद्धेति । अतो दृष्टानुसारित्वान्न गौरवावकाशः । ततश्च निर्दुष्टार्थसन्निकृष्टनिर्दुष्टचक्षुष्ट्वावच्छिन्नसत्त्वे शक्तेः कुण्ठीभावसम्पादकासत्त्वे नियमेन प्रमोत्पत्तिर्भवत्येवेति दोषाभावात् । यादृच्छिकसंवादिवाक्यलिङ्गादीनां तु वाक्यत्वेन लिङ्गत्वेन सामान्यरूपेणानाप्तोक्तवाक्यत्वाव्यभिचारिलिङ्गत्वादिविशेषरूपेण वा तत्सजातीयसत्त्वेऽपि प्रमोत्पत्तिनियमाभावेन तेन रूपेण न प्रमाकरणत्वम् । निर्दुष्टवाक्यत्वादिना तु कस्यापि साजात्यं नास्तीति न तेष्वतिव्याप्तिरित्याशयात् । केचित्तु । यद्धर्माभिव्यङ्ग्यसादृश्यं प्रमोत्पादकत्वधीजनकं तद्धर्मविशिष्टत्वस्य विवक्षितत्वात् । आलोकादिसहकार्यभावेन प्रमाया अजननेऽपि निर्दुष्टार्थेन्द्रियसन्निकृष्टनिर्दुष्टचक्षुष्ट्वरूपधर्माभिव्यङ्ग्यसादृश्यज्ञानं तादृशचक्षुषि प्रमोत्पादकत्वबुद्धिं जनयति न भ्रमोत्पादकत्वबुद्धिमिति तद्धर्मविशिष्टे लक्षणसमन्वयात् । शुद्धचक्षुष्ट्वावच्छिन्नस्यालक्ष्यत्वाल्लक्षणाभावेऽपि दोषाभावात् । यादृच्छिकसंवादिवाक्यं यादृशानुपूर्वीविशिष्टं तादृशानुपूर्व्यभिव्यङ्ग्यसादृश्यज्ञानं न प्रमोत्पादकत्वबुद्धिं जनयतीति न दोषः । यद्यपि ज्ञानजनकत्वधियं जनयतीति प्रमोत्पादकत्वधियं प्रमोत्पादकधीजनकत्वमपि प्रमात्वविशिष्टधीजनकत्वविवक्षायामपि कदाचित्प्रमाजनकधियमपि जनयतीति न तद्दोषनिस्तारः । तथाऽपि भ्रमजनकत्वाभावविशिष्टप्रमाजनकत्वग्रहोत्पादकत्वस्य विवक्षितत्वान्न दोषः । यद्धर्माभिव्यङ्ग्यसादृश्यव्यापिका प्रमोत्पादकत्वशक्तिस्तद्धर्मविशिष्टत्वं विवक्षितम् । तादृशश्च धर्मो निर्दुष्टेन्द्रियत्वनिर्दुष्टोपपत्तित्वनिर्दुष्टवाक्यत्वादिकमेवेति न यादृच्छिकसंवादिष्वतिव्याप्तिरित्याहुः । यादृच्छिकसंवादिवाक्यमात्रवृत्त्यन्यतमत्वादिरूपधर्माभिव्यङ्ग्यसादृश्यमादायातिव्याप्तिपरिहारस्य तादृशशक्त्यभिव्यञ्जकत्वनिवेशेनैव कर्तव्यतयाऽभिव्यञ्जकत्वस्य तद्धीजनकत्वरूपेणोक्तपक्ष एव पर्यवसानं भवतीति बोध्यम् ।
वाक्यार्थमञ्जरी
प्रत्यक्षसाधन इति । सन्निकृष्टेन्द्रियं हि प्रत्यक्षम् । तच्च विशिष्टं तत्साधने च क्रमेण विशेषणविशेष्यभूते सन्निकर्षेन्द्रिये तयोः सतोर्नियमेन तज्जननात् । अतस्तत्राव्याप्तिरित्यर्थः ।
श्रीविट्टलभट्ट
अनुप्रमाणलक्षणमाह ।। यथार्थज्ञानसाधनमिति । यथार्थं यज्ज्ञानं तस्य साधनमित्यर्थः । नन्वनुप्रमाणे साक्षिणि लक्षणमव्याप्तम् । वृत्तिज्ञानस्य प्राकृतेन्द्रियकरणकत्वात्स्वरूपज्ञानस्य वा जन्यत्वात् । ज्ञानसाधनत्वाभावेन तत्र लक्षणस्याभावादिति चेत् । न । सुधायां निर्दोषाक्षोद्भवं ज्ञानं प्रत्यक्षमिति गीयत इत्यनुव्याख्यानोक्तकेवलप्रमाणभूतप्रत्यक्षलक्षणस्येश्वरज्ञानरूपे प्रत्यक्षेऽव्याप्तिमाशङ्क्योद्भवशब्दस्योत्पत्ति व्याप्त्यन्यतरार्थं यथोक्तमेवमत्र साधनशब्दस्य करणव्यञ्जकान्यतरार्थत्वपरत्वेनोक्तचोद्यानवकाशात् । अत एव स च स्वरूपज्ञानं व्यनक्ति प्राकृतेन्द्रियाणि मनोवृत्तिज्ञानं जनयन्तीति वक्ष्यति ।। केवल इति । केवलप्रमाण इत्यर्थः ।। तत्र संशयादौ चेति । अतिव्याप्तिरित्यनुवर्तते । तत्र केवलप्रमाण इत्यर्थः । विपर्यय आदिशब्दार्थः ।। प्रत्यक्षेऽव्याप्तिश्चेति । निर्दोषार्थेन्द्रियसन्निकर्षे ज्ञानत्वाभावादिति भावः । ननु यादृच्छिकसंवादिस्थले प्रतीतिस्तावत्प्रमावधारणसाध्या क्रियात्वात् । करणं च लिङ्गशब्दविभ्रम एवातो यथार्थज्ञानसाधनत्वं तत्रास्तीत्यतिव्याप्तिः । न च तादृक् शब्दसंवाद्यपि लक्ष्यमेवेति सम्भवति । स्वरूपासिद्धव्याप्यत्वासिद्ध्यादेरदोषत्वापातात् । यादृच्छिकसंवादादिषु प्रामाण्यव्यवहाराभावाच्चेत्याशङ्कमानं प्रति नात्र साधनत्वं करणत्वमात्रं विवक्षितं किन्नामान्यदेव विवक्षितमतो नातिव्याप्तिरित्यभिप्रेत्याह ।। यज्जातीयानन्तरमिति । सतोरपि कर्तृकर्मणोर्यज्जातीयानन्तरं यद्धर्मावच्छिन्नकरणसमवधानानन्तरं नियमेनाव्यभिचारेण यथार्थज्ञानरूपकर्मोदयो भवति । यद्धर्मावच्छिन्नकारणमात्रानुप्रमाणलक्षणे साधनं विवक्षितमतो लिङ्गशब्दभ्रमत्वावच्छिन्नसमवधानानन्तरं नियमेन यथार्थज्ञानरूपकार्याभावात् । यादृच्छिकसंवादादिषु यदिच्छाधीनसंवादस्तु लिङ्गभ्रमेषु नाव्याप्तिरित्यर्थः । यथार्थज्ञानवत्त्वावच्छिन्ने लिङ्गशब्दज्ञानरूपकारणे सत्यव्यभिचारेण यथार्थज्ञानरूपकार्योत्पत्तेस्तदेव साधनं नान्यदिति प्रमाकरणे लिङ्गशब्दविभ्रमे नातिव्याप्तिरिति भावः । यथार्थं च ज्ञानसाधनं चेति विग्रहाश्रयणे तु साधनपदं करणपरमेव न विवक्षितसाधनपरम् । न च यादृच्छिकसंवादादिष्वतिव्याप्तिः यथार्थपदेनात्र निर्दोषत्वस्याभिप्रेतत्वात् । यादृच्छिकसंवादलिङ्गविभ्रमादेर्भ्रमत्वादिदोषयुक्तत्वेन निर्दोषत्वाभावात् । तदुक्तं बृहदारण्यभाष्ये । मानं चैव विशेषेण निर्दोषं ज्ञानसाधनमिति । निर्दोषं ज्ञानसाधन विशेषेण मानमनुप्रमाणमित्यर्थः । उक्तं च सुधायाम् । यद्वा निर्दोषतया ज्ञानसाधनं विशेष्यते । निर्दोषता च लिङ्गज्ञानादेर्यथार्थत्वलक्षणा व्याख्येया । निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु कृतं यथार्थज्ञानमिति ज्ञानार्थविशेषणेनेति चेन्न । तत्फलितार्थस्यैव निर्दोषग्रहणेन विवक्षितत्वादिति । एतेन यथार्थज्ञानसाधने ज्ञातज्ञापके निष्प्रयोजनादौ वाक्येऽतिव्याप्तिरित्यपास्तम् । ज्ञानसाधनत्वे सत्यपि तत्र निर्दोषत्वाभावात् । ज्ञातज्ञापकत्वनिष्प्रयोजनत्वादेर्वाक्यशेषत्वात् । तथा च प्रकरणान्ते वदति । ननु यादृच्छिक संवादिलिङ्गविभ्रमादेर्दुष्टकरणत्वे कथं तेन प्रमोत्पत्तिः । प्रमाप्रतिबन्धकस्यैव दोषत्वादिति चेन्न । विषयसत्त्वस्योत्तेजकतयोत्तेजकाभावविशिष्टस्यैव दोषस्य प्रतिबन्धकत्वेन तस्य तत्राभावेन यथार्थज्ञानोदयायथार्थज्ञानानुदयोरसम्भवात् । नन्वथाऽपि प्रमाकरणसामान्यलक्षणस्य यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वव्याप्तिर्दुर्वारा । तेषां ज्ञानकरणत्वेन ज्ञेयविषयीकारित्वात् । ज्ञेयस्य यथावस्थितत्वाच्च यथावस्थितज्ञेयविषयीकारित्वस्य तत्र सत्त्वादिति चेन्न । ज्ञेयविषयीकारिणो निर्दोषत्वेन विशेषणीयत्वात् । तथात्वे निर्दोषज्ञेयविषयीकारि प्रमाणमित्येवास्तु कृतं यथावस्थितेति ज्ञेयविशेषणेनेति । चेन्न । तस्यैव तदर्थत्वाभ्युपगमेन ज्ञेयविशेषणत्वानङ्गीकारात् । निर्दोषाभ्यां ज्ञेयविषयीकारिभ्यां ज्ञानतत्साधनाभ्यां यज्ज्ञेयं तद्यथावस्थितेन न व्यभिचरतीति स्वरूपकथनपरं वा तद्विशेषणम् । तथा च यद्वा निर्दोषया ज्ञानसाधनं विशेष्यत इति पक्षे यथार्थज्ञानसाधनमनुप्रमाणलक्षणवाक्ये यथेति विशेषणकृत्यं यथावस्थितज्ञेयविषयीकारिप्रमाणमिति प्रमाणसामान्यलक्षणवाक्येऽपि यथावस्थितेति विशेषणकृत्यं न्यायसाम्यादिति । तदुक्तं सुधायाम् । निर्दोषज्ञानसाधनमनुप्रमाणमित्येवास्तु कृतं यथार्थमिति ज्ञानविशेषणेनेति चेन्न । तत्फलितार्थस्यैव निर्दोषग्रहणेन विवक्षितत्वात् । निर्दोषकरणजन्यज्ञानं यथार्थं न व्यभिचरतीति स्वरूपकथनपरं वा तदिति । केचित्तु नियमेन यथावस्थितज्ञेयविषयीकारित्वं प्रमाणसामान्यलक्षणमत एव यथावस्थितमेव ज्ञेयं यद्विषयीकरोति तत्प्रमाणमित्युक्तं प्राक् । तच्च यादृच्छिकसंवादिनि लिङ्गभ्रमादौ नास्तीति नाव्याप्तिरित्याहुः ।